संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः १२०

तिष्यसन्तानः - अध्यायः १२०

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
बद्रिके श्रीहरिकृष्णो वानप्रस्थः समाद्वयम् ।
अतिष्ठत महाशान्तो महाव्रतधरः प्रभुः ॥१॥
ब्रह्मव्रतपरो नित्यं भक्तिमार्गप्रबोधकृत् ।
ऋषीणां च सतां योगियतीनां मण्डलैः सुयुक् ॥२॥
आत्मध्यानपरश्चापि वर्तते त्यागशीलवान् ।
साध्याः सिद्धाः समायान्ति सभायां हरिसन्निधौ ॥३॥
कथावार्ताः प्रवर्तन्ते ह्याध्यात्मिक्यो हि मोक्षदाः ।
बहवो देहिनो दीक्षां लब्ध्वा यान्ति परं पदम् ॥४॥
बद्रिके श्रीकृष्णनारायणोऽपि निष्परिग्रहः ।
सर्वव्यवहारमुक्तस्त्यागिमार्गं समैहत ॥५॥
त्यागिसाधुमहादीक्षां समैच्छल्लोमशाद्गुरोः ।
प्रार्थयल्लोमशं चापि कार्तिके शुक्लपक्षके ॥६॥
एकादश्यां महादीक्षां ग्रहीतुं परमेश्वरः ।
आश्रमक्रमरक्षार्थं धर्मस्थापनहेतवे ॥७॥
परमेशोऽपि भगवान् महादीक्षां समैहत ।
धर्मस्यापि सुनिर्माता धर्ममूर्तिर्विधायकः ॥८॥
आश्रमाणां सदाधारो महादीक्षां समैहत ।
यस्माद् दीक्षाः प्रवर्तन्ते मखा व्रतानि वै यतः ॥९॥
यदिच्छायां महामोक्षः सोऽपि दीक्षां समैहत ।
यद्वचस्तच्छ्रुतिवाक्यं यत्संकल्पो विधिर्मतः ॥१०॥
यत्प्रसादात् फलं सर्वं यत्प्रपत्तिः परात्परा ।
यदीक्षणं महादीक्षा सोऽपि दीक्षां समैहत ॥११॥
दीक्षया यत्फलं प्रोक्तं यज्ज्ञानं दीक्षयाऽऽप्यते ।
ययाऽघानां क्षालनं च यदनुग्रहतो भवेत् ॥१२॥
यां विनाऽपि स्वयं शक्तो मोक्षं दातुं निजेच्छया ।
सोऽपि सर्वाऽवतारेशो महादीक्षां समैहत ॥१३॥
यत्स्पर्शः शस्त्रमात्रादिद्वारको मोक्षणाय वै ।
पापिनामपि जीवानां सोऽपि दीक्षां समैहत ॥१४॥
यत्स्पर्शः कामनापूर्वः स्त्रीणामुद्धारकृत् सदा ।
आश्लेषो मुक्तिजनकः सोऽपि दीक्षां समैहत ॥१५॥
यस्याऽङ्गुष्ठज्ञलं गंगा मोक्षदा सर्वदेहिनाम् ।
यद्भक्ता मोक्षदाश्चापि सोपि दीक्षां समैहत ॥१६॥
बद्रिके दीक्षया यत्र गन्तव्यं सोऽस्ति यः स्वयम् ।
यद्योगेन खदेहाश्च याता यान्ति परं पदम् ॥१७॥
ब्रह्मप्रियाद्या मुक्ताश्च येन नीता निजं पदम् ।
रक्षितास्तत्र तेनैव दिव्यदेहेन येन तु ॥१८॥
यन्मन्त्राऽऽप्तेर्मोक्षदाश्च भवन्ति साधवो जनाः ।
मोक्षदाः सर्वजीवानां सोऽपि दीक्षां समैहत ॥१९॥
यदैश्वर्यकणं प्राप्य दीक्षां मोक्षं ददात्यपि ।
सोऽपि दीक्षाभिक्षुकः सन् महादीक्षां समैहत ॥२०॥
रोमशो लोमशश्चापि यदुपासनाऽभवत् ।
महामुक्तो महर्षिश्च चिरायुर्मोक्षदः सदा ॥२१॥
सर्वकल्याणकृत् साधुविप्रर्षिः पावनः परः ।
तस्मादुपासकात् कृष्णो महादीक्षां समैहत ॥२२॥
सर्वोपास्यो हरिर्भक्तानुपास्ते प्रेमसम्प्लुतः ।
सोऽयं कृष्णोऽपि भगवानुपास्ते लोमशं मुनिम् ॥२३॥
शिक्षको बालमध्याप्य बालाद् गृह्णाति सारवत् ।
दीक्षको मुनिमध्याप्य मुनेर्गृह्णाति दक्षिणम् ॥२४॥
एवं परम्परां पूर्वपूर्वेषां सृष्टिरक्षणे ।
रक्षितुं तां महादीक्षां लोमशात् कृष्ण ऐहत ॥२५॥
दशम्यां श्रीहरिश्चक्रे ह्युपोषणं सुनिर्जलम् ।
पञ्चगव्याशनं चक्रे देहशुद्धिप्रयोजकम् ॥२६॥
तथाऽघमर्षणं चक्रे तीर्थस्नानादिभिस्तथा ।
रात्रौ जागरणं चक्रे गीतकीर्तनमङ्गलैः ॥२७॥
प्रातरुत्थाय वै स्नानं ध्यानं चक्रे निजात्मनः ।
पूजनं प्रचकारापि देवानां च विधानतः ॥२८॥
क्षौरं प्रकारयामास सस्नौ तीर्थादिवारिभिः ।
श्राद्धादि प्रचकारापि पितृतृप्तिकरं शुभम् ॥२९॥
कुण्डं च मण्डपं रम्यं कारयामास सत्वरम् ।
पुण्याहं वाचयामास जलं मुमोच भूतले ॥३०॥
आचमनं तथा न्यासान् प्रचकार विधानतः ।
प्राणायामान् विधायाऽथ चक्रे गणेशपूजनम् ॥३१॥
वास्तुदेवाद्यर्हणं च वर्धनीकलशाऽर्हणम् ।
कुण्डमण्डपदेवानामर्हणं प्रचकार च ॥२२॥
ग्रहाणां पूजनं सर्वदिक्पालानां प्रपूजनम् ।
लोकपालाऽर्हणं चापि ऋषिपित्रर्हणं तथा ॥३३॥
देवीदेवतापूजां चेश्वराणां पूजनं तथा ।
ईशनीनां पूजनं चाऽवताराणां प्रपूजनम् ॥३४॥
मातृकाणां योगिनीनां सतीनां पूजनं तथा ।
मुक्तानां पूजनं मुक्तानिकानां पूजनं ततः ॥३५॥
परब्रह्माऽर्हणं चक्रे सर्वतत्त्वाऽर्हणं तथा ।
काश्यपीनां प्रजानां च पूजनं प्रचकार सः ॥३६॥
प्रायश्चित्तविधिं चक्रे हवनं प्रचकार च ।
वह्निपूजां वह्निमुखसर्वदेवप्रतर्पणम् ॥३७॥
चकार भगवान् होमं क्षीराज्यपायसोद्भवम् ।
फलपुष्पमधूनां च समिधां हव्यसञ्जुषाम् ॥३८॥
कव्यानां हवनं चक्रे पिण्डानां च प्रदानकम् ।
श्रीफलाद्यैर्महाहोमं चक्रे च घृतधारया ॥३९॥
मध्ये व्यावर्त्य वस्त्राणि काषायाणि दधार सः ।
धौत्रं चांगरक्षकं चोत्तरासंगं समुष्णिषम् ॥४०॥
यज्ञोपवीतकं प्रच्छदपटीं चोत्तरीयकम् ।
पादुके च दधारापि कौपीनं च कमण्डलून् ॥४१॥
तिलकं चन्द्रकं चक्रे चान्दनं कौंकुम तथा ।
शिखां बद्ध्वा च गायत्रीं वैष्णवीं जगृहे गुरोः ॥४२॥
 'परब्रह्मणे विद्महेऽनादिकृष्णाय धीमहि ।
तन्नो हरिः प्रचोदयादिती' जग्राह लोमशात् ॥४३॥
ओं परब्रह्माऽहमस्मी'त्यष्टाक्षरं च जगृहे ।
ओमनादिकृष्णनारायणोऽस्तु शरणं मम' ॥४४॥
षोडशाक्षरमन्त्रं च जगृहे लोमशान्मुनेः ।
इत्येवं प्राप्य मन्त्राँस्त्रीन् त्रिवारं प्रणनाम तम् ॥४५॥
लोमशं च तथा वह्निं देवान्नत्वा प्रदक्षिणम् ।
प्रचक्रे दण्डवत् साधुः कृष्णनारायणायनः ॥४६॥
देवप्रसादं जगृहे पुपूज लोमशं गुरुम् ।
उपदाः प्रददौ दिव्यां श्रेष्ठां स्वर्णमयीं तथा ॥४७॥
दक्षिणां प्रददौ चापि त्यागी भूत्वा जनार्दनः ।
कृष्णवत् लभ्यते यः सः श्रीकृष्णो वल्लभोऽभवत् ॥४८॥
वैष्णवो वै परब्रह्म हंसोविज्ञानशोभनः ।
साधुरूपः परब्रह्म हंसस्त्यागाश्रमी प्रभुः ॥४९॥
स्वामी नारायणः कृष्णः सर्ववल्लभतां गतः ।
परमेशः स्वामिभावे वर्तते सर्वदाऽपि सः ॥५०॥
दीक्षया स्वामितां प्राप्य स्वामिस्वामो ततोऽभवत् ।
ब्रह्मचर्यं व्रतं नित्यं भक्तिव्रतं महत्तमम् ॥५१॥
पालयामास भगवान् कृष्णो नारायणायनः ।
दीक्षाकाले मण्डपे च महर्षिसाधुसाध्विकाः ॥५२॥
आशीर्वादान् ददुस्तत्र श्रेयसे परमात्मने ।
विरेजे भगवान् द्वेधा काषायाम्बरधृक् तथा ॥५३॥
राजाधिराजरूपोऽपि सर्वेषां मानसेषु सः ।
दीक्षाकाले तु वाद्यानि ह्यवाद्यन्त समन्ततः ॥५४॥
वेदमन्त्रा महर्षीणां गीतयः सुरयोषिताम् ।
मानवीनां कीर्तनानि मण्डपादौ तदाऽभवन् ॥५५॥
उपदेशं च दीक्षां च लब्ध्वा त्यागाश्रमं शुभम् ।
पूर्णाहुतिं व्यधाद्धोमं ददौ दानानि वै तदा ॥५६॥
स्वर्णहीरकरूप्याणां रत्नगोधनवाससाम् ।
पर्णशालां विना सर्वं प्रददौ भवनादिकम् ॥५७॥
लोमशस्याऽऽश्रमे पश्चाच्छिष्यरूपोऽवसत्प्रभुः ।
असंख्यसाधुसञ्जुष्टे त्यागिनां मण्डले हरिः ॥५८॥
न्यवसत् शान्तचित्तात्मा साधुसेवाकृतादरः ।
असंख्यजीवजातानां मोक्षे तु सततं रतः ॥५९॥
लक्ष्मीस्तदा पृथग् भूत्वा साध्वी काषायधारिणी ।
अस्तौत् स्वामिस्वरूपं श्रीपरब्रह्मप्रहंसकम् ॥६०॥
ओं नमः श्रीपरब्रह्म ते नमः परमात्मने ।
ब्रह्ममुक्ताऽधिपतये परधामनिवासिने ॥६१॥
अपृथङ्मुक्तसंस्थाय रहस्यमुक्तसेविने ।
नमस्ते श्रीरङ्गमहोलादिवासाय योगिने ॥६२॥
निर्लेपाय महामुक्ताऽनादिमुक्तादिसेविने ।
आक्षरैर्मुक्तवृन्दैश्च सेविताय च ते नमः ॥६३॥
अवतारैरीश्वराद्यैः सेविताय च ते नमः ।
ऋषिपितृसुराद्यैश्च सेविताय च ते नमः ॥६४॥
मानवैश्चेतरैश्चापि यक्षगन्धर्वकिन्नरैः ।
नागैः सर्पै राक्षसैश्च सेविताय च ते नमः ॥६५॥
उद्भिज्जरास्वेदजैश्च प्रसेविताय ते नमः ।
नरैश्च प्रमदाभिश्च सर्वस्थावरजङ्गमैः ॥६६॥
पुष्ट्यर्थं संसेविताय सुखदाय च ते नमः ।
असंख्ययोगिनां कामपूरकाय च ते नमः ॥६७॥
असंख्यानां स्वभक्तानां तारकाय च ते नमः ।
माणिक्याया बदर्याश्च नाथाय ते नमो नमः ॥६८॥
बदरो नाम राजर्षिर्व्यधाद् बदरिकाश्रमम् ।
यत्कृपांऽशात् स्वामिनं तं वन्दे बदरिकेश्वरम् ॥६९॥
हेमानलासुरो येन पर्वताधो निषूदितः ।
तस्य बदरनृपतेः प्रसन्नाय च ते नमः ॥७०॥
बदरीस्वीयमूलाधो हेमानलममर्दयत् ।
यत्प्रतापेन तं कृष्णं नताऽस्मि साधुरूपिणम् ॥७१॥
बदरो रसारूपोऽपि यत्कृपातो व्यजायत ।
फले तं परमात्मानं वन्दे श्रीस्वामिनं त्विह ॥७२॥
नरोऽपि बीजतां प्राप्तो बदराख्ये फले सदा ।
यत्कृपातस्तं फलेशं वन्दे श्रीस्वामिनं प्रभुम् ॥७३॥
श्रीशीलस्य तु विप्रस्य प्रेतभूतस्य मोक्षणम् ।
बदरस्व प्रदानेन कृतं येन च ते नमः ॥७४॥
साधुसाध्वीस्वरूपाभ्यां दाराभाग्याय दर्शनम् ।
दत्वाऽप्यमोक्षयद् भूपं तं यस्तस्मै च ते नमः ॥७५॥
ब्रह्मदेवद्विजपत्न्यै दत्वा द्वे बदरे फले ।
बद्रिका पुत्रिकापुत्रौ ददौ बद्रीश ते नमः ॥७६॥
यत्प्रतापात् कृष्णपत्नी जाता वै बालयोगिनी ।
सुरेश्वरीसुता तं श्रीकृष्णं वन्दे नरायणम् ॥७७॥
यः कृष्णो दिव्यदेहां च चारणीं नाग्नकेसरीम् ।
कृत्वा मुक्तानिकां निन्येऽक्षरं तस्मै नमो नमः ॥७८॥
नर्मकर्त्र्या विनोदिन्याः साधुयोगेन मोक्षणम् ।
कृतं येन कृतो देवलोकोऽपि च सखीविधः ॥७९॥
मोक्षं तस्मै ददौ यश्च तस्मै ते स्वामिने नमः ।
बाहुलकाय तत्पत्न्यै लीलावत्यै च नर्तनात् ॥८०॥
ददौ ब्रह्मरसं मोक्षं तुष्टो यस्ते नमः सदा ।
मालियानं मल्लिकां च मालाकारौ हरिः पुरा ॥८१॥
प्रसन्नः पाययामास ब्रह्मरसं ततस्तयोः ।
मोक्षणं कृतवान् कृष्णो यस्तस्मै स्वामिने नमः ॥८२॥
निकामदेवसंज्ञाय धीशूराय हरिः स्वयम् ।
मोक्षं ददौ च तत्पत्न्यै तस्मै श्रीस्वामिने नमः ॥८३॥
निगडभ्रामकैवर्तं मत्स्याशापात् सुदुःखिनम् ।
तारितं भक्तया पत्न्या यस्य कृपादिशेवधेः ॥८४॥
अनयः स्वं परं धाम तया साकं च योषिता ।
तथा तत्पुत्रिका चाद्या साध्वी पुण्डरिका सती ॥८५॥
निर्वाणिका सती चान्याऽऽनन्दघना तृतीयका ।
तथा पञ्चाऽऽत्मजा ज्ञानदर्भ्यादयोऽपि यं प्रभुम् ॥८६॥
भजित्वा मोक्षणं प्राप्तास्तं भजे स्वामिनं हरिम् ।
कृतघ्न्यास्तु कुथल्याख्यस्त्रिया यो राजयक्ष्मतः ॥८७॥
रक्षां चक्रे ददौ मोक्षं तं वन्दे स्वामिनं प्रभुम् ।
प्रतारण्या विषलाण्याः सतां समागमाद्धरिः ॥८८॥
उद्धारं कृतवान् यस्तं वन्दे श्रीस्वामिनं प्रभुम् ।
गंगांऽजनीं कटकर्त्रीं सत्संगेन त्वमोक्षयत् ॥८९॥
रमाञ्जनीं रमां चक्रे यस्तस्मै हरये नमः ।
सुनारिणीं कुलालीं च रणस्तम्बं च तत्पतिम् ॥९०॥
साधुयोगेन तत्पुत्रं संसाराद् यो व्यमोचयत् ।
वन्दे तं स्वामिनं कृष्णं वल्लभं प्रभुमीश्वरम् ॥९१॥
स्वर्णकारस्त्रिया हेमसुधायास्तु प्रभक्तितः ।
प्रसन्नो यो ददौ तस्यै चाऽन्नपूर्णात्वमुत्तमम् ॥९२॥
मुक्तिं ददौ तथाऽन्ते च वन्दे श्रीस्वामिनं हरिम् ।
राधिकायनयोगेन विद्रुमिणीं तु विष्टिणीम् ॥९३॥
धाम्नि राधासमां चक्रे यस्तस्मै स्वामिने नमः ।
श्वपचीं मालवानीं यो धर्मयोगेन मुक्तिगाम् ॥९४॥
सकुटुम्बामकरोद् यस्तस्मै श्रीस्वामिने नमः ।
रथ्यामार्जनिकां कारेलिकां हिताञ्जलेर्मुनेः ॥९५॥
योगात् कथाश्रवणेन मुक्तिमनयद् यः प्रभुः ।
हेताञ्जलेश्च पुत्रीणां निर्मोहित्वं च यद्बलात् ॥९६॥
मोक्षणं कृतवान् यश्च तस्मै तेऽस्तु नमो मुहुः ।
निरञ्जनादयश्चापि भ्रातरः पञ्च तादृशाः ॥९७॥
मुक्तिं येन प्रणीतास्तं वन्दे श्रीस्वामिनं प्रभुम् ।
यन्त्रकर्त्रीं गोमतीं च नयराजं च तत्पतिम् ॥९८॥
अरक्षयत् राजयक्ष्मतो यस्तं स्तौमि मावरम् ।
कनकांगदायाः कृष्णो धूर्ताया मोक्षणं व्यधात् ॥९९॥
भाणवाण्या द्यूतकर्त्र्याः श्रेयश्चकार यो हरिः ।
रायहरिनृपस्याऽपि तं वन्दे स्वामिनं प्रभुम् ॥१००॥
माधवरायनृपतेः श्रेयो व्यधात्तु यः प्रभुः ।
वैद्योतिकां तु कंसारीं दिव्याममोक्षयच्च यः ॥१०१॥
नरराजं कुंभकारं तद्भार्यां रत्निकां च यः ।
अम्बालिकां स्वर्णकर्त्रीं धातुध्मां च विनोदिनीम् ॥१०२॥
अमोक्षयद्धरिर्यश्च नटं रञ्जनकोविदम् ।
श्रीरामसुन्दरं चापि कदर्यं योऽप्यमोक्षयत् ॥१०३॥
वन्दे तं परमात्मानं स्वामिनं दीक्षितं प्रभुम् ।
क्षीरोदवीरं भूपं च राज्ञीं रुहारिणीं च यः ॥१०४॥
गणिकां सोमिकां पञ्चपुत्रीयुताममोक्षयत् ।
अरुणानीपतिं पाटलान्यादीशं नमामि तम् ॥१०९॥
मद्यपाया लियार्याश्च मोक्षणं यो व्यधात् प्रभुः ।
मिष्टासवध्वजिनश्च तं वन्दे स्वामिनं हरिम् ॥१०६॥
गण्डवाताभिधायाश्च चक्रिण्यामोक्षणं व्यधात् ।
यास्कवादस्य च मोक्षं तं वन्दे स्वामिनं हरिम् ॥१०७॥
निन्दाकर्त्र्या ट्विःर्वदन्त्या मोक्षणं यो व्यधात्प्रभुः ।
द्विर्गर्जनाख्यपत्युश्च तं वन्दे स्वामिनं हरिम् ॥१०८॥
सुरप्रसादं विप्रं च गुरुघ्नं यो ह्यमोचयत् ।
मातरं पितरं तस्य चाऽमोक्षयत्तु यः प्रभुः ॥१०९॥
नागविक्रमभूपस्य देवद्रोहरतस्य च ।
नवद्रोहियुतस्याऽपि मोक्षकर्त्रे तु ते नमः ॥११०॥
शालमित्रो जीविकाघ्नो जयालक्ष्मीश्च तत्प्रिया ।
उद्धृतौ येन कृष्णेन तस्मै श्रीस्वामिने नमः ॥१११॥
कन्याघ्नं यद्धराजं यो विषदं साधुयोगतः ।
अमोचयद् यमदूतान् तं भजे स्वामिनं हरिम् ॥११२॥
साधुजीवं कुमारं च कुमारीं साधुजीवनीम् ।
निर्विषादं च यः कृष्णोऽमोक्षयत् तं मुहुर्नमः ॥११३॥
नारायण्यै प्रभावत्यै घटमालाख्ययोषिते ।
मोक्षणं प्रददौ यश्च तस्मै श्रीस्वामिने नमः ॥११४॥
अनंगवल्ल्याः कुट्टन्यास्तत्सखीनां च मोक्षणम् ।
कृतवान् यः प्रभुः स्वामी तस्मै कृष्णाय ते नमः ॥११५॥
षण्ढवज्राभिधं षण्ढं यः संसाराद् व्यमोचयत् ।
नपुंसकानां पुंस्त्रीत्वं चक्रे यस्ते नमो मुहुः ॥११६॥
यवसन्धं तु मांसादं पत्नीं मजावलीं च यः ।
तत्कुटुम्बं हरिर्व्यमोचयत् तस्मै च ते नमः ॥११७॥
भाण्डं यो भण्डशीलं तु सकुटुम्बं व्यमोचयत् ।
त्रिगालवाँस्तथा भवायनादीन् यो व्यमोचयत् ॥११८॥
हरिवीर्यादिमल्लाँश्च ऽमोक्षयद् यः प्रभुर्हरिः ।
वार्धूषिकान् हरिलालादींश्च व्यमोक्षयत्तु यः ॥११९॥
कीरवणादिमृगयूममोक्षयच्च यः प्रभुः ।
अमोक्षयच्च नागादं वादिटं यश्च ते नमः ॥१२०॥
सारहासीयमार्तण्डमण्डलादिप्रमोक्षकम् ।
विलासदेवं लुञ्चादं व्यमोक्षयच्च तं भजे ॥१२१॥
दैवान् प्रकाशकादींश्च तत्पुत्रान् साधुदीक्षितान् ।
मौक्तिकायनिकाद्याश्च तत्पुत्रीः साध्विकास्तथा ॥१२२॥
व्यमोक्षयच्च यः स्वामी वन्दे श्रीस्वामिनं च तम् ।
दुरितघोषनामानं सर्वादं यो व्यमोक्षयत् ॥१२३॥
तत्पत्नीं च महासत्यायनीं व्यमोक्षयच्च यः ।
तत्पुत्रान् तत्पुत्रिकाश्चाऽमोक्षयद् यश्च तं भजे ॥१२४॥
धर्मभटं महामात्यं शीलयानीं च तत्प्रियाम् ।
अमोक्षयत् प्रभुर्यः श्रीस्वामिनं तं सदा भजे ॥१२५॥
धर्माध्यक्षं प्रभुर्मुकुन्दसावित्रममोक्षयत् ।
न्यायाक्षिणीं च तद्भार्यां यस्तं वन्दे जनार्दनम् ॥१२६॥
विशालरेखकं यश्चौद्धारयल्लेखकं हरिः ।
शुचिकान्तां च तत्पत्नीं तं वन्दे स्वामिनं प्रभुम् ॥१२७॥
कृष्णकान्तेश्वरोनाथं नमामि वल्लभम् प्रभुम् ।
कायस्थान् करणाद्यान् योऽमोक्षयत् परमेश्वरः ॥१२८॥
शाहविलापनादींश्चाऽमोक्षयत् तं नमामि च ।
गृध्र उद्धारितो येन पूर्वकौलिकदेहवान् ॥१२९॥
मार्जारश्चोद्धृतो येन पूर्वगोबारगोपकः ।
जम्बूकश्चोद्धृतो येन पुरा ठठूठोलको वणिक् ॥१३०॥
स्वर्णाऽञ्जनादयो भृत्या उद्धृता येन शार्ङ्गिणा ।
श्येनः समुद्धृतश्चापि पुरा यो भरवाटकः ॥१३१॥
चटकाश्चोद्धृताः पूर्वेऽजा यास्तं नौमि माधवम् ।
कपोता उद्धृता येन सार्थवारास्तु ये पुरा ॥१३२॥
काकास्तथोद्धृता येन पुरा ये कंकजातिजाः ।
गृहगोधोद्धृता येन नाणकी प्राक् खवासिनी ॥१३३॥
मूषका उद्धृता येन प्राक् शूद्राः संघवाटकाः ।
नकुलश्चोद्धृतो येन प्राक् वारुटस्तु सागरः ॥१३४॥
कीरताराभिधो भाट उद्धृतो येन तं भजे ।
ज्योतिर्वेत्ता देवगतीश्वरो येन समुद्धृतः ॥१३५॥
पुण्यवती च तद्भार्योद्धृता येन नमामि तम् ।
बन्दिजनो जयमानो नृपश्च वज्रविक्रमः ॥१३६॥
प्रजाश्चाप्युद्धृता येन वन्दे श्रीस्वामिनं हि तम् ।
सप्ताऽब्धिसिंहनृपतिः सूतस्तस्य सुकेसरी ॥१३७॥
राज्ञी रक्षावती येन मोक्षितास्तं नमाम्यहम् ।
मागधो हर्षनयनो योगिदासश्च सेवकः ॥१३८॥
येन सौरभसावित्रस्ताम्बूलकृत् समुद्धृतः ।
रंगिलो रंगकारश्च डमरूकश्च वाद्यकृत् ॥१३९॥
चिह्नरायो भावसारश्चोद्धृतो येन तं भजे ।
रमेश्वरो ग्रामयाजी तथोद्धृतोऽपि येन ह ॥१४०॥
स्वर्णास्तरणो विद्याध्रश्चित्रबर्हादयस्तथा ।
उद्धृताः किन्नरा येन किंपुमांसश्च चारणाः ॥१४१॥
असंख्याश्च नृपा येनोद्धृतास्तं त्वां नमामि च ।
नन्दिभिल्लं हतवान् यो ररक्ष नागविक्रमम् ॥१४२॥
हतं सैन्यं पुनः सञ्जीवयामास नमामि तम् ।
पुरञ्जयनृपं ह्यमोक्षयद् यस्तं नमाम्यहम् ॥१४३॥
मोक्षिता येन बहवः सप्तस्वर्गनिवासिनः ।
सप्तपातालवासाश्च तं नमामि महाप्रभुम् ॥१४४॥
ईश्वरेभ्यश्च धार्मिभ्यो दर्शनं यो ददौ प्रभुः ।
सर्वस्त्रीदासवर्गाढ्यस्तं भजे पुरुषोत्तमम् ॥१४५॥
सर्वस्त्रीभ्यो निजाभ्यश्च युगलापत्यकानि यः ।
मानसानि ददौ तस्मै नमः श्रीपरमात्मने ॥१४६॥
मायापालो नृपो महानास्तिको यमलोकतः ।
मोचितो येन कृष्णेन तं भजे साधुसत्कृतिम् ॥१४७॥
ज्येष्ठपुत्राय च दीलावरीराज्यं ददौ ततः ।
स्वयं पत्नीदर्शयितुं ययौ धामाऽक्षरं प्रति ॥१४८॥
धाम नीत्वा निजान् सर्वान् सर्वाश्च प्रमदास्तथा ।
परे धाम्नि स्वीयमूर्तौ वासं दत्वा ह्यरक्षयत् ॥१४९॥
कुंकुमवापिकाक्षेत्रमागत्य त्यागमाप्य यः ।
साधुदीक्षां परिगृह्य वर्तते साक्षिगोचरः ॥१५०॥
नमामि स्वामिने तस्मै श्रीकृष्णप्रभवे नमः ।
अनादिश्रीकृष्णनारायणायनाय योगिने ॥१५१॥
यः सदा श्रीहरिश्चास्ते सप्तायतनमूर्तिमान् ।
लीना लक्ष्मीर्यदंगेऽहं वर्ते सामपरायणा ॥१५२॥
प्रज्ञा लीना पाशवती लीना च स्वामिनि प्रभौ ।
यल्लीलाः श्रेयसे सर्वा जीवानां कर्मदेहिनाम् ॥१५३॥
तस्मै ते पतये चाप्यपतये प्रणमाम्यहम् ।
सर्वदानीश्वरवर्योत्तमाय परमात्मने ॥१५४॥
नमो विशिष्टरूपाय सर्वतीर्थातितीर्थिने ।
तीर्थार्थं भगवन् स्वामिन् लोककल्याणहेतवे ॥१५५॥
अभिलाषा जायते मे महात्मँस्तां प्रपूरयः ।
असंख्यजन्मभिः कृष्णोद्धृतास्त्वया हि देहिनः ॥१५६॥
धर्मवृद्धिः कृता सर्वा पुनश्चापि विभावय ।
लक्ष्मीभक्ता बहवोऽत्र लोके भवन्ति तान् प्रभो ॥१५७॥
साधुरूपेण निर्बन्धान् कृत्वा मोक्षय मच्छ्रितान् ।
इत्यर्थयामि भगवन् विरमामि त्वयि प्रभो ॥१५८॥
इत्युक्त्वा बद्रिके लक्ष्मीः स्वामिन्यन्तरधीयत ।
लक्ष्मीस्तवं प्रभाषेत भावगर्भोऽपि यो जनः ॥१५९॥
लक्ष्मीवच्छ्रीहरौ लीनस्थानमेष्यति शाश्वतम् ।
नारी स्तवमधीयाना लक्ष्मीः स्यान्नात्र संशयः ॥१६०॥
प्रिया लक्ष्मीः स्तवाज्जाता जाता लक्ष्मीश्च माधवी ।
भुक्तिं मुक्तिं लभेत् स्तोत्राद् यथेष्टां पारमेश्वरीम् ॥१६१॥
यत्कृष्णस्य समस्तं वै तत् तस्याः स्यात् समस्तकम् ।
श्रीकृष्णार्पणदक्षायाः कार्ष्ण्याः श्रीबद्रिके स्वकम् ॥१६२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणपरमात्मनो वानप्रस्थधर्मोत्तरं साधुदीक्षाग्रहणं लक्ष्मीकृतस्तवनं लक्ष्मीप्रभृतीनां स्वस्वामिनि शाश्वती लीनतेत्यादिनिरूपणनामा विंशत्यधिकशततमोऽध्यायः ॥१२०॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP