संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६९ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथामन्यां सुपावनीम् ।कपोताश्चाययुर्व्योम्ना दशोत्कराऽन्नवाञ्च्छया ॥१॥कथामण्डपमासाद्य क्षणं तस्थुर्घटध्वजे ।निषेदुर्मण्डपे शान्ताः कथाश्रवणहेतवे ॥२॥जातिस्मराश्च ते सर्वे कथान्ते द्वादशीदिने ।वैशाखकृष्णे पक्षे वै मध्यान्होत्तरमेव ह ॥३॥पाकशालाऽभ्याशभूमौ भोजनालयभूतले ।वीक्ष्य लोकाँस्तु भुञ्जानान् साधून् साध्वीश्च वैष्णवान् ॥४॥आशयोच्छिष्टलब्धेस्ते समुड्डीय पुनः पुनः ।मण्डपोपरि तिष्ठन्ति निषीदन्ति समीहया ॥५॥तावन्मिष्टौदनाद्यं च भक्ष्यं पक्वान्नमुत्तमम् ।उच्छिष्टं साधुसाध्व्यश्च चिक्षिपुश्चोत्करे ततः ॥६॥कपोता दश शीघ्रं निर्भीका भक्ष्यार्थमाययुः ।प्रसादं सहसा भुक्त्वा पीत्वा सूपं जलं तथा ॥७॥तृप्तास्तुष्टाः प्रसन्नाश्च बभूवुर्गतकल्मषाः ।पावना धन्यभाग्याढ्या मेनिरे पुण्यमुत्तमम् ॥८॥उड्डीय ते वृक्षषण्डे निषण्णा जगदुर्मिथः ।अहो भाग्यं तु नः श्रेष्ठं प्रसादोऽद्य हरेः सताम् ॥९॥उच्छिष्टो लब्ध उत्कृष्टो भक्षितः पापनाशकृत् ।पूता अद्य तु जाताः स्म पक्षिणो भाग्यशालिनः ॥१०॥श्रुताऽस्माभिः कथा दिव्या मोक्षदा संहितात्मिका ।अहो भाग्यं मानवानां ये शृण्वन्ति सदा कथाम् ॥११॥अहो भाग्यमतिथीनां प्रसादं भुंजते तु ये ।अहो भाग्यं तु कीटानामदन्त्युच्छिष्टमत्र ये ॥१२॥अहो भाग्यं पशूनां च येऽदन्त्युच्छिष्टमत्र वै ।धन्येयं भूमिका मोक्षकरी जाता तु पावनी ॥१३॥धन्या सिन्धुः सुधासिन्धुसमाऽद्य वर्तते भुवि ।वदन्त्येवं कपोतास्ते तच्छ्रुतं त्वेकसाधुना ॥१४॥नाम्ना कृष्णविरामेण भूतरुताभिवेदिना ।तेन पृष्टाः कपोतास्ते प्रेम्णा जिज्ञासया द्रुतम् ॥१९॥के भवन्तः कपोता यत् प्रसादोत्कर्षवेदिनः ।हरेः सतां च माहात्म्यविदो दिव्या इवोत्तमाः ॥१६॥जातिस्मराः कपोतास्ते प्राहुर्वयं पुरा क्षितौ ।एकग्रामनिवासा वै सार्थवाटेतिजातिजाः ॥१७॥आस्म वै मृत्तिकापुर्यां दारिद्र्यदोषपीडिताः ।दशैव नवकुट्टाख्ये नगरे जीविकेच्छया ॥१८॥अगच्छाम च तत्रापि भृत्यतायां धनिगृहे ।धनिना निजकार्यार्थं योजिता वेतनेन वै ॥१९॥सर्वे वयं तु कार्पासव्यापारे तेन योजिताः ।कार्पासानामानयने ग्रामान्तरेभ्य इत्यपि ॥२०॥कार्पासानां विक्रये च क्रयेऽपि योजिता वयम् ।एकदा कृता न्त्राश्च वयं तु धनलालसाः ॥२१॥जानन्तो भूमिगं द्रव्यं श्रेष्ठिनो रामवर्चसः ।रात्रौ विश्वासमापन्नं समस्ता रामवर्चसम् ॥२२॥एकलं गलपाशेन रुरुधिमाऽतिनिर्दयाः ।रामवर्चा मृतिं प्राप्तो वयमादाय नाणकम् ॥२३॥निर्ययिम नगराद्वै तेन पापेन वै पथि ।चौरैर्मिलितैर्बहुभिर्लुण्टिता मारितास्तथा ॥२४॥शवाः क्षिप्ताश्च गर्तेषु फलं प्राप्ता द्रुतं तदा ।यमदूतैर्धृताः पाशैर्नीता याम्यपुरं दश ॥२५॥भुक्तवन्तो यातनानि कुण्डेषु पातिता यमैः ।निर्गत्य च ततो जाता वने वयं तु भल्लुकाः ॥२६॥मृतास्ततो वानराश्च जाता सह दशैव तु ।पुनर्मृताश्च काका वै जातास्ततः सहैव च ॥२७॥मृताः कपोतका जाता वर्तामश्चात्र भक्षकाः ।उच्छिष्टभोजिनो जाता जातिस्मरास्तु पावनाः ॥२८॥भवत्प्रसादोच्छिष्टस्याऽदनादद्याऽघनाशनम् ।जातं सर्वविधानां वै पापानां विनिवर्तनम् ॥२९॥उक्तं सर्वं स्मरामोऽद्य कृतपापफलादिकम् ।भाति नोऽद्य परं श्रेयो भवनाशो भविष्यति ॥३०॥कथायाः श्रवणं पुण्यं पुण्यं प्रसादभोजनम् ।पुण्यं सतां दर्शनं च सत्संगो मोक्षदः सदा ॥३१॥साधो भवत्प्रसंगेन निर्भीकाः स्मो वयं त्विह ।मोक्षार्थं साधनं यत्तद् देहि नः शीघ्रमेव ह ॥३२॥प्राप्तलाभः पुनर्नैव मिलिष्यतीति मा चिरम् ।इत्येवं बद्रिके तैस्तु कपोतैः परिभाषितः ॥३३॥कृष्णविरामः सलिलं करे धृत्वा स्थितोऽभवत् ।आह्वयामास तान्सर्वान् कपोतान् शरणं प्रति ॥३४॥आययुस्ते द्रुतं मत्वा कल्याणं समुपस्थितम् ।निपेतुः पादयोस्तस्य सोऽपि वाराऽभ्यषेचयत् ॥३५॥श्रावयामास नामाऽपि कृष्णनारायणेति च ।तावत्ते पक्षिवष्माणि समुत्सृज्य सुराः शुभाः ॥३६॥दिव्या देवाः सुरूपाश्चाऽभवन् साधोः प्रपश्यतः ।अथोचुस्ते सन्तमेनं देहि मन्त्रं तु मोक्षदम् ॥३७॥देवलोकं न चेच्छामो यतः प्रपतनं पुनः ।श्रुत्वा साधुर्ददौ मन्त्रं कृष्णनारायणस्य वै ॥३८॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।मन्त्रं प्राप्य कपोतास्ते देवास्तिरोऽभवन् द्रुतम् ॥३९॥चतुर्भुजास्तु मुक्तास्तेऽभवन् साधोः प्रपश्यतः ।'प्रभोनारायण पद्मावतीनारायण प्रभो ॥४०॥जयाकृष्ण ललितान्रायणाय राधापते विभो' ।एवं ते भजनं चक्रुस्तावत्तत्र विमानकम् ॥४१॥कृष्णनारायणस्वामियुक्तं चावाऽतरत्तु खात् ।तानाह भगवान् कृष्णोवल्लाभार्यः कृपावशः ॥४२॥आयान्तु मे विमानं वै मुक्ता भक्ता ममाऽऽश्रिताः ।कपोतका भवन्तोऽद्य सुपोतकाः सुमुक्तिगाः ॥४३॥इत्युक्त्वा तान् करे धृत्वा भगवान् कृष्णमाधवः ।निनाय शाश्वतं धामाऽक्षरं साघोः प्रपश्यतः ॥४४॥बद्रिके ते सदा मायाबन्धाद् विनिर्ययुः सुखम् ।अथाऽन्यं ते चमत्कारं कथयामि निबोध मे ॥४५॥काकानां शतसंख्यानां मण्डलं व्योमवर्त्मना ।यदृच्छयाऽऽययौ तत्र महानससमीपतः ॥४६॥गन्धं प्राप्य च मिष्टान्नं वीक्ष्य घ्रात्वाऽऽज्यधूम्रकम् ।अवातरत् तरुषण्डे भोजनोच्छिष्टवाऽच्छया ॥४७॥वैशाखस्याऽसिते पक्षे त्रयोदश्यां दिनार्धके ।भागे तेषां वैष्णवानां सतां वै भोजनोत्तरम् ॥४८॥उच्छिष्टमुत्करस्थं तु भक्षयितुं प्रसादकम् ।उपर्युपरि चोत्पेतुः काकास्ते हृष्टमानसाः ॥४९॥निपेतुर्हृष्टशब्दास्ते बुभुजुर्मिष्टमुत्तमम् ।क्षीरं च दुग्धसारादि पोलिकाः पूरिकादिकम् ॥५०॥ओदनं च तथा सूपं चणकान् ग्रन्थकाँस्तथा ।पूपानपूपान् कलिका बुभुजुश्चोत्करोज्झितान् ॥५१॥साधुप्रसादरूपाँश्च सर्वे काका मुदान्विताः ।बद्रिके महदाश्चर्यमभूत्तत्राऽप्यतर्कितम् ॥५२॥कृष्णपक्षास्तु ते काका बभूबुस्तत्र सर्वथा ।कर्बुरपक्षिणो रम्या नानारंगाढ्यपक्षिणः ॥५३॥कृष्णं रूपं हि पापात्म लीनं पक्षेषु भागतः ।अथाऽन्यस्मिद् दिने चापि बुभुजुस्ते तथाविधम् ॥५४॥तेन श्वेतबहुला वै पक्षास्तेषां तदाऽभवन् ।अथाऽपरस्मिन् दिवसे बुभुजुस्ते तयोज्झितम् ॥५५॥सम्पूर्णश्वेतपक्षास्तेऽभवन् दुग्धस्वरूपिणः ।अथेतरस्मिन् दिवसे बुभुजुस्ते तथोज्झितम् ॥५६॥सर्वथा काकदेहास्ते श्वेतरूपा बभूविरे ।अहो प्रसादमाहात्म्यं पापानां नाशकं परम् ॥५७॥सतामुच्छिष्टमाहात्म्यं सर्वपातकनाशनम् ।पातकं कृष्णवर्णं वै श्वेतं पुण्यं सदा मतम् ॥५८॥पुण्यवन्तः प्रजातास्ते काका हंससमास्तदा ।एवं ते बुभुजुर्नित्यं शुद्धात्मानोऽभवँस्ततः ॥५९॥काकजातीयदोषाश्च नष्टास्तेषां तदात्मनाम् ।जातिस्मराश्च ते जाता ज्ञानिनो हंसवत्तदा ॥६०॥तान् द्रष्टुं मानवास्तत्राऽऽयान्ति कुतूहलान्विताः ।काकास्ते निर्भयास्तत्र विचरन्ति च भूतले ॥६१॥प्रशंसन्ति प्रसादस्योच्छिष्टमाहात्म्यमद्भुतम् ।अहो प्राप्ता हरेश्चापि सतामुच्छिष्टभोजनम् ॥६२॥तेन पुण्येन पापानि नष्टानि तामसानि नः ।राजसानि समस्तानि नष्टान्यघानि सर्वथा ॥६३॥सात्त्विकानि तु पुण्यानि स्वर्गप्रदानि यानि वै ।तानि जातानि चास्माकं सतां प्रसादसेवया ॥६४॥काका वयं हि पापिष्ठा विडभुजः पूर्वकर्मतः ।तेषां कल्याणकर्तारः सन्तः सतां प्रसादकाः ॥६५॥ये न भुंजते कृष्णस्य प्रसादं च सतां तथा ।ते लोके श्वेतवर्णाश्चेत् तथापि काककोटिकाः ॥६६॥ये तु भुंजते कृष्णस्य सतां प्रसादमुत्तमम् ।ते कृष्णा अपि नित्यं वै देवास्ते हंसकोटिकाः ॥६७॥श्वेतत्वं निष्फलं तेषां येषां पापात्मभोजनम् ।कृष्णत्वं सफलं तेषां येषां वै विघसाशिता ॥६८॥तद्गृहं मलवत् प्रोक्तं यत्र देवा न भुंजते ।सा भाषा काकभाषा वै न यत्र कृष्णकीर्तनम् ॥६९॥तद्रूपं कुष्ठरूपं वै यन्न कृष्णार्थमर्पितम् ।तद्भोज्यं तज्जलं मिष्टं शाकं पत्रं फलं दलम् ॥७०॥वस्त्रं चोपकरणादि कृष्णार्थं न कृतं तु यत् ।सर्वे तत् काकमलवत् पापभृतं मतं त्विह ॥७१॥तिरश्चां नैव दोषोऽस्ति पशूनां नापि दूषणम् ।दोषस्तु मानवानां यज्जानन्तोऽप्यर्पयन्ति न ॥७२॥न भजन्ते न सेवन्ते नाऽऽश्रयन्ति हरिं सतः ।यतन्ते नापि चात्मार्थे ते हरेरपराधिनः ॥७३॥आगस्कृतस्त एवाऽत्र कर्तव्यं नाऽऽचरन्ति ये ।मानवत्वं व्यर्थयन्ति न स्मरन्ति हरिं प्रभुम् ॥७४॥वैष्णवानां सेवनं न गुरोः प्रसन्नतां न च ।पित्रोराशीर्वचनं न प्राप्तास्ते नारका ध्रुवाः ॥७५॥अपि चन्द्रसमं त्वास्यं वाणी मिष्टा सुधासमा ।देहः स्वर्णसमश्चापि कृष्णशून्यास्तु ते यदि ॥७६॥तदा ते निरया बोध्या दोषाऽऽकराऽघकोशकाः ।सर्वे काकांगरूपास्ते निकृष्टा नरकप्रदाः ॥७७॥काकशब्दः सार्थको नश्चाद्य सम्यग् व्यजायत ।कं सुखं तद्भिन्नमेव दुःखमकं समुच्यते ॥७८॥कुत्सितं तु कृतं दुःखमद्य प्रसादसेवनात् ।काकास्तेन वयं त्वद्य सुखाऽर्थिनोऽघवर्जिताः ॥७९॥का शक्तिर्ब्रह्मणः प्रोक्ता राधा लक्ष्मीः सती प्रभा ।तया कं सुखमस्त्येषां काका वयं सुखाश्रयाः ॥८०॥का काया पृथिवी तत्र कं सुखं चाऽत्र वर्तते ।अस्माकं काकवाच्यत्वं सुखित्वं घटतेऽद्य वै ॥८१॥इत्येव बद्रिके काका वार्ता कुर्वन्ति वै मिथः ।तां शृण्वन्ति जनास्तेषां दर्शकाः स्मयसंभृताः ॥८२॥जनास्तान् श्वेतवर्णास्तु पप्रच्छुः पक्षिणः शुभान् ।कथं काका भवन्तोऽत्र पूर्वं के के ततः परम् ॥८३॥काकस्त्वेकश्चाग्रगण्य उवाच मानवान् प्रति ।वयमास्व कंकवर्णाः कंकाः पूर्वे हि मानवाः ॥८४॥लुण्टका मलिनाहाराः परदारप्रधर्षकाः ।परद्रव्यहराश्चापि परान्नभोजकास्तथा ॥८५॥खदिरग्रामवासाश्च मद्यमांसपरायणाः ।एकदा पूर्वनारायाः सरितः सन्निधौ वने ॥८६॥प्रयान्तं श्रेष्ठिनं प्राप्य समाचराम लुण्टनम् ।श्रेष्ठी लक्षेण सहितो नाणकेन प्रलुण्टितः ॥८७॥तावद् यदृच्छया तत्राऽऽययुश्चान्ये प्रलुण्टकाः ।पञ्चाशत् ते परिज्ञाय वृत्तान्तं वणिजो द्रुतम् ॥८८॥लुण्टितुं नः समायाता युद्धं मिथोऽभवत् तदा ।मृताः परस्परं सर्वे शस्त्रैर्याम्यपुरं गताः ॥८९॥कृतानां कर्मणां सर्वैः फलं भुक्तं तु कुण्डजम् ।याम्यपाशान्निर्गताश्च द्विपिनोऽरण्यवासिनः ॥९०॥हिंसकाः स्मो वयं जाता वृका जातास्ततः परम् ।मार्जाराश्च ततो जातास्ततः काकास्तु साम्प्रतम् ॥९१॥अत्र प्राप्तं प्रसादस्योच्छिष्टं हरेः सतां तथा ।वैष्णवानां शुभं सर्वं सर्वपातकनाशकम् ॥९२॥पातकानि समस्तानि नष्टान्युच्छिष्टभोजनात् ।श्वेता इदानीं जाताः स्मः पुण्यवन्तः सुरा यथा ॥९३॥यदि लभेम साक्षाच्छ्रीव्यासहस्तजलं त्विह ।देवा भूत्वा प्रयास्यामो दिवं तूर्णं सुखाश्रयम् ॥९४॥प्रतीक्षामो जलं तस्याऽमृतं तं सूचयन्तु वै ।श्रुत्वा लोका व्याससौधमागत्य तमुदन्तकम् ॥९५॥कथयामासुरीशं तं स्वतःप्रकाशकायनम् ।व्यासस्तूर्णं कृष्णनारायणप्रसादवारि च ॥९६॥नीत्वा ययौ तु तान् सर्वान् वारिणा सोऽभ्यषेचयत् ।प्रभोनारायणकृष्णनारायणेति कीर्तयन् ॥९७॥तावत्ते बद्रिके सर्वे त्यक्तदेहास्तदाऽभवन् ।पीत्वा जलकणान् स्पृष्ट्वा जलबिन्दून् द्रुतं सुराः ॥९८॥सुरतुल्या दिव्यरूपा सञ्जाता दिव्यमूर्तयः ।मन्त्रमयाचन् व्यासात्ते प्रपूज्य चरणौ ततः ॥९९॥व्यासदेवो ददौ मन्त्रं नामधुन्यं ददौ तदा ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥१००॥प्रभोनारायण पद्मावतीनारायण प्रभो ।जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो ॥१०१॥प्राप्य मन्त्रं प्राप्य धुन्यं लब्ध्वा पादामृतं तथा ।लब्ध्वा कृपां प्राप्य चाशीर्वादान् व्यासस्य ते सुराः ॥१०२॥चतुर्भुजाः स्म सञ्जाता मुक्ता वैकुण्ठयोगिनः ।नत्वा ययुस्ते सहसा दिव्या अम्बरवर्त्मना ॥१०३॥वैकुण्ठं भगवद्धाम नारायणविमानगाः ।वैशाखशुक्लतृतीयातिथौ मध्यान्हकोत्तरम् ॥१०४॥प्राप्ता वैकुण्ठलोकं ते साधुप्रसादभोजिनः ।एवं श्रीबद्रिके तेषां मुक्तिस्तत्राऽभवत्तदा ॥१०५॥पठनाच्छ्रवणादस्य स्मरणात् पापनाशनम् ।भुक्तिर्मुक्तिर्भवेच्चापि कृष्णप्राप्तिः शुभा भवेत् ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणादिना पुरा सार्थवाटजातीनां दशकपोतानां, तथा पुरा कंकजातीनां शतकाकपक्षिणां, साधोः कृपादिभिश्चोच्छिष्टभोजनेन च मोक्षणमित्यादि निरूपणनामा नवषष्टितमोऽध्यायः ॥६९॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP