संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ३३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ३३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३३ Translation - भाषांतर श्रीनरनारायण उवाच—शृणु बद्रीप्रिये देवि स्वर्णकारिणिकाकथाम् ।मध्यदेशे नर्मदायास्तटे माणिक्यपत्तने ॥१॥स्वर्णकारकुटुम्बानि भूपालमानितानि वै।अवसन् स्वर्णरूप्याणां कलाकौशल्यवन्ति हि ॥२॥पुत्राः पुत्र्यश्च दासाश्च वर्तन्ते स्वर्णकारिणाम् ।व्यापारान् कानकान् सर्वे कुर्वन्त्याभूषणानि च ॥३॥विभिन्नान्यपि पात्राणि तथोपस्करणानि च ।प्रदर्शनानि रूपाणि रचयन्ति बहून्यपि ॥४॥धातुजानि नैकधा संविक्रयादि दधत्यपि ।राजानो राज्यमान्याश्च राष्ट्रमान्याश्च वै प्रजाः ॥५॥प्रजेश्वराः श्रेष्ठिनश्च क्रयं कुर्वन्ति चापणात् ।स्वर्णकाराः कलया वै सुवर्णे मेलनं मनाक् ॥६॥बहु वा भिन्नधातूनां कृत्वा कुर्वन्ति भूषणम् ।शुद्धं तु कुन्दनं कश्चिद् भूषार्थं चार्पयत्यपि ॥७॥तत्रापि धातुसम्मेलं कृत्वा निष्कासयन्ति तत् ।मिश्रे स्वर्णे विशेषेण मिश्रणं विदधत्यपि ॥८॥स्तेनकर्म विधायैव रचयन्ति हि भूषणम् ।एवंविधाः स्वर्णकारा राज्यभूषाकरा अपि ॥९॥भवन्ति स्म च लक्षाणां कोटीनां भूषणाकराः ।शृंगारकारिणश्चापि स्तैन्येन धनिनोऽभवन् ॥१०॥स्तैन्यं तु बद्रिके नैव हितकृत् कस्यचित् क्वचित् ।प्राप्ते तु दशमे वर्षे समूलं हि विनश्यति ॥११॥अथैकदा तु तद्देशेऽवग्रहश्चाऽभवन्मुहुः ।दुर्भिक्षपीडिता लोका लभन्तेऽन्नं न वै क्वचित् ॥१२॥महाराष्ट्रेऽभवदन्नं त्वसंख्यं वृष्टियोगतः ।विना मूल्यं न चाप्येत धनं नाऽभूत् प्रजाकरे ॥१३॥प्रजा निर्धनदारिद्र्यदुःखिता अन्नवर्जिताः।उच्छृंखलास्ततो जाता लूटनं चारभन्त वै ॥१४॥युद्धसैन्यसमान्येव प्रजानां मण्डलानि वै ।उद्वृत्तानि लूटकानि प्रासरत् पत्तनेऽभितः ॥१५॥राजगृहे तथा श्रेष्ठिवसतौ स्वर्णकारिषु ।यत्र यत्राऽभवत् स्वर्णं रूप्यकं ताम्रजं धनम् ॥१६॥अपहृत्य समस्तं तद् ययुरन्नार्थमुल्बणाः।महाराष्ट्रप्रदेशेषु गत्वाऽन्नानि तु लेभिरे ॥१७॥स्वर्णकारा धनहीना मूलधनैश्च वर्जिताः।ततोऽन्नवर्जिताश्चापि बभूवुः क्षुत्प्रपीडिताः ॥१८॥प्रजाबाला बालिकाद्याः पुत्राः पौत्रादयोऽवराः ।पीड्यन्ते त्वन्नविधुरा म्रियन्ते क्षुत्प्रपीडिताः ॥१९॥विकरालस्वरूपं वै दुष्कालेन धृतं तदा ।प्रजा मृत्युभयाच्चक्रुर्नामयज्ञान् स्थले स्थले ॥२०॥मण्डलानि मिलित्वाऽपि ग्रामे ग्रामे पुरे पुरे ।हरेर्नाम्नां कीर्तनानि कुर्वन्ति वृष्टिवाञ्च्छया ॥२१॥पूजनानि प्रकुर्वन्ति शुष्कपत्रादिभिः प्रजाः ।भावद्रव्यैः पूजयन्ति चार्तनादैः स्तुवन्त्यपि ॥२२॥मृतदेहानर्पयन्ति हरये सुतबान्धवान् ।एवं जाते हि दुष्काले शरण्यो नोपलभ्यते ॥२३॥तत्र वृद्धा भक्तिमती स्वर्णकर्त्री तु पावनी।आसीन्नाम्ना हेमसुधा संकल्पसिद्धिशालिनी ॥२४॥या पूर्वं स्वाज्ञया पत्युः पितृभ्यां सहिता ययौ।कुंकुमवापिकाक्षेत्रं तत्र श्रीलोमशं मुनिम् ॥२५॥गुरुं चकार सा नारी मन्त्रं जग्राह तन्मुखात् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥२६॥जजाप सा नित्यमेव मन्त्रं सहस्रवारकम् ।अनादिश्रीकृष्णनारायणेति रटनं सदा ॥२७॥बालकृष्णहरे कृष्णकान्तेति भजनं मुहुः । चक्रे कर्मसु सर्वेषु वार्धक्येऽपि तु भावतः ॥२८॥पूजां प्रातः करोत्येव मूर्तेः पुष्पजलादिभिः ।नैवेद्यं चारार्त्रिकं च शयनं कारयत्यपि ॥२९॥मिलित्वा बहुधा नार्यस्तद्गृहे चोत्सवं हरेः॥कुर्वन्त्यपि साधवश्च सत्यश्चायान्ति तद्गृहम् ॥३०॥सेवतेऽन्नजलवस्त्रैः पादसंवाहनादिभिः ।सतीः साधून् यथेष्टं च दानेन रञ्जयत्यपि ॥३१॥आशीर्वादान् साधवस्ते दत्वा यान्ति स्थलान्तरम् ।एवं पुण्यवती साऽऽसीद् यद्गृहं तीर्थमुत्तमम् ॥३२॥पावनं सर्वदा त्वासीत् सदा नारायणाश्रयम् ।सिद्ध्याश्रयं तथाऽऽसीच्च दुष्कालेऽप्यन्नमक्षयम् ॥३३॥यद्गृहे वर्तते कृष्णनारायणप्रतापतः ।वर्धन्ते दिव्यकणकाः कुसूले वर्धते धृतम् ॥३४॥यदन्नं चेयमिच्छेद् वा प्रातर्नैवेद्यकारिणी ।तत् कुसूले लभ्यतेऽपि शाकपत्रादिकं तथा ॥३५॥एवं सिद्धिमती साऽऽसीन्नान्ये जानन्ति तादृशीम् ।तथापि दुःखिता लोका मरन्ति तान् विलोक्य सा ॥३६॥दयापराऽभवद वृद्धा परोपकृतिशालिनी।बालिकाभ्यश्च बालेभ्यो विधवाभ्यस्तथा दिने ॥३७॥सगर्भाभ्योऽतिवृद्धाभ्यो दीनाऽनाथेभ्य इत्यपि ।मध्याह्ने स्वगृहं यातेभ्यो ददाति हि रोटकम् ॥३८॥निष्कास्य स्वगृहचुल्लीपार्श्वस्थकोष्ठलात्ततः ।प्रेम्णा ददाति सा वृद्धा भुक्त्वा यान्ति क्षुधाकुलाः ॥३९॥ नैतद् विदितं सर्वेषां ततोऽन्ये मानवाः स्त्रियः ।भक्ताया दुर्भिक्षकाले भक्तिं निन्दन्ति दुःखिताः ॥४०॥अहो भक्तिर्न वै लोके रोटकं प्रददाति हि ।न दुष्कालं मारकं च निवारयति चागतम् ॥४१॥न भक्त्या पूर्यते स्थाली न मुखं नोदरं तथा ।न भक्त्या क्षुन्निवृत्तिश्च तृषानाशोऽपि नैव च ॥४२॥न भक्त्या कालनाशश्च न वा मृत्योर्निवारणम् ।न भक्तिर्भोजनार्थं वै जायते कवलात्मिका ॥४३॥किं भक्त्या शुष्कया त्वत्र साहाय्यं तु यया न वै ।मृषा भक्तिर्हि देवानां मृषा नारायणस्य च ॥४४॥एतादृशे महाकाले नाऽन्नं भक्तिर्ददाति वै ।न भक्तीनां कवला वै भवन्ति सा मृषा ततः ॥४५॥न वा कृष्णो न वा विष्णुर्दुष्कालेऽन्नं प्रयच्छति ।बालाश्च बालिकाश्चापि म्रियन्ते तेषु निर्घृणः ॥४६॥पश्यन्त्वियं महावृद्धा हेमसुधाऽत्र पत्तने ।भक्तिमती विद्यतेऽपि दुःष्कालेऽन्नं ददाति न ॥४७॥भक्तिस्तस्या निष्फलाऽस्ति जातं दुर्भिक्षकं कथम् ।भक्तिर्नैव महाकालं निवारयति भाति नः ॥४८॥धिक् तत्र साधवः साध्व्यः खादन्त्यायान्ति यान्ति तान् ।न साहाय्यं प्रकुर्वन्ति दुष्काले हरिजीविनः ॥४९॥एवमज्ञजनास्तस्या निन्दां कुर्वन्ति वै तदा ।बद्रिके साधुसाध्वीनां भक्तेर्निन्दां हरेस्तथा ॥५०॥बुभुक्षिता जना लोका मिथः कुर्वन्ति पीडिताः ।सैषा वाणी कर्णपरम्परया वृद्धया श्रुता ॥५१॥अथ कालं चमत्कारस्यैव विज्ञाय भामिनी ।हरेः प्रतापमुत्कृष्टं दर्शयितुं तदा स्वयम् ॥५२॥इयेष वृद्धा सहसा हेमसुधा हरिप्रिया ।प्रातः सा स्थालिकां धृत्वा करे च दण्डिकां करे ॥५३॥पीटयित्वा ध्वनयित्वा निर्जगाम तु पत्तने ।महापथे विचित्तेव श्रावयत्येव मानवान् ॥५४॥येभ्यो वै भोजनं चास्त्यपेक्षणीयं गृहे मम ।आगन्तव्यं हि मध्यान्हे दुर्भिक्षदुःखितैर्जनैः ॥५५॥एवं सा नगरे कृत्वा प्रकाशाऽऽमन्त्रणं ततः ।आयाता स्वगृहं तत्र सस्मार श्रीपतिं हरिम् ॥५६॥अनादिश्रीकृष्णनारायणं लक्ष्मीं च लोमशम् ।साक्षात् ते त्वाययुर्भक्त्या निषेदुः सत्कृता गृहे ॥५७॥दिव्या दिव्यविभूषाढ्या रूपरूपानुयोगिनः ।प्रसन्नवदनाः स्वेष्टदेवाः कल्याणकारिणः ॥५८॥वन्दिताः पूजिता भक्त्या सत्कृता भोजितास्तथा ।अर्थिताः प्रार्थिताः स्थातुं पूरयितुं निवेदिताः ॥५९॥भक्तिवशास्ते वृद्धायास्तथैवेति समाचरन् ।विष्णुश्चोत्पादकस्तत्र रोटकाणां तदाऽभवत् ॥६०॥लक्ष्मीश्चाऽऽपूरिका तत्र भोजनानां तदाऽभवत् ।लोमशश्चाऽभवत् तत्र दाता सततयत्नवान् ॥६१॥हेमसुधा जलानां च प्रदात्री तु तदाऽभवत् ।तावद्वै मानवा दीना अनाथा भिक्षुकाः स्त्रियः ॥६२॥नरा नार्यः साधवश्च सत्यश्च क्षुत्प्रपीडिताः ।अन्ये खलाश्च निन्दादिकर्तारोऽपि क्षुधान्विताः ॥६३॥कुतूहलात्तु हास्यार्थं वीक्षितुं तत्र चागताः ।वृद्धा जाता विचित्ता किं भानहीना मृषा च किम् ॥६४॥किं सत्यं वर्तते तत्र भक्तिः किं फलिता कृता ।ददाति चान्नं यद्वा सा दुष्कालपरिपीडिता ॥६५॥आह्वयत्येव वै स्थाल्या वृथा मिथ्या ऋतं च वा ।इत्याश्चर्यपरा लोकाः सहस्रशः क्षुधान्विताः ॥६६॥आयाता भावयुक्ता वा अभावसहिता अपि ।अथ श्रीलोमशो देवः प्रारभत प्रदानकम् ॥६७॥रोटकाणां सहस्राणां सहैवैकक्षणे क्षणे ।मानवा व्योममार्गेण क्षिप्तान् सर्वान् हि रोटकान् ॥६८॥गृह्णन्ति न भुवं यान्ति रोटकाः क्षुधितैर्धृताः ।भुक्त्वा भुक्त्वा प्रयान्त्येव विशाले भूतले तदा ॥६९॥सम्मर्दस्तु महाँस्तत्र जायतेऽपि न बाधकृत् ।आसायं दत्तवान् चान्नं लोमशाख्यो गुरुस्तदा ॥७०॥लक्ष्मीर्नारायणस्तत्र विराजेते विधायकौ ।रोटका गोधूमजा वै मिष्टमिश्रा घृतान्विताः ॥७१॥प्राप्यन्ते चापि भुज्यन्ते तृप्तिं यन्ति तु भोजिनः ।एवं वै लक्षशो लोका भुक्त्वा प्रोक्त्वा जयं मुहुः ॥७२॥प्रयान्ति स्वगृहं सायं चमत्कारोऽभवद् भुवि ।रात्रौ हेमसुधयाऽन्नसत्रं चानर्गलं कृतम् ॥७३॥देशग्रामादिभ्य ईयुर्मानवा भिक्षुका इति ।तेभ्योऽन्नं ते ददू रात्रावाप्रभातं दिने यथा ॥७४॥एवं दुर्भिक्षदुःखाढ्या नरा नार्यस्तु लक्षशः ।आययुः परितः श्रुत्वाऽऽश्चर्यं वै दिनसप्तकम् ॥७५॥रात्रिन्दिवं प्रवाहास्तु मानवानां समुद्रभाः ।उद्वेला इव सञ्जाता भिक्षाश्चर्यप्रप्रेरिताः ॥७६॥भिक्षुकास्ते प्रसादान्नं भुक्त्वा भुक्त्वा व्यघाः शुभाः ।बभूवुः पावना भक्ताश्चक्रुश्च भजनं हरेः ॥७७॥प्रभोकृष्ण बालकृष्ण श्रीकृष्णमाधवीपते ।वृद्धानार्या क्षुधा विनाशिता ते कृपयाऽधुना ॥७८॥प्रशंसन्ति हरिं ते तु स्तुवन्ति नित्यतर्पिताः ।एकवारं येन भुक्तः प्रसादः परमात्मनः ॥७९॥मासं मासं न वै तेषां क्षुधामासीद्धि बद्रिके ।एवंविधं चमत्कारं प्रापुस्ते मानवास्तदा ॥८०॥आगत्यागत्य तु सर्वे जगृहुर्मन्त्रमुत्तमम् ।वृद्धा तेभ्यो लोमशाद्वै दापयत्येव तन्मनुम् ॥८१॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।लक्षशो मानवास्तत्र वैष्णवाश्चाऽभवन् शुभाः ॥८२॥वृद्धया चार्थितः कृष्णनारायणोऽपि वर्षणम् ।प्रचकार ततो भूमौ तृप्तिदं शीतलैर्जलैः ॥८३॥अरण्यानि च वाट्यश्च क्षेत्राणि च वनानि च ।मानसानि चापणानि जातान्यौदार्यवन्ति च ॥८४॥पत्रान्नफलपुष्पाद्यैः ऋद्धानि तानि चाऽभवन् ।वृद्धा सा हेमसुधिका देवतावत् प्रपूज्यताम् ॥८५॥अवाप कृष्णयोगेन तापसी लोकरक्षिणी ।हेमसुधाऽन्नदा देवी त्वन्नपूर्णाऽभवद् भुवि ॥८६॥ततः पूजां परां प्राप्य लक्ष्मीलोमशमाधवाः ।तिरोऽभवन् ततः स्थानात् कुंकुमक्षेत्रमाययुः ॥८७॥हेमसुधाऽन्नपूर्णा तु दिव्यदेहा व्यजायत ।कथयित्वा हि सर्वेभ्यो गन्तुं कुंकुमवापिकाम् ॥८८॥तिरोऽभवत् सहसा सा पश्यतां लक्षदेहिनाम् ।कुंकुमवापिकाक्षेत्रमम्बरेण समाययौ ॥८९॥हरेः सेवापरा नित्यं वर्तते चरणाम्बुजे ।दिव्यदेहा दिव्यमुक्तानिका दासी तु पावनी ॥९०॥षोडशाब्दा दिव्यमूर्तिर्नित्यं तस्थौ हरेः पुरः ।अथ ते नार्मदक्षेत्रवासा माणिक्यवासिनः ॥९१॥यात्रार्थं त्वाययुर्दिव्यं क्षेत्रं कुंकुमवापिकाम् ।लक्षशो मानवा नार्यो नरा जन्ममहोत्सवे ॥९२॥अष्टादशे कृष्णनारायणजयन्तिकोत्सवे ।दर्शनार्थं पूजनार्थं कल्याणार्थं तथाऽऽययुः ॥९३॥प्रददुश्चोपदाः सर्वे पुपूजुर्मणिरत्नकैः ।चन्दनैरक्षतैः पौष्पहारमालाभिरच्युतम् ॥९४॥अनादिश्रीकृष्णनारायणं श्रीमाणिकीपतिम् ।लोमशं च तथा चाश्वसरो लक्ष्मीमपूजयन् ॥९५॥तीर्थविधिं प्रचक्रुश्च न्यूषुर्मासचतुष्टयम् ।माघस्नानं विधायैव कृतकृत्याश्च तेऽभवन् ॥९६॥सहस्रशो नरा नार्यो लीनसंकल्पवासनाः ।बालकृष्णप्रभावेण ययुर्धामाऽक्षरं हरेः ॥९७॥अन्येऽभवन् साधवश्च साध्व्यश्चाऽप्यभवँस्तदा ।अपरे वैष्णवाः सर्वे कृत्वा तीर्थं ययुर्गृहम् ॥९८॥इत्येवं बद्रिके लोककल्याणकारिणी सती ।सुवर्णकारप्रमदा जाताऽन्नपूर्णिका सुरी ॥९९॥ततः कालान्तरे प्राप्ता पदं शाश्वतमक्षरम् ।स्वर्णकारादिजातीनां प्रजानां पापनाशनम् ॥१००॥हरेः प्रसादभोज्यादिदानेन सा चकार ह ।भुक्तिमुक्तिप्रदा नारायणी सा च ततोऽभवत् ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने माणिक्यपत्तनीयाया हेमसुधानाम्न्याः स्वर्णकारिण्या भक्त्या भगवताऽसंख्यमानवानां भोजनादि दुर्भिक्षेऽर्पितं मोक्षणं च कृतं सापि मुक्तिं नीतेत्यादिनिरूपणनामा त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP