संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९३ Translation - भाषांतर श्रीपद्मावतीप्रज्ञे प्रोचतुः-भक्तप्रियहरिकृष्णस्वामिन्नारायणप्रभो ।ब्रह्मा पितामहः कस्माद् रक्षितोऽत्र स्वसन्निधौ ॥१॥श्रीकृष्णनारायण उवाच--शर्करानगरेऽहं श्रीकृष्णनारायणो महे ।देवेशपितृनागादीन् तेषां स्वीकृत्य चाऽर्थनाम् ॥२॥तेषां तेषां भवनानि ततश्चिद् गन्तुमाह तान् ।तल्लक्ष्यीकृत्य भगवानियेषैतुमजाऽऽस्पदम् ॥३॥सत्यलोकं प्रगन्तुं वै ब्रह्मणा सह कार्तिके ।ब्रह्मणो मानसपूर्त्यै प्रारूरुधं निजान्तिके ॥४॥ऊर्जकृष्णनवम्यां मां हरिं ब्रह्मा प्रणम्य तु ।अपृच्छत् कारणं स्वस्य निरोधस्य सुखासने ॥५॥अहं न्यवेदय तत्राऽस्मारयं च तदर्थनाम् ।सर्वब्रह्मप्रियाहरिप्रियाद्याभिः सहैव ह ॥६॥कृतप्रार्थनस्थानीशालयान् गन्तुं तु वेधसम् ।ब्रह्मापि च कृपां लब्ध्वाऽतुष्यच्चातीव तत्क्षणम् ॥७॥मह्यं न्यवेदयत्तत्र यथायोग्यं हितं निजम् ।भगवन् सत्यलोके मे दीपोत्सवं विधापय ॥८॥अन्नकूटान् दिव्यभोगानर्पयिष्यामि भावतः ।सेवालाभो हि गायत्र्याः सावित्र्याश्च भविष्यति ॥९॥सत्यवासिसमस्तानां तत्र सेवा भविष्यति ।तवाऽङ्गनानां सर्वासां दर्शनं च भविष्यति ॥१०॥यदिष्टं तत् सत्वरं वै विधेहि भगवन् प्रभो ।मत्प्रियेऽहं तदा कृष्णनारायणोऽगदं तमोम् ॥११॥सुस्वीकृतवान् ब्रह्मोक्तं तस्मात् सज्जेऽद्य तिष्ठतम् ।सर्वाभिश्चांऽगनाभिर्वै स्वस्रा सन्तुष्टया सह ॥१२॥दासीभिः सेविकाभिश्च लोमशादिमहर्षिभिः ।पार्षदैर्भृत्यवर्गैश्च सह सज्जो भवाम्यहम् ॥१३॥श्रीश्वेतायनव्यास उवाच-कृत्वा चैकादशीं कृष्णनारायणो जगत्प्रभुः ।शतयोजनविस्तारं विमानं सूक्ष्मभावगम् ॥१४॥वर्धयामास सहसा व्योम्नि सर्वाऽऽसनाऽर्हकम् ।दिव्यं वैकुण्ठतुल्यं वै हिरण्यब्रह्मनामकम् ॥१५॥सर्वर्द्धिसर्वभोगाढ्यं सर्वकामप्रपूरकम् ।विमानेऽत्राऽनादिकृष्णोनारायणःश्रीवल्लभः ॥१६॥निषसाद द्रुतं सर्वदासदासीप्रसेवितः ।अथ हलहलाशब्दो यात्रार्थं चाऽऽज्ञया हरेः ॥१७॥अभवत् कुंकुमवापीनगरेऽभित ऊर्ध्वगः ।नार्यः समस्तवेषाढ्या नीतभूषाम्बरास्तथा ॥१८॥सर्वशृङ्गारकरणा ह्यतिष्ठन् यानसन्निधौ ।आज्ञां ददौ स तास्तूर्णं चारुरुहुर्विमानकम् ॥१९॥श्रीहरिः स्वपितरौ सम्प्रणम्याऽपि विमानके ।द्वितीयेन स्वरूपेण ब्रह्मणा लोमशेन च ॥२०॥सद्भिः स्वपार्षदैः सर्वप्रियाभिः संव्यराजत ।अथ वाद्यान्यवाद्यन्त पुष्पचन्दनवृष्टयः ॥२१॥अम्बरादभवँस्तत्र जयनादास्ततोऽभवन् ।अथ श्रीबदरी बद्रिकाश्रमे श्रीनरायणम् ॥२२॥श्रुत्वा घोषान् दिव्यशक्त्या पप्रच्छ श्रीहरेः कथाम् ।क्व यानादितदाऽऽह श्रीनरनारायणोऽपि ताम् ॥२३॥श्रीनरनारायण उवाच-शृणु बद्रीप्रिये कृष्णो द्वाविंशं स्वजनेर्महम् ।कृत्वा पुरञ्जनमोक्षोत्तरं सत्यस्तरं प्रति ॥२४॥गन्तुं सज्जोऽभवत्तत्र सेवका अपि सर्वशः ।द्वादश्यां ते कृताहारा विमानस्थाः सरोवरम् ॥२५॥वापीं क्षेत्राणि नत्वाऽपि नत्वा स्वद्विस्वरूपिणम् ।नरा नार्यो हर्षयुक्ता यात्रार्थं निर्ययुर्हि खे ॥२६॥विमानं जयनादैश्च सहितं चाऽम्बरेऽग्रगम् ।शनैर्गतिपरं जातं विमुच्याऽभ्राणि वै क्षणात् ॥२७॥मनोवेगेन च भुवः स्वर्गं महर्जनं तपः ।सत्यं प्राप मुहूर्तेन महाश्चर्यमभूद्धि तत् ॥२८॥सर्वासां योषितां दासीदासानां वेगदर्शिनाम् ।उद्धोषः सर्वतो जातो यात्रायां भगवान् ययौ ॥२९॥सर्वलोकेषु सर्वत्र सा वार्ता प्रासरत् क्षणात् ।योगिनो देवताश्चापि दिव्यज्ञा विविदुः क्षणात् ॥३०॥आययुः सत्यलोके ते हरिं नेतुं निजालयान् ।क्रमात् कृष्णोऽपि तानाह समागन्तुं यथायथम् ॥३१॥सत्यलोके तदा साध्वि! सत्यलोकनिवासिनाम् ।श्रीकृष्णस्याऽऽगमे जाते महानन्दो व्यजायत ॥३२॥स्वागतं सत्यलोकस्था ब्रह्मपुत्राः सनातनाः ।सिद्धाः सनत्कुमाराद्यास्तथा सत्याधिकारिणः ॥३३॥देवाश्चक्रुर्हरेस्तत्र वाद्यमालाऽर्हणादिभिः ।फलाऽक्षतसुपुष्पाद्यैर्लाजासुगन्धिसद्द्रवैः ॥३४॥ब्रह्मा ब्रह्मपुरीं सर्वां शृङ्गारशोभितां व्यधात् ।सुगन्धिसिक्तमार्गां च ध्वजपताकिकोर्जिताम् ॥३५॥सुवर्णकलशै रम्यां हारतोरणशोभिताम् ।सत्याभिर्देविकाभिश्चसुवेषाभिरलंकृताम् ॥३६॥मन्दिरागारसुन्यस्तस्वस्तिकादिविराजिताम् ।कदलीस्तम्भशाखाढ्यगोपुरैः शोभितां तदा ॥३७॥विमानैर्वाहनैर्हंसैर्बहुभिः सङ्कुलाम् ।विविधैर्दिव्यवाद्यैश्च नादितां सुमनोहराम् ॥३८॥सत्यदेवैर्देविकाभिश्चाप्सरोभिरलंकृताम् ।सिंहव्याघ्रहंसहस्तिमृगवेषितसैन्यिकाम् ॥३९॥दिव्यकुसुमैर्गुच्छैश्च विकीरितां समन्ततः ।दधिमांगल्यसंशोभदगारसौधराजिताम् ॥४०॥कराऽऽत्ताऽक्षतपुष्पादिसिद्धाभिः सुप्रतीक्षिताम् ।कृत्रिमोद्यानसंशोभच्चत्वराऽऽवासशान्तिदाम् ॥४१॥कामकल्पलतावृक्षमालाभिरभिराजिताम् ।सत्यां ब्रह्मपुरीं कृष्णनारायणो हि वेधसा ॥४२॥नीयमानश्चाविवेश वर्धितः पूजितः सुरैः ।भ्रमित्वा श्रीहरिर्दीर्घां सत्यां वै लक्षयोजनाम् ॥४३॥विमानं तु स्थिरीकृत्य हंसयानमुपाविशत् ।ब्रह्मणो भवनं ब्रह्माऽनयच्छ्रीपरमेश्वरम् ॥४४॥ब्रह्मा च ब्रह्मपुत्राश्च सनकाद्या महर्षयः ।ऋभुश्च नारदाद्याश्च पुपूजुः परमेश्वरम् ॥४५॥पादामृतं पपुश्चारार्त्रिकं चक्रुः समुत्सुकाः ।हारान् भूषाश्चन्दनादि समर्प्य च ततोऽस्तुवन् ॥४६॥पावितः सत्यलोकोऽयं भगवन् कृपया त्वया ।सेवायां न समर्थाः स्म क्षमस्वाऽशक्तिमच्युत ॥४७॥ब्रह्मा दिव्यसभायां च निन्ये श्रीपुरुषोत्तमम् ।विश्रामं प्राप भगवान् भोजितश्चामृतादिभिः ॥४८॥अथ सावित्रिकागायत्रिकासरस्वतीस्त्रियः ।साध्व्यश्च सिद्धयश्चापि सुराण्यः कोटिशोऽपि च ॥४९॥पुपूजुः श्रीहरिं तत्र तथा श्रीं माणिकीं रमाम् ।लक्ष्मीं प्रज्ञां पाशवतीं राधां च शारदां सतीम् ॥५०॥कृष्णनारायणपत्नीः पूजयामासुरेव ताः ।उपदा विविधाश्चापि ददुर्दिव्यास्तदुद्भवाः ॥५१॥ततश्चारार्त्रिकं चक्रुर्भोजयामासुरीश्वरीः ।ब्रह्मप्रियादिकाः सर्वा दासीर्दासान् समस्ततः ॥५२॥विश्रान्तिमन्दिरेष्वेता ददुर्विश्रमणं तथा ।सर्वप्रदानकैर्देव्यो भगवत्योऽर्हणां व्यधुः ॥५३॥सेवां चक्रुर्महीमानयोषितां सर्वतोऽर्पणैः ।ब्रह्माऽभवत् कृतकृत्यः सावित्र्याद्या मुदान्विताः ॥५४॥सनकाद्याः साधवश्चाऽभवन् कृतार्थकास्तदा ।बद्रिप्रिये! ब्रह्मसत्ये क्षणमात्रं तु भूतले ॥५५॥युगाऽयुतायते चापि मानवस्य कृते खलु ।न तु योगवतां चापि भगवतां तथाविधा ॥५६॥ईश्वराणां न च तथा सुतरां श्रीहरेर्नहि ।काले दैर्घ्यं कृतं येन वामनत्वं कृतं तथा ॥५७॥संकल्पाधीनमस्याऽस्ति का तत्र कालकल्पना ।बद्रिप्रिये हरिकृष्णः प्रपूर्य ब्रह्मणो मनः ॥५८॥ब्रह्मणाऽऽदिष्टदेवानां मन्दिरेषु ययौ ततः ।सौधेषु सनकादीनां साधूनां प्रययौ पुरा ॥५९॥ब्रह्मशीलव्रतानां च नैष्ठिकानां महात्मनाम् ।सिद्धानामाश्रमश्रेष्ठेष्वपि नारायणो ययौ ॥६०॥पूजितः साधुसंघैश्च ततो गृहिगृहाण्यपि ।सत्यावसानिकदेवालयेषु भगवान् ययौ ॥६१॥पूजितो वन्दितः सर्वैर्भोजितोऽमृतसद्रसैः ।नीराजितो वर्धितश्चाऽऽययौ ब्रह्मालयं पुनः ॥६२॥धनलक्ष्मीमहापूजां ब्रह्माद्याश्चक्रिरे ततः ।त्रयोदश्यां चतुर्दश्यां कृष्णपूजां प्रचक्रिरे ॥६३॥दीपावल्यां शारदाश्रीमहापूजां प्रचक्रिरे ।कोटिसिद्धाः कोटिसन्तो नैष्ठिका ब्रह्मकोटिकाः ॥६४॥ऋभुर्नीराजनं चक्रे ब्रह्माऽप्यपूजयन् मुदा ।सावित्र्याद्याः सतीनार्यो लक्ष्मीपूजां प्रचक्रिरे ॥६५॥दिव्यसारैरमृताद्यैरभिषेकं प्रचक्रिरे ।शृङ्गाराणि समस्तानि समस्तभूषणानि च ॥६६॥समस्तवेषसौभाग्यं लक्ष्म्या देव्याः प्रचक्रिरे ।सत्यलोकं ब्रह्मदीपावलिकोटिसमुज्ज्वलम् ॥६७॥चक्रिरे दीपनिवहैः पुण्यात्मकैः समस्ततः ।नृतगीतमहामोदाऽमृतादिमिष्टभोजनैः ॥६८॥महीमानमहानन्दं जनयामासुरीशिकाः ।अन्नकूटोत्सवं ब्रह्मा चकार बहुवस्तुकम् ॥६९॥सत्यलोकान्ननिवहान् पाचितान् सुसुधाभृतान् ।मिष्टान्नानि समस्तानि क्षारान्नानि तथैव च ॥७०॥रस्यान्नानि च भक्ष्याणि भोज्यानि विविधान्यपि ।लेह्यानि रसयुक्तानि पेयानि विविधानि च ॥७१॥आस्वाद्यानि समस्तानि चोष्याणि चोत्तमानि च ।तिक्तमिष्टाम्ब्लकटूनि प्रवाहितानि यान्यपि ।७२॥सहायकानि सर्वाणि रूक्षशुष्काणि यानि च ।भर्जितानि संस्कृतानि दिव्यगन्धरसानि च ॥७३॥शाकपत्राणि रम्याणि भाजा भाजीः रसप्लुताः ।कन्दमूलानि सर्वाणि फलपुष्पाणि यान्यपि ॥७४॥उत्कृष्टोत्कृष्टरूपाणि सर्वकलाकृतानि च ।स्वर्णपात्रेषु महास्थालेषु कोट्यर्बुदेषु च ॥७५॥दिव्यभाजनवर्येषु कलशेषु जलानि च ।साक्षात्फलानि पुष्पाणि बीजानि मञ्जरीस्तथा ॥७६॥संस्कृत्य शिम्बिकाश्चापि न्यधुः श्रीहरिसन्निधौ ।स्वर्णहंसासने राजत्कृष्णो ब्रह्मप्रियादिभिः ॥७७॥बुभुजे ब्रह्मणाऽऽदिष्टः सावित्र्यादिभिरर्चितः ।प्रशंस्याऽन्नानि भगवान् श्रीप्रज्ञामाधवीधवः ॥७८॥गायत्र्याद्या ब्रह्मपत्न्यो व्यजनैः पवनं ददुः ।सावित्र्याद्याः पुनस्तत्र परिवेषणमाचरन् ॥७९॥हरिस्तृप्तो हरेः पत्न्यो दास्यो दासाश्च सेवकाः ।साधवः पार्षदास्तृप्ताश्चुलुकं च व्यधुस्ततः ॥८०॥वार्यमृतं पपुश्चापि मुखवासं च जगृहुः ।ताम्बूलकं तु भगवान् सर्वाश्च श्रीहरिप्रियाः ॥८१॥मुखवासानि चान्यानि दिव्यपूगीफलान्यपि ।तथा सुगन्धिबीजानि शीतकणांश्च जगृहुः ॥८२॥भुक्त्वोत्थाय हरिकृष्णो निषसाद महासने ।ब्रह्मा च ब्रह्मपत्न्यश्च ब्रह्मपुत्रादयस्तथा ॥८३॥प्रसादं श्रीहरेः सर्वे वुभुजिरेऽतिभावतः ।सनकाद्या ऋषयश्च ऋभ्वाद्या नैष्ठिकोत्तमाः ॥८४॥सत्यः साध्व्यः शारदाद्या बुभुजिरे प्रसादकम् ।ततः श्रीभगवान् सत्यलोकवासिभ्य आदरात् ॥८५॥शरण्यः शरणे प्राप्तान् ददौ मन्त्रं निजं स्वयम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८६॥'ओं बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।तन्नः श्रीशः प्रचोदयादि'ति मन्त्रं ददौ तथा ॥८९॥सत्यलोके कोटिशोऽपि सिद्धाः साध्याश्च नैष्ठिकाः ।पूर्वप्रपूर्वकल्पीयदेवाद्या न्यवसँश्च ये ॥८८॥सर्वे ते वैष्णवा जाताः कृष्णनारायणाश्रिताः ।देवा देव्यः समस्ता वै नामधुन्यं प्रचक्रिरे ॥८९॥कृष्णनारायणकृष्णनारायण नरायण ।अनादिश्रीकृष्णनारायणस्वामिन् रमायण ॥९०॥इत्येवमुत्सवं ब्रह्मा चान्नकूटस्य संव्यधात् ।दक्षाद्याः ब्रह्मपुत्राश्च नारदाद्या महर्षयः ॥९१॥सत्यलोकगताः कृष्णप्रसादं जगृहुर्मुदा ।नृत्यं च कीर्तनं चक्रुर्गान्धर्वा नारदादयः ॥९२॥ब्रह्मसरसोऽप्सरसो व्यधुर्नृत्यानि वै मुदा ।योगिनो यतयः सिद्धास्तापसा ब्रह्मचारिणः ॥९३॥चक्रिरे नामधुन्यं च कृष्णनारायणप्रभोः ।अपुनर्मारका देवाः सत्याः सत्यनिवासिनः ॥९४॥पूजनं श्रीहरेश्चक्रुरागत्य ब्रह्ममन्दिरम् ।प्रसादं जगृहुस्ते च मन्त्रं च जगृहुर्हरेः ॥९५॥अथ श्रीमत्कृष्णनारायणः प्रसाद्य वेधसम् ।विष्णुनाऽभिष्टुतः प्रायान्नारायणालयं ततः ॥९६॥विष्णुलोकं विशालं वै प्राप्य विष्णोस्तु मन्दिरे ।विष्णुना च श्रिया सर्वपार्षदैः कृतमुत्तमम् ॥९७॥स्वागतं पूजनं दिव्यकौस्तुभाद्यर्पणं मुदा ।जग्राहोर्जस्य पूर्णायां तिथौ पद्मावतीपतिः ॥९८॥भोजनं च शुभं पानं प्राप्य पूजां श्रिया कृताम् ।विमानेन ययौ ज्योतिर्मयं हरपुरं प्रभुः ॥९९॥कोटिकोटिगणोऽध्यक्षो हरो मुदितमानसः ।अभ्याययौ हरिं चक्रे दण्डवत् गणकोटिभिः ॥१००॥ज्योतिर्मये पुरे कृष्णं भ्रामयित्वा विमानगम् ।नैजे स्वर्णालये निन्ये पुपूज पुष्परत्नकैः ॥१०१॥आरार्त्रिकं चकारापि भोजयामास चाऽमृतम् ।सर्वानुगयुतं कृष्णं सेवयामास शंकरः ॥१०२॥गणा गणिकाः सत्यश्च श्रीसतीसहिता हरेः ।लक्ष्म्यादीनां च शुश्रूषां चक्रिरे ह्यतिभावतः ॥१०३॥हरिस्तेभ्यो ददौ मन्त्रं ताभ्यश्च नैजमुत्तमम् ।वैष्णवान् संविधायैवाऽऽसाद्य पूजां ततः परम् ॥१०४॥स्वयंभूमनुनाऽऽगत्याऽर्थितः कृष्णो ययौ सह ।अर्चितः पूजितः सर्वसम्पद्भिर्वर्धितः प्रभुः ॥१०५॥सेवितः शतरूपादिनारीभिः श्रीप्रमापतिः ।प्रतोष्य तं मनुं चान्यमनूनामालयान् ययौ ॥१०६॥सर्वे ते मनवः स्वस्वमन्दिरे चांगनायुतम् ।अवस्थाप्य मनुं प्राप्य पुपूजुः सम्पदा हरिम् ॥१०७॥मनूनां पत्निकाः कृष्णपत्नीः पुपूजुरादरात् ।आरार्त्रिकं ततश्चक्रुर्भोजनानि व्यधुस्तथा ॥१०८॥तेभ्यः प्रसन्नो भगवान् ददौ पादौ तु वक्षसि ।प्रस्थापितस्ततः कृष्णो विमानेन निजेन तु ॥१०९॥समाप्य भ्रमणं सत्ये तपोलोकमुपागमत् ।बद्रीप्रिये! मार्गशीर्षे सर्वस्ववर्गसंयुतः ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने ब्रह्मणाऽर्थिंतो भगवान् कोट्यर्बुदादिपत्न्यादिसहितः शतयोजनविमानेन सत्यलोकं ययौ, तत्र दीपोत्सवाऽन्नकूटादिमहोत्सवे ब्रह्मसिद्धयतिमनुप्रभृतिभिः पूजितो हरिस्तान् सुखयित्वा तपोलोकमाजगामेत्यादिनिरूपणनामा त्रिनवतितमोऽध्यायः ॥९३॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP