संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६२ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६२ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि लुञ्चादस्य कथामपि ।लालाखानपुरे विप्रोऽभवत् प्रधानधिष्ण्यपः ॥१॥नाम्ना विलासदेवः स राष्ट्रे प्रधानकार्यकृत् ।शर्करानृपतेराज्ञाकरो विवादमध्यगः ॥२॥न्यायकर्ताऽभवच्चापि धर्मशास्त्रानुसारतः ।कुटुम्बसहितश्चापि राज्यसत्ताधिकारवान् ॥३॥प्रजानां वादविषये श्रेयस्कृत् सुविचारवान् ।कुशलो राज्यकरणे किन्तु लोभपरायणः ॥४॥द्वयोर्विवादे प्रच्छन्नां लुञ्चां गृह्णाति वै द्वयोः ।द्वयोः कार्याणि योग्यानि निस्तारयति न्यायतः ॥५॥एवं जाते बहुकाले प्रतिष्ठामाप्तवानति ।लुञ्चाधनैस्तु बहुलैः श्रेष्ठी धनपतिः स वै ॥६॥जातस्तथापि लोभाढ्यो दानं पुण्यं करोति न ।न तीर्थं न मखं दानं साधुभ्यो वा करोत्यपि ॥७॥नाऽतिथीन्न सतीः साध्वीर्न देवान् पूजयत्यपि ।नोत्सवान्न च वा श्राद्धं करोति कारयत्यपि ॥८॥न व्रतानि न भजनं श्रेयः किञ्चित् करोत्यपि ।आत्महितं नाऽऽचरति बद्रिके स द्विजो ह्यपि ॥९॥नारकीव सदा चास्ते समृद्धोऽपि दरिद्रवत् ।दीयते न न भुज्यते तत् तृतीयां विन्दते गतिम् ॥१०॥एवमस्य भूदेवस्य विलासदेवनामिनः ।धनं सञ्चयमापन्नं भूमौ चञ्चलतां गतम् ॥११॥लुञ्चाजन्यं धनं सर्वं रक्तवृश्चिकतां गतम् ।भूत्वा वृश्चिकरूपं तन्निर्गतं भूमिगर्ततः ॥१२॥कोटिशो वृश्चिका रक्ता भवने निर्गता निशि ।भयमासाद्य तत्पत्नी पुत्राः पुत्रश्च दासिकाः ॥१३॥निर्ययुर्विह्वलाः सर्वे गृहाद्बहिर्द्रुतं तदा ।विलासदेवो विप्रोऽपि परां विह्वलतां गतः ॥१४॥शास्त्रदृष्ट्या विवेदाऽपि धनं वृश्चिकतां गतम् ।शुशोच बहुधा तत्र श्रावयन् स्वकुटुम्बिनः ॥१५॥अहो भार्ये सुताः पुत्र्यो धनं सर्वं गतं हि नः ।दुर्भाग्यस्याऽर्जितं चापि प्रयाति वृश्चिकात्मकम् ॥१६॥पश्यन्त्विमान् ताम्रकुंभान् रिक्तान् पूर्वप्रपूरितान् ।लक्ष्मीर्मयाऽर्जिता सा न योजिता सत्सु कर्मसु ॥१७॥नात्मार्थं नापि देवार्थं कुटुम्बार्थं न योजिता ।सञ्चिता सर्वदा गर्ते मूर्छिता सा गता स्वयम् ॥१८॥कदर्यस्य धनं लक्ष्मीर्भोगशून्या विजीर्यति ।अभोक्तारं विहायाऽन्यं याति षण्डवधूरिव ॥१९॥भोगात्मकं फलं नैव प्राप्तं मया कदाचन ।प्रत्युताऽघं महत् प्राप्तं लुञ्चाजन्यं प्रलोभिना ॥२०॥भोक्तव्यं परलोके तल्लुञ्चाकर्मफलं मया ।उभयोर्लोकयोः कष्टं प्रत्यक्षं मम वर्तते ॥२१॥पापमेतद्ब्राह्मणस्य ततोऽन्यच्चापि मेऽभवत् ।द्रव्यार्जने प्रसक्तस्य सन्ध्याकर्मादिहीनता ॥२२॥सत्यं शौचं क्षमा शान्तिस्तृप्तिर्व्रतं सुरार्चनम् ।सन्तोषश्चात्मवेदित्वं स्वाभाविकं द्विजस्य यत् ॥२३॥मया तद्विहितं सर्वं लोभात्मना तु पापिना ।पापस्य लोके पापानां मूलं लोभो निगद्यते ॥२४॥अधर्मपुत्रो लोभोऽस्त्यधर्मो लोभात् प्रवर्धते ।लक्ष्मीः रुष्टा हरेः पत्नी ममाऽधर्मस्थितस्य वै ॥२५॥जडाऽपि सा गता चैत्या भूत्वा वृश्चिकरूपिणी ।तस्याः प्रसन्नतार्थं तु साधनं हरिसेवनम् ॥२६॥विना प्रसन्नतां लक्ष्म्या वैकुण्ठे वसतिर्न हि ।तस्मात् प्रसादनीया सा नारायणस्य सेवनात् ॥२७॥इत्येवं स शुशोचापि निर्धनः स्वजनैः सह ।विचित्ततां गतश्चापि लुञ्चाधनलयात्तथा ॥२८॥कुटुम्बं दुःखमापन्नं सुखशून्यं ततोऽभवत् ।पदं प्रधानं कष्टाख्यं सर्वं तस्याऽप्यभासत ॥२९॥अन्यायोपार्जितं द्रव्यं मूलमादाय निर्गतम् ।तस्मात् प्रधानता दुष्टा लोभक्रोधादिसंभृता ॥३०॥स्वर्गमोक्षादिहन्त्र्येव विप्रस्य तु विशेषतः ।विप्रस्य योग्यता दैवे सुखदा न तु राजके ॥३१॥सदा क्लेशमयं राज्यं सत्ता पापान्विता सदा ।प्रधानता शाठ्ययुक्ता कथं विप्रस्य मोक्षणम् ॥३२॥गायत्रीजापकालेऽपि राज्यकार्यविचिन्तनम् ।श्रीकृष्णध्यानकालेऽपि शत्र्वादिध्यानमर्षणम् ॥३३॥पूजाकाले महीमानसम्मानादिविधापनम् ।देवदर्शनकालेऽपि चौरदुष्टादिचिन्तनम् ॥३४॥आत्मसाधनकालेऽपि मायासाधनमन्वहम् ।मोक्षसाधनसमये बन्धसाधनमुल्बणम् ॥३५६॥पुण्यसाधनसमये पापसाधनमायतम् ।अहो कष्टपदं नित्यं प्रधानपदमीदृशम् ॥३६॥तस्मात् त्याज्यं प्रधानत्वं सुखनिद्रा न यत्र वै ।शाश्वतश्च न कोशोऽस्ति सा वै त्याज्या प्रधानता ॥३७॥भाग्यरेखा दरिद्रस्य दारिद्र्यमातनोति वै ।यतमानस्य यत्नोऽपि निर्बलो रेखया कृतः ॥३८॥जन्मरेखा बलवती चान्ते स्वस्यां नयत्यपि ।तथा ममापि सम्पन्ना स्थितिः पूर्वेव तापसी ॥३९॥तस्मात् त्यक्त्वा प्रधानत्वं यामि त्वन्यत्र यत् सुखम् ।श्रूयते तु मया नित्यं शुभं लोकमुखादपि ॥४०॥लक्ष्मीनारायणसंहितायाः पारायणं परम् ।वार्षिकं वर्तते नातिदूरे वै शर्करापुरे ॥४१॥विप्रास्तत्र समायाता राजानो राजयोगिनः ।ऋषयः साधवो भक्ता वैष्णवा बहवो जनाः ॥४२॥श्रेष्ठिनश्च नरा नार्यो लक्षाधिमानवाः सदा ।शृण्वन्ति तु कथा दिव्याः पावनास्ते भवन्त्यपि ॥४३॥लक्ष्मीः प्रसन्ना भवति प्रसन्नश्च नरायणः ।पापिनां चाऽवीक्ष्य दोषान् करोति पावनाँस्तु तान् ॥४४॥कृपयैव प्रभुः कृष्णो नारायणः परेश्वर ।आगत्य दर्शनं दत्वाऽक्षरं धाम नयत्यपि ॥४५॥विप्रोऽहं पापसम्पन्नो मे गतिर्नान्यथा शुभा ।गत्वा तत्र कथां श्रुत्वा कृत्वा पापविधूननम् ॥४६॥ब्रह्मगतिं प्रयास्यामि स्यात् साफल्यं जनेर्मम ।असारः खलु संसारः कृतोऽप्यकृत एव सः ॥४७॥विवेकेन तु तं त्यक्त्वा यास्यामि परमां गतिम् ।यद्वा तद्वा कथां श्रुत्वा सद्गतिर्मे भविष्यति ॥४८॥कुटुम्बेन सहितोऽहं ततो याम्यधुना कथाम् ।धर्मकृत्ये चिरता वै विघ्नदा न तु साधिका ॥४९॥धर्मकार्ये त्वात्मकार्ये प्रकुर्वीत द्रुतं मुदा ।प्रातः कालो निवर्तेत न चागच्छेत् पुनः शुभः ॥५०॥विचार्येत्थं बद्रिके स विप्रो विलासदेवकः ।सज्जो भूत्वा कुटुम्बेन सहितः सुविचारवान् ॥५१॥त्यक्त्वा प्रजासमक्षं वै पदं प्राधानिकं तु तत् ।विरामं तु समासाद्य परिहारं विधाय च ॥५२॥निर्ययौ नगरात्तस्माच्छर्करापुरमाययौ ।महोद्याने निजावासं सभामण्डपसन्निधौ ॥९३॥अकरोद्भगवत्प्राप्त्यै मनो दधेऽतिशान्तये ।सस्नौ तीर्थजलैश्चाप्यादायोपदास्ततः स्वयम् ॥५४॥कुटुम्बसहितो विप्रः कथामण्डपमाययौ ।बद्रिके हृदये शान्तिर्विप्रस्य बहुधाऽभवत् ॥९५॥मुक्तागौरी तु तत्पत्नी परां शान्तिमवाप ह ।मण्डपदर्शनं कृत्वा पुत्र्यः पञ्च सुतास्त्रयः ॥५६॥सर्वे शान्तिमगुस्तत्र कृत्वा व्यासस्य दर्शनम् ।संहिताया दर्शनं च लोमशस्यापि दर्शनम् ॥५७॥कृत्वा सतां दर्शनं च 'साध्वीनां दर्शनं तथा ।वैष्णवानामृषीणां च भक्तानां दर्शनं ह्यपि ॥५८॥एवं तेषां दर्शनेन संकल्पा विलयं गताः ।हृदयान्यमलान्येव जातानि मानसान्यपि ॥९९॥उद्वेगा विलयं प्राप्ताश्चिन्ता चित्तान्न्यवर्तत ।दुःखं व्याधिराध्युपाधी सर्वं तद् विलयं गतम् ॥६०॥ब्रह्मसुखं यथा स्याद्वा तथा कृष्णसुखं भवेत् ।मुक्तिसुखं यथा वा स्यात् तथा शान्तिर्व्यवर्तत ॥६१॥अहो स्थानस्य माहात्म्यं मायाजालं लयं गतम् ।अहो दर्शनमाहात्म्यं मनोमलमलीयत ॥६२॥अहो सतां प्रमाहात्म्यं वासना विलयं गता ।दर्शनादेव विप्रस्य तापास्तत्र लयं गताः ॥६३॥तत्र चागत्य पुरतो व्यासस्याऽर्हणमाचरत् ।संहितायाः पूजनं च लोमशस्यापि पूजनम् ॥६४॥सतां प्रपूजनं चापि नीराजनं व्यधादपि ।धूपं दीपं दण्डवच्च नैवेद्यं च फलार्पणम् ॥६५॥जलं पयः शर्करां च न्यधाच्छुभाऽक्षतानपि ।तुलवीपत्रहाराँश्च कुन्दकुसुमहारकान् ॥६६॥चन्दनं कैसरं चापि न्यधात् स संहितान्तिके ।कम्बलान् दिव्यवस्त्राणि भूषाः सौवर्णजा न्यधात् ॥६७॥वेधोपवेषान् रम्याँश्च राजार्हकटकानपि ।न्यधात् कथायाः पुरतो दिव्यरत्नोपदास्तथा ॥६८॥प्रदक्षिणं ततः कृत्वा नत्वा नारायणं हरिम् ।व्यासं सभां ततः कुटुम्बान्वितो मण्डपे द्विजः ॥६९॥निषसाद पुरःस्थाने सभ्यसम्मानितो हि सः ।तत्पत्नीपुत्रिकापुत्राः पुपूजुर्व्यासमुत्सुकाः ॥७०॥नत्वा धृत्वा प्रसादाम्बु मुखे च मस्तकोपरि ।निषेदुश्च सभायां वै श्रोतुं कथां हि पावनीम् ॥७१॥श्रुत्वा जग्मुर्निजावासं त्वेवं निपेयमतन्द्रिताः ।कथां शृण्वन्ति सेवन्ते साधून् महर्षिपुंगवान् ॥७२॥कथाश्रवणतस्तेषां वैराग्यं समपद्यत ।दीक्षां प्राप्तुं समीहाऽपि समजायत वै द्रुतम् ॥७३॥मासान्ते श्रीलोमशो वै मन्त्रं तेभ्यो ददौ पुरा ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७४॥प्रभोनारायणस्वामिन् माधवीन्रायणप्रभो ।जयाकृष्णललितान्रायणराधापते विभो ॥७५॥एवं नामभजनं च ददौ तेभ्यो मुदाऽथ ते ।चक्रुस्तन्नामभजनं नित्यं श्रीकृष्णवैष्णवाः ॥७६॥अथ त्यागाश्रमे स्थातुं समैच्छन् ते कुटुम्बिनः ।प्रार्थयन् वाचकं व्यासं स्वतःप्रकाशकायनम् ॥७७॥व्यासस्तथास्त्विति प्राह चैत्रान्तैकादशीतिथौ ।धवले पक्षके प्रातः प्रायश्चित्तमकारयत् ॥७८॥पापविशोधनं श्राद्धं पितृकार्यमकारयत् ।ऋणापाकरणं चापि ग्रहापाकरणं तथा ॥७९॥कारयित्वा तीर्थविधिं रक्षामन्त्रं ददौ ततः ।'कालमायापापकर्मशनुयाम्यकुहृद्भयात् ॥८०॥शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।रक्षामन्त्रमिति दत्वा प्रपत्तिं प्रददौ ततः ॥८१॥ 'शरणं श्राकृष्णनारायणोऽस्तु मम सर्वदा' ।एवं शरणमन्त्रं च दत्वा ब्रह्ममनुं ददौ ॥८२॥ 'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ॥८३॥ब्रह्मभावमनुं दत्वा चात्मनिवेदनं ददौ ।'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥८४॥पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।'ओं श्रीलक्ष्म्यै महालक्ष्म्यै दुःखमन्त्र्यै श्रियै नमः ॥८५॥ओं मां श्रीबालकृष्णाय समर्पयामि ओं नमः' ।एवं समर्पणं दत्वा काषायाम्बरधोत्रकम् ॥८६॥उत्तरीयं शिरस्त्राणं तथा चाप्यंगरक्षकम् ।गात्ररक्षकमेवापि काषायाम्बरमार्पयत् ॥८७॥यज्ञोपवीतकं कण्ठीं तौलसीं चन्दनं तथा ।मालिकां श्रीकृष्णनारायणमूर्तिं ददौ ततः ॥८८॥एवं नरेभ्यो दत्वा श्रीकृष्णनारायणेति च ।नामजपात्मकं दत्वा नारीभ्यो दीक्षणं ददौ ॥८९॥मन्त्रान् दत्वा च काषायाम्बरशाटीं नवां शुभाम् ।काषायघर्घरीं चापि काषायचोलिकां ददौ ॥९०॥काषायकुचरक्षां च काषायमूर्धकेशलीम् ।यज्ञोपवीतकं कण्ठीं तौलसीं कुंकुमं तथा ॥९१॥मालिकां श्रीकृष्णनारायणमूर्तिं ततो ददौ ।ज्ञानं विस्तारतश्चापि ददौ सर्वार्पणात्मकम् ॥९२॥देहेन्द्रियाऽन्तःकरणैश्चात्मना गुणकर्मभिः ।अर्पणं श्रीकृष्णनारायणे दानात्मकं हि तत् ॥९३॥उपवासस्तपः श्रेष्ठं ब्रह्मचर्यं तपः परम् ।कृष्णचर्या परा भक्तिः पराऽक्षरप्रदा मता ॥९४॥उपवासेन नश्येद् वै कायेन्द्रियाऽघजातकम् ।आन्तराणां भवेच्छुद्धिर्दोषाणां क्षपणं तथा ॥९५॥ब्रह्मचर्येण कामानां निरोधो दोषनाशनम् ।वासनाविलयश्चापि नारकित्वप्रमोक्षणम् ॥९६॥श्रीकृष्णचर्यया सर्वं नैष्कर्म्यमभिजायते ।श्रीकृष्णानुग्रहश्चापि श्रीकृष्णार्थसमस्तता ॥९७॥तद्भक्त्या तद्धामगतिस्तन्मूर्तावभिवासिता ।तदानन्दाशनमात्रं कृष्णतादात्म्यमित्यपि ॥९८॥एवं समुपदिश्यैव प्रसादान्नजलामृतम् ।ददौ तेभ्यश्च ते भक्ता महाभागवतोत्तमाः ॥९९॥त्यागिसन्तो भावभक्त्या पुपूजुर्व्याससद्गुरुम् ।एवं बद्रीप्रिये! लुञ्चादनोऽपि द्विजपुंगवः ॥१००॥कुटुम्बसहितो जातः साधुः प्रधानतां जहौ ।दीक्षानामाऽभवत्तस्य दिव्यप्रकाशकायनः ॥१०१॥त्रिपुत्राणां तु नामानि सुरप्रकाशकायनः ।मुनिप्रकाशायनकः कृष्णप्रकाशकायनः ॥१०२॥पत्नी साध्वी दधे नाम गौरीमुक्तायनीति वै ।पञ्च पुत्र्यो नाम दध्युः-मौक्तिकायनिका तथा ॥१०३॥श्रीसत्तायनिका चेति ब्रह्मधामायनी तथा ।कृष्णकान्तायनी चापि विष्णुकान्तायनीति च ॥१०४॥एवं बद्रीप्रिये त्यागाश्रमे तस्थुः सदा तु ते ।कालान्तरे कृपां प्राप्य ययुर्धामाऽक्षरं हरेः ॥१०५॥दीक्षां वीक्ष्य तदा नार्यो नराश्चापि सहस्रशः ।जगृहुर्वैष्णवीं दीक्षां तत्र त्यागमयीं दिने ॥१०६॥आतुरदीक्षितास्तत्र बहवोऽपि नराः स्त्रियः ।चैत्रशुक्लैकादश्यां ते द्वादश्यामपि केचन ॥१०७॥त्रयोदश्यां चतुर्दश्यां पूर्णायामपि केचन ।दिव्यदेहा अभवँश्च तान्नेतुं श्रीनरायणः ॥१०८॥विमानसहितस्तत्राऽऽययौ निनाय चाक्षरम् ।एवं चाक्षरधाम्नस्तु मार्गं उद्धाटितस्तदा ॥१०९॥अनादिश्रीकृष्णनारायणकान्तेन बद्रिके ।सहस्रशश्चैत्रशुक्ले ययुर्धामाऽक्षरं हरेः ॥११०॥पठनाच्छ्रवणादस्य चमत्काराऽवबोधनात् ।भुक्तिर्मुक्तिर्भवेच्चापि कृपया श्रीपतेः प्रभोः ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने लुञ्चादनस्य विलासदेवविप्रस्य सकुटुम्बस्य राज्यप्रधानस्य कथाश्रवणेन साधुदीक्षाग्रहणमित्यादिनिरूपणनामा द्वाषष्टितमोऽध्याय ॥६२॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP