संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ८५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ८५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८५ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि वह्निरातो गुरुर्नृपम् ।हितमुवाच संगम्य शेषजीवनहेतवे ॥१॥राजन्नन्दिभिल्ल भूप नाशोऽस्माकं प्रजायते ।कृष्णरक्षितसैन्यानां नाशो नास्ति न जायते ॥२॥एकेन कुबरेणैव चमूपा नव नो हताः ।दशसाहस्रसैन्यैश्च नवाऽयुतानि नो हताः ॥३॥पश्य नाशं ततो युद्धं कुरु वा शरणं व्रज ।मा गर्वं वह राजेन्द्र नागवशेऽस्ति माधवः ॥४॥निवर्तस्व प्रजानाशात् सुतरां राज्यनाशतः ।अतितरां स्वनाशाच्च निवर्तस्व पदं व्रज ॥५॥इत्येवं बोधितश्चापि नन्दिभिल्लोऽतिगर्ववान् ।गुरोऽन्तेऽहं स्वयं युद्ध्वा हत्वा सर्वान् समन्ततः ॥६॥वैरनिर्यातनं चान्तं करिष्येऽहं क्षितीश्वरः ।जितो भोक्ष्यामि पृथिवीं मृतो भोक्ष्येऽक्षरं पदम् ॥७॥भयाद् युद्धात् कथञ्चित्तु निवर्तिष्ये न सर्वथा ।युद्धं भवतु सततं धर्मवज्रो विजेष्यति ॥८॥इत्युक्त्वा सहसा चाज्ञां धर्मवज्रो चकार सः ।दशसाहस्रसैन्याढ्ये जयाशाप्रेरितोऽबुधः ॥९॥याहि मारय तान्सर्वान् धर्मवज्र महत्तमान् ।जहि नारायणं पूर्वं ततस्तु नागविक्रमम् ॥१०॥नन्दकुबरं पश्चाच्च भिन्धि छिन्धि चमूस्ततः ।एषोऽहं व्रतमास्थायोपस्थितो हवनेऽनले ॥११॥शत्रुनाशाय हवनं करोमि याहि घातय ।इत्युच्चार्य द्रुतं वह्निशालां विवेश भिल्लकः ॥१२॥वह्निं प्रज्वाल्य चावाह्य स्वमांसैः संजुहाव तम् ।बाहुमांसं सक्थिमांसं निकृत्योत्कृत्य चाऽनले ॥१३॥चिक्षेप 'शत्रुनाशार्थं स्वाहा वह्ने स्थिरो भव' ।वदन्नेवं नन्दिभिल्लश्चकार हवनं तदा ॥१४॥प्रसन्ना वह्नयो मूर्ताः सशस्त्राः सृष्टिदाहकाः ।समुत्पेतुरनलाद्वै दुद्रुवुर्नागविक्रमम् ॥१५॥नारायणं च कुबरं सैन्यानि प्रति दुद्रुवुः ।हाहाकारोऽभवन्नागसैन्येषु वीक्ष्य चानलान् ॥१६॥ज्वालाभिर्व्याप्तदेहाँश्च परसैन्यप्रदाहकान् ।भस्मीभूतानि सैन्यानि रथान् वाहान् प्रकुर्वतः ॥१७॥महाकालस्तथारुद्रः शक्तयश्चाज्ञया हरेः ।उत्पन्नानागतान् मूर्तानग्नीन् दिक्षु विदिक्षु च ॥१८॥भक्षयामासुरत्यर्थं महातेजःस्वरूपिणः ।वह्नयो मूर्तिमन्तस्ते भक्ष्यमाणास्तु चक्रिणा ॥१९॥महाकालेन रुद्रेण शक्तिभिर्भक्षितास्तथा ।परावृत्यैव भिल्लस्याऽभक्षयन् पृतनाऽयुतम् ॥२०॥भीतास्ते वह्नयः कृष्णात् प्रधाव्य दूरतो ययुः ।भिल्लसैन्येषु संक्रुद्धा दावानलं प्रचक्रिरे ॥२१॥भिल्लो विवेद हवने शालायां निजवह्निजम् ।निजसैन्यविनाशं वै तदा हतमना द्रुतम् ॥२२॥बभूव वह्निं पादेन ताडयित्वा क्रुधाऽऽहवे ।शस्त्रास्त्रबाणभूशुण्डीगदामुद्गरखड्गकैः ॥२३॥सहितः सरथो युद्धे पुरो गत्वाऽहनद् बहून् ।नागयोद्धॄन् जघानाऽसौ बाणवृष्ट्याऽतिघट्टया ॥२४॥धर्मवज्रस्तदा चैन्द्रजालिकं रूपमादधात् ।नागरूपं समगृह्य नारायणरथं ययौ ॥२५॥आरुरोह रथं नत्वा श्रीकृष्णं वल्लभाऽऽर्यकम् ।तावच्छ्रीदुर्गया देव्या गदया प्रहतो रथात् ॥२६॥निपपात क्षितौ तूर्णं समुत्थाय गदाधरः ।खड्गहस्तो दधावाऽति हन्तुं तु नागविक्रमम् ॥२७॥महाकालो गदया तं पोथयामास तत्क्षणम् ।समुत्थाय द्रुतं खड्गं धृत्वा द्रुद्राव कूबरम् ॥२८॥रुद्रस्तत्र स्थितस्त्वेनं जघान मुद्गरेण ह ।तस्मात्ताडनवेगाच्च क्षितावुत्तानतोऽपतत् ॥२९॥समुत्थाय ययौ नैजं रथं यावत्तु तावता ।कूबरेण हतः सूतो हता अश्वाः शराष्टकैः ॥३०॥दग्धो रथश्च वह्निस्रक्शरैर्धर्मव्रजस्य ह ।धर्मवज्रो रथात्तूर्णं त्वपसृत्य विमानके ॥३१॥व्योमवाटे चोपविश्य नागसैन्यानि चाऽहनत् ।अधोमुखैर्वह्निशस्त्रैर्गोलार्धसायकादिभिः ॥३२॥नन्दिभिल्लोऽपि सहसा विमानमधिरुह्य च ।शस्त्रवर्षामकरोद्धि व्योममार्गात् समन्ततः ॥३३॥अन्येऽपि शेषयोद्धारो वैमानिका विमानकैः ।नन्दिभिल्लाज्ञया शस्त्रवृष्टिं चक्रुस्तदाऽम्बरात् ॥३४॥अथ वीक्ष्य कृष्णनारायणो विमानयोधनम् ।सहसा स्वविमानैः स्वान् योद्धुमाज्ञां ददौ तु खे ॥३५॥तदा बद्रीप्रिये! नागविक्रमो नन्दकूबरः ।सैन्येश्वरा भटाश्चापि विमानेष्वधिरुह्य च ॥३६॥वैमानिकं महायुद्धं चक्रिरे सर्वनाशकम् ।हरिस्तदा विचार्यैव दुर्गां तु गतिरोधिनीम् ॥३७॥प्राह शत्रुविमानानां गतिरोधान् समाचर ।निपातय क्षितौ शत्रुविमानानि समन्ततः ॥३८॥इत्युक्ता रोधिनीदुर्गा चाध्यात्मदेवतात्मिका ।नन्दिभिल्लविमानानां गतिं रुरोध सर्वथा ॥३९॥गरिमानामदुर्गा च गुर्वी गुर्वीतमा स्वयम् ।विमानेषु महाभारं दधार तेषु वै द्रुतम् ॥४०॥अवतेरुर्निपेतुश्च क्षितौ विमानकानि वै ।गन्तुं नैव समर्थानि भाराक्रान्तानि सर्वतः ॥४१॥तद्गता योद्धृवर्गाश्च हताः शस्त्रादिभिस्तदा ।नागवैमानिकैर्बद्रि ततस्ते शरणं ययुः ॥४२॥धर्मवज्रोऽपि शरणं चाययौ नागवैक्रमम् ।नन्दिभिल्लोऽसहमानः खड्गमादाय दीर्घकम् ॥४३॥हन्तुं नागं प्रदुद्राव विमानमारुरोह च ।तावत्तु कालकालेन महाकालेन विधृतः ॥४४॥केशेषु मस्तके वह्नि नागविक्रमरूपिणा ।खड्गेन तत्करौ छित्वा पातितौ खड्गभूषणौ ॥४५॥गदया पोथितः सोऽपि पपात रणमूर्धनि ।महाशक्त्या भिन्नवक्षा मुमुर्षुः स्तवनं व्यधात् ॥४६॥नन्दिभिल्ल उवाच-नमो नमस्ते निजरक्षकाय नमो नमस्तेऽन्यविनाशकाय ।नमो नमस्ते शिवसंग्रहाय कलाधिनाथाय नमोनमस्ते ॥४७॥नमो नमस्ते बहुमोहनाय नमोऽतिगर्विष्ठसुशासकाय ।नमो हृदिस्थाय परेश्वराय चाऽनादिनारायण ते नमोऽस्तु ॥४८॥नमोऽक्षरेशाय परावराय नमो नमस्तेऽखिलकारणाय ।नमः समस्तांगजतत्त्वगर्भप्रपूरकायाच्युत ते नमोऽस्तु ॥४९॥नमोऽवतारिन्नवतारधर्त्रे ह्यनन्तमुक्ताऽभिनिषेविताय ।अनादिकृष्णाय परेश्वराय नारायणायेति नमोऽस्तु तुभ्यम्॥५०॥श्रीकान्तरूपाय रमेश्वराय राधाधिनाथाय नमो नमस्ते ।नमोऽस्तु ते श्रीपुरपालकाय भूमन्नमस्ते ललितेश्वराय ॥५१॥सर्वेश्वरीशाय समस्तसर्वेश्वरेश्वरेशाय नमोऽस्तु तुभ्यम् ।वैराजनाथाय जगन्नियन्त्रेमायेश्वरायाऽच्युत तेनमोऽस्तु॥५२॥पितॄर्षिदेवर्षिशरीरकाय चराचरान्तःस्थ च ते नमोऽस्तु ।श्रीमाणिकीपाशवतीश्चरायप्रशाधिनाथाय नमोऽस्तु तुभ्यम॥५३॥ब्रह्मप्रियावामनिवासकाय हरिप्रियाद्याभिरभिष्टुताय ।कृतस्थली कुंकुमवापिकाय गोपालबालाय नमो नमस्ते ॥५४॥श्रीकंभरामातृभवाय कृष्णनारायणश्रीश च ते नमोऽस्तु ।साधुस्वरूपाय मखात्मकाय स्वामिन्नमस्ते रणरञ्जनाय ॥५५॥जन्मस्थितिभ्रंशकराय विष्णो जिष्णो नमस्ते परमेश्वराय ।सद्भक्तलभ्याय कृपावशाय शक्ताय कालाय नमो भवाय ॥५६॥रुद्राय बाणाय रथाय शास्त्रे यमाय धर्माय नमो द्विजाय ।प्राणायजीवाय तदात्मनेतेऽन्वितायरिक्तायनमोऽव्ययाय॥५७॥नागस्वरूपाय मदन्तकाय हृद्याय निर्वाणकराय धात्रे ।शीघ्रं शरण्यं त्वमभिप्रपद्य नयाऽक्षरं मोक्षपदं हरे माम् ॥५८॥कृतापराधं बहुगर्वदृब्धं परश्रियं वीक्ष्य सदा ज्वलन्तम् ।रणे स्थितं प्राणगतिं त्यजन्तं क्षमाप्य सर्वं नय मोक्षणं ते ॥५९॥सर्वज्ञ सर्वेश समस्तचक्षुःसमस्तकर्णाऽत्ममनस्सु संस्थ ।दिव्यंनिजं दर्शनमत्र देहि मृतान्समस्ताँश्च समुद्धराऽत्र॥६०॥हरेऽग्निरातेन विबोधितेन मयापि गर्वादवमानितस्त्वम् ।अतोषदावानलमध्यमाप्तं समुद्धर श्रीश विधेहि दिव्यम् ॥६१॥स्वर्गं यथा वा नरकं मदर्थं यदस्ति तत्तेऽर्पितमत्र कृष्ण ।प्रपन्नजीवं परलोकयानं नयाऽक्षरं धाम विनाश्य पापम् ॥६२॥हरे कृष्ण हरे विष्णो कृष्णनारायण प्रभो ।तवास्मीति तवास्मीति मोक्षं मा नय माधव ॥६३॥इत्युक्त्वा मौनमादाय कृताञ्जलिर्हृदन्तरे ।विवेश नन्दिभिल्लो वै स्मरन् ध्यायन् प्रभुं पतिम् ॥६४॥बद्रिकेऽथ तदा कृष्णनारायणो निजाद् रथात् ।उत्प्लुत्य नन्दिभिल्लाय दातुं दर्शनमाययौ ॥६५॥नेत्रयोर्गोचरः कृष्णोऽभवद् दिव्यस्वरूपवान् ।हस्तेन कल्पितं वारि नन्दिभिल्लमुखेऽददात् ॥६६॥दग्धपापस्तदा नन्दिभिल्लः पीत्वा हरेर्जलम् ।त्यक्त्वा दिलावरीं पृथ्वीं विमानेनाऽक्षरं ययौ ॥६७॥दिव्यदेहो हरेर्दासो धाम्न्यक्षरे व्यराजत ।तथा तत्र रणे नष्टा हता ये तान् कृपावशः ॥६८॥कृष्णनारायणो मोक्षे निन्ये वैकुण्ठप्रभृतौ ।नन्दिभिल्लस्य नाशेन तत्सैन्यानि द्रुतं हरेः ॥६९॥शरणं त्वाययुः शेषमानवा भयविह्वलाः ।विजयस्य महाशंखनादं चकार कूबरः ॥७०॥नागविक्रम एवाऽऽजौ ध्वजं चकार चाम्बरे ।कृष्णनारायणस्तत्र दध्मौ शङ्खं जयार्थदम् ॥७१॥सैन्यानि श्रीकृष्णरक्षितानि दध्मुर्हि वारिजान् ।भेरीश्च ताडयामासुर्व्यधुर्महोत्सवाँस्तथा ॥७२॥जयो नागस्य च हरेर्जयोऽपि कुबरस्य च ।कालरुद्राऽजशक्तीनां विजयोऽस्तीत्यघोषयन् ॥७३॥विरेमुर्युद्धतः सर्वे बद्रिके लूनिकातटे ।विशश्रमुर्यथास्थानं शवानां मार्गणं तथा ॥७४॥मृतानां जीवतां चापि व्यवस्थां चक्रिरे भटाः ।सजीवाः श्रीकृष्णनारायणेन कृपया द्रुतम् ॥७५॥स्पृष्टाः करेण युगपत् तावत्स्वरूपधारिणा ।नौरुजश्चाऽक्षताश्चापि स्वस्थाः पूर्णाऽसवोऽभवन् ॥७६॥अथ ये तु शवास्तत्र नद्यां गर्तेषु गह्वरे ।भूतले रणभूमौ च तेषामन्त्यविधिः कृतः ॥७७॥अथोत्सवं नागराजश्चकार युद्धपत्तने ।विजयोत्सवमासाद्य ददौ दानानि सर्वशः ॥७८॥प्रजाः प्रददुरुपदा राज्ञे जयनिमित्तिकाः ।कृष्णस्य पूजनं चक्रुर्जयप्रदाय चक्रिणे ॥७९॥अथ बद्रीप्रिये कृष्णनारायणः पुमुत्तमः ।इयेष नागराजाय दातुं दिलावरीं पुरीम् ॥८०॥नागविक्रमराजानं प्राह कृष्णस्तथेच्छया ।राजन् राज्यं हिमशैलाद् विन्ध्याचलान्तकं शुभम् ॥८१॥नन्दिभिल्लस्य साम्राज्यं त्वयि न्यस्तुं हि कांक्षये ।भव सज्जस्ततस्तूर्णं युद्धसैन्यसमस्तकः ॥८२॥आयामि यामुनीं रम्यां पुरीं दिलावरीं प्रति ।तत्राऽभिषेको भवतः कर्तव्योऽस्ति मया नृप ॥८३॥बद्रिके कृष्णवचनं प्राप्येव नागविक्रमः ।तूर्णं सैन्ययुतः कृष्णयुतो दिलावरीं पुरीम् ॥८४॥ययौ तत्र नन्दिभिल्लीसभासमाजमाह्वयत् ।प्रकाशं प्राह राजाऽसौ सर्वसमाजसन्निधौ ॥८५॥युद्धे कृष्णसहायेन मया प्राप्ता दिलावरी ।नगरी मध्यखण्डस्था यामुनीसदृशी पुरी ॥८६॥हिमवद्विन्ध्ययोर्मध्ये राज्यं श्रीकृष्णसात्कृतम् ।मया भक्तेन वै कृष्णो राज्यं करोतु सर्वथा ॥८७॥इत्येवं नागराजो वै भिल्लीसभासमाजके ।व्याजहार तदा कृष्णः प्रकाशं प्रत्यबोधयत् ॥८८॥शृण्वन्तु सर्वराज्येष्टाः प्रजा राजा सुखावहम् ।मया भक्तस्य नागस्य यज्ञः प्रकारितः शुभः ॥८९॥अप्रसह्य यशस्तस्य नन्दिभिल्लो रणं व्यधात् ।जितो नागेन सहसा नागराज्यं ततस्त्विदम् ॥९०॥दिलावरीपुरीराज्ये साम्राज्ये नागविक्रमम् ।अभिषिञ्चामि कृष्णोऽहं स सम्राडस्ति वोऽधुना ॥९१॥इत्युक्त्वा श्रीकृष्णनारायणो भिल्लिसभासने ।साम्राज्यमुकुटं कृष्णो ददौ नागाय मस्तके ॥९२॥महासाम्राज्यमासाद्य नागराजोऽपि बद्रिके ।ददौ दानानि विप्रेभ्यो ग्रामान् देशांश्च वाटिका ॥९३॥स्वर्णरत्नगृहक्षेत्रधेनुवाजिगजादिकान् ।कन्यादानानि च ददौ तथा धनानि सम्पदः ॥९४॥मृधे मृतानां श्रेयोऽर्थं श्राद्धयज्ञं चकार सः ।एवं राज्यध्वजं राजालये चाऽऽरोप्य माधवः ॥९५॥कृत्वा सम्राण्महाभूपं नागविक्रमणं नृपम् ।व्यवस्थां कारयामास राज्यस्य शोभनां हरिः ॥९६॥सैन्यपेभ्य उपदादि ददौ भटेभ्य इत्यपि ।तोषयामास भगवान् सर्वदेहिभ्य आपणैः ॥९७॥परिहारं चकारैव नागाह्वये पुरे प्रभुः ।नागनाम्ना पुरी नागाह्वया ख्यातिं गमिष्यति ॥९८॥भिल्लीसभाभिधानेन भिल्लीनाम्नाऽपि सा पुरी ।दिलावरीसतीनाम्ना दिलावरी भविष्यति ॥९९॥तन्नाम्ना नगरी सापि दिलावरीति यामुनी ।राजधानी शाश्वतीयं कल्पान्ता संभविष्यति ॥१००॥इत्येवं बद्रिके सर्वं व्यवस्थाप्य नरायणः ।विमानेनाऽऽययौ नैजां कुंकुमवापिकापुरीम् ॥१०१॥पठनाच्छ्रवणादस्य स्मरणात् पापसंहृतिः ।भुक्तिर्मुक्तिस्तथा शान्तिर्मिलेदन्तेऽक्षरं पदम् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने धर्मवज्रादिसेनापतीनां नागविक्रमशरणागमः, विमानयुद्धं, नन्दिभिल्लनृपमृत्युकालीनस्तवनम्, श्रीकृष्णनारायणकृतमोक्षणम्, दिलावरीसाम्राज्यं नागविक्रमे भगवता निहितं चेत्यादिनिरूपणनामा पञ्चाशीतितमोऽध्यायः ॥८५॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP