संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २४ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २४ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि श्रेयसे श्वशुरो हरिम् ।पप्रच्छाऽऽत्यन्तिकं मोक्षं कथं स स्याद् वदात्र मे ॥१॥जामाता श्रीबालकृष्णोऽवतारी पुरुषोत्तमः ।उपादिदेश निकामदेवाय मोक्षसाधनम् ॥२॥पूज्यतम श्वशुराऽत्र वदामि मोक्षसाधनम् ।मोक्षयोगं सुसुलभं दुर्भाग्यानां तु दुर्लभम् ॥३॥साक्षात् कृष्णप्रसंगेन मुच्यते भवबन्धनात् ।कृष्णे सर्वस्वदाता वै मुक्तो भवति मायिकात् ॥४॥कन्यां कृष्णाय दाता वै याति मत्परमं पदम् ।कृष्णतादात्म्यमापन्ना कन्योद्धरति तत्कुलम् ॥५॥कृष्णनारायणभक्त्या मानवा यान्ति तत्पदम् ।श्रीकृष्णमन्दिराऽऽवासा वसन्ति चाऽक्षरे ततः ॥६॥श्रीकृष्णे कृतविश्वासा मोक्षं यान्ति हि शाश्वतम् ।यस्य नारायणी पुत्री स? मोक्षगतो हि सः ॥७॥कुंकुमवापिकातीर्थं तारयत्येव वासिनम् ।सत्संगो मोक्षदश्चास्ति कृतो नारायणे परः ॥८॥सतां समागमः श्रेष्ठश्रेयसः साधनं सदा ।सतीसाध्वीप्रसंगेन नार्यो यान्ति परं पदम् ॥९॥सेवया प्राप्यते सतां प्रसन्नता तया हरिः ।हरेः प्राप्तौ परा प्राप्तिर्मोक्षार्थं नैव विद्यते ॥१०॥एषा तु सुलभा विप्रवर्य भवता चार्जिता ।प्राप्तव्यो विद्यते नाऽन्यः ततोऽहं परमेश्वरः ॥११॥नारायणीं महालक्ष्मीं नारायणं परेश्वरम् ।ध्यात्वा स्नेहेन सेवित्वा मुच्यते कर्मबन्धनात् ॥१२॥सोऽहं नारायणश्चाऽस्मि लक्ष्मीश्च बालयोगिनी ।या सा बद्रीप्रिया बद्रिकाश्रमेऽस्ति मम प्रिया ॥१३॥बद्रिका सा भवत्पुत्री मम भार्या त्वयाऽर्पिता ।एवं मां तां भवान् ध्यात्वा मद्रूपः संभविष्यति ॥१४॥श्रेयसे त्वाययोः साक्षात्सेवाज्ञानं भवद्धितम् ।तत् कृत्वाऽत्र महत्तीर्थे स्वयं मोक्षं गमिष्यसि ॥१५॥गुरुदेवर्षिसिद्धर्षिसेवा साधुसमागमः ।ब्रह्मात्मवेदनं भक्तिर्मोक्षसाधनमुत्तमम् ॥१६॥मोक्षयोगो महानस्ति सर्वयोगेश्वरः सुखः ।हरेर्मूर्तिः सदा योगो मोक्षयोगो महत्तमः ॥१७॥मूलं संसारवृक्षस्य ममाऽहं चेति नित्यदा ।तन्ममाऽहं परे कृष्णे योजितं मयि मोक्षकृत् ॥१८॥अहं मायांकुरो बोध्यो वासना मूलमेव सा ।ममेति स्कन्धवान् वृक्षः शाखाः क्षेत्रगृहाणि च ॥१९॥दाराः सख्यः पल्लवाश्च धनधान्यादिपत्रिकाः ।पापमञ्जरिकाव्याप्तो दुःखादिमलदस्तथा ॥२०॥तस्य प्रछित्तये कृष्णमाहात्म्यज्ञानमुत्तमम् ।अर्जयित्वा विद्ययाऽहंवृक्षश्छेद्यो हि पण्डितैः ॥२१॥ततो ब्रह्मरसं पीत्वा दिव्यतृप्तिप्रदं परम् ।प्रयान्त्येव परब्रह्म प्राज्ञा निर्वृत्तिमुत्तमाम् ॥२२॥नाऽयं देहो हि विप्रोऽस्ति नाऽऽत्मा वा विप्र उच्यते ।वित्तिं प्राप्तो हरेर्यः स विप्रो माहात्म्यवित्तियुक् ॥२३॥त्वमहं चेति संसारो भिन्नवासनया कृतः ।मयि विप्रेश्वरे कृष्णेऽर्पणात् त्वमादि लीयते ॥२४॥गृहं दारा धनं वंशो लीयन्ते चास्य वासनाः ।तद्गृहं यत्र वसति सा दारा दीर्यते यया ॥२५॥तद्धनं यत्सहायार्थं वंशः स यस्तु शाश्वतः ।नारायणो गृहं नित्यं दारा बुद्धिः प्रमोक्षिणी ॥२६॥भक्तिर्धनं दूरमार्गे सहायदं तथाऽव्ययम् ।वंशः स एव मुक्तानां वंशा ये ते मताश्च नः ॥२७॥ब्रह्मरसो महद् भोज्यं येन जीवति सर्वदा ।यन्मुक्तये कृतं तद्वै पुरुषार्थः प्रकीर्तितः ॥२८॥मूर्ध्नि कण्ठे ललाटे च हृदये च निजे हरिम् ।ध्यायेदात्मनि चात्मस्थं यः स मुच्येत बन्धनात् ॥२९॥निकामदेव कामानां यदा लयो मयीश्वरे ।तदा निष्कामतामेत्य ब्रह्मरसान् समश्नुते ॥३०॥यथाऽग्निर्वर्धते काष्ठैस्तेजस्वी जायते बहुः ।काष्ठानि संविधायैव भस्मरूपाणि नान्यथा ॥३१॥तथाऽऽत्मा वर्धते पुण्यैः सुप्रकाशः प्रजायते ।पुण्यानि भस्मसात् कृत्वा ब्रह्मरसं समश्नुते ॥३२॥पुण्यं वा यदि वा पापं महारण्यं भवाय तत् ।पुण्यपापेऽर्पयित्वा मे महामोक्षं प्रविन्दति ॥३३॥ज्ञात्वा मां परमात्मानं स्वात्मस्थं स्वामिनं पतिम् ।प्रभुं दिव्यगुणागारं मुच्यते ब्रह्मरूपभाक् ॥३४॥अहं ब्रह्म परब्रह्मलग्नोऽस्मि स्थूलवर्जितः ।अहं ब्रह्म परब्रह्मलग्नोऽस्मि सूक्ष्मवर्जितः ॥३५॥अहं ब्रह्म परब्रह्मलग्नोऽस्मि हेतुवर्जितः ।अहं ब्रह्म परब्रह्मलग्नोऽस्मि व्योमवर्जितः ॥३६॥अहं ब्रह्म परब्रह्मलग्नोऽस्मि स्थानवर्जितः ।अहं ब्रह्म परब्रह्मलग्नोऽस्मि मात्रवर्जितः ॥३७॥अहं ब्रह्म परब्रह्मलग्नोऽस्मीन्द्रियवर्जितः ।अहं ब्रह्म परब्रह्मलग्नोऽस्मि प्राणवर्जितः ॥३८८॥अहं ब्रह्म परब्रह्मलग्नोऽस्मि चार्थवर्जितः ।अहं ब्रह्म परब्रह्मलग्नोऽस्मि दिव्यतान्वितः ॥३९॥अहं ब्रह्म परब्रह्मप्रभ्वऽस्मि ज्ञानभानवान् ।परब्रह्मणि लग्नोऽस्मि शेषो दासश्च किंकरः ॥४०॥नान्यन्मे रोचते कृष्णमन्तरा दृष्टिसृष्टिषु ।इत्येवं त्वात्मनो ब्राह्मीं भां ज्ञात्वा मुच्यते भवात् ॥४१॥ततो न मरणं दुःखं न रोगो नरकं न च ।न पापैर्युज्यते विज्ञो निरये न च पच्यते ॥४२॥न गर्भे न तथा बाह्ये वासोऽस्य मायिकः क्वचित् ।कृष्णनारायणं प्राप्तः श्वेतनारायणो हि सः ॥४३॥भक्त्या च सेवयोपासनया मां लभते स हि ।ध्यानेन कीर्तनेनापि पूजनेन जपेन मे ॥४४॥स्तवनेन व्रतेनाऽपि दानेन च मखेन च ।मय्यर्पितेन सर्वेण शुद्धात्मा ब्रह्म जायते ॥४५॥नारायणेतिमन्त्रेण कृष्णनारायणेन च ।अनादिश्रीकृष्णनारायणेन याति मोक्षणम् ॥४६॥मम भक्त्या निःकृष्टोऽपि सर्वमाप्नोति चोत्तमम् ।स्वर्गं वा शाश्वतानन्दाऽक्षरं धाम प्रयात्यपि ॥४७॥तुष्याम्यहं यथा भक्त्या सेवया चार्पणेन च ।तथा नाऽन्येन तुष्यामि तुष्यामि साधुसेवया ॥४८॥महतां श्रेयसां मूले प्रसवः पुण्यसन्ततेः ।जीवितस्य फलं स्वादु स्मरणं मे सदा द्विज ॥४९॥मुञ्चन्त्यश्रूणि संहर्षात् संप्रहृष्टतनूरुहाः ।गायन्ति सामसूक्तानि मयि वासं गता जनाः ॥५०॥परब्रह्म प्रगायन्तो ब्रह्मरूपेतिसंस्थिताः ।भक्त्या प्रणामकर्तारो वैष्णवाः पावना भुवि ॥५१॥श्रीभक्तजनवात्सल्यं कृष्णभक्तानुमोदनम् ।हरिलीलाश्रवःप्रीतिं प्राप्तानां सफलो भवः ॥५२॥येन सर्वार्पणेनैव कृष्णे भक्तिर्निवेदिता ।भावो निवेशितः कृष्णे महाभागवतो हि सः ॥५३॥अर्चयत्येव मां नित्यं ध्यायति मां रटत्यपि ।सर्वरागविनिर्मुक्तो म्लेच्छो विप्रोत्तमो हि सः ॥५४॥मोक्षगत्यै प्रवृत्तो यो मत्कृपापात्रमेव यः ।पावनः स मनुष्याणां स पूज्यः स यथा हरिः ॥५५॥पुनाति श्रीहरेर्भक्तश्चाण्डालोऽपि तु पावनः ।यद्गृहे श्रीहरिश्चास्ते यच्चित्ते श्रीनरायणः ॥५६॥तस्मै देयं ततो ग्राह्यं पावनः पापिनां हि सः ।श्रुत्वाऽन्यं पापिनं पापमुक्तये स्तौति मां हि सः ॥५७॥दयां कुरु प्रपन्नाय तवाऽस्मीति दयां कुरु ।एवं भूताऽभयदस्य वशे कृष्णो हि वर्तते ॥५८॥वेदमन्त्रिसहस्रेभ्यो व्रत्ययुतेभ्य एव च ।तापसानां कोटितश्च कृष्णभक्तो विशिष्यते ॥९९॥एकान्तिनो हरेर्भक्ता दिव्येन वर्ष्मणाऽक्षरम् ।तेनैव वपुषा भक्त्या यद्वा यान्ति परं पदम् ॥६०॥एकान्तज्ञानभक्त्याढ्यश्चानन्यभावसंभृतः ।हरेः प्रियतमो नित्यं भक्तावव्यभिचारवान् ॥६१॥आपत्स्वपि न मुञ्चेत प्रीतिं मय्यनपायिनीम् ।मां स्मरन् मां चाश्रयँश्च मे चित्तान्नोपसर्पति ॥६२॥नाऽधीतो न मखी नैव व्रती नाऽऽचारवान्नपि ।भक्तिं मे वहते यस्तु कृत्यकृत्यः स वै मतः ॥६३॥तपसां च मखानां च वेदानां पारगा अपि ।विना भक्तिं गतिं नैव यान्ति यां भक्तियोगिनः ॥६४॥यः कश्चिच्छ्रीकृष्णभक्तोऽप्यनाचारोऽप्यनाश्रमी ।तथापि जगतां सूर्य इवोदितः स पावनः ॥६५॥अपि पापप्रयोगाश्च देहेन्द्रियवशा जनाः ।भक्ता मे यान्त्यक्षरं यन्नारायणपरायणाः ॥६६॥दृढा नारायणे भक्तिर्येषां चाऽव्यभिचारिणी ।तुच्छं स्वर्गसुखं तेषां भक्तिः शाश्वतमोक्षदा ॥६७॥कर्ममयेऽत्र संसारे प्रपन्नानां करात् प्रभुः ।भुंक्तेऽन्नजलताम्बूलं तुष्टो भवति मोक्षदः ॥६८॥यो न कृष्णं भोजयति न पाययति सेवते ।पूजयत्येव नैवाऽपि तस्य सर्वं निरर्थकम् ॥६९॥कथां न संशृणुते स बधिरो माययाऽऽवृतः ।दर्शनं कुरुते नैव सोऽत्राऽन्धोऽज्ञानसंवृतः ॥७०॥नाम्नां च कीर्तने मेऽत्र न यस्य पुलकोद्गमः ।हृदुल्लासोऽपि नैवाऽस्ति सोऽस्ति कुणप एव ह ॥७१॥मयि भक्तिमतां विप्र मुक्तिर्दासीव वर्तते ।मय्यनन्यमनसा तु सर्वथा भवसंक्षयः ॥७२॥यमोऽपि स्वदूतवर्गान् प्रातर्गदति नित्यशः ।वैष्णवान् वर्जयित्वैव चरन्त्ववैष्णवान् प्रति ॥७३॥नाऽहं वैष्णवभक्तानां प्रभुर्दण्डधरोऽपि सन् ।अनाचारी दुराचारी विष्णुभक्तो हि मुच्यते ॥७४॥अनन्यभक्तिमान् कृष्णे कृष्णनिश्चयशोभनः ।साधुधर्मा परो दिव्यो भवत्येव स उत्तमः ॥७५॥यस्य भक्तिः स्थिरा कृष्णे प्रत्यणु वर्ष्मणि स्थिता ।सर्वार्थास्तस्य करगा मुक्तिर्हस्तेऽस्य वर्तते ॥७६॥मया विनिर्मिता माया सर्वेषां बन्धनप्रदा ।या सा तस्य भवत्येवाऽनुकूला भक्तिमोक्षदा ॥७७॥तरन्ति ते मम मायां प्रपद्यन्ते तु मां धिया ।भक्त्या तुष्यामि श्रीनाथः सेवया यावदात्मना ॥७८॥नान्योपायैस्तुष्टिमेमि यथैमि चार्पणात्मना ।संसारो गारलो वृक्षस्तस्य फले शुभे युगे ॥७९॥मयि स्नेहमयी भक्तिस्तथा साधुसमागमः ।पितरस्तस्य तुष्यन्ति प्रनृत्यन्ति पितामहाः ॥८०॥सत्संगं च तथा भक्तिं कुर्वन् कुलेऽस्ति चेज्जनः ।जलान्नानि मया विप्र निर्मितानि प्रशान्तये ॥८१॥तथापि नैव मां लोका भजन्ते मोहसम्पदः ।पापा द्विष्टा मम स्मृत्या यान्त्यमायं पदं मम ॥८२॥जडा अपि जना ये मच्छरणं संगता भुवि ।तेऽपि मायामतिक्रम्य प्रयान्ति परमाऽक्षरम् ॥८३॥नमस्यो जायते देही नमस्कारपरोऽपि मे ।योऽहमन्तर्निविष्टोऽस्मि हृदयालयशोभनः ॥८४॥मम योगेन दिव्यो मे भक्तो मुक्तोऽस्ति सर्वदा ।तं सर्वसाक्षिणं कृष्णं नमस्येत हृदाऽनिशम् ॥८२॥नमस्कारे सुशक्तोऽपि न मां नमस्करोति यः ।सोऽत्र मग्नो महाघोरे संसारे न तरिष्यति ॥८६॥कृष्णनारायणे चैका मयि भावनमस्कृतिः ।पुनाति सद्यश्चाण्डालं किमुताऽन्यजनानिह ॥८७॥कृत्वा सुदण्डवन्नारायणं मां प्रणमेत्तु यः ।स प्राप्नोति गतिं श्रेष्ठां सहस्रमखजोर्जिताम् ॥८८॥संसारे दुष्टकान्तारे धावतां देहिनामिह ।मयि कृष्णे नमस्कारो विश्रान्तिदश्च तारकः ॥८९॥आसीनो वा शयानो वा भुञ्जानो विहरन्नपि ।अनादिश्रीकृष्णनारायणाय नम उच्चरेत् ॥९०॥मम नाम सुलभं वै जिह्वा दत्ता तदर्थिनी ।तथापि न गृणन्त्येते नारकाः किं तदद्भुतम् ॥९१॥अनन्तसृष्टिजा व्यासाः शेषाश्चाऽनन्तरूपिणः ।मम लीलाचरित्राणां नाम्नां नान्तं प्रयन्ति ते ॥९२॥मतिक्षयान्निवर्तन्ते न मे गुणक्षयात् क्वचित् ।अवशोऽपि वदेत् कृष्ण मुच्यते सर्वबन्धनात् ॥९३॥बद्धः परिकरस्तेन सर्वथा चाऽक्षरं प्रति ।स्वप्नेऽपि मां स्मरत्येषो मोक्षाय कल्प्यते द्विजः ॥९४॥नमः श्रीबालकृष्णाय श्रीकृष्णस्य शुभाय च ।वहन् भावेन भक्तोऽसौ यमाय नैव कल्पितः ॥९५॥सूर्योदयेऽन्धतमसां क्षयवन्मम कीर्तने ।पापानां जायते विप्र क्षयो मोक्षस्ततोऽपि च ॥९६॥पाथेयं श्रीकृतणनारायणनाम महाध्वनि ।गच्छतां मध्यलोकानां विघ्नानां विनिवारकम् ॥९७॥श्रीकृष्णश्रीकृष्णनारायणश्रीकृष्णमाधव ।जपन्नरोऽक्षरं याति युगेषु सर्वदा सदा ॥९८॥जिह्वायां श्रीबालकृष्णहरे यस्य स मोक्षगः ।सर्वसारोत्तमसारश्चाराधनं हरेर्मम ॥९९॥पूज्योऽसि मच्छ्वशुरोऽसि नारायणीपिताऽसि च ।सर्वथा चानुग्राह्योऽसि मोक्षे स्थितोऽसि मानद ॥१००॥जामातारं च मां लब्ध्वा दत्वा दानं सुतात्मकम् ।किमन्यच्छिष्यते मोक्षे निकामदेव मे वद ॥१०१॥सम्पन्नं सर्वकार्यं ते निष्पन्नं मोक्षणं शुभम् ।कृतकृत्योऽसि भगवन् मद्रहस्यं तवोदितम् ॥१०२॥प्रभोकृष्ण जयकृष्ण माधवीकृष्ण संजपन् ।श्रीकृष्ण ललिताकृष्ण जपन् याहि ममाऽक्षरम् ॥१०३॥बालायोगिनिकाकृष्ण बालाकृष्णेति संजपन् ।मे कृष्णो वल्लभः स्वामी जपन् याहि ममाऽक्षरम् ॥१०४॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने निकामदेवाख्येन मोक्षयोगं प्रति पृष्टः श्रीकृष्णनाराणस्तस्मै मोक्षयोगमुपादिदेशेतिनिरूपणनामा चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP