संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ४९

तिष्यसन्तानः - अध्यायः ४९

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच
शृणु बद्रीप्रिये देवि चक्रिण्याः शोभनां कथाम् ।
आसीत् कालान्तके राष्ट्रे गण्डवाताभिधा सती ॥१॥
भार्या सा यास्कवादस्य चक्रिणो यन्त्रकारिणः ।
पुत्रपुत्रीयुता चापि कुटुम्बिनी सुविश्रुता ॥२॥
यस्या गृहे लोहयन्त्राण्युत्पद्यन्ते सहस्रशः ।
इक्षुपेषणयन्त्राणि तिलपेषणकानि च ॥३॥
बीजपेषणयन्त्राणि रसोत्पादनकान्यपि ।
एवंविधानि लौहानि धातुजानि भवन्ति च ॥४॥
कलाभिर्धातुरसजान्यपि प्रढालकानि च ।
यंत्राणां विक्रयं सा तु करोति नित्यमेव ह ॥५॥
क्रयं करोति बीजानां तैलार्थं सर्वतस्तथा ।
निजगृहेऽपि यन्त्राणि चलन्ति विंशतिस्तदा ॥६॥
भ्रमन्ति तैलपेषाणि चेक्षुपेषाणि विंशतिः ।
चक्राणां विक्रयं नित्यं भग्नानां योजनं पुनः ॥७॥
सन्धानं खण्डितानां च कारयत्यपि सा सती ।
यस्या वशे कर्मचाराः सहस्रशो भवन्ति वै ॥८॥
सहस्रशः कर्मचारिण्योऽपि कुर्वन्ति तत्क्रियाः ।
प्रवर्तन्ते तु यन्त्राणि महिषोष्ट्रखरादिभिः ॥९॥
नाणकानि प्रलभ्यन्ते सहस्राणि दशाऽन्वहम् ।
एवंविधा महाराज्ञी यथा तथा तु सा सती ॥१०॥
द्रव्याढ्या मानवाढ्या च सत्ताढ्या पशुपालिनी ।
चक्रिणी सा दीर्घराष्ट्रे प्रसिद्धाऽऽसीत् कलावती ॥११॥
बद्रिके सा प्रशुश्राव माहात्म्यं जनवर्णितम् ।
संहितायाः कथाजन्यं प्रतापं मोक्षदं परम् ॥१२।
सा जानाति महाचक्रपेषणैः पापसञ्चयम् ।
बीजादौ जीवजन्तूनां पेषणादिसमुद्भवम् ॥१३॥
सूनानां च फलं याम्यपुर्यां कष्टप्रभोगिताम् ।
नारकीं च गतिं निम्नां जानात्येवातिकष्टदाम् ॥१४॥
तत्पापानां प्रशान्त्यर्थं जिज्ञासाप्रेरिता तु सा ।
कथाश्रवणे श्रद्धाढ्या कृतबुद्धिर्व्यजायत ॥१५॥
प्राह स्वस्वामिनं साध्वी पारायणं प्रजायते ।
शर्करानगरे स्वामिन् सर्वपापप्रणाशनम् ॥१६॥
चमत्काराश्च बहवः श्रूयन्ते पापनाशकाः ।
मोक्षदो भगवाँस्तत्र दृश्यते कृपयाऽधुना ॥१७॥
वयं तु पापिनो नित्यं चक्रिणः चक्रपेषणाः ।
पापिनां न गतिः श्रेष्ठा नारकी गतिरीरिता ॥१८॥
राज्यं राष्ट्रं समस्तं वा यद्गृहे वर्तते ह्यपि ।
देहान्ते निरये वासश्चेत् सर्वं तन्निरर्थकम् ॥१९॥
धनं चाक्षयकोशात्म दासा दास्योऽयुतान्यपि ।
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ॥२०॥
वाटीक्षेत्राणि चारामा उद्यानानि गृहाण्यपि ।
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ॥२१॥
प्रासादाः स्वर्णकलशा ध्वजारोपसुशोभनाः ।
सम्पदः क्षयहीनाश्चाऽसंख्याता अपि सर्वथा ॥२२॥
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ।
महिषीगोगजवाजिक्रमेलककरेणुकाः ॥२३॥
हंसगरुडमेनाद्याः शुकसारसचातकाः ।
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ॥२४॥
पत्न्यो बह्व्यस्तथा पुत्राः पुत्र्यो वंशे च पौत्रकाः ।
स्वसारो भ्रातरो वृद्धा बान्धवा मातरः स्त्रियः ॥२५॥
पतयो दासवर्गाश्च दास्यश्चापि सहस्रशः ।
अप्यन्ते नरके वासस्तदा सर्वं निरर्थकम् ॥२६॥
व्यापारा बहवँश्चापि शकटीनां सहस्रकम् ।
यन्त्राणामयुतं चापि वाहनानां सहस्रकम् ॥२७॥
आनन्त्यं चापि भोगानां कीर्तीनामुत्सवास्तथा ।
विद्यन्तेऽपि च देहान्ते नारकी चेन्निरर्थकाः ॥२८॥
तस्मात् स्वामिन्नात्मकल्याणार्थं विचिन्तयाम्यहम् ।
पापानां नाशनं दानैः सतां सेवादिभिस्तथा ॥२९॥
कथानां श्रवणैः स्याच्च पुण्योदयो भवेदपि ।
नैषा स्मृद्धिः पुण्यदाऽस्ति हिंसात्मिका तु चक्रिणी ॥३०॥
सा स्मृद्धिः पुण्यकार्यार्थं योजनीयेति मे मतिः ।
लक्षाधिकं नाणकं वै लब्ध्वा यामः कथास्थलीम् ॥३१॥
श्रोष्यामः सत्कथां नित्यं दास्यामो नाणकादिकम् ।
करिष्यामश्चात्मशुद्धिं लप्स्यामश्चात्मनो हितम् ॥३२॥
द्रक्ष्यामः श्रीपतिं कृष्णं प्राप्स्यामः परमं पदम् ।
प्रधानस्याऽग्र्यभृत्यस्य कृत्वाऽऽत्मसात् समस्तकम् ॥३३॥
असंख्यं वा धनं नीत्वा गच्छामो वै कथास्थलीम् ।
जीवने निश्चयो नास्ति नेदं सहाऽऽगमिष्यति ॥३४॥
धर्मकर्म महादानं सतां प्रसन्नता व्रतम् ।
कृष्णभक्तिः कथापुण्यं परलोके सहायदाः ॥३५॥
तत्कृत्वाऽक्षयपुण्यात्मधनं समर्ज्य सर्वथा ।
मोक्षमार्गे गमिष्यामो मा वृथाक्लेशमावह ॥३६॥
इत्युक्तः स्वपतिर्नार्या मुमुक्षुश्चात्मवानपि ।
सम्मतिं प्रददौ तस्यै यात्रार्थं मुक्तिहेतवे ॥३७॥
प्रसन्ना गण्डवाता सा सज्जाऽभवत्ततो द्रुतम् ।
शतपुत्रसुतायुक्ता शतदासीसमन्विता ॥३८॥
शतदासैर्युता पौत्रैद्विशताम्यां समन्विता ।
स्नुषाभिः सहिता बालैर्बालिकाभिर्युता तथा ॥३९॥
वृद्धाभिः सहिता रक्षाकृद्भिश्च सद्भटैर्युता ।
द्वेशते शकटानां च वाजिनां द्वेशते तथा ॥४०॥
उष्ट्राणां विंशतिं चापि वृषभाणां शतं तथा ।
भारवाहार्थमेवैषा पयोदानां गवां शतम् ॥४१॥
भोजनानामपारं च वस्त्राणां चाप्यनन्तकम् ।
पात्राणामप्यसंख्यत्वं नीत्वा सज्जाऽभवत्तदा ॥४२॥
यास्कवादोऽपि मुदितो यात्रार्थं मोक्षहेतवे ।
सज्जो बभूव नृपवत् कोटिस्वर्णसमन्वितः ॥४३॥
सर्वोपस्करणैर्युक्तः श्रेष्ठविमानमास्थितः ।
पत्न्या साकं विमानेन नत्वा गणेशमीश्वरम् ॥४४॥
व्योम्ना तु शर्कराभूमिं ययौ कुटुम्बिभिः सह ।
सार्थवाहाश्च भृत्याश्च गोधनं सम्पदोऽपि च ॥४५॥
भूमार्गेण समायातं सायं तु शर्करापुरम् ।
तत्रोद्याने सिन्धुतटे नैजे व्यापारयोगिनि ॥४६॥
उवास सर्वसम्पन्नो यास्कवादः कुटुम्बिभिः ।
व्यवस्थाप्य समस्तं स्वं सैन्यं स्नात्वा ततश्च सः ॥४७॥
पत्न्या युतो ययौ श्रीमल्लोमशं द्रष्टुमुत्सुकः ।
गत्वा नेमे पुपूजापि हार्दं न्यवेदयत्तथा ॥४८॥
लोमशोऽपि शुभाशीर्भिः प्रोत्साहं प्रददौ तदा ।
ददौ कृष्णामृतवारि प्रसादं प्रददौ तथा ॥४९॥
संहितायाः स्थलं नीत्वा कारयामास दर्शनम् ।
चक्री व्यासासनं व्यासं पूजयामास सद्धनैः ॥५०॥
बहुभिश्चोपचारैश्च व्रतं जग्राह तत्र च ।
सभार्यो नित्यमेवाऽन्नं ग्रहीष्याम्येकभक्तकम् ॥५१॥
साधुसेवां करिष्यामि कथाश्रवणमन्वहम् ।
नित्यं सतां भोजनानि दास्ये यथेष्टकान्यपि ॥५२॥
नित्यं सुवर्णदानानि वस्त्रदानानि नित्यशः ।
नित्यं प्रसादवार्यादिपानं च नेतरद्ग्रहम् ॥५३॥
स्वतःप्रकाशव्यासस्य पयःपानादि सर्वथा ।
मत्सकाशाद्भवेच्चेति जग्राह नियमान् स तु ॥५४॥
नित्यं मालाशतावर्त्तप्रदक्षिणशतादिकम् ।
दण्डवन्मन्त्रजपनं सहस्रवारमुत्तमम् ॥५५॥
एवंविधाँस्तु नियमान् तेभ्यो ददौ हि लोमशः ।
ददौ मन्त्रं च मालाश्च नाम जपार्थमार्पयत् ॥५६॥
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'कृष्णनारायणस्वामिप्रभोनारायणेश्वर ॥५७॥
अनादिश्रीकृष्णनारायणश्रीमाधवीश्वर ।
एवं दत्वा नियमाँश्च लोमशः स्वाश्रमं ययौ ॥५८॥
यास्कवादादयः सर्वे निवासं स्वं ययुस्ततः ।
यथानियममेवैते वर्तन्ते स्म सुखस्थिताः ॥५९॥
कथायाः श्रवणं नित्यं प्रकुर्वन्ति समुत्सुकाः ।
साधूनां सेवनं सर्वे प्रकुर्वन्ति कृतादराः ॥६० ।
निःसंशया देहसेवां साक्षात् कुर्वन्ति वै सताम् ।
एवंविधानां सहसा ध्वस्तान्यघानि चक्रिणाम् ॥६१।
नरा नार्यः समस्तास्ते निष्पापा ह्यभवन् द्रुतम् ।
अन्तःकपाटं निर्भिन्नं ज्ञानवन्तोऽभवन् द्रुतम् ॥६२।
यास्कवादो भोजनानि साधुभ्यश्चान्वहं ददौ ।
वस्त्रदानानि बहूनि फलदानानि सन्ददौ ॥६३॥
इष्टदानानि सर्वाणि गोदानानि ददौ तथा ।
दुग्धदधिघृतदानं हव्यदानानि सन्ददौ ॥६४॥
कम्बलानां प्रदानानि पत्रदानानि वै ददौ ।
शृंगारवस्तुदानानि पूजायां मूर्तये ददौ ॥६५॥
यानवाहनदानि छत्रचामरदानकम् ।
उपानदुष्णीषवर्मदानं भूषार्पणं व्यधात् ॥६६॥
शय्यादानं चान्नदानं धान्यदानं ददौ तथा ।
स्वर्णरूप्यकमुद्रादिदानं रत्नार्पणं व्यधात् ॥६७॥
वाचकाय ददौ वेषाम्बराणि कानकं घटम् ।
विभूषणानि सर्वाणि स्वर्णाम्बराणि वै तथा ॥६८॥
अथ भार्या गण्डवाता प्रसन्नमानसा तदा ।
विप्राणीभ्यो ददौ स्वर्णं रूप्यकं भूषणानि च ॥६९॥
मौक्तिकानि सुरत्नानि हीरकान् शाटिका ददौ ।
कुर्चध्रीं च कुचध्रीं च कचलों चोलिकां ददौ ॥७०॥
सुरवालीं घर्घरीं च कुचलीं कम्बलीं ददौ ।
रशनां वालपाशीं च ललाटिकां च कर्णिकाम् ॥७१॥
ऊर्मिकांऽगुलीयकानि कंकणवलयान् ददौ ।
कण्ठिकां चांगदे स्वर्णमालाश्च मुद्गमालिकाः ॥७२॥
नरो बिन्द्वीं कुण्डले च सौवर्णीः शृंखला ददौ ।
वातगण्डा ददौवेव मिष्टान्नापि जलान्यपि ॥७३॥
कुंकुमाऽक्षतपुष्पाणि शृंगाराणि ददौ तथा ।
तस्याः पुत्राश्च पुत्र्यश्च गोदानानि प्रचक्रिरे ॥७४॥
वाजिदानोष्ट्रदानानि वृषदानानि वै तदा ।
चक्रुस्तत्र सुपात्रेषु महादानानि वै तदा ॥७५॥
अनसामपि दानानि सौधदानानि भावतः ।
तुलसीवृक्षदानानि हव्यदानानि सन्दधुः ॥७६॥
संहितापुस्तकदानं सर्वदानानि सन्दधुः ।
सर्वास्तत्र सह नीताः सम्पदो जडचेतनाः ॥७७॥
ददुर्दाने हरेर्भक्त्या विदित्वाऽवसरं शुभम् ।
यानवाहनदानानि दासीदासप्रदानकम् ॥७८॥
प्रचक्रिरे यथायोग्यं मोक्षार्थं कृष्णमानसाः ।
गते पक्षे समये तु कथाज्ञानपरिप्लुताः ॥७९॥
दिव्यभावा व्यजायन्त सर्वे ते चक्रिणस्तदा ।
दासा दास्यो भृत्यवर्गा बान्धवाश्च कुटुम्बिनः ॥८०॥
आबालवृद्धाः श्रीकृष्णनारायणस्य दर्शनम् ।
आतुराः कर्तुमेवाऽऽसन् मोक्षमार्गपरायणाः ॥८१॥
माघैकादशिकासायं कृष्णपक्षेऽर्हणोत्तरम् ।
आरार्त्रिकं विनिष्पाद्य यावत् कीर्तनकोविदाः ॥८२॥
कुर्वन्ति कीर्तनं तावत् कृष्णनारायणप्रभुः ।
भासयँस्तेजसा व्योम दिशाश्चावातरद् भुवि ॥८३॥
कानकेन विमानेन प्रियालक्ष्मीयुतो हरिः ।
विमानाद् बहिरागत्य दर्शनं स्वं ददौ तदा ॥८४॥
आश्चर्यं परमं प्राप्ताः श्रोतारो लक्षशो जनाः ।
नरा नार्यः क्षणं स्तब्धास्तेभ्योऽभिभवदृष्टयः ॥८५॥
अभवँश्च ततः कृष्णं संहृतातिप्रभं शुभम् ।
अपश्यँस्ते मुहुः रम्यं सुन्दरं गोपिकापतिम् ॥८६॥
गण्डवाताऽभवन्मुग्धा श्रीकृष्णे माधवीपतौ ।
तत्पुत्र्यश्चाभवन् मुग्धाश्चातीव परमात्मनि ॥८७॥
त्यक्तभाना अभवँस्ताः कृष्णाकृष्टात्मवृत्तयः ।
श्रीकृष्णाय निजदानं तदैव समचिन्तयन् ॥८८॥
दास्यश्च कन्यकाश्चापि या युवत्योऽभवँस्तदा ।
सर्वा मुग्धा निजदानं तदा नारायणे व्यधुः ॥८९॥
एवं नराश्च ये भृत्याः पुत्रा दासाश्च कर्मिणः ।
कृष्णाऽऽकृष्टात्मदेहास्ते मोक्षणं वव्रिरे हरेः ॥९०॥
ज्ञात्वा तेषामभिप्रायं श्रीकृष्णपरमेश्वरः ।
तूर्णं विधाय दिव्याँस्तान् समस्तान् दिव्यविग्रहान् ॥९१॥
धृत्वा नैजे विमाने तु कृत्वा मुक्तान् सुरूपिणः ।
विवृत्तदेहान् पुरुषान् नारीर्मुक्तानिकास्तथा ॥९२॥
कृत्वा शेषानवस्थाप्य बालवर्गान् कुटुम्बिनः ।
पोषकान् रक्षकाँश्चापि युगलान् वरयोषितः ॥९३॥
अवस्थाप्य क्षितौ तत्र तेभ्यो दत्वा शुभाशिषः ।
नेतुं योग्यान्नरान्नारीर्निन्ये धामाऽक्षरं निजम् ॥९४॥
सहस्रशो नरानार्यस्तदा तद्देहधारिणः ।
दिव्यदेहाः प्रभूत्वैव ययुर्धामाऽक्षरं हरेः ॥९५॥
अहो वै चक्रिणां भाग्यं बद्रिके नरयोषिताम् ।
सर्वस्वार्पणकर्तॄणां येषां नेता नरायणः ॥९६॥
अहो कालस्य कवला अपि देहा हि भौतिकाः ।
कृष्णेच्छया विना पातं दिव्या भूत्वा ययुः सह ॥९७॥
अन्यथाकर्तृसामर्थ्यं त्वेतद्वै परमात्मनः ।
जडं तु चेतनं कृत्वा क्रीडत्येव च तैः सह ॥१८॥
शेषाः सहस्रशश्चापि नरा नार्यस्तदा तु ये ।
कथां श्रुत्वा विनिष्पाद्या दर्शनादभवँस्तथा ॥९९॥
गण्डवाताकुटुम्बं तद् यास्कवादस्य वंशिन ।
वैष्णवास्ते तु मासान्ते ययुर्नैजं गृहं ततः ॥१००॥
स्वदेशे तन्महाश्चर्यं जगदुः सर्वतः शुभम् ।
मुक्तिं प्राप्ताश्चक्रधारा वृद्धा मध्याश्च भावुकाः ॥१०१॥
अन्ये तथैव भजनं बद्रिके स्वालये व्यधुः ।
एवं महाँश्चमत्कारस्तदा ख्यातोऽभवद् भुवि ॥१०२॥
पठनाच्छ्रवणादस्य स्मरणात्पापनाशनम् ।
भुक्तिर्मुक्तिर्भवेच्चापि सर्वेच्छापूरणं भवेत् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणेन चक्रिणो यास्कवादस्य तत्पत्न्या गण्डवा- तायाश्च कथाश्रवणेन सहस्राधिनरनारीभिः
सहितायाः श्रीकृष्णनारायणेन मोक्षणं कृतमित्यादिनिरूपणनामा नवाधिक चत्वारिंशोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP