संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ८३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ८३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८३ Translation - भाषांतर श्रीनरनारायण उवाच-ततो बद्रीप्रिये तत्र श्रीकृष्णसेवनेच्छया ।रुद्रः कालस्तथा मृत्युरागत्य च प्रणम्य च ॥१॥सहसा श्रीकृष्णनारायणं भीताश्च कम्पिनः ।ऊचुः प्रसन्नतालब्ध्यै सेवाज्ञां प्राप्नुमिच्छवः ॥२॥हरेकृष्ण कृपासिन्धो दासाः स्मो वयमत्र ह ।नियोजयाऽस्मान्नाज्ञायां कुर्मो द्रागेव सिद्धये ॥३॥श्रुत्वा प्राह हरिस्तान् वै कार्यं दास्यं तु मेऽधुना ।युद्धे चात्र महाकालो विशतु नागविक्रमे ॥४॥नन्दकुबरे रुद्रश्च विशत्वेव महेश्वरः ।मृत्युर्विशतु बाणेषु शस्त्रेषु मृत्युपार्षदाः ॥५॥सैन्येषु शक्तयः सर्वाः शीघ्रं विशन्तु चाऽव्ययाः ।नागविक्रमपक्षाणां रक्षणं सर्वथा भवेत् ॥६॥नन्दिभिल्लस्य दर्पस्य फलं तत्पक्षगामिषु ।युद्धहोमात्मकं चास्तु कृतं भुंक्ते यतो जनः ॥७॥मात्सर्यदोषदग्धोऽयं नन्दिभिल्लो हि युध्यति ।अपराद्धं ततस्तेन नागविक्रमभूभृतः ॥८॥इत्युक्त्या भगवान् शंखं दध्मौ युद्धप्रवर्तकम् ।इन्द्रवज्रोऽपि शंखं स्वं दध्मौ युद्धप्रवर्तकम् ॥९॥नन्दकुबरः शंखं स्वं दध्मौ युद्धप्रवर्तकम् ।सैन्यानां च तदा भेरीशब्दा गगनभेदिनः ॥१०॥युद्धप्रवर्तका बद्रि भयंकरास्तदाऽभवन् ।शौर्यदा बलदाश्चासन् निनादा मेघवत्तदा ॥११॥सहैव तु निनादैश्च शराणां वर्षणं मिथः ।मिथोऽभवच्च सैन्यानां नन्दकुब्रेन्द्रवज्रयोः ॥१२॥बद्रिके क्षणमात्रेण बाणवृष्ट्याऽम्बरं तदा ।आच्छादितं समस्तं वै सैन्यान्याच्छादितान्यपि ॥१३॥बाणा योद्धुशरीरेषु दृश्यन्ते 'लग्नभोगिनः ।सहस्ररश्मयो यद्वल्लग्ना आदित्यमूर्तिषु ॥१४॥किंशुका इव दृश्यन्ते देहा योद्धुशरैर्हताः ।अर्धचन्द्रैः फलभागैस्तीक्ष्णाग्रैः खण्डितांगिनः ॥१५॥भिन्ना द्वेधा विलोक्यन्ते प्रेतास्तु विकृता इव ।तड्फडायन्त उच्छ्रित्योच्छ्रित्योत्पतन्ति भूतले ॥१६॥छिन्नकण्ठा विमूर्धानः शवाः क्षिपन्ति सायकान् ।विलोक्यन्ते च ते तत्र राहवश्चाहवेऽभितः ॥१७॥बद्रिके तत्र वै नन्दिभिल्लो बाणशतैर्द्रुतम् ।अताडयत्तदा नागविक्रमं तीक्ष्णधारकैः ॥१८॥नागोऽपि नन्दिनं बाणैः पञ्चशतैः शिलीमुखैः ।तताड परितः शीघ्रमाश्चर्यं तदभून्महत् ॥१९॥नन्दी विच्छिद्य बाणाँस्तान्निजबाणसहस्रकम् ।मुमोच क्षणमात्रेण नागदेहेऽतिवेगतः ॥२०॥नागोऽपि तानर्धचन्द्रशरैश्छित्वाऽतिलाघवात् ।मुमोचाऽर्धचन्द्रसमान् बाणान् नन्दिनि चाहवे ॥२१॥छेदयामास मुकुटं ज्यां धनुश्चापि नन्दिनः ।नन्दी जग्राह सहसा धनुश्चान्यन्महत्तरम् ॥२२॥शरान्मुमोच बहुधा नागप्राणहराँस्तदा ।नागः सर्वान्प्रविच्छिद्य ताडयामास भल्लकैः ॥२३॥कुन्तलैर्विविधैश्चापि शरैर्भिन्नाग्रधारकैः ।धनुर्नष्टं पुनर्नष्टं तृतीयं च चतुर्थकम् ॥२४॥तदा नन्दी महाशक्तिं जग्राह शतघण्टिकाम् ।दिव्यां लम्बां बहुवेगां सूक्ष्माग्रां विषसंभृताम् ॥२५॥मुमोच बहुवेगेन महीं पद्भ्यां निपीड्य ह ।पपात सा नागवक्षोमध्ये यावत्तु तावता ॥२६॥हस्तेनैव समग्राह्य नागस्तां सममोडयत् ।द्वेधा प्रमोड्य पृथ्व्यां तां निचिक्षेप जगर्ज ह ॥२७॥वीक्ष्य नन्दी महाक्रुद्धो जग्राहाऽन्यां महोज्ज्वलाम् ।शक्तिं चिक्षेप सहसा नागकण्ठविघातिनीम् ॥२८॥तां शक्तिं त्वापतन्तीं तु नागो लाघवनोदितः ।स्वशक्त्या तूर्णमहनद् द्वेधा भूत्वा पपात सा ॥२९॥तृतीयां जगृहे यावन्नन्दी तावत्तु नागराट् ।मुमोच शक्तिं सहसा नन्दिवक्षसि वै बली ॥३०॥जगाम मूर्छा नन्दी च जगर्ज नागविक्रमः ।सूतस्तं सहसादूरं निन्ये सरथनन्दिनम् ॥३१॥अथ कृष्णरथं चान्ये नन्दिसेनेश्वरास्तदा ।ताडयामासुरत्यर्थं बाणैर्भल्लैश्च कुन्तलैः ॥३२॥अर्धचन्द्रैर्गोलकैश्च क्षेपणैः शरकोटिभिः ।दुर्भिक्षाणी महाशक्तिर्या रथं परितः स्थिता ॥३३॥लग्नाऽऽसीत् सा सर्वबाणान् शास्त्राणि विविधान्यपि ।धृत्वा धृत्वा मुखे निगिलत्येव नाशयत्यपि ॥३४॥हरिस्तु नागसैन्यानां घातकान् कोटिशः शरान् ।निजप्राणैश्चातिशीघ्रं भेदयत्येव सर्वथा ॥३५॥भक्तरक्षां करोत्येव नागसैन्यं न हन्यते ।हन्यन्ते नन्दिसैन्यानि महाश्चर्यमभूद्धि तत् ॥३६॥तावद् राजा गतमूर्छश्चाजगाम रणाजिरे ।सरथः शस्त्रसम्पन्नो नारायणरथोपरि ॥३७॥प्रैरयत्तीक्ष्णशस्त्राणि मुमोच बाणसञ्चयान् ।शक्तीश्चिक्षेप बहुधा नाराचान् स मुमोच ह ॥३८॥हरिः सर्वान् प्रविच्छिद्य मुमोचैकं शरं द्रुतम् ।अभेद्यमजरं चाप्यनिवर्तनं दृढं तदा ॥३९॥लग्नः शरः स उरसि नन्दी पपात भूतले ।सूतः शीघ्रं तमुत्थाप्य कृत्वा रथे ययौ बहिः ॥४०॥हाहाकारः क्षणं जातः सैन्ये नन्दिप्रयोजिते ।अथेन्द्रवज्रः सैन्येशो हरिं नागं च कूबरम् ॥४१॥सर्वान शरैस्तीक्ष्णधारैरताडयच्छतैः शतैः ।हरिः सर्वांश्च तद्बाणान् चिच्छेद करलाघवात् ॥४२॥निजबाणैः सर्वसैन्यरक्षां करोति चाभितः ।कुबेरो दशबाणैश्च त्विन्द्रवन्त्रं तताड ह ॥४३॥इन्द्रस्तु शतबाणैस्तं कुबरं प्रतताड ह ।कुबरः शतबाणैश्च प्रतितताड वज्रकम् ॥४४॥इन्द्रवज्रो द्रुतं शक्तिं चिक्षेप प्राणहारिणीम् ।आपपात नन्दकुब्रं जघानोरसि वेगिनी ॥४५॥स्पृष्टमात्रा धृता शीघ्रं भुग्नीकृता करेण सा ।कुबरेण द्रुतं यावत्तावदन्या समागता ॥४६॥धृत्वा तामपि वेगेनाऽमोडयत् कुबरो बली ।तावत्तृतीयशक्तिः प्रागता ह्यति भयङ्करी ॥४७॥रुद्रः कुबरगः शक्तिं जग्रासाऽपाचयत्तथा ।महाश्चर्यमिदं दृष्ट्वा चेन्द्रवज्रो भयं ह्यगात् ॥४८॥मुमोच स गदां दिव्यां महास्तम्भनिभां पराम् ।मस्तकाद्रिस्थिरभावां काञ्चनपट्टशोभिताम् ॥४९॥आकाशे तूर्णमागत्य रथे पपात शृंगवत् ।रथः प्रचूर्णितो नन्दकुबरस्याऽऽप भूतलम् ॥५०॥कुबरो रथमध्यस्थो रुद्ररक्षाप्ररक्षितः ।अभग्नांगो निर्ययौ वै पतत्प्रासादतो यथा ॥५१॥तावद् राजा नन्दिभिल्लः स्वस्थो रणेऽभवत् पुरः ।नागं नाशयितुं तूर्णं मुमोच नागपाशकान् ॥५२॥हरिस्तत्र गारुडान् वै प्रेरयामास भक्षकान् ।नागाः प्रभक्षिताः सर्वे गरुडैस्तत्र वै क्षणात् ॥५३॥नन्दी विद्युच्छरं तत्र मुमोच नागविक्रमम् ।नागो मुमोच ताम्रास्त्रं विद्युत्तत्र लयं गता ॥५४॥नन्दी मुमोच वन्ह्यस्त्रं सर्वसैन्यभयंकरम् ।नागो मेघास्त्रबाणैस्तान् वह्निशराननाशयत् ॥५५॥नन्दी मुमोच क्रुधितो ब्रह्मास्त्रं त्वनिवर्तनम् ।हरिर्जग्राह सहसा ब्रह्मास्त्रेण तदस्त्रकम् ॥५६॥नन्दी मुमोच च तदा पाशुपतास्त्रमुल्बणम् ।नागस्थश्च महाकालो भक्षयामास पाशवम् ॥५७॥संहारास्त्रं तदा नन्दी मुमोच तैजसं महत् ।कुबरस्थो महारुद्रः संहारास्त्रमुपाहरत् ॥५८॥कुबरस्तु तदा शक्तिं शतभारां नगात्मिकाम् ।उत्थाप्यापीड्य पृथिवीं मुमोच वज्रकं प्रति ॥५९॥चकम्पे पृथिवी निम्नीभूता क्षणं तु बद्रिके ।इन्द्रवज्रं गता तूर्णं प्रविष्टा हृदये तदा ॥६०॥इन्द्रवज्रः पतन् पृथ्व्यां वज्रं मुमोच कूबरम् ।वज्रं छिन्नं महावज्रैस्तदा नागेन तत्क्षणम् ॥६१॥इन्द्रवज्रः पपातैव भिन्नवक्षा ममार ह ।हाहाकारो महाञ्जातो भिल्लसैन्ये तु बद्रिके ॥६२॥कुवरस्य जयनादा अश्रूयन्त समन्ततः ।अथ तूर्णं घातवज्रनामा भिल्लचमूपतिः ॥६३॥रथस्थश्चाययौ तूर्णं रणांगणेऽतिगर्वितः ।भिल्लसैन्ये महाघोषास्ततोऽभवन् समन्ततः ॥६४॥घातवज्रोऽपि युयुधे नन्दकुबरकेन वै ।दशबाणान् सहयोगान् मुमोचैकेन तन्तुना ॥५५॥चिच्छिदे नन्दकुबरो दश तानागतान् द्रुतम् ।प्रतिमुमोच कुबरो बाणान् विंशतिसंख्यकान् ॥६६॥घातवज्रो द्रुतं छित्वा तान् सर्वान् लीलया ततः ।मुमोच त्रिंशदपरान् चिच्छेद कुबरोऽपि तान् ॥६७॥कुबरो भल्लकान् दीर्घान् मुमोच घातवज्रकम् ।घातवज्रो गदामारैः सर्वान् भल्लान् व्यपोथयत् ॥६८॥गदां सर्वस्वसामर्थ्यैश्चिक्षेप कुबरोपरि ।कुबरस्ता गदां तूर्णं गदयाऽधो व्यपोथयत् ॥६९॥चिक्षेप तु शरान् शीघ्रं चिच्छेद ज्यां च कार्मुकम् ।हस्तं प्रकोष्ठे चिच्छेद वामं चन्द्रमुखैः शरैः ॥७०॥एकहस्तो घातवज्रः खङ्गमादाय चोत्पतन् ।रथादुत्तीर्य कुबरं प्रत्यधावद् रुषान्वितः ॥७१॥तावत्तु कुबरो दृष्ट्वा समापतन्तमुल्बणम् ।सखङ्गं वारयामास बाणैर्वेगाभियायिभिः ॥७२॥तथापि तप्तरक्तोऽसौ न्यवर्तत न धावनात् ।तदा श्रीकुबरः खङ्गमादाय रथतो द्रुतम् ॥७३॥अवतीर्य ददौ युद्धं खङ्गेन भ्रमशोभिना ।द्वयोः सैनपयोर्युद्धं द्रष्टुं देवास्तदाम्बरे ॥७४॥क्षणं स्थिरा अभवँश्च प्राणयोधनसद्रसाः ।कुबरो नैजखङ्गेन द्वेधा खड्गं तदीयकम् ॥७५॥कृत्वा तूर्णं ददौ खड्गं द्वितीयं योधनाय ह ।सोऽपि धृत्वा विविधैर्वै योधनस्य प्रकारकैः ॥७६॥बहुधा युयुधे तत्र मण्डलानि प्रकाशयन् ।अथ क्षणेन खड्गेन कुबरस्य तु मस्तके ॥७७॥घातं चक्रे घातवज्रस्तावत्तु कुबरो निजम् ।खड्गमुत्प्लुत्य कण्ठेऽस्य स्कन्धे वक्षसि चोदरे ॥७८॥कट्यां सक्थ्नीत्यारपारमेकघातेन चानयत् ।द्वेधा भूत्वा घातवज्रः पपात सैन्यसन्निधौ ॥७९॥हाहाकारोऽभवन्नन्दिभिल्लसैन्ये समन्ततः ।नागविक्रमसैन्येन शक्तिगणाधिवासिना ॥८०॥दशसाहस्रयोद्धारो हतास्तावत्तु बद्रिके ।नन्दिभिल्लस्य सैन्यानामेवं घातो बभूव ह ॥८१॥अथाययौ तृतीयो वै हरिद्वज्राख्यसैन्यपः ।स्वर्णवर्मधरो वीरः पुष्टो युवाऽद्रिशृङ्गभः ॥८२॥रथस्थो भल्लकान् शीघ्रं मुमोच कुबरं प्रति ।कुबरस्थो हरो रुद्रोऽगिलत् सर्वास्तु भल्लकान् ॥८३॥हरिद्वज्रस्ततस्तूर्णं शक्तिं मुमोच घातिनीम् ।कुबरस्थो हरस्तां चाऽगिलत् सर्वामपाचयत् ॥८४॥हरिद्वज्रस्ततस्तूर्णं सिंहास्त्रं मन्त्रितं तदा ।मुमोच सहसा सिंहाः सहस्रशोऽभवन् मृधे ॥८५॥गगने भूतले सैन्ये रथेषु वाहनेष्वपि ।क्षणमात्रेण सिंहानां सैन्यानि सर्वतोऽभवन् ॥८६॥कुवरस्थो महारुद्रस्तावद् देवीं निजां सतीम् ।सर्वसैन्यस्वरूपां संभवितुं तु समादिशत् ॥८७॥शिवांगनाऽभवत् तूर्णं सैन्यात्मिका सुशोभना ।सर्वशस्त्रधरा सर्वात्मकस्त्रीरूपदर्शिनी ॥८८॥तां मातरं सतीं दृष्ट्वा सिंहास्तद्वाहनानि वै ।निपेतुः पादयोस्तूर्णं तदाश्चर्यमभून्महत् ॥८९॥देव्या योगमहास्त्रेण शार्दूला विलयीकृताः ।वीक्ष्यैतत्तु हरिद्वज्रोऽमोचयन्मोहनास्त्रकम् ॥९०॥बालकृष्णो मोहनास्त्रं जग्रास रणमध्यगः ।अथ भीतो हरिद्वर्णो विषास्त्रं प्रमुमोच ह ॥९१॥एकबाणेन परितो व्योमभागे विषं विषम् ।विषवायुमयं सर्वं प्रासरन्नेत्रनाशकम् ॥९२॥प्राणरोधकमेवापि मृत्युकरं विनाशकम् ।कुबरस्थस्तदा रुद्रो विषं जहार योगतः ॥९३॥निर्विषं वै कुबरस्य सैन्यं सर्वं व्यजायत ।अथ श्रीकुबरो धृत्वा शक्तिं मुमोच नाशिकाम् ॥९४॥हरिद्वज्रो विभिद्यैनां मुमोच शक्तिमुत्तमाम् ।कुबरोऽपि विभिद्यैतां गुर्वी गदामवासृजत् ॥९५॥हरिद्वज्रो गदां धृत्वा कुबरं प्रत्ययोजयत् ।कुबरस्तां पुनर्भूत्वा चिक्षेप बहुवेगिताम् ॥९६॥चिक्षेप पश्चात्तस्यास्तु शक्तिं शक्तिं द्वितीयकाम् ।तृतीयकां प्रचिक्षेप सा लग्ना गलमध्यतः ॥९७॥प्राणान्नीत्वा ययौ भूमौ रथं भित्त्वाऽतिदारुणा ।हरिद्वज्रस्तु सरथो भग्नो ममार तत्र ह ॥१८॥हाहाशब्दा नन्दिभिल्लसैन्येऽभवन् समन्ततः ।दुद्रुवुः पृष्ठपादाश्च भीता युद्धविशारदाः ॥९९॥जयशब्दाः कुबरस्य सैन्ये वाद्ययुतास्तदा ।अभवन् बद्रिके कृष्णनारायणप्रतापतः ॥१००॥नन्दिभिल्लो रणभेरीं नादयामास वै पुनः ।द्रवतां निजसैन्यानां धैर्यार्थं योधनाय च ॥१०१॥दशसाहस्रयोद्धारो हरिद्वज्रस्य वै मृधे ।नागविक्रमसैन्येन हताः शक्तिनिवासिना ॥१०२॥अपरे सप्ततिसहस्राणि निश्चित्य वै मिथः ।परितश्चाभिसंव्याप्य व्यूहं वृश्चिकशृङ्गवत् ॥१०३॥कृत्वा मारयितुं सर्वान् कुबरस्य तु योधकान् ।अभ्यधावन् दिशः सर्वा भिल्लसैन्यान्विताश्च ताः ॥, ०४॥अभवन् परितो बद्रि दिशः सर्वा भयप्रदाः ।अथ रुद्रः कुबरस्थो नैजान् रोगान् गणानपि ॥१०५॥समूर्तान् निजसैन्यस्याऽभितः स्थितानकारयत् ।अप्रतिहतदेहास्ते शस्त्राघातविवर्जिताः ॥१०६॥दुर्गवन्मानवसैन्यव्यापकाश्चक्रिरे मृधम् ।तद्बाणैर्निहतास्तत्र बद्रिकेऽयुतसंख्यकाः ॥१०७॥नन्दिभिल्लस्य योद्धारो दुद्रुवुः शेषशस्त्रिणः ।शैलवज्रश्चतुर्थो वै सेनापतिस्तदा बली ॥१०८॥स्वसैन्यानि समाहूय योधनं पुनराव्यधात् ।गर्जना विविधाश्चासन् बद्रिके चोभयोरपि ॥१०९॥सैन्ययोर्जयलब्ध्यर्थं शंखनादाश्च खेऽभवन् ।सज्जा आवेशवन्तश्च योद्धारश्चुक्रुशुर्मृधे ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने रणसंग्रामे नन्दिभिल्लस्येन्द्रवज्रघातवज्रहरिद्वज्रेतिसेनापतित्रयसहितत्र्ययुतसेनात्मकयोद्धॄणां निधनमित्यादिनिरूपणनामा त्र्यशीति-तमोऽध्यायः ॥८३॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP