संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११३ Translation - भाषांतर श्रीनरनारायण उवाच-अथ श्रीभगवान् बद्रि कृष्णनारायणः प्रभुः ।वर्तते कुंकुमवाप्यां सर्वसौख्यप्रदस्तदा ॥१॥वासुदेवसहायार्थं पुत्रास्तेन परेऽपि च ।प्रेषिता राज्यपुष्ट्यर्थं कलाशास्त्रविशारदाः ॥२॥श्रियाः पुत्रो रासकृष्णश्चोपप्रधानकोऽभवत् ।प्रज्ञापुत्रो ब्रह्मप्रभुः सैनापत्यमरक्षयत् ॥३॥पद्मावतीसुतोऽनन्तः कारागाराऽधिपोऽभवत् ।ललितायाः सुतो लालेश्वरो राष्ट्राधिपोऽभवत् ॥४॥जयाया विजयः पुत्रश्चोपमन्त्री तदाऽभवत् ।माणिक्याः कौस्तुभमणिर्न्यायप्रदोऽभवत् तदा ॥५॥कमलायाः पद्मनाभः सभाध्यक्षोऽभवत् सदा ।रमासुतो रामसाक्षी विद्याधिकारवानभूत् ॥६॥राधात्मजो रायकेशी कोशाध्यक्षोऽभवत्तदा ।नारायण्या नरदेवश्चोपसैन्याधिपोऽभवत् ॥७॥ब्राह्म्याः सुतो ब्रह्मरातो राजपुरोहितोऽभवत् ।भागवत्याः सुतो भर्गो यज्ञकार्यकरोऽभवत् ॥८॥ऊर्जबलाद्या ये चाऽन्ये खण्डपालाश्च तेऽभवन् ।द्वादशोर्ध्वशतानां तु पुत्रास्ते वै यथायथम् ॥९॥हर्युक्तव्यवसायेषु योजितास्तेऽभवँस्तदा ।एवं राज्यं महानन्दप्रदं चाऽभूत्तदाऽभितः ॥१०॥बदरि! ते सुतस्तत्र बादरायणसंज्ञकः ।ज्ञानदो दानदश्चासीद् दक्षिणादिप्रदायकः ॥११॥प्रजाश्च ज्ञानमासाद्य विदेहा इव चाऽभवन् ।साक्षात्प्रभोर्ज्ञानवत्यो यात्रार्थमश्वसारसम् ॥१२॥द्रष्टुं नारायणं कृष्णं चायान्ति यान्ति वै मुहुः ।अश्वपट्टसरस्तीर्थं तीर्थोत्तमोत्तमोत्तमम् ॥१३॥व्यजायत हरेर्वासादाक्षरं क्षेत्रमुत्तमम् ।आगत्य च महाभक्ताः कृष्णनारायणस्य तु ॥१४॥प्रयान्ति चाऽक्षरं धाम परमं दिव्यमद्भुतम् ।केचित् समाधिमासाद्य गत्वा चायान्ति तत् पुनः ॥१५॥वर्णयन्ति हरेर्धामाऽक्षरं तत्परमं पदम् ।श्रुत्वा श्रुत्वाऽपरे लोका मोदन्ते सात्त्वतोत्तमाः ॥१६॥प्रशंसन्ति हरेर्धामाऽक्षरं तत्परमं पदम् ।गोलोकाच्चापि वैकुण्ठादुत्तमं परमं पदम् ॥१७॥यत्रैताः श्रीहरेः पत्न्यो मुक्तानिकात्मिकाः सदा ।विराजन्तेऽनादिकृष्णनारायणस्य सेविकाः ॥१८॥श्रुत्वैवं बद्रिके शंसां जिज्ञासा कृष्णयोषिताम् ।उत्पन्ना वीक्षितुं दिव्यं धामाऽक्षरं सुखास्पदम् ॥१९॥शाश्वतं ब्रह्मलोकं तं दिव्यं स्वस्वविराजितम् ।अथाऽर्थनां तु ता नार्यश्चक्रुः स्वामिपतिं प्रति ॥२०॥शाश्वतस्याऽक्षरधाम्नो लोकितुं दिव्यसम्पदः ।हरिः प्राह तदा स्त्रीभ्यो न द्रष्टव्यं तच्चाऽधुना ॥२१॥यस्य वै दर्शने तत्र स्थातुं मनः प्रजायते ।पुनरागमने नैव मतिर्भवति देहिनाम् ॥२२।मद्धामाऽग्रेऽन्यधामानि निस्तेजांसि विभान्ति वै ।ईश्वराणां निलयास्तु भासन्ते निरया इव ॥२३॥अक्षरस्य मम धाम्नो रसे पीते ततस्त्विह ।पानं निःस्वादेव स्यान्मायामयं रसक्षयम् ॥२४॥अक्षरस्य मम धाम्नो मिष्टान्ने भक्षिते त्विह ।भोजनं स्वादहीनं स्यान्मायामयं रसक्षयम् ॥२५॥अक्षरस्य सुगन्धे तु गृहीतेऽत्र तु सौरभः ।न्यक्कार एव दुर्गन्धरूपः स्यान्मायिकः खलु ॥२६॥अक्षरस्याऽऽस्वादिते तु पायसे कामधेनुजे ।मायामयानि दुग्धानि भवन्ति नीरसानि वै ॥२७॥अक्षरस्य फलपुष्पाद्यलंकारे तु वीक्षिते ।भुक्ते सत्पत्र पुष्पादि क्लेदवत् संभवन्ति वै ॥२८॥तत्रत्यसम्पदां भोगे भोगाश्चात्र पुरीषवत् ।तत्रत्यानां विभूतीनां वौक्षणेऽन्यत् कुरूपवत् ॥२९॥कुष्ठवज्जायते पत्न्यस्तस्मान्न वीक्षणं वरम् ।इदानीं वै भवतीनां प्रमन्ये तु विरागकृत् ॥३०॥इह लोके निवासे तद् विघ्नकर्तृ भविष्यति ।आयुषोऽन्ते दिव्यधाम द्रष्टव्यं नाऽधुना ह्यतः ॥३१॥इत्येवं बोधिता पत्न्यो नोचुर्नारायणं प्रति ।किन्तु तीव्रतमा तासां दिदृक्षा संव्यजायत ॥३२॥कीदृश्यो वै वयं तत्र वर्ण्यमाना तु योगिभिः ।भवामश्च हरिस्तत्र कीदृग् भवेत् प्रसुन्दरः ॥३३॥यावद् वयं न पश्यामस्तावच्छान्तिर्न वै मता ।दिदृक्षायाश्च वै नित्यं प्राबल्यं संप्रवर्धते ॥३४॥विचार्येत्थं दिनेऽन्यस्मिन् प्राहुः पद्मावतीं प्रियाम् ।भगिनि श्रीहरेः पत्नि प्रिये मान्या मताऽसि वै ॥३५॥भवत्या संप्रार्थनीयोऽस्मत्पतिः वल्लभः प्रभुः ।धामदर्शनलाभार्थं त्वद्वचः पालयिष्यति ॥३६॥श्रीनरनारायण उवाच-सपत्नीभिस्तु सर्वाभिः प्रेरिता माधवीप्रिया ।प्रार्थयामास तद्धामदर्शनार्थं स्ववल्लभम् ॥३७॥श्रीपद्मावतीप्रिया प्रोवाच-परमप्रिय नाथ त्वं दयालो निजयोषितः ।दर्शयाऽक्षरधामाऽद्य सर्वासां त्वं कृपां कुरु ॥३८॥पुनस्त्वमत्र चानेतुं समर्थोऽसि महाप्रभो ।आनेतव्याः प्रियाः सर्वाः पूरयित्वा मनोरथान् ॥३९॥अथाऽन्याः कोट्यर्बुदाब्जान्यपि चक्रुस्तथाऽर्थनाम् ।प्रदर्शय प्रभो स्वामिन् धामाऽक्षरं परं तव ॥४०॥सर्वा वयं समिच्छामो वीक्षितुं धाम चाऽक्षरम् ।सर्वसंकल्पितं स्वामिन् पूरयितुं स्ववाञ्च्छया ॥४१॥समर्थोऽसि पुनश्चाऽत्राऽऽनेतुं शक्तोऽसि सर्वथा ।तस्माद्धामाक्षरं नैजं प्रदर्शय पते हरे ॥४२॥श्रीनरनारायण उवाच-इत्येवं बद्रिके सर्वा ब्रह्मप्रियाश्च योषितः ।चक्रुः सम्प्रार्थनां तीव्रामशाम्यामनिवर्तिनीम् ॥४३॥हरिर्विज्ञाय भावं च निजेच्छयोत्थितं तदा ।विस्तारं चापि संहर्तुं स्वयं चेयेष तन्मिषात् ॥४४॥तथाऽस्त्वोमिति ताः प्राह भगवान् सर्वभावनः ।ताश्च सर्वाः प्रसन्नाश्च जाता वीक्षितुमक्षरम् ॥४५॥बद्रिके भगवान् सर्वाः प्राह सज्जा भवन्त्विति ।कोट्यर्बुदाऽब्जपत्न्यस्ताः श्रुत्वाऽऽज्ञां स्वामिनः शुभाम् ॥४६॥सवेषभूषाशृंगाराः स्वेष्टोपकरणान्विताः ।अत्युत्साहभरा नार्यः सज्जास्तूर्णं तदाऽभवन् ॥४७॥अमूल्याऽम्बरधारिण्यः केशवेषातिशोभनाः ।स्वर्णरत्नमणीन्द्राढ्यहारभूषाद्यलंकृताः ॥४८॥तेजोऽभिवर्धिता दिव्या युवत्यो नैकरंगिकाः ।सज्जा द्रुतं वीक्षितुं चाऽक्षरं धामाऽभवन् मुदा ॥४९॥मिथः प्रमोदवचनान्यब्रुवन् स्नेहसंभृताः ।आल्यो नाथेन कृष्णेन सनाथा वै वयं सदा ॥५०॥कान्तेन कृपयाऽस्मभ्यो दर्शितं क्षितिमण्डलम् ।ततः स्वर्गानि सर्वाणि पातालान्यप्यशेषतः ॥५१॥दर्शितानीश्वराणां च गृहाणि विविधान्यपि ।ईशसृष्टिः समस्ता नो दर्शिता परमात्मना ॥५२॥वैकुण्ठं चापि गोलोको धामाऽव्याकृतमित्यपि ।अमृतं श्रीपुरं श्रेष्ठं दर्शितानि दयालुना ॥५३॥परं धामाऽक्षरं तस्य स्वामिनः सर्वतोऽधिकम् ।द्रक्ष्यामोऽद्य महाभाग्यवत्यः स्मोऽत्र हरेः प्रियाः ॥५४॥नाऽन्यासां तादृशं भाग्यं यदस्माकं प्रवर्तते ।मूलं गृहं स्वामिनो नो द्रक्ष्यामः शाश्वतं पदम् ॥५५॥श्रुतयोऽपि न पश्यन्ति न पश्यन्त्यपि योगिनः ।ईश्वरा नैव पश्यन्ति तद् द्रक्ष्यामो हरेः पदम् ॥५६॥यदत्र भगवानस्मदग्रे किरोति वर्णनम् ।भवतीनां स्वरूपाणि सन्त्यक्षरे परे पदे ॥५७॥दिव्यातिदिव्यदिव्यानि स्वरूपाणि स्वयोषिताम् ।तानि रूपाणि चाऽस्माकं द्रक्ष्यामोऽद्य कृपालवात् ॥५८॥दिव्यं स्वस्वामिनं चाऽऽल्यो द्रक्ष्यामस्तत्र संस्थितम् ।असंख्यमुक्तजुष्टं चाऽसंख्याऽवतारधारिणम् ॥५९॥अनन्तदिव्यवामाभिः सेवितं स्वामिनं हरिम् ।अनादिश्रीकृष्णनारायणं द्रक्ष्याम उत्तमम् ॥६०॥भोक्ष्यामो दिव्यभोगाँश्च वत्स्यामश्च यथेप्सितम् ।रंस्यामहे महानन्दप्रदेन परमात्मना ॥६१॥उद्यानानि समस्तानि मन्दिराणि शुभानि च ।ब्रह्महृदान् ब्रह्मनदीर्द्रक्ष्यामः परमात्मनः ॥६२॥दिव्यसिंहासनादीनि दिव्यसंसद्स्थलानि च ।दिव्यरासविहाराँश्च द्रक्ष्यामः कृपया हरेः ॥६३॥दिव्यसुधाः प्रपास्यामो वेत्स्यामो निजसम्पदः ।अत्स्यामो मिष्टभोज्यानि श्रीहरेर्ब्रह्मधामनि ॥६४॥इत्येवं वदमानास्ता ब्रह्मप्रिया हरिप्रियाः ।कृष्णप्रियाश्च ताः पत्न्यः सज्जास्तदाऽभवन् द्रुतम् ॥६५॥बद्रिकेऽनादिकृष्णश्रीनारायणः समुत्सुकः ।सस्मार मुक्तवृन्दानि तदा स्वाऽक्षरधामतः ॥६६॥आययुर्दिव्यरूपाश्च दिव्याऽसंख्यविमानगाः ।दिव्यविमानिनश्चापि दिव्यविमानवाहकाः ॥६७॥आययुस्ताः समानेतुं सृष्ट्यावरणवर्जिताः ।कुंकुमवापिकाक्षेत्रोर्ध्वेऽम्बरे तेऽभवन् स्थिराः ॥६८॥पुष्पाणां दिव्यगन्धानां चक्रुः कृष्णे प्रवर्षणम् ।वादयामासुरत्यर्थं दिव्यवाद्यानि वै तदा ॥६९॥देवाद्या दर्शनं कर्तुमाययुर्द्युनिवासिनः ।कृष्णनारायणश्चाज्ञापयामास निजप्रियाः ॥७०॥मातरं पितरं चापि दासान् दासीश्च वै तदा ।ऋषीन् महर्षीन् साधूँश्च साध्वीश्च सेवकाँस्तथा ॥७१॥यमलानि सहस्थानि स्वापत्यानि तदाऽपि च ।आरोढुं च विमानेषु दिव्येषु क्रमशः खलु ॥७२॥पत्न्यः सर्वा निषेदुश्च दास्यो दासाश्च बालकाः ।सेवकाः पितरौ चापि निषेदुस्तेषु चाम्बरे ॥७३॥सत्यश्च साधवश्चापि परीहारपरायणाः ।निषेदुस्ते विमानेषु मुक्तैः सह क्षणान्तरे ॥७४॥शंखनादोऽभवत्तूर्णं ततः सञ्चारबोधकः ।न कश्चिद्वा काचिदपि शिष्यते भूतले यथा ॥७५॥कुंकुमवापिकाक्षेत्रं क्षणं शून्यमिवाऽभवत् ।विमानेषु स्थिताः सर्वनारीनरादिकोटयः ॥७६॥पुनर्वै शंखनादोऽभूत् कृष्णनारायणस्य ह ।न कश्चिच्छिष्यते पृथ्व्यां धामजिगमिषार्थवान् ॥७७॥अथ कृष्णश्चकाराऽपि शंखनादं तृतीयकम् ।विमानानि तदा श्रीमल्लोमशेनाऽन्वितानि वै ॥७८॥असञ्चरन् व्योममार्गे क्षणाददृश्यतां ययुः ।विभिद्य सप्तनाकानि तथाऽष्टावरणान्यपि ॥७९॥ईश्वराणां च धामान्युल्लंघ्याऽक्षरपदं ययुः ।अक्षरस्य तदा सीम्नि शारदीपूर्णिमातिथौ ॥८०॥वेगवन्ति विमानानि मध्याह्ने त्वक्षरं ययुः ।ब्रह्मह्रदे हरिः सर्वान् स्नापयित्वा विमानगान् ॥८१॥नरान्नारीः समस्ताँश्च कृत्वा तद्योग्यविग्रहान् ।दिव्यान् दिव्यस्वरूपाँश्च ब्रह्मदेहान् समस्तकान् ॥८२॥अजराऽमरसदृशरूपान्निजस्वरूपिणः ।शाश्वतान् चैकतत्त्वाढ्यान् सच्चिदानन्दविग्रहान् ॥८३॥धामयोग्यैश्वर्यसिद्धिगुणशक्तिसमन्वितान् ।कृत्वाऽवस्थाप्य च पुनर्विमानेषु समस्तकान् ॥८४॥ययावग्रे हरिः स्वामी नैकरूपधरः प्रभुः ।सर्वान्नीत्वा सहैवाऽग्रे परमाक्षरधामनि ॥८९॥अथापि बद्रिके दिव्याऽपारतेजोऽभिसम्पदम् ।आक्षरं व्योम संवीक्ष्य क्षणं ते स्तब्धतां गताः ॥८६॥तदा श्रीभगवाँस्तेषु मुक्तेष्वाविश्य सत्वरम् ।शक्तीर्निजा धामयोग्याः प्रददौ तेभ्य आक्षरीः ॥८७॥अथाश्चर्यं महत्प्राप्ताः किमेतत् पुरुषा वयम् ।नारीत्वं विगतं सर्वमभवामो नरोत्तमाः ॥८८॥पुरुषोत्तमरूपाः स्वस्वामिरूपाश्च सर्वथा ।भवामोऽत्र किमेतद्वै महाश्चर्यमिदं त्विह ॥८९॥ब्रह्मप्रियादिकमुक्ताः पप्रच्छुः परमेश्वरम् ।किमत्र भगवान्नोऽस्ति पुंस्त्वं तत्कारणं वद ॥९०॥श्रुत्वा तु बद्रिकेऽनादिकृष्णनारायणो हरिः ।प्राह स्वीयांगकोटिभ्यः शृण्वन्तु मम चांऽगनाः ॥९१॥माया या प्रकृतिः प्रोक्ता मम शक्तिस्वरूपिणी ।सा राधा कृष्णपत्नी च मया स्वस्मात् प्रकाशिता ॥९२॥मुक्तरूपाऽतिरूपाढ्या मुक्तगन्धातिगन्धिनी ।मुक्तस्नैग्ध्यातिस्नैग्ध्याढ्या चाकचिक्यातिशोभना ॥९३॥सुवाला पेशला तन्वी सर्वलावण्यशेवधिः ।सर्वाकर्षणधर्माढ्या दर्शनीयाऽतिसुन्दरी ॥९४॥विचित्रां चञ्चलां तां च वीक्ष्य विसृज्य मां च वै ।मुक्ताः स्निग्धाः परब्रह्म मत्वा तां मत्स्वरूपिणीम् ॥९५॥दध्युरानर्चुरेता च सिषेविरे महेश्वरीम् ।नवधा राधिकायास्तु भक्तिं चक्रुर्विशेषतः ॥९६॥विदन्तो मां तदाकृष्टास्तन्मयास्तेऽभवँस्तदा ।अथाऽहं मत्प्रभावं तं ज्ञात्वा मुक्तवशंकरम् ॥९७॥कृष्णं रूपं समास्थाय चाऽपाऽसरं तदाऽक्षरात् ।गोलोकं वासयामास सदा तत्र स्थितोऽभवम् ॥९८॥मूलरूपोऽक्षरेऽत्रैवाऽवसं मुक्ताभिसेवितः ।तदाऽसंकल्पयं चाऽत्राक्षरे धाम्नि परे मम ॥९९॥प्रकृतिर्वापि राधा वा माणिकी लक्ष्मीरित्यपि ।ब्रह्मप्रियाश्च वा कृष्णप्रिया हरिप्रियाश्च वा ॥१००॥ईशान्यश्चेश्वराण्यो वा मुक्तान्यो भक्तयोषितः ।मन्मूर्तेः शक्तयो वापि चाऽवतारस्त्रियोऽपि वा ॥१०१॥आगच्छेयुर्मम धाम्न्यक्षरे परमधामनि ।तदा नार्यो नरा भूत्वाऽनादिकृष्णस्वरूपिणः ॥१०२॥आविशेयुश्च तिष्ठेयुर्विहरेयुर्ममाऽक्षरे ।नान्यथेति नियमो वै मया शाश्वतिकः कृतः ॥१०३॥प्रकाशं नैव नारीणां रूपमत्र प्रवर्तते ।तदेवं भवतीनां वै मत्स्वरूपाणि चाऽक्षरे ॥१०४॥प्रजातानि ततश्चात्र मदात्मकानि सर्वथा ।सालोक्यसार्ष्टिसारूप्यसामीप्यैकत्ववन्ति च ॥१०५॥अथापि बहुवारं ता राधाद्या मां समार्थयन् ।अक्षरे निजरूपेण सेवितुं मां यथेष्टकम् ॥१०६॥मया ततोऽतिसेवार्थं प्रतिपन्नं वदामि वः ।यथा मुक्ता न पश्येयुर्नारीरूपं ममाऽक्षरे ॥१०७॥तथा रहः प्रसेवन्तां मन्दिरे मम सर्वदा ।यथेष्टरूपमाधाय पत्नीरूपाणि वै तथा ॥१०८॥मुक्ता अपि प्रसेवन्तां चाऽप्रकाशं तथाविधाः ।ततोऽक्षरे परे धाम्नि चात्र प्रकाशगोचराः ॥१०९॥सर्वे नरस्वरूपा वै विचरन्ति मदात्मकाः ।अगोचरास्तु ते सर्वे मदन्यागोचराः सदा ॥११०॥मदंगनास्वरूपा मामुपासते मम प्रियाः ।तथा भवन्तो मुक्ताश्च पुमांसः सन्ति गोचराः ॥१११॥मदन्याऽगोचराः काले भवथ मत्प्रिया अपि ।आकर्षणातिवेगेनोपासनाऽन्यत्र नो यथा ॥११२॥भवेत् तथा निगूढाश्च प्रत्येकमात्रगोचराः ।मद्योषितोऽन्वहं भूत्वा प्रसेवन्तां यथायथम् ॥११३॥सर्वे मुक्ताः प्रसेवन्ते गूढकामास्तथाहि माम् ।यथेष्टरूपधर्तारः सेवन्ते मां स्वमन्दिरे ॥११४॥लीलामेतां मम धाम्नि न जानन्त्यपरे मिथः ।एवमपारसामर्थ्योऽनन्तलीलादिगोचरः ॥११५॥अतिस्नेहेन चाऽऽश्लेषं ददामि ताभ्य उत्तमम् ।इत्युक्त्वा बद्रिके चाग्रे विमानानि व्यनोदयत् ॥११६॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरेर्निजपत्न्यादीनां परमाऽक्षरधामाऽवलोकनप्रार्थनां स्वीकृत्य सर्वाभिः सह कोटिविमानैः परमाक्षरधामाभिगमनं, तत्र मुक्तनरस्वरूपेषु सर्वासां परिवर्तनं, तज्जिज्ञासायाः समाधानं चेत्यादिनिरूपणनामा त्रयोदशाधिकशततमोऽध्यायः ॥११३॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP