संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ८४

तिष्यसन्तानः - अध्यायः ८४

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि शैलवज्रश्चमूपतिः ।
रथस्थः सर्वशस्त्रास्त्रसम्पन्नः पुरतोऽभवत् ॥१॥
नन्दिभिल्लमहासैन्येऽभवन् घोषाः सहर्षकाः ।
जयार्थं तूर्यनिनदा भेरीशंखादिनिःस्वनाः ॥२॥
तावन्मुमोच बाणान् स तीक्ष्णान् विदारकान् मृधे ।
शतं शतं चैकवारमाच्छादयद् रथं हरेः ॥३॥
कुबरस्य रथं चापि नागस्यापि रथं तथा ।
चिच्छेद भगवान् सर्वान् समायातान् प्रवाहिणः ॥४॥
सहस्रबाणैर्भगवान् मुक्तैर्युगपद्वेगिभिः ।
शरान् शैलव्रजस्यापि नन्दिभिल्लस्य वै शरान् ॥५॥
कुबरो भल्लकान् धृत्वा सायकांश्च शिलीमुखान् ।
शतं शतं तु युगपज्जघान भिल्लसैन्यपौ ॥६॥
व्यदृश्यन्त रिपुरथा मेघछन्नाद्रयो यथा ।
कालवज्रादयश्चान्ये चमूनां पतयस्तदा ॥७॥
शरमेघान् प्रसंजह्रुर्बह्वीभिः शरकोटिभिः ।
नन्दिभिल्लः शरं तीक्ष्णं वाह्नेयं समवासृजत् ॥८॥
तदुत्पन्ना अनलास्तु प्राज्वालयन् हि कूबरम् ।
नागविक्रमणं चापि तस्य सैन्यानि चाभितः ॥९॥
कृष्णनारायणस्तत्र धृत्वा रूपाणि सर्वशः ।
ययौ सैन्यानलं सर्वं महाश्चर्यमभूद्धि तत् ॥१०॥
अथ शैलव्रजस्तत्र शरं पार्वतमन्त्रवत् ।
मुमोच नागसैन्येषु पर्वतास्तेऽभवन् हि खे ॥११॥
निपेतुश्चूर्णयामासुर्नागसैन्यानि सर्वतः ।
कुबरः पार्थिवैर्मन्त्रैर्वज्रान् मुमोच दारुणान् ॥१२॥
वज्रहताः पर्वतास्ते निलीयुर्वै क्षणान्तरे ।
पृथ्वी महाद्रीन् सहसाऽगिलत् सर्वान् समन्ततः ॥१३॥
तदाश्चर्यं महज्जातं सर्वेषां स्तब्धताकरम् ।
हरिश्चूर्णितताप्राप्तान् स्वस्थान् चकार वीक्षणात् ॥१४॥
पशून् वाहनसंस्थाँश्च योजितानप्यजीवयत् ।
अथ बद्रीप्रिये तत्र कुबरो गर्त्तमन्त्रवित् ॥१५॥
गर्तमन्त्रशरं साऽस्त्रं मुमोच शैलवज्रकम् ।
शैलवज्ररथाऽधस्ताच्छरास्त्रं गर्तमाकरोत् ॥१६॥
यद्गर्त्ते तु रथोऽश्वाश्च शैलवज्रः सशस्त्रकः ।
अवातरद् द्रुतं यस्य रक्षा केनापि न कृता ॥१७॥
पृथ्वी जग्रास गर्भे स्वे शैलवज्रं तु बद्रिके ।
पृथ्वीगर्भे मृतः पृथ्वी पुनर्यथा तथाऽभवत् ॥१८॥
भूकम्पस्तु महान् जातस्तदा चम्वोर्द्वयोरपि ।
त्रस्ता योद्धार एवापि क्षणं मोहमुपागताः ॥१९॥
शैलवज्रो इतश्चेति शुशुचुर्नन्दिभिल्लिनः ।
जयनादान् प्रचक्रुश्च नागविक्रमयोधिनः ॥२०॥
अथाऽऽययौ कालवज्रनामा पञ्चमसैन्यपः ।
महाकालसमः क्रूरोऽन्तकतुल्यपराक्रमः ॥२१॥
तदा वाद्यान्यवाद्यन्त सेनयोरुभयोर्द्रुतम् ।
अस्त्रं हैमं महामन्त्राधिष्ठितं स मुमोच ह ॥२२॥
उपला हिमजास्तत्राऽभवन् व्योम्नि जलस्रवाः ।
अतिशैत्योपला व्योम्नो निपेतुः प्राणघातिकाः ॥२३॥
कोटिशो लक्षशश्चापि ज्ञात्वाऽस्त्रं हिममन्त्रितम् ।
मुमोच कुबरस्तूर्णं सौर्यास्त्रं हिमनाशनम् ॥२४॥
वाडवास्त्रं द्रुतं चापि जलभक्षणकारकम् ।
तेनोपला विलीना वै हैम्यः सर्वा जलात्मिकाः ॥२५॥
जलं तूर्णं चाम्बरे तु लयं प्राप्तं तु वाडवात् ।
कुबरस्तु ततः कालवज्राय वज्रमुत्तमम् ॥२६॥
मुमोच कालवज्रस्तद् व्यनाशयत् स्ववज्रकैः ।
कुबरस्य विनाशार्थं प्रेषयद् भैरवास्त्रकम् ॥२७॥
भैरवो भयदः क्रूरः कुबरे वीक्ष्य शंकरम् ।
नत्वा लीनोऽभवत्तूर्णं महाश्चर्यमिदं त्वभूत् ॥२८॥
कुबरः स्वशरं सांकर्षणास्त्राढ्यं व्यमूमुचत् ।
कालवज्राय कालोऽपि यदधीनो विलुण्ठति ॥२९॥
संकर्षणो महावीरो महागदादिशस्त्रवान् ।
जघान बाणरूपेण कालवज्रं तु सैन्यपम् ॥३०॥
चूर्णयामास सरथं शतेनैकेन भूतले ।
कालवज्रे हते भिल्लसैन्यान्यासन् द्रवन्ति च ॥३१॥
हाहाकारो महान् जातो हते वै कालवज्रके ।
वह्निवज्रस्ततस्तूर्णमाययौ पृतनापतिः ॥३२॥
सैन्याग्रेऽयोधयद् बाणैर्भल्लैश्च स्वर्णपुंखकैः ।
शतं सहस्रं बाणानां विससर्ज स मेघवत्। ॥३३॥
एकस्मात् तु सहस्राणि मन्त्रास्त्रयोजिताः शराः ।
विनिर्ययुर्व्योममार्गे पतन्ति सैन्यमस्तके ॥३४॥
शराणां वृष्टयश्चाऽधोमुखानां परितोऽभवन् ।
नागविक्रमसैन्यानि चाऽऽन्ध्यमुग्धानि वै क्षणम् ॥३५॥
अभवँश्च तदा रुद्रो व्योमाऽस्त्रं समवासृजत् ।
कुबरस्थेन रुद्रेण व्योम्ना वृष्टिर्लयीकृता ॥३६॥
उत्पादिताश्च राक्षस्यो वज्रदेह्योऽतिदारुणाः ।
बाणभक्षणकारिण्योऽन्तरीक्षे वज्रनाशिकाः ॥३७॥
उत्पद्यन्ते सहस्राणि त्वेकस्या राक्षसीस्त्रियाः ।
ता निगिल्य शरवृष्टिं व्योम्ना पेतुर्हि सैन्यके ॥३८॥
नन्दिभिल्लस्य सर्वस्मिन् तदाऽऽक्रोशास्ततोऽभवन् ।
मारयन्तु खादयन्तु चर्वयन्तु विशन्तु च ॥३९॥
त्रोटयन्तु स्फोटयन्तु मानवान् भिल्लसैन्यगान् ।
इत्येवं वदमानास्ता निगिलुश्चखदुश्च तान् ॥४०॥
हाहाकारः पुनश्चासीद् भिल्लिसैन्येषु सर्वतः ।
मरणं शरणं चेति नान्यत्तत्र व्यदृश्यत ॥४१॥
अथ राजा नन्दिभिल्लो ज्ञात्वाऽऽपदं विनाशिनीम् ।
जगाम शरणं चाग्निरातर्षेः स्वस्य सद्गुरोः ॥४२॥
अग्निरातस्तदा रक्षोहनं मन्त्रं शरासनम् ।
कृत्वा मुमोच सहसा सायकं राक्षसान्तकम् ॥४३॥
एकशरात्सहस्राणि जायन्ते सायकास्ततः ।
यां यां स्पृशति बाणोऽसौ सा सा तिरोभवत्तदा ॥४४॥
एवं निवारिताः सर्वा राक्षस्यो गुरुणा तदा ।
बह्निवज्रो ततोऽमुञ्चद् वैष्णवास्त्रं सुदारुणम् ॥४५॥
विष्णवः शस्त्रवन्तो वै समुत्पन्नाः सहस्रशः ।
उत्पत्योत्पत्य सहसा लीनाः कृष्णनरायणे ॥४६॥
तदद्भुतं परं जातं वह्निवज्रस्ततः पुनः ।
नारायणास्त्रं विपुलं सर्वप्राणहरं क्षणात् ॥४७॥
मुमोच सर्वनाशार्थं तदपि श्रीनरायणे ।
बालकृष्णेऽभवल्लीनं महाश्चर्यमिदं ह्यभूत् ॥४८॥
वह्निवज्रस्ततो निद्रामहास्त्रं प्रसमैरयत् ।
निद्रा नारायणाक्षिप्ता विलीना कृष्णनेत्रके ॥४९॥
एवं व्यर्थानि चास्त्राणि विदित्वा क्रोधमाप्तवान् ।
मुमोच कालकवलं महास्त्रं सर्वभक्षकम् ॥५०॥
मुक्ताद् बाणान्महाकालो विकरालो विनिर्ययौ ।
नैकयोजनविस्तीर्णो नैकयोजनकोच्छ्रयः ॥५१॥
सर्वग्रासकरं वीक्ष्य कालं कृष्णनरायणः ।
नागस्थं तु महाकालमैरयत् तल्लयाय ह ॥५२॥
नागविक्रमराजस्थो महाकालो द्रुतं तदा ।
कालकवलसंज्ञं स्वं रूपं समजहार ह ॥५३॥
लीनं वीक्ष्य तु कालास्त्रं भयं चापाऽग्निवज्रकः ।
गतं चास्त्रं महन्मे वै निःशस्त्रोऽस्मि च निर्बलः ॥५४॥
तथापि गदया योत्स्ये मुद्गरेण तथाऽसिना ।
विचार्येत्थं महाशक्तिं जग्राह च मुमोच च ॥५५॥
कुबरस्तां स्वगदया विहतां प्रचकार ह ।
पतिता सा गदा चापि भूतले ग्राहवत्तदा ॥५६॥
कुबरश्च द्रुतं शक्तिं चिक्षेप वह्निवज्रके ।
सा वह्निवज्रकं भित्त्वा क्षितावर्धंगताऽभवत् ॥५७॥
वह्निवज्रोऽद्रिबलवान् समुत्थाय सशक्तिकं ।
उत्थाय खड्गहस्तश्च दुद्राव शक्तिलग्नितः ॥९८॥
कुबर तु व्यसुं कर्तुं तावन् कुबरसैन्यपः ।
शक्तिं मुमोच सहसा द्वितीयां गलकूपके ॥५९॥
तृतीयामुदरे चास्य गदां मुमोच मस्तके ।
अर्धचन्द्राँस्तीक्ष्णशरान् पादाग्रयोर्मुमोच ह ॥६०॥
कर्त्तपादो भग्नकण्ठो भिन्नोदरः पपात ह ।
गदया चूर्णितांगश्च भिन्नमूर्धा ममार च ॥६१॥
वह्निवज्रोऽगमन्मृत्युं बद्रिके गहने रणे ।
त्रिंशत्साहस्रसैन्यानि नन्दिभिल्लस्य बद्रिके ॥६२॥
नागविक्रमसैन्यानां मारैर्मृत्युमगुर्मृधे ।
अथ प्रालेयवज्राख्यः सप्तमः सैन्यपस्ततः ॥६३॥
नन्दिभिल्लादेशकरः सैन्याग्रे संस्थितोऽभवत् ।
शरान् मुमोच शतधा गर्जयन् परितो दिशः ॥६४॥
सैन्यानि तस्य मुमुचुर्बाणान्नागचमूषु वै ।
स्फोटकैर्गोलकैश्चापि शतघ्नीभिश्च सायकैः ॥६५॥
भूशुण्डीभिर्वह्निशस्त्रैरर्दयामासुरुत्कटान् ।
योद्धॄन् समन्ततस्तत्र प्रालेयवज्रदेशतः ॥६६॥
कुबरस्यापि सैन्यानि बद्रिके वह्निगोलकैः ।
शतघ्नीभिर्भूशुण्डीभिर्जघ्नुर्भिल्लचमूस्ततः ॥६७॥
प्रालेयवज्रहस्तेन बाणाः शतसहस्रशः ।
कार्मुकान्निःसरन्त्यूर्ध्वमुत्पतन्ति चमूपरि ॥६८॥
कुबरस्य धनुर्ज्यां सचिच्छेदापि च कार्मुकम् ।
कुबरोऽन्यत् समादाय व्यसर्जयच्छरान् बहून् ॥६९॥
तरुज्यां व्यनाशयच्छीघ्रं प्रालेयवज्रको यदा ।
कुबरश्चार्धचन्द्राभ्यां चिच्छेद कार्मुकं करम् ॥७०॥
प्रकोष्ठहस्तशून्यो वै प्रालेयोऽस्त्रमवासृजत् ।
प्रालेयास्त्रं विषतापात्मकमन्त्राभिमन्त्रिम् ॥७१॥
यत्र द्वादशसूर्याणां विषतेजांसि चापतन् ।
सैन्यमूर्छां व्यधात्तूर्णं तद्धि प्रलयसदृशीम् ॥७२॥
कृष्णोनारायणःस्वामी विदित्वा तु विषानलम् ।
आमृतीं पीयूषमयीमाक्षरीं ब्रह्मसंभवाम् ॥७३॥
ब्राह्मीं शक्तिं निजां सर्वविषादां समवासृजत् ।
सा तु मूर्ता क्षणमात्रान्मनोवेगेन सर्वतः ॥७४॥
भ्वामम्बरे सैन्यभागे प्रासरद् विषशान्तिदा ।
आमृती सा विषं पीत्वाऽमृतदानेन तान् भटान् ॥७५॥
पोषयामास बहुधा सैन्यानि सर्वतोदिशः ।
प्रालेऽयाऽस्त्रं समस्तं सा संजहार हि बद्रिके ॥७६॥
कुबरस्तु तदा धृत्वा सर्वधारं सुचक्रकम् ।
फलाग्रसुभ्रमच्चक्रं दीर्घशरमिवाऽसृजत् ॥७७॥
प्रालेयवज्रकं प्राप्य चक्रं तच्छरसंयुतम् ।
गले पपात यावद्वै तावद् द्वेधा बभूव तत् ॥७८॥
शरं विवेश हृद्ये चक्रं विवेश वै गले ।
प्रालेयवज्रको द्वेधा छिन्नो ममार वै रथे ॥७९॥
हाहाकारो महान् जातो मृतः प्रालेयवज्रकः ।
शोकं चकार भिल्लोऽपि वह्निरात्रं न्यवेदयत् ॥८०॥
गुरो नष्टा मम सप्त सेनेशाः सप्ततिस्तथा ।
सहस्राणि तु योद्धारो मानवा रणदुर्मदाः ॥८१॥
दिवारात्रं युद्धमेतत्प्रवर्तते दिनद्वयात् ।
रात्रिद्वयात्तथा विप्र सैन्यनाशो महानपि ॥८८२॥
त्रिंशत्साहस्रमात्रं मे वर्तते मानवं दलम् ।
त्रयश्चमूपतयश्च शिष्यन्ते मे जयप्रदाः ॥८३॥
गुरो त्वं सैन्यपो भूत्वा मज्जयाय समाचर।
पराजयो हि संसारे सर्वथा नरकप्रदः ॥८४॥
इत्येवं बद्रिके श्रुत्वा गुरुश्चाह तु भिल्लकम् ।
इन्द्रघातहरिच्छैलकालाग्निलयवज्रकाः ॥॥५॥
हतास्तथापि सबला जयाशा गुरुगामिनी ।
यत्र नारायणश्चास्ते महाकालो नृपेऽस्ति च ॥८६॥
रुद्रः कुबरे संविष्टः सैन्येषु सर्वशक्तयः ।
तत्र जयाशा विफला राजन् युद्धं विरामय ॥८७॥
श्रुत्वैतत् सहसा क्रुद्धो नन्दिभिल्लोऽतिवेगवान् ।
प्रैरयद् रणवज्रं वै सैन्यपं चाष्टमं तदा ॥८८॥
रणवज्रो रणं चक्रे नाराचैर्भिन्दिपालकै ।
शरैर्बाणैः सायकैश्च शिलीमुखैश्च मार्गणैः ॥८९॥
स्वर्णपुंखै रुक्मपुंखैश्चान्द्र्यन्द्रैश्च खड्गकैः ।
छुरिकैर्भल्लकैश्चापि कुन्तलैः शक्तिभिश्च ह ॥९०॥
मन्त्रास्त्रयोजितैः सर्वैर्वर्धमानैः समन्ततः ।
आच्छादयद् व्योममार्गं शरजालै रणव्रजः ॥९१॥
कुबरस्य महासैन्यं छन्नं बाणप्रवर्षणैः ।
नाकाशो दृश्यते तत्र नोर्ध्वं चक्षुः प्रवर्तते ॥९२॥
अन्धकारमयं बाणैर्जातं सर्वं क्षणान्तरे ।
तदाश्चर्यमभूत्तत्र रणवज्रस्य कर्मणा ॥९३॥
अथ राजा नागदेवः स्वयमस्त्रं दधे तदा ।
महातेजोऽभिधं सर्वबाणानां भस्मताकरम् ॥९४॥
व्याप्तं भूत्वाऽम्बरे भस्मीचकार बाणवर्षणम् ।
सन्दधे च महाशक्तिं दुर्गामन्त्रप्रवर्धिताम् ॥९५॥
रणवज्रं मारयितुं मुमोच रुद्रदेवताम् ।
जगाम सहसा देवी रणवज्रस्य वक्षसि ॥९६॥
निपपात यया वज्रं पर्वते प्रपतेत्तथा ।
विभिद्य हृदयं तस्य जगाम सरथा भुवम् ॥९७॥
रणवज्रो हतस्तत्र हाहाकारोऽभवन्महान् ।
अहो कष्टं रुरोदाऽपि श्रुत्वा भिल्लो विमूर्छितः ॥९८॥
स्वस्थो भूत्वा तथा युद्धे युद्धवज्रं तु सैन्यपम् ।
विजयार्थं त्वादिदेश युद्धवज्रोऽपि चाऽऽययौ ॥९९॥
रणाग्रे कुबरस्यापि नाशार्थं श्रीहरेस्तथा ।
राज्ञश्चापि विनाशार्थं रणाग्रे समुपाययौ ॥१००॥
रथं स्त्रीसूतनोद्यं वै समास्थाय समाययौ ।
धर्मयुद्धं परित्यज्य स्त्रीं कृत्वा चाऽग्रतो रथे ॥१०१॥
आययौ रणधूर्तः सशस्त्रास्त्रबलसंयुतः ।
यत्र स्त्री दृश्यते तत्र शस्त्रपातो न सम्मतः ॥१०२॥
स्त्रीकृताऽवन एवासौ रणे चावाततार ह ।
बद्रिके सर्वसैन्यानां तदा हास्यमभून्महत् ॥१०३॥
स्त्रीभूतः स्त्रीवचःकर्ता स्त्रीसहायः स्त्रीधर्मवान् ।
स्त्रीनोदितो विनाशं वै यात्येव नात्र संशयः ॥१०४॥
अथ कृष्णः प्रभुर्दृष्ट्वा स्त्रीसूतं युद्धवज्रकम् ।
दुर्गायै स्त्रीस्वरूपेण योद्धुमाज्ञां चकार ह ॥१०५॥
अनन्ताश्च तदा दुर्गा रथस्थाः सिंहपृष्ठगाः ।
शरभस्था व्याघ्रसंस्था गवयस्था वृषस्थिताः ॥१०६॥
अभवँस्तत्र चाग्रस्था योद्धुं स्त्रीसूतसन्निधौ ।
आश्चर्यं परमं प्राप युद्धवज्रः प्रवीक्ष्य ताः ॥१०७॥
सहस्रशस्तदा दुर्गाः सन्देहमाप जीवने ।
बाणवर्षणमेवाऽऽदौ चकार स्त्रीजनेषु सः ॥१०८॥
दुर्गासु सर्वतस्ताश्च सर्वानगिलन् सायकान् ।
खड्गहस्ताश्च ताः सर्वा उत्पत्योत्पत्य तद्रथे ॥१०९॥
निपेतुर्युद्धवज्रस्य नाशनार्थं रथोपरि ।
प्रविश्य ता रथे युद्धवज्रं च सारथिं स्त्रियम् ॥११०॥
चिच्छिदुः खण्डशः सर्वास्ततः सैन्यान्यनाशयन् ।
मृतश्च नवमो युद्धवज्रः सैन्यप आहवे ॥१११॥
हाहाकारो महानासीत्तदा भिल्लिचमूषु वै ।
सैन्यानि निहतान्येव सहस्राणि तु विंशतिः ॥११२॥
दुर्गाभिस्तत्र सैन्यैश्च सर्वशक्तिबलान्वितैः ।
बद्रिके नन्दिभिल्लस्तु तदा मूर्छामवाप ह ॥११३।
नागविक्रमसैन्यानां महोत्सवस्तदाऽभवत् ।
वह्निरातो भिल्लगुरुः शुशोचाऽवनमुत्तमम् ॥११४॥
शरणं रक्षणं चात्र नान्य उपाय उत्तमः ।
एवं राज्ञे उपादेष्टुं समारभत सद्गुरुः ॥११५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने संग्रामे नन्दिभिल्लस्याऽन्यषट्सेऽनापतीनां षष्टिसाहस्रसैन्यसहितानां विनाशनमित्यादिनिरूपणनामा चतुरशीतितमोऽध्यायः ॥८४॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP