संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीरमे देवि तव भक्तकथानकम् ।यथा त्वं ब्रदरीभावं प्राप्ता भक्तिवशानुगा ॥१॥बदरो नाम राजर्षिर्हिमभूमौ पुराऽभवत् ।महाभागवतो भक्तो वैष्णवोत्तम ऊर्ध्वगः ॥२॥पृथिव्यर्धं शशासाऽसौ दिव्यसामर्थ्यसाधनैः ।विमानान्यभवन् यस्य पारे लक्षं सुखानि च ॥३॥सौवर्णानि कल्पवृक्षोद्यानोपशोभितानि हि ।दिव्यकन्यानिवासानि स्मृद्धान्युच्चावचानि च ॥४॥एकैकं सूर्यवद्भाति चन्द्रवत्तेजसां चयैः ।यत्प्रभाभिर्निशा पृथ्व्यां लीनेव वर्तते तदा ॥५॥भ्रान्तिर्नक्षत्रताराणां जायतेऽल्पे विमानके ।चन्द्रज्योत्स्ना तु मिलिता तदा दुग्धायतेऽम्बरे ॥६॥इन्द्रधनुःप्रकाशाश्चोत्प्रसरन्ति घनेष्वपि ।विमानानां किरणानां बदरस्य महात्मनः ॥७॥एकं सत्याभिधं दिव्यं विमानं सत्यसंचरम् ।ब्रह्मसभायां नृपतिस्तेन याति हि योगिराट् ॥८॥द्वितीयं चार्यमसंज्ञं पितलोकादिसञ्चरम् ।तृतीयं त्रिदिवं नाम चैन्द्रपदं चतुर्थकम् ॥९॥पञ्चमं भास्करं नाम षष्ठं कौमुदकं तथा ।सप्तमं ध्रुवसंज्ञं चाऽष्टमं कैलासनामकम् ॥१०॥धर्मसंज्ञं नवमं च मेरुसंज्ञं ततोऽधिकम् ।श्वेतवाहं क्षीरवाहं तलाख्यान्यपराणि च ॥११ ॥लोकालोकाभिधं चापि मनोजवानि तानि वै ।यथाभिधानगुणकान्यतिदिगन्तगानि च ॥१२॥सर्वभोग्यर्द्धिपूर्णानि यथा धिष्ण्यानि तानि ह ।तेषु सर्वेषु रत्नानां सुवर्णानां च मूर्तयः ॥१३ ॥अनादिश्रीकृष्णनारायणस्य प्रतिमाः शुभाः ।श्रीमाणिक्यामहालक्ष्मीयुता युगलविग्रहाः ॥१४॥गजासने स्थापिताः पूजिताः श्रीबदरेण ह ।सर्वशृंगारशोभाढ्याः सर्वगन्धरसार्पिताः ॥१५॥देवदूताः पार्षदाश्च भूसुराः साधवोऽमलाः ।वैमानिकाः प्रविद्यन्ते तेषु भागवतोत्तमाः ॥१६॥महाभागवतीसत्यः साध्व्यः शीलपरायणाः ।चन्द्रानन्दाश्चन्द्रकान्त्याननाः स्वर्णप्रभान्विताः ॥१७॥महाभक्तानिकास्तेषु विद्यन्ते बदरस्य ह ।कीर्तनं सततं तेषु जायते बदरीश्वरि! ॥१८॥यत्प्रसंगेन देवाद्या यान्ति ब्रह्म सनातनम् ।नैतादृशोऽभवद् भक्तो येन जगत् प्रपूरितम् ॥१९॥हरिकीर्तनभक्त्याढ्यमहाघोषैः समस्तकम् ।स्थले स्थलेऽस्य नृपतेर्जयघोषः प्रवर्तते ॥२०॥बदरस्य विमानानि यद्दिशं यन्ति तद्दिशि ।नमन्ति देवमुनयो भक्त्या नृत्यन्ति तत्स्त्रियः ॥२१॥पूजयन्ति विमाने श्रीकृष्णनारायणच्छविम् ।नीराजयन्ति मुदिता दत्वोपदाः प्रयान्ति च ॥२२॥बदरस्य महाराज्ये ग्रामे खेटे पुरादिषु ।नगरे पत्तने राजधान्यां घोषेऽपि सर्वथा ॥२३॥साधवो यतयः साध्व्यः पूज्यन्तेऽन्नाम्बरादिभिः ।विप्रा दक्षिणया चापि निराश्रयाः शुभाश्रयैः ॥२४॥अनाथाद्या यथापेक्षैर्नार्यः स्वेष्टसमर्पणैः ।ग्रामे ग्रामे ब्रह्मयज्ञा जायन्ते बदरस्य वै ॥२५॥अन्नसत्राणि भूभागे बदरस्य तु पद्मकम् ।प्रपादानानि सर्वत्र चासन् कल्पलतास्तथा ॥२६॥यात्रालवो लतामाप्य भुंजते भिक्षया फलम् ।तृप्तिदं च रसं मिष्टं पिबन्ति च भजन्ति माम् ॥२७॥वैष्णवानां मण्डलानि ह्यासन् वै प्रतिखर्वटम् ।प्रातर्मध्याह्नके सायं कीर्तयन्ति भजन्ति माम् ॥२८॥देवकथाकरा भूमावागत्य च कथां मम ।वाचयित्वा संहितां च बोधयन्ति भजन्ति माम् ॥२९॥उत्सवा उत्तमाः श्रेष्ठा जायन्ते च प्रजासु वै ।ऊर्जाऽसिताष्टमीप्रभृत्यहस्सु द्वादशीष्वपि ॥३०॥जयन्तीषु समस्तासु सत्संगाः संभवन्ति च ।व्रतोत्सवानां सम्मानं पालनं पूजनादिकम् ॥३१॥उद्यापनं चाऽऽदरश्च जायन्तेऽस्य प्रजास्वपि ।नित्यं गवां तु बह्वीनां दानं नृपस्य जायते ॥३२॥शेषो नवः कुतः स्वर्णमयो येन तु भूभुजा ।प्रतिष्ठाप्य च तं शेषं नागं नीत्वा विमानके ॥३३॥ययौ पातालके प्राह पूर्वशेषं निवर्तय ।मम शेषो बलिष्ठोऽयं धारयिष्यति के भुवम् ॥३४॥मूलशेषः परीक्षार्थं मुमोचाऽधो हि गोलकम् ।सहसा स्वर्णनागस्तं भूगोलं के न्यधाद् द्रुतम् ॥३५॥मूलशेषस्य मानं वै निर्मूलं संव्यजायत ।गर्वो नष्टोऽथ नेमे तं बदरं स्वर्णशेषिणम् ॥३६॥प्रार्थयामास मानार्थं धारणं निजमस्तके ।अन्यथा भूभृता चाऽवमानितस्य यशोलयः ॥३७॥अप्रतिष्ठा भवेल्लोके ययाचे गोलकं पुनः ।धर्तुं निजफणायां वै तदा तु बदरो ददौ ॥३८॥पूर्वशेषाय पृथिवीं स्वर्णशेषं निजालयम् ।आनिनाय ततः स्वर्णशेषो विज्ञानवान् यतिः ॥३९॥पतञ्जलिर्महायोगी विद्याधरो व्यजायत ।सर्वयोगकलाभिश्च जगदुद्धारमाचरत् ॥४०॥एवंविधस्य भक्तस्य बदरस्य गृहे गृहे ।कृष्णधून्योऽभवन् बद्रि भक्तिश्चासीद् गृहे गृहे ॥४१॥श्रीमाणिक्या सेवितस्य कृष्णनारायणस्य वै ।मम मूलस्वरूपस्याऽऽश्रितं सर्वं जगद्ध्यभूत् ॥४२॥शृणु बद्रीप्रभे देवि तदा राज्यं तु ऋद्धिमत् ।स्वर्गोत्तरं भूतलं तु वीक्ष्याऽन्यभ्वर्धपालकाः ॥४३॥पस्पर्धुर्बदरं भक्तं राजानं स्मृद्धिलालसाः ।बहवो बदरं प्राप्याऽयुध्यन् पराजयं ह्यगुः ॥४४॥भक्तो भक्त्या हि जीयेत नान्ययुद्धैः कदाचन ।यद्गृहे भगवान् साक्षाद् वसति दुर्जयः कुतः ॥४५॥राज्ञः शरैर्हि बहवो हता भूपा विरोधिनः ।सर्वे ते निहता वार्धौ हिमवार्धिसमाह्वये ॥४६॥किंपुरुषप्रदेशानां दक्षिणे मध्यसंस्थिते ।द्विसाहस्रयोजनात्मविस्तृते मिष्टवारिणि ॥४७॥मानसाख्यः समुद्रोऽयं मिष्टोदो ह्यभवत्तदा ।सदा शीतलजलधिः सर्वरत्नसमन्वितः ॥४८॥यत्रास्ते साम्प्रतं बद्रि हिमालयोऽद्रिराडिह ।शृणु बद्रीप्रभे देवि जेतुं तु बदरं नृपम् ॥४९॥आययौ त्वेकदा व्योम्ना हेमाऽनलोऽसुरो महान् ।अपरं यत् पृथिव्यर्धं तस्मादर्बुदसैन्यवान् ॥५०॥व्योममार्गेण सहसाऽयुतैर्विमानकै सह ।खण्डे किंपुरुषे युद्धं बदरेण समाचरत् ॥५१॥बदरस्य विमानानि ससैन्यानि तदाम्बरे ।अभिपेतुश्चासुराणां सैन्येषु दिव्यशक्तयः ॥५२॥सहस्रशो विमानानि नष्टान्यासुरकाणि वै ।सैन्यानि मिष्टजलधौ भूत्वा यादांसि चाविशन् ॥५३॥हेमानलोऽसुरवर्यो युयुधे बदरेण ह ।मिथः सैन्यानि युयुधुः प्राणान्तनिश्चयानि वै ॥५४॥दिव्यास्त्रवर्षणैर्दिव्यशरैर्दिव्यैश्च हेतिभिः ।विद्युत्प्रवाहणैश्चापि पाशैर्वारुणजैस्तथा ॥५५॥वज्रैश्च विविधैर्दण्डैः कालचक्रैर्विशालकैः ।मन्त्रैस्तन्त्रैर्महायन्त्रैर्मायिकैरैन्द्रजालिकैः ॥५६॥वाय्वग्निनागगवयैर्गरुत्मतैश्च वृश्चिकैः ।पर्वतैश्चापि वृक्षैश्च युयुधिरे तु कृत्रिमैः ॥५७॥हिमशैलैश्च विविधैर्ग्रहगोलैरनुत्तमैः ।गदाभिश्चाण्डभेत्त्रीभिर्जघ्नुरन्योन्यमुद्रुषः ॥५८॥आसुराणां हि सैन्यानि मारयित्वा मुहुर्मुहुः ।मिष्टाब्धौ ते प्रविशन्ति स्वस्थास्तत्र भवन्ति च ॥५९॥पुनर्बलं नीरुग्णत्वं प्राप्य चायान्ति संगरे ।बदरेण हतास्ते च पुनर्विशन्ति सागरे ॥६०॥अथाऽयं बदरो राजा भक्तराड् वीक्ष्य जीवितान् ।समुद्रस्थानासुराँश्च चिन्तयामास चान्तरे ॥६१॥कथमेषां समुद्रे वै विनाशं प्रतिपादये ।पुनर्नैव यथा स्वस्था निर्गच्छेयुर्बहिर्युधि ॥६२॥जलं सर्वं त्वब्धिरूपं हिमशैलात्मकं भवेत् ।अन्तःस्थिता आसुरास्ते स्युर्मृताश्च शिलात्मकाः ॥६३॥सञ्चिन्त्यैवं बदरोऽयं सस्मार चन्द्रदेवताम् ।तूर्णं चोपस्थिता तत्र देवकार्यसहायिनी ॥६४॥आसुराणां सुरघ्नानां विनाशार्थं मतिं दधे ।आगत्य सहसोवाच बदराय महात्मने ॥६५॥वद राजन् तव कार्यं सुरकार्यं तथा सुखम् ।तूर्णं करोमि साध्यं ते दुःसाध्यमपि सर्वथा ॥६६॥बदरः शशिनः पूजां स्वागतं वन्दनं स्तुतिम् ।चकाराऽऽसनवर्यं च ददौ नेमे पुनः पुनः ॥६७॥कृपालो शान्तिकृत् स्वर्गसुधाकर महाप्रभो ।भक्तानुग्रहधातस्त्वं जयसे चामृतप्रद ॥६८॥जीवनं सर्वलोकानां कलासु तव तिष्ठति ।माधुर्यं चौषधीनां च तव योगात्प्रवर्तते ॥६९॥वृद्धिः पुष्टिस्तव योगाज्जायते दाहरोधनम् ।त्वदाधाराश्चौषधयस्तदाधाराश्च देहिनः ॥७०॥चन्द्र कौमुदिकानाथ निशेश प्रियसंगकृत् ।शशिन् नक्षत्रनाथ त्वं जयसे वै तमोनुद ॥७१ ॥मृगांक दुग्धवर्ण त्व हिमांशो जयसे सदा ।शीतलाब्धे सुधामूर्ते भक्तकार्यं दधात्विह ॥७२॥असुरा मुहुरागत्य समर्दयन्ति मानवान् ।देवान् पितॄन्मुनीन् भक्तान् क्लेशयन्ति मुहुर्मुहुः ॥७३॥मद्बाणैरर्दिताश्चैते प्रविष्टा हिमसागरे ।ते यथा स्युर्मर्दिता वै हिमपाषाणपर्वतैः ॥७४॥पुनर्न ते बहिस्त्वत्राऽऽययुस्तथा विधेहि यत् ।त्वमोषधिर्हि लोकानां चासुराणां निबर्हणम् ॥७५॥शीतं शस्त्रं मतोऽस्येव शीघ्रं तदोषधं कुरु ।इत्येवमर्थितो रात्रिनाथः श्रीबदरीप्रभे ॥७६॥ददौ कण्ठात् समुत्तार्य चन्द्रकान्तमणिं शुभम् ।बदराय स्वभक्ताय देवकार्यकराय च ॥७७॥प्राह मणिं नृप चात्र शीताब्धौ सन्निवेशय ।शीताब्धिः सहसा शीतशिलात्मको महान् गिरिः ॥७८॥अत्रैव शीतलभूमिर्भविष्यति न संशयः ।त्वं विमाने वस राजन्नम्बरे न तु भूतले ॥७९॥शीतेनाऽभिभवं नैव व्रजेथास्तत्तथा कुरु ।एषोऽहं संप्रयाम्येव शीघ्रं मणिं जले क्षिप ॥८०॥एवमुक्तस्तु बदरो द्रुतं विमानमम्बरे ।कृत्वा चन्द्रमसं नत्वा चिक्षेप मणिमब्धिषु ॥८१॥तावज्जलानि सर्वाणि शीताग्निपीडितानि वै ।पिण्डितान्यभवँस्तत्र शीताब्धौ शीतलोपलाः ॥८२॥शीताब्धिः शीतभूभावं हिमभूतलतां गतः ।जलान्यूर्ध्वं चोष्मणा चोत्क्षिप्यन्ते परितस्तदा ॥८३॥शिखराणि श्वेतहैमशिलात्मकानि तानि च ।सञ्जातान्येव सहसा चाम्बरं शीततां गतम् ॥८४॥हिमानां करकावर्षाः सहसा पेतुरम्बरात् ।ताभिश्च वर्धमानानि शृंगाणि पार्वतानि वै ॥८५॥महःस्पर्शानि जातानि वर्धमानानि तानि वै ।एवं स पर्वतो जातो ' युगसाहस्रयोजनः ॥८६॥चन्द्रकान्तेन सम्पन्नो हिमवद्धिमवर्षणः ।हिमांशुमणिना भूमौ हिमाद्रिर्बदरीप्रभे ॥८७॥आसुरा युद्धकर्तारो जलोपलासु तत्तले ।मर्दिताश्च निरुद्धाश्चोपलाभावं गता मृताः ॥८८॥उपद्रवाः प्रशान्ताश्च महतः परिवर्तनात् ।अथ लोकाश्च ऋषयो मुनयो देवतास्तथा ॥८९॥श्रुत्वा हिमालयं भूमिं वीक्षितुं त्वाययुर्मुदा ।राक्षसा असुरा दैत्या दानवा मानवाः खगाः ॥९०॥पितरो लोकपालाश्च सिद्धाश्चारणनर्तकाः ।गान्धर्वाः किन्नराः सूता मागधा बन्दिनस्तथा ॥९१॥विद्याधरा अप्सरसः साध्यः शंकरयोगिनः ।गणाश्च गणदेव्यश्च मातरो वसवस्तथा ॥९२॥मेरुस्थाः परलोकस्था दिव्यदेहाः समाययुः ।मुमुदुर्बहुधा हैमं शीतं चान्द्रं विलोक्यते ॥९३॥वर्धयामासुरत्यर्थं भूपतिं बदरं तथा ।प्रशशंसुश्च ते सर्वे दिक्पाला मानमादधुः ॥९४॥ब्रह्मविष्णुमहेशाश्च प्रसन्नास्त्वभवन् बहु ।बदरस्याऽभवद् राज्यं सर्वं हिमालयात्मकम् ॥९५॥नवं त्वरण्यकं तस्य परितो नाऽभवत्तदा ।देवाद्या वासयोग्यं तं मेरुतुल्यं तु भूभृतम् ॥९६॥वीक्ष्य स्पृहां प्रचक्रुश्चार्थयामासुर्नृपं मुहुः ।राजा वासं ददौ देवकोटिभ्यस्तु हिमालये ॥९७॥देवजातयः सर्वे ये ते वासान् स्वकुलोचितान् ।चक्रुः शृंगेषु हैमेषु देवालयो बभूव सः ॥९८॥स्वर्गं वै चापरं भूमौ हिमालयो बभूव ह ।कल्पद्रुमाः कल्पलतास्तथा कल्पतृणान्यपि ॥९९॥हिमालयेऽभितो देवैः रोपितानि वनानि च ।भूसन्धौ परितः शतयोजनानां तु वर्तुले ॥१००॥दिव्यौषधीनां सर्वासां वनानि रोपितानि वै ।उद्यानानि विचित्राणि फलपत्ररसादिभिः ॥१०१॥स्मृद्धानि स्वर्गलोकाद् वै स्वस्वलोकात्तथाऽपरैः ।आहृत्याऽऽहृत्य परितो निहितानि शुभानि च ॥१०२॥सप्तर्षयो न्यवसँश्च शंकरोऽप्यवसत्ततः ।ब्रह्मा विष्णुस्तथा देव्यो न्यवसन् चाप्सरोगणाः ॥१०३॥गान्धर्वाश्चारणाः किंपुमांसश्च किन्नराः सुराः ।अन्येऽपि बहवो देवा न्यवसन् वै हिमालये ॥१०४॥एवं हिमगिरिर्जातो भूमौ चन्द्रगिरिर्महान् ।भूतलं स्वर्गमिश्रं च जातं दिव्यांशशोभितम् ॥१०५॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेमहाभागवतस्य बदराख्यराजर्षेराख्यान, हेमानलासुरयुद्धं, बदरभयेन भूमध्यशीतवार्धौ त्वसुराणां प्रवेशनं, बदरस्तुत्या चन्द्रप्रदत्तचन्द्रकान्तमणेः शीतवार्धौ निक्षेपेण शीतोपलात्मक-महाहिमाद्रिरूपपरिवर्तनं, चतुर्दशलोकवासिनां दिव्यहिमाद्रौ निवासाकांक्षया बदरप्रदत्तवसतयः स्वर्गीयौषधीनां देवाद्यैरोपितानि वनोद्यानारण्यानि चेत्यादिनिरूपणनामा द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP