संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०४ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०४ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि तिष्योद्धारकरान् वृषान् ।दिने क्षणे कृतैश्चापि देह्युद्धारः प्रजायते ॥१॥कालबलं समस्तेषु प्रवर्तते न संशयः ।देवानां दैवतं तिष्ये मान्द्यं याति क्रमात्तथा ॥२॥ऋषीणां च तपश्चाप्यैश्वर्यं मान्द्यं प्रयात्यपि ।सतीनां वै सतीत्वं तु तिष्ये ह्रासं प्रयाति च ॥३॥योगिनां योगचर्यापि शक्तिशून्या प्रजायते ।ईश्वराणामीशनत्वं निःसत्त्वं जायते कलौ ॥४॥ब्रह्मतेजो ब्राह्मणानां विलीयते न संशयः ।मन्त्राणां च बलं शीलं शैथिल्यं याति वै कलौ ॥५॥हवनानां मखानां च फलं विशीर्यते कलौ ।जपानां च व्रतानां च सामर्थ्यं लीयते कलौ ॥६॥दानानां सफलत्वं च भिद्यते तिष्ययौवने ।योगिनीनां परा सत्ता तिरोभवति वै कलौ ॥७॥सिद्धानां सिद्धता छन्ना जायते तिष्यकालिका ।पूजायाः प्रतिफलता शून्यायते कलौ तदा ॥८॥साधूनां सद्गुणावासः कुवास इव जायते ।धर्मस्य च गतिः शान्ता ह्रासं याति कलौ तदा ॥९॥ज्ञानस्यापि फलं नैव शान्त्यर्थं सम्प्रजायते ।वैराग्यस्य विवासो वै जायते सर्वथा कलौ ॥१०॥ऐश्वर्याणां क्लेशदत्वं गर्विता जायते कलौ ।तीर्थानां मग्नशीलत्वं वर्धते च कलौ कलौ ॥११॥तारकाणां च निस्तारस्तारणे निर्बला यतः ।पृथ्वी दोहे समर्था न जलं तृप्तौ च निर्बलम् ॥१२॥वह्निः पाके न वै शक्तः कलौ वायुर्न सौख्यदः ।लक्ष्मीः कलावशुद्धा च सम्पदो विपदन्विताः ॥१३॥आश्रया व्रणयुक्ताश्च गुरुत्वं न गुरौ कलौ ।गौरवं गर्त्तगं तिष्ये प्रतिष्ठा क्लिष्टताहता ॥१४॥सम्मानं भानहीनं च क्रिया ध्यानविवर्जिता ।स्थितिर्विश्वासरहिता भवत्येव कलौ कलौ ॥१५॥बद्रिके प्रतिमाः सर्वा देवताश्च शवा इव ।कलौ सर्वत्र जायन्ते द्यौस्तमोवद् विभाति च ॥१६॥आशा तृष्णा च वर्धेते कलेरायुष्यतोऽधिके ।आशावान् म्रियते तिष्ये न त्वाशा म्रियते क्वचित् ॥१७॥पर्व पर्व दिनं तिष्ये श्रद्धाहीनं प्रजायते ।धर्मकर्मादि च कृत्यविषयं वै कलौ कलौ ॥१८॥दीक्षा भिक्षा च शिक्षा च क्षयमेति कलौ तदा ।कक्षा चक्षा च पक्षा च यक्षा रक्षा न विद्यते ॥१९॥उद्याने फलवद्वृक्षस्तरलो बहुशोऽफलाः ।मानवे नयवल्लोको विरलो बहुशोऽनयाः ॥२०॥खातेषु जलवद्गर्तो दुर्लभः सुलभोऽबलाः ।स्वामिषु हितकृन्नेता क्वचित् सर्वत्र नाशकाः ॥२१॥यात्रासु दानकृत् कश्चिद् बहुलाः पानकारिणः ।व्यवहारे परार्थस्तु कश्चित् स्वार्था गृहे गृहे ॥२२॥सत्यवाग् दुर्लभस्तत्र मिथ्यावाक् तु पदे पदे ।आपत्तौ हासकास्तिष्ये सम्पत्तौ चाभ्यसूयकाः ॥२३॥अवमानेऽमृतजिह्वाः सम्माने नेत्रवह्नयः ।व्यसने तालिकावादाः कलौ भवन्ति मानवाः ॥२४॥द्यूते हास्ये कलौ नाट्ये कुतूहले विनाशने ।संधिनो मानवास्तिष्ये सत्कार्ये पृष्ठपादिनः ॥२५॥धर्मे व्रते सहाये च भजने बोधने हले ।कथायां विरला लोकाः कलौ भवन्ति सेवने ॥२६॥नाशोन्मुखास्तु बहुधा रक्षोन्मुखाः क्वचित् कलौ ।आराधनायां विरला बाधायां संघशो जनाः ॥२७॥त्यागे तिष्ये नाऽधिका वै ग्रहणे सर्वतो जनाः ।मारणे संहिताः सर्वे तारणे नैक इत्यपि ॥२८॥प्रपातने प्रवीणाश्चोत्तारणे मूर्ध्निमारकाः ।उन्नयने तु रिक्तांऽका बूडने बहुसंख्यकाः ॥२९॥आगमे तु कृतोत्साहा विगमे म्लानमानसाः ।अवग्रहे तनुत्यागा विग्रहे मदगंजनाः॥३०॥असत्सु च कृतावेशाः सत्सु चाऽऽदरवर्जिताः ।भवन्त्येव जनास्तिष्ये शिष्ये प्रतारणार्थिनः ॥३१॥ग्रामा दुर्गविहीनाश्च लोका लज्जाविहीनकाः ।विवाहा वह्निरहिताः कलौ भवन्ति सर्वशः ॥३२॥ज्ञानं पालनशून्यं च दानं मानविवर्जितम् ।गानं च देवताशून्यं तिष्ये सर्वत्र जायते ॥३३॥आदानं सर्वतस्तिष्ये प्रदानं शून्यतापरम् ।निदानं बाह्यतो मिथ्या तिष्ये भवति धीरधीः ॥३४॥पानं तु सरसं तिष्ये भोजनं विरसं सदा ।भञ्जनं परकार्याणां तिष्ये सर्वत्र विद्यते ॥३५॥रञ्जनं चेन्द्रियाणां चोद्वेजनं तु कुटुम्बिनाम् ।आटाटोपाऽञ्जनं तिष्ये भोजने व्यञ्जनं बहु ॥३६॥परगृहे धनं तिष्ये परहस्ते सुता प्रिया ।पारवश्यं निजे देहे पारवश्यं गृहे गृहे ॥३७॥निद्रा स्वल्पा कलौ स्वप्नबाहुल्यं कलहो बहुः ।शान्तिरल्पा महाचिन्ता रक्तनाशोऽधिकः कलौ ॥३८॥वैद्यालयास्तु बहुलाः प्रजालयाः सुरोगिणः ।प्रलया नित्यशस्तिष्ये निलया भयसंभृताः ॥३९॥भूषा भषकबालाद्याः प्रतिष्ठा वेषलग्नता ।म्लेच्छभाषा च विद्वत्ता कलौ सर्वत्र जायते ॥४०॥धूम्रपानं महत्ता च गालीवादः सरस्वती ।सांकर्यं चोत्सवे धर्मस्तितष्ये भवति सर्वशः ॥४१॥नीतिश्चूषणरूपा च लाभो धनसहायिनः ।भार्या मिष्टान्नदातुश्च कलौ सर्वत्र जायते ॥४२॥सर्वे सर्वत्रपाकाश्च पामराणां गृहेशयाः ।हत्यायां जन्तुमूल्याश्च तिष्ये सन्ति स्थले स्थले ॥४३॥श्मश्रूहीना नरास्तिष्ये केशकबरीशालिनः ।पात्रस्थधातुजाऽपत्यप्रजा भवन्ति तिष्यके ॥४४॥अलिंगगर्भाः पशवश्चाऽनात्मपुत्तला भटाः ।अधारशस्त्राः संग्रामास्तिष्ये भवन्ति बद्रिके ॥४५॥अयत्नसाध्याः कूट्टन्यः कुटिका भोजनालयाः ।नाट्यशालाश्च शिक्षांग्यस्तिष्ये भवन्ति बद्रिके ॥४६॥नार्यश्च बहुनाथा वै नराः स्त्रीभावशोभनाः ।कृत्रिमपुत्तलाऽऽनन्दास्तिष्ये भवन्ति मानवाः ॥४७॥कृत्रिमदन्तका लोकाः कृत्रिमस्तनधारिणः ।कृत्रिमदृश्यतृप्ताश्च कृत्रिमस्त्रीविहारिणः ॥४८॥स्वहस्तक्षुरकर्माणः स्वहस्तदेहमर्दनाः ।यन्त्रदोहनपशवस्तिष्ये पाकाश्च यान्त्रिकाः ॥४९॥विद्युद्वाहासना लोका निःसत्त्वपानभोजनाः ।रक्तविक्रयनिर्वाहास्तिष्ये भवन्ति मानवाः ॥५०॥पशुस्नेहपरा नार्यो नराः पशुसुयोगिनः ।पाशववृत्तिचर्याश्च तिष्ये भवन्ति मानवाः ॥५१॥हृदि चान्ये वचस्यन्ये कर्मण्यन्ये फलेऽपरे ।रहस्यन्ये प्रकाशेऽन्ये कलौ भवन्ति मानवाः ॥५२॥स्वल्पेऽपि क्लेशकर्तारस्तामसा बहुला जनाः ।मानाभिमानजीवाश्च वितण्डामात्रवीरकाः ॥५३॥नारीमग्रे व्यवस्थाप्य विजयाऽऽकांक्षिणः सदा ।बहुचित्राम्बरा नार्यो नारीवेषा नराः कलौ ॥५४॥दैत्यम्लेच्छादरपराः शास्त्रसाधुविरोधिनः ।चिरधर्मविहन्तारो वृत्तिधर्मपराः कलौ ॥५५॥प्रतारका देवकार्ये गृहकार्ये कुसीदिनः ।बहुमृषासम्प्रदाया मिथो देवाऽतिनिन्दकाः ॥५६॥शब्दाडम्बरविद्वांसो युक्तिऋतपरायणाः ।सन्दिग्धाः सर्वकृत्येषु गुरुष्वत्यन्तनिर्घृणाः ॥५७॥जिह्वापोषाः सम्प्रदायाः शिश्नपोषा गृहाश्रमाः ।कीर्तिपोषा यतयश्च भवन्त्येव कलौ जनाः ॥५८॥पुत्रवत् पुत्रिकामानं पुत्री पुत्रायते कलौ ।आश्रिता सुभगा नारी पक्षीयति परार्थिनी ॥५९॥लोहपात्रव्यवाहारा नालिकावारितर्पिणः ।अशिखाः प्रायशो विप्रा द्विजास्तिष्ये न सन्ति च ॥६०॥प्रतारणं पुरुषार्थो न्यायो लुञ्चां प्रगच्छति ।द्रव्यं कुटुम्बवत् सर्वं धर्मस्तु शत्रुवत् कलौ ॥६१॥गृहे गृहे चापणानि विष्टालया गृहे गृहे ।विधवा विधुराश्चापि तेषां योगा गृहे गृहे ॥६२॥भृत्याधीनाः स्वामिनश्च स्त्र्यधीनाः पतयस्तथा ।प्रजाधीनानि राज्यानि भवन्ति वै कलौ युगे ॥६३॥समुदायाऽपीनराष्ट्रं मर्यादाहीनमण्डलम् ।भाण्डानां गणिकानां च प्राबल्यं तु कलौ कलौ ॥६४॥भोजनस्य स्थले वारिपानं सत्काररूपकम् ।वारिपानस्थले धूम्रपानं सत्काररूपकम् ॥६९॥पयोवार्युष्णपानं च कलौ सत्कारकारणम् ।महीमानाऽतिथिसाधुसत्कारो वाङ्मयः कलौ ॥६६॥न नेत्रयोर्न हृदये स्नेहः सत्कारकारणम् ।उच्चासनस्थाः श्वपचा नीचस्था ब्राह्मणाः कलौ ॥६७॥मिथ्याप्रचारः शतधा मिथ्यावाणी सहस्रधा ।मिथ्याव्ययोऽयुतधा च कलौ भवति बद्रिके ॥६८॥अफलाः ऋतवस्तिष्ये चारंभा विफलाः कलौ ।सर्वकर्मकलानार्यो नराः कृष्णाः कलौ युगे ॥६९॥कापट्यपटलं पृथ्व्यां पर्वते गगनेऽपि च ।सर्ववस्तुषु सांकर्यं धूलिधुर्याः कलौ जनाः ॥७०॥परदोषारोपकाश्च स्वदोषे गुणमानिनः ।भग्नपादा ललज्जिह्वा मानवा वै कलौ कलौ ॥७१॥कृष्णकर्दममार्गाश्च नीलीस्पर्शाम्बरास्तथा ।कालुष्यादिप्रपूर्णाश्च मानवा वै कलौ कलौ ॥७२॥गृहस्थिनोऽस्थिरस्थानास्त्यागिनः सपरिग्रहाः ।व्याघ्राः सिंहा ग्रामसीमवासाः श्ववत् कलौ कलौ ॥७३॥चत्वरे चत्वरे द्वीपा गोमायवो गृहे गृहे ।आपणे चापणे धूर्ताश्चौरास्तिष्ये पदे पदे ॥७४॥धिष्ण्ये धिष्ण्ये शठास्तिष्ये वृन्दे वृन्दे च वृन्दलाः ।प्रसह्य च करग्राहास्तिष्ये भवन्ति बद्रिके ॥७५॥राक्षसाभाश्च भूताभाः पिशाचाभाश्च मानवाः ।दैत्याभा वामना ह्रस्वाः कुब्जास्तिष्ये हि मानवाः ॥७६॥कुसूलान्यन्नहीनानि जलहीनं प्रपास्थलम् ।हृदयं स्नेहशून्यं च मानवानां मिथः कलौ ॥७७॥रात्रिन्दिवं व्यवसायपराणामपि नैव ह ।पूर्णमुपार्जनं तिष्ये रूक्षः कलिस्ततो मतः ॥७८॥तथापि बद्रिके तत्र सत्कार्यं चेत् कृतं भवेत् ।सहस्रगुणितं तद्वै फलदं श्रद्धया कृतम् ॥७९॥सर्वदोषनिधानेऽपि कलौ गुणो महानपि ।कृष्णकीर्तनमात्रेण शुद्धिं यातीति मानवः ॥८०॥पूजनं जलमात्रेण कीर्तनं नाममात्रतः ।स्मरणं रूपमात्रस्य कलौ वै मोक्षदं हरेः ॥८१॥यादृशास्तादृशा वाऽपि काषायाऽम्बरसाधवः ।आश्रितास्तारकास्तिष्ये श्रीकृष्णांऽकस्थिता यतः ॥८२॥सधूम्रो वा मन्दवर्चाः छन्नो वा मलिनाश्रयः ।दुष्टादो वाऽनलः शुद्धस्तथा साधुः कलौ शुचिः ॥८३॥गृहं क्षेत्रं धनं नारीं ग्रामं त्यक्त्वा स्वकं निजम् ।कृष्णाऽङ्केऽवस्थितः साधुः श्रैष्ठ्यं चाऽस्य ततः सदा ॥८४॥सत्तां त्यक्त्वा पारवश्यं त्यक्त्वा शक्तिं च दीनताम् ।शास्तिं विहाय शरणं जग्राहाऽतो वरो मुनिः ॥८५॥कलिदोषेऽपि हृदये जिह्वायां शरणेऽपि च ।हरिं रक्षति गृह्णाति शृणोत्यतो वरो मुनिः ॥८६॥देहाचारदुराचारपरोऽपि भक्तिमोदनः ।पावनो ब्रह्मवित् साधुर्यतः स लोकपावनः ॥८७॥व्यभिचारपरश्चापि शाट्यधौर्त्यपरोऽपि वा ।द्रव्यतृष्णान्वितश्चापि कृष्णपुत्रो वरो मुनिः ॥८८॥कृष्णस्मृतेस्तु कर्ता सः कारयिता विलोकितः ।मिलितो रामवक्ता च वाचयिता वरो मुनिः ॥८९॥कृष्णवेषधरो नाट्ये कृष्णस्य स्मारको यथा ।स्मृत्या पापविहन्ता स्यात् तथा तादृग्वरो मुनिः ॥९०॥काषायाऽम्बरमालोक्य पापा नमन्ति तं मुनिम् ।ब्रह्मात्मभावनाधानं तस्मात् साधुर्वरः सदा ॥९१॥बद्रिके दर्शनात् साधोः स्पर्शनात् सेवनात्तथा ।मर्दनाद् भोजनाद् वारिपानाच्छुद्ध्यन्ति मानवाः ॥९२॥साधोश्चरणरजसा प्रसादभोजनादपि ।साधोस्तत्त्वाऽऽसादनाच्च सद्यः शुद्ध्यन्ति मानवाः ॥९३॥कृष्णदीक्षावतो योगाद् भक्तस्य शीलनादपि ।साधुजीवनकरणात् कलौ शुद्ध्यन्ति मानवाः ॥९४॥साधुसाध्व्यो सुसत्सङ्गात् तयोः प्रसादनादपि ।साध्वाज्ञाकरणात् तिष्ये सद्यः शुद्ध्यन्ति मानवाः ॥९५॥साधोः पादाऽमृतपानात् साध्वाश्लेषविधापनात् ।साधुदेहस्य योगाच्च सद्यः शुद्ध्यन्ति मानवाः ॥९६॥साधवे देहदानाच्च तथेन्द्रियसमर्पणात् ।मनोऽर्पणाज्जीवदानान्मुक्तिं प्रयान्ति मानवाः ॥९७॥साधौ तादात्म्ययोगाच्च ह्यनावरणसंगमात् ।तद्रूपाऽऽकारतायोगान्मुक्तिं प्रयान्ति मानवाः ॥९८॥यथेष्टवस्तुदानाच्च कुटुम्बसम्पदर्पणात् ।श्रीकृष्णार्पणकरणान्मुक्तिं प्रयान्ति मानवाः ॥९९॥कृष्णन्यासात् कृष्णभावात् कृष्णरहस्यसेवनात् ।कृष्णसाधुव्रताचारान्मुक्तिं प्रयान्ति मानवाः ॥१००॥तिष्ये तु बद्रिके देवा मूर्तयो न पुनन्ति हि ।तीर्थानि न पुनन्त्येव सद्यः पुनन्ति साधवः ॥१०१॥सेवां दत्वा द्रुतं सन्तः पुनन्ति मानवान् कलौ ।सेवां कृत्वा सतां सद्यः शुद्ध्यन्ति मानवाः कलौ ॥१०२॥आशीर्वादैः सतां साध्यः साधवश्च यथा कलौ ।पवित्राः पावका यद्वत्तथा भवन्ति मानवाः ॥१०३॥सतां संगादाश्रयाच्च कृष्णकान्तस्य कीर्तनात् ।स्मृतेर्नार्यो नरा दिव्या भूत्वा मोक्षं प्रयान्ति वै ॥१०४॥अनादिश्रीकृष्णनारायणस्वामिसतां मुहुः ।सेवनात् कीर्तनात् बद्रि मोक्षो भवति देहिनाम् ॥१०५॥इत्येतत् सरलं तिष्ये साधनं बद्रिके मया ।मोक्षस्य कथितं सर्वार्पणात्मकं सुनिश्चितम् ॥१०६॥प्रभोः कृपावतः स्वामिनश्च कृष्णस्य योगिनः ।सेवनादस्य पठनाच्छ्रवणात् स्मरणात्तथा ॥१०७॥सर्वार्पणाद्याचरणात् तादात्म्यभावयोजनात् ।तिष्ये भुक्तिर्मुक्तिरस्ति देहिनां शाश्वती शुभा ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कलिदोषाणां मोक्षसाधनगुणानां सतां सेवादीनां च प्रदर्शननामा चतुरधिकशततमोऽध्यायः ॥१०४॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP