संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०५ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि मायापालस्य भूभृतः ।सर्वपापरतस्यापि साध्वर्पणात् प्रमोक्षणम् ॥१॥कामरूपे पूर्वदेशे मायापालोऽभवन्नृपः ।मांसादो मद्यपश्चापि व्यवायकर्मतत्परः ॥२॥द्रव्यापहारकश्चापि कन्यादूषणकारकः ।प्रजासु यत्र कुत्रापि विलोकयति शोभनाम् ॥३॥युवतीं कन्यकां वापि वधूं सुवासिनीं च वा ।प्रसह्य राजदूतैः स समाहृत्य भुनक्ति ताम् ॥४॥नित्यं वधं पशूनां च करोति मांसहेतवे ।पक्षिणां सर्वजातीनां मांसं खादति भूपतिः ॥५॥यादसां भक्षकश्चापि सुरामद्यपरायणः ।परराष्ट्रे निजदूतैश्चौर्यं कारयतीत्यपि ॥६॥विप्राणां वा विधवानां देवानां धर्मवर्तिनाम् ।धनान्याहृत्य राजाऽपि स्वकोशे स्थापयत्यपि ॥७॥मखानां धर्मकार्याणां विरोधी दाननिन्दकः ।साधूनां च सतीनां च तिरस्कारपरायणः ॥८॥भिक्षुकानां दुःखकर्ता होमरोधनतत्परः ।मन्दिराणां नाशयिता पूजारोधकरस्तथा ॥९॥देवतां मनुते नैव मूर्तौ श्रद्धाऽस्य नो गुरौ ।ईश्वरं नैव मनुते परमेशं कुतोऽपि न ॥१०॥अहमेवाऽस्मि भगवान् राजा हि परमेश्वरः ।यजन्तु नृपतिं मां वै प्रजेश्वरं महेश्वरम् ॥११॥पूजयन्तु प्रजा मां च प्रसादय मां हरिम् ।राजा साक्षाद्धरिर्लोके नान्यो हरिरगोचरः ॥१२॥पातिव्रत्यं राजरूपे हरौ कार्यं स्त्रिया सदा ।राज्ञे करः प्रदातव्यो धर्मार्थ एव जायते ॥१३॥राजा भोक्ता समस्तानां शास्ता नेता च रक्षकः ।मूर्तिर्ब्रह्ममयी राजा यष्टव्यः स मखे द्विजैः ॥१४॥कामनातर्पणं श्राद्धं नान्यच्छ्राद्धं विधेयवत् ।पुमर्थः कामनातृप्तिरिन्द्रियाणां च तर्पणम् ॥१५॥भोगः श्रेयस्करो लोके परः पुमर्थ एव सः ।न स्वर्गो नापवर्गश्च प्रेतता नहि कस्यचित् ॥१६॥याम्यलोको न चैवाऽस्ति कारागारो ममैव सः ।यमोऽहं च कुबेरोऽहं नारायणो भवाम्यहम् ॥१७॥मां भजन्तु ततः सर्वेऽन्यथा दण्ड्या ममेति वै ।बद्रिके स नृपो मायापालश्चैवं समन्ततः ॥१८॥घोषणां कारयामास प्रजासु राष्ट्रगासु वै ।आजीविका हृतास्तेन पूर्वराजभिरर्पिताः ॥१९॥देवालयाः सार्गलाश्च कृतास्तेनाऽधिनाऽभितः ।पूजाप्रवाहा निहता विप्राश्च दण्डिता मुहुः ॥२०॥सतीनार्यो दूषिताश्च मूर्तयः खण्डिता हरेः ।तीर्थदानादिविधयो हतास्तेन दुरात्मना ॥२१॥देवयजना विप्रास्तु कारागारे निपातिताः ।साधवो बहवस्तेन निजदण्डेन ताडिताः ॥२२॥साध्व्यो देव्यः पुरुषेभ्यः प्रसह्य तेन चार्पिताः ।तीर्थं नाम हतं तेन नास्तिक्येन तु भूभृता ॥२३॥निजपत्नी महाराज्ञी कामाक्षी नामतः कृता ।सैव देवी सैव लक्ष्मीर्दुर्गा सैवेति घोषिता ॥२४॥सा तीर्थं सा देवमाता सा मान्येति प्रघोषिता ।समद्यमांसनैवेद्यार्पणं तस्यै करोति सः ॥२५॥राज्ञे सर्वार्पणं कार्यं चेत्येवं स करोत्यपि ।प्रातः सिंहासने नित्यं राजा राज्ञी प्रतिष्ठितः ॥२६॥प्रजाः शासनरोधेन नित्यं प्रातर्यथाक्रमम् ।आगत्य देववन्नत्वाऽर्चयन्ति तावुभावपि ॥२७॥ब्राह्मणा नृपतेर्लोकानुच्चार्य पूजयन्ति तौ ।भोजयन्ति च भूपालं राज्ञीं च सततं प्रजाः ॥२८॥एवं वै बद्रिके चाऽऽन्ध्यं प्रावर्तत तदा खलु ।मायापाले हिं नृपतौ कामरूपे प्रदेशके ॥२९॥देवकोपस्ततो जातः प्रजाकोपोऽपि वै महान् ।दुर्भिक्षं चाऽभवद् राष्ट्रे रोगाः प्रजासु चाऽभवन् ॥३०॥दावाग्निर्वनभूभागे व्यजायत पुनः पुनः ।राज्ञो दोषेण वै बद्रि प्रजापीडाः समागताः ॥३१॥यतो राजानुयायिन्यो नास्तिक्यश्च प्रजा अपि ।राजाशयानुसारिण्यस्तदाऽभवन गृहे गृहे ॥३२॥दुर्भिक्षेण तदा बद्रि हाहाकारो महानभूत्॥नाऽन्नं न सलिलं क्वापि लभते मानवः खलु ॥३३॥ब्रह्मपुत्री जलहीना महानदी व्यजायत ।हिमाद्रौ वर्षणं नास्ति देवतानां प्रकोपतः ॥३४॥अरण्यानि समस्तानि पर्वतीयानि सर्वशः ।दावानलैः प्रदग्धानि पर्वता भस्मशोभनाः ॥३५॥अभवन् बद्रिके भूमिर्दग्धेव दृश्यते तदा ।पशवः पक्षिणश्चापि मृता यादांसि सर्वथा ॥३६॥नाऽऽहारो लभ्यते राष्ट्रे भवन्ति व्यसवो जनाः ।मांसादा मानवास्तत्र मानुषादास्ततोऽभवन् ॥३७॥राक्षसा इव चान्योन्यं भक्षयन्ति नरान् मिथः ।नार्यश्च बालकाँश्चापि मृतमांसान्यदन्ति च ॥८॥एवं वै दैवकोपेन रोगेणापि हताः प्रजाः ।पापिनां चातिपापानां फलानि त्वत्र जन्मनि ॥३९॥आयान्त्येव न सन्देहस्तीव्रवेगवतां द्रुतम् ।संगदोषेण पुण्याढ्या अपि दह्यन्ति वेगगाः ॥४०॥शुष्कमध्यस्थितं चार्द्रं दावाग्निना हि दह्यति ।राज्ञः पुत्रशतं नष्टं रोगेण कन्यकाशतम् ॥४१॥रोगग्रस्तौ नृपो राज्ञी व्यजायेतां क्षयान्वितौ ।दासा दास्यो मृताः सर्वे रोगेण पशवोऽपि च ॥४२॥वाहनानि विनष्टानि क्षुधया पीडितानि वै ।कामाक्ष्याः परमः कोपो राज्येऽभितो व्यजायत ॥॥४३॥भूताः प्रेताः पिशाचाश्च भ्रमन्ति नगरे तदा ।यमदूतास्ताडयन्ति मारयन्ति नयन्ति च ॥४४॥एवं याम्यालयो राष्ट्रं द्वितीय इव चाऽभवत् ।पादौ हस्तौ विक्षिपन्तो दृश्यन्ते मानवा भुवि ॥४५॥क्षुधया तृषया व्याप्ता मूर्छिताश्चत्वरादिषु ।नग्ना विवस्त्रा निर्लज्जा महादुःखातिपीडिताः ॥४६।!जलं जलं च क्रोशन्तश्चान्नं चान्नं मुहुः क्षितौ ।विलुण्ठन्तोऽप्यशक्तास्ते समुत्थातुं विमूर्छिताः ॥४७॥कण्ठरावान् भयदाँश्च कृत्वा त्यजन्ति तै ह्यसून् ।न दाता विद्यते कश्चिन्न हर्ता शान्तिदोऽपरः ॥४८॥समानावस्थगाः सर्वे कः कं संभालयेदहो ।राष्ट्रं वै प्रलयावस्थं मायापालस्य दृश्यते ॥४९॥पापफलं समस्तं वै समायातं समूहितम् ।हाहाकारोऽभितो जातो राष्ट्रान्तरेषु कर्णगः ॥५०॥मम लोके तथा स्वर्गे सा वार्ताऽवर्तताऽपि च ।मायापालेन राज्ञा वै फलं पापस्य भुज्यते ॥५१॥प्रजाभिर्भुज्यते चापि प्रत्यक्षं चेह जन्मनि ।ब्रह्मपुत्री नदी चापि ब्रह्माऽग्रेऽकथयत् कथाम् ॥५२॥सनत्कुमारो भगवान् श्रुत्वा दयापरोऽभवत् ।नत्वा स्वपितरं तूर्णं ब्रह्मपुत्र्या समं तदा ॥५३॥दयावशो भुवं गत्वा व्यलोकयद् दशां च ताम् ।कामाक्षी देविका लज्जानम्रा सत्कारमाचरत् ॥५४॥दिव्यः सनत्कुमारः स ब्रह्मपुत्री स्वसा नदी ।कामाक्ष्या पूजितौ चोभौ निषेदतुः स्वमन्दिरे ॥५५॥शुभासने राजमानौ पप्रच्छाऽऽगमकारणम् ।सनत्कुमारो भगवानाह कामाक्षिकां सतीम् ॥५६॥दुर्भिक्षेऽत्र प्रदेशे वै त्वयाऽनुष्ठितभूतले ।आर्ता नश्यन्ति बहवः प्रजा नाशं प्रयान्ति च ॥५७॥राजा पापफलं भुंक्ते पापात्मा प्रजया सह ।देवा देवालया यज्ञा विप्रा हताश्च भूभृता ॥५८॥जाताः प्रजाश्च तन्मय्यस्ततः पीडां प्रयान्ति ताः ।वार्तैषा दिवि सत्ये च देवर्षयो वदन्ति हि ॥९९॥ब्रह्मपुत्रीमुखाच्छ्रुत्वा जातदयोऽहमागतः ।निरीक्षितुं समीकर्तुं सान्त्वयितुं तदापदः ॥६०॥यदि मातुः कृपा चास्ति चिकीर्षामि प्ररक्षणम् ।श्रुत्वैवं बद्रिके कामाक्षिणो प्राह सनत्मुनिम् ॥६१॥राजा पापतमश्चास्ते ततः प्रजा च तादृशी ।दण्डाऽर्हो विद्यते राजा साक्षाद् दण्ड्योऽस्ति सर्वथा ॥६२॥शिक्षोत्तरं कृपा युक्ता देवद्रोही यता नृपः ।इतिकामाक्षिणीवाक्यं श्रुत्वोवाच सनत्मुनिः ॥६३॥अस्त्वेवं पापकृद् राजा दण्डं भुनक्तु गोचरम् ।तावद् देव्या स्मृतस्तत्र यमदूतः समाययौ ॥६४॥विकरालः करालास्यः कज्जलाभो गिरिप्रभः ।समुद्गरो व्योममार्गेणाऽवाततार सन्निधौ ॥६५॥मायापालं विनिगृह्य बध्वा सदेहमम्बरे ।निनाय मारयन्मारं मुद्गरेण यमालयम् ॥६६॥चित्रगुप्तोदितकर्मफलभोगार्थमेव सः ।क्षिप्तो लोहमयीसूर्म्यालिंगनार्थं महानले ॥६७॥ततोऽतितप्ततैलाढ्यकटाहे भर्जितः स तु ।महारौरवनरके भक्षितो रौरवैस्ततः ॥६८॥असिपत्रवने राजा चालितो भेदितो बहुः ।वृषदंशो वृश्चिकाद्यैर्दृष्टः सर्पादिभिस्तथा ॥६९॥विशस्तः प्राणिभिश्चापि नृपो विशसने मुहुः ।सप्तलोहरसै राजा पायितश्च पुनः पुनः ॥७०॥लकुटैः क्षारयष्ट्याद्यैस्ताडितश्च विघातितः ।अधोमस्तकवान् राजा वह्निकुण्डे प्रदाहितः ॥७१॥ताम्रभूमौ चालितश्च चूर्णितो यन्त्रकैस्ततः ।पेषितश्चक्रकैश्चापि रन्धितो भक्षितो यमैः ॥७२॥सन्दंशेन नृपजिह्वा निष्कासिता च कर्तिता ।कर्णयोः सीसकं तप्तं सेचितं च मुखेऽपि च ॥७३॥शूलं तप्तं नेत्रयोश्च निहितं च गलेऽपि च ।शक्त्या राजा भेदितश्च वक्षस्येव पुनः पुनः ॥७४॥उत्कृत्य चर्म भूपस्य मांसं वै खादितं यमैः ।रुधिरं च यमैः पीतं मज्जाऽस्याऽऽस्वादिता यमैः ॥७५॥श्वापदैः फाडितश्चापि कुंभिपाके निपातितः ।लोहयन्त्रे पेषितश्च पर्वतात् पातितस्तथा ॥७६॥वैतरण्यां वाहितश्च लिङ्गं तस्य विकर्तितम् ।नपुंसकीकृतो राजा निर्वृषणोऽभवत्ततः ॥७७॥स्त्रीभगाढ्यः शरीरे च सहस्रभगवान् कृतः ।स्त्रीमूत्रं पायितस्तत्र प्राशितः पाशवं मलम् ॥७८॥शंकुन्यासान्नासिकायां गुदायां च प्रपीडितः ।गलरोधान्मारितश्च करस्पर्शेन जीवितः ॥७९॥पुनश्च भक्षितो राजा पुनः स्वस्थीकृतो मुहुः ।इत्येवं कर्मणां राजा फलानि तेन वर्ष्मणा ॥८०॥दैवेच्छ्याऽऽप्तवान् कष्टान्यनन्तानि यमालये ।सनत्कुमारो भगवान् ध्यानेन च समाधिना ॥८१॥व्यलोकयद्धि तत्सर्वं पापफलं नृपे तदा ।पुनर्दयां परां प्राप्योवाच कामाक्षिकां सतीम् ॥८२॥दुष्टानां दमनं धर्मः स च जातोऽस्ति भूभृति ।देवानां तु दया धर्मः कर्तव्योऽद्य नृपादिषु ॥८३॥भुंक्ते कष्टानि भूपालश्चाक्रोशं प्रकरोत्यपि ।हा हतोऽस्मि हा हतोऽस्मि त्राता मे त्राणमावह ॥८४॥न नास्तिक्यं करिष्येऽहं न व्यवायं न हिंसनम् ।न चौर्यं हरणं वापि निन्दनं शठतां न च ॥८५॥न यज्ञानां निरोधं वा पूजावरोधनं न वा ।न करिष्येऽवमानं च साधूनां योगिनां तथा ॥८६॥हा चेद् रक्षाकरः कश्चिन्नारायणो नरोऽपि वा ।मां प्ररक्ष्य निजं लोकं सदेहं प्रापयन्त्वितः ॥८७॥प्रणमामि परात्मानं यमं धर्मं नमामि च ।विष्णुं हरं वेधसं च प्रणमामि जनार्दनम् ॥८८॥कामाक्षीं च सतीं दुर्गां लक्ष्मीं नमामि रक्षिकाम् ।तीर्थानि प्रणमाम्यत्र साधून्नमामि रक्षकान् ॥८९॥देवान् सर्वान् प्रणमामि रक्षन्तु मां यमालयात् ।भजिष्ये परमात्मानं पूजयिष्ये द्विजान् सतः ॥९०॥सत्संगतिं विधास्येऽहं तीर्थस्नानं गुरूत्सवम् ।दानयज्ञं ब्रह्मयज्ञं करिष्ये ज्ञानयज्ञकम् ॥९१॥जपयज्ञं होमयज्ञं करिष्ये साधुसेवनम् ।एवं प्रलपन् विलपन् ननाम चाम्बरे मुहुः ॥९॥तावद् देवाज्ञया साधुः सनत्कुमारको मुनिः ।क्षणमात्रेण चाऽदर्शि यमालये नृपाग्रतः ॥९३॥सूर्यवद्भासुरांगं तं तपोनिधिं हरेः प्रियम् ।भक्तिपात्रं जगत्त्राणकरं सिद्धं दयान्वितम् ॥९४॥आगतं शान्तमनसं पुण्यनिधिं सुयोगिनम् ।ब्रह्मशीलपरं दृष्ट्वा यमदूता भयं ययुः ॥६५॥त्यक्त्वा नृपं ययुस्तूर्णं धर्मराजसभां प्रति ।जगदुस्तं च वृत्तान्तं यमेशो विस्मयं ययौ ॥९६॥उत्थाय सहसा धर्मराजः स्वागतमाचरत् ।सत्कारं पूजनं चापि स्तवं चकार वै मुनेः ॥९७॥पप्रच्छ चान्ये हेतुं मुनेः पादजलं पपौ ।राज्ञः पाशविमुक्त्यर्थमागतोऽस्म्याह तं मुनिः ॥९८॥पापिनां पापनाशार्थं साधूनां कर्म शस्यते ।तदहं चास्य पापानां नाशार्थं पाशमुक्तये ॥९९॥समागतोऽस्मि धर्मन्द्र विमोचयैनमत्र ह ।मा चिरं कुरु धर्मेन्द्र विमोचय नृपं द्रुतम् ॥१००॥अस्य दुःखस्य चानन्त्यं न द्रष्टुं शक्यते मया ।तस्मान्मोचय राजेन्द्रं नेष्ये सदेहमेव तम् ॥१०१॥इत्युक्त्वा विरराम द्राङ् मुनिः सनत्कुमारकः ।धर्मो विचार्य वाक्यानि मुनये समुवाच ह ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने मायापालनृपस्यनास्तिक्यं महापापानि च, तत्फलानि, सदेहस्य याम्यदण्डभोगः, तद्रक्षार्थं सनत्कुमारागमश्चेत्यादिनिरूपणनामा पञ्चाऽधिकशततमोऽध्यायः ॥१०५॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP