संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीरमे देवि कथां भक्तस्य पावनीम् ।नाम्ना निकामदेवस्य सौराष्ट्रे धूनिवासिनः ॥१॥धूनिग्रामेऽवसद् विप्रः श्वशुरस्य गृहे शुभे ।रैवताद्रेररण्येषु वसतीनां गुरुर्हि सः ॥२॥वैदिकः कर्मधर्मस्थः क्रियाकाण्डपरायणः ।पञ्चदेवार्चनरतो यजमानसुखावहः ॥३॥बभूव स क्रिया यत्र संस्कारमूलिकास्तथा ।विवाहादिस्वरूपिण्यो यत्र सप्ताहवाचनम् ॥४॥देवोत्सवा वत्सरस्योत्सवास्तत्र प्रजाजनैः ।आकारितः प्रयात्येव बहुमान्यपुरःसरम् ॥५॥निष्पादयति कार्याणि समस्तानि यथाविधि ।ग्रामे ग्रामे यजमानाः सहस्रशोऽस्य चाऽभवन् ॥६॥यत्र यत्र प्रयात्येव तस्माद् द्रविणमुत्तमम् ।विपुलं समवाप्नोति गृहं नयति चोत्सुकः ॥७॥अन्नं वस्त्राणि बहूनि विभूषा विन्दतेऽपि च ।यानवाहनपात्राणि तथोपकरणान्यपि ॥८॥गृहीत्वा स्वगृहं याति लोभप्रधान एव ह ।नाऽन्येभ्यश्चापि विप्रेभ्योऽनाथेभ्यः प्रददात्यपि ॥९॥सञ्चयं कुरुते सौधे वस्तूनां नित्यमेव ह ।स्वज्ञातीनां तथान्येषां कार्यार्थं न ददात्यपि ॥१०॥गृहमध्ये भवन्त्येव जीर्णानि शरदादिभिः ।वर्षाभिश्चापि नष्टानि जायन्ते चातपादिभिः ॥११॥कीटाः खादन्ति वस्त्राणि चान्नान्यपि बहूनि च ।तथापि नैव लोकेभ्यः प्रददाति हि लोभवान् ॥१२॥निकामदेवविप्रस्य पत्नी नाम्ना सुरेश्वरी ।भक्ताऽभूद्दानकार्येषु महोदार्यवती तथा ॥१३॥भिक्षुकेभ्यः प्रददाति यथा जानाति नैव सः ।अन्नं वस्त्रं च पात्रं च ददात्यनाथदेहिने ॥१४॥परमेशः प्रसन्नोऽस्तु चान्तरात्मा हरिः प्रभुः ।एवमुच्चार्य विप्राणी देहिभ्यः प्रददाति वै ॥१५॥कृष्णार्पणविधानेन ददाति भक्तियोगिनी ।पुण्यं चास्यास्ततो नित्यं जायते शाश्वतं बहु ॥१६॥अन्तरात्मा प्रभुश्चास्याः प्रसन्नो वर्तते ह्यति ।पूजाकाले च विप्राणी यदर्पयति शार्ङ्गिणे ॥१७॥मूर्तौ हरिः समस्तं तद् गृह्णाति दिव्यरूपवान् ।अनादिश्रीकृष्णनारायणः श्रीवल्लभः स्वयम् ॥१८॥श्वश्र्वाऽर्पितं बदरं सा बुभुजे पुत्रिकार्थिनी ।पुत्रीं तथेहमानाया विप्राण्यास्तु गृहे क्वचित् ॥१९॥बद्रीरूपा नववर्षा कन्या काचित् समाययौ ।न मे रक्षाकरः कश्चिन्मातापितृविहीनिका ॥२०॥न कुटुम्बं वर्तते मे रक्ष मां ब्रह्मपत्निके ।इत्येवमार्थयत् कन्या सुरेश्वरी मुहुर्मुहुः ॥२१॥सुरेश्वरी ततो बद्रि स्नेहपरा ररक्ष ताम् ।कुरु कार्याणि सर्वाणि गृहस्येव सुता मम ॥२२॥पालयिष्ये सदा त्वां वै मानसी त्वं सुता मम ।इत्येवं स्वाश्रये पृष्ट्वा पतिं ररक्ष सा तु ताम् ॥२३॥कन्याऽपि सेवते मत्वा मातरं पितरं च तौ ।अथ काले गते प्राप्ते यौवने बालयोगिनी ॥२४॥बलं प्राप्याऽपीन्द्रियाणां विकृतिं न जगाम सा ।पृष्टा विवाहविषये नेत्येवं प्राह भूसुरौ ॥२५॥उवाच मातरं त्वाध्यात्मिकं प्राग्भवयोगिनी ।मातर्मनुष्यदेहोऽयं मोक्षार्थं मुख्यतोऽर्जितः ॥२६॥न मात्रार्थं प्रयोक्तव्यो भवार्थं वा मुमुक्षुणा ।गतान्यनेकजन्मानि तन्मात्राणि सुखानि च ॥२७॥तत्र भुक्तानि सर्वाणि न तृष्णान्तो विलोकितः ।भोगे तु जायते तृष्णाऽधिका या न निवर्तते ॥२८॥अक्षताया न मे तृष्णा विद्यते जायतेऽपि च ।अभुक्तायाश्च मुक्ताया मोक्षो हस्ततले मम ॥२९॥ब्रह्म सम्पाद्यमेवाऽस्ति विवाह्यश्च नरायणः ।गन्तव्यं त्वात्मना तत्र श्रीमन्नारायणगृहे ॥३०॥हरेः संगो हि सत्संगस्तदन्यस्तु कुसंगकः ।सत्संगं दुर्लभं प्राप्य लब्धव्यः परमेश्वरः ॥३१॥जीवोऽयं मानवे लोके बहुधा स्त्रीर्व्यजायत ।नरोऽपि संबभूवैषः कामनां त्यक्तवान्नहि ॥३२॥यदा सत्संगमेत्यत्र विज्ञानं ज्ञानमित्यपि ।विवेकं भेदविज्ञानं लभते भक्तिमेति च ॥३३॥प्रत्यक्षे श्रीकृष्णनारायणे शक्तिनिधौ प्रभौ ।तदा संसारपारं वै याति भक्तजनो मुदा ॥३४॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।वर्तते भूतले मातर्गोपालकृष्णबालकः ॥३५॥दिव्योऽनन्तब्रह्मप्रियापतिः श्रीपरमेश्वरः ।तं भजित्वा भयं नास्ति कालमायाकुकर्मणाम् ॥३६॥ये भजन्ते परात्मानं त्यक्तदैहिकवासनाः ।साधवस्ते सदोक्ता वै साध्व्यस्ता योषितोऽपि च ॥३७॥कामक्रोधादयो येषां सन्ति नैव कदाचन ।भक्तेषु चेत् क्वचित् कामो दृश्येताऽपि न बन्धकृत् ॥३८॥भगवत्संगमाप्तस्य दिव्याः कामादयः सदा ।कृष्णमाहात्म्ययोगेन मायाऽपि चैति दिव्यताम् ॥३९॥अतः कृष्णे कृष्णभक्ते दुर्गुणोऽपि गुणोत्तमः ।दिव्य एव भवत्येव मोक्षदः पापनाशकः ॥४०॥यत्र यत्र कृष्णनारायणो यत्र च तत्प्रियाः ।तद्रजोधूसरं देहं वाञ्च्छन्ति भक्तिवेदिनः ॥४१॥अपि वृक्षास्तृणगुल्मा वल्लिका पशुपक्षिणः ।कृष्णसम्बन्धमापन्नास्ते सर्वे दिव्यतां गताः ॥४२॥देवपूज्या भवन्त्येव तेषां संगात् प्रमोक्षणम् ।किं पुनर्मानवा भक्ताः कृष्णसेवापरायणाः ॥४३॥सदा कृष्णध्यानपूजानामस्मृत्यादिकारकाः ।मातस्त्वं भजसे कृष्णं श्रीपतिं पुरुषोत्तमम् ॥४४॥ततोऽहं दिव्यतां प्राप्ता सेवया ते निरन्तम् ।नाऽन्यं पतिं समिच्छामि श्रीकृष्णकान्तमन्तरा ॥४५॥सर्वत्र भगवत्प्रीतिहेतुस्तप उदीरितम् ।प्रसादितो वेधसाऽपि हरिः पूर्वं तपोमयैः ॥४६॥निष्कामार्पणभावैश्च सनकाद्यैः प्रसादितः ।अन्ये विवेकवन्तोऽपि विष्णोस्तोषणहेतवे ॥४७॥समाचरन्ति बहुधा तपांसि संयमानपि ।संयमेन च वर्तन्ते भगवत्प्रीतिकामुकाः ॥४८॥बदर्यां श्वेतभवने तपः कुर्वन्ति साधवः ।भगवत्प्रेमलब्ध्यर्थं सेवाप्राप्त्यर्थमित्यपि ॥४९॥अनेन वा परैश्चापि जन्मभिः पुरुषोत्तमः ।यावत्प्रीतो भवेत्तावत्तपः कुर्यां हि शीलिनी ॥५०॥हरेर्दास्यप्रतापेन शिवाब्राह्मीरमासमा ।भविष्यामि हरेर्भक्त्या मातस्ते कृपयाऽपि च ॥५१॥स्रक्चन्दनांऽशुकाऽऽभूषानैवेद्यसेवनादिभिः ।प्रसाद्य श्रीहरिं कान्तं प्राप्स्यामि स्वामिनं प्रभुम् ॥५२॥इहाऽमुत्र च सर्वासां निःश्रेयसकरं हि तत् ।दास्यं तपःस्वरूपं वै श्रीकृष्णस्य महात्मनः ॥५३॥तत्रोद्युक्तस्य विघ्नौघा भवन्ति न कदाचन ।नानाविधानि भोग्यानि स्वर्णाऽलंकारसम्पदः ॥५४॥खाद्यपेयरसाद्याश्च जायन्ते बन्धनाय न ।मातर्लोकप्रवाहोऽयमन्धानामन्धगामिवत् ॥५५॥वहत्येव विना ज्ञानं यत्पारो नैव लभ्यते ।कामिन्यो विधवाश्चापि कामतृष्णाऽऽकुलास्तु याः ॥५६॥मृतं कान्तं प्रशोचन्ति चाश्रयन्ति नरान्तरम् ।कृष्णैकभक्तिमत्यस्तु तरुण्यः सधवा अपि ॥५७॥कामसुखं त्ववमप्य भजन्ति श्रीहरिं पतिम् ।एषणा वासना चाप्यविवेकस्तत्र बन्धनम् ॥५८॥दिव्यता भावना चात्मज्ञानं निःश्रेयसां प्रदम् ।तस्मात् प्रीतये कृष्णस्य प्रेमभक्तियुतं तपः ॥५९॥कर्तव्यं मोक्षदं मातर्मया त्वत्सन्निधाविह ।कृष्णे प्रीतिः प्रकर्तव्या मातः प्रेष्ठतमे मया ॥६०॥यद्यत् प्रियं भवत्यस्य कार्यं तत्तन्मया सदा ।तस्य रुच्यनुसारेण वृत्त्यं नित्यं मया तथा ॥६१॥विप्रकृष्टेऽन्तिके वापि स्थेयं तदाज्ञया सदा ।नाऽप्रियं निजभक्तस्य क्वापि कृष्णः करोति हि ॥६२॥भक्तिमती यत्र यत्र वर्तते च तदाज्ञया ।तत्र तत्र हरिर्याति भक्तायाः प्रेमसंवशः ॥६३॥अतो नैव हि भक्ताया विरहोऽस्य भवेत् क्वचित् ।कृष्णो भक्तस्य विरहं सोढुं शक्तो न वै क्वचित् ॥६४॥मातः शरीरमेतत्तु मायिकं जीवबन्धकृत् ।जन्मनः कारणं माया तमोऽज्ञानं च मोहनम् ॥६५॥सत्संगं सम्विधायैव मायामोहादि नाशयेत् ।प्रेम्णा ध्यायेत् परब्रह्म साक्षाद्धरिं रमापतिम् ॥६६॥क्षेत्रज्ञेशं परमेशं हृत्स्थं कान्तं मनोहरम् ।दिव्यानन्दप्रदं ध्यायेद् बालकृष्णं जगत्पतिम् ॥६७॥कर्णाभ्यां शृणुयात्तस्य लीलाचरित्रमुत्सवात् ।हरेलींला गरीयस्यस्तपोदानेभ्य उत्तमाः ॥६८॥हरेर्योगेन मातर्वै निष्कामत्वं सदा भवेत् ।पूर्णकामस्य योगेन सदा स्यात् पूर्णकामता ॥६९॥दृष्ट्वा नरं बालकं वा युवानं वृद्धमित्यपि ।विक्रियां प्राप्नुयान्नारी मायायुक्ता हि सा मता ॥७०॥नरस्य त्रिविधस्याऽपि त्वंगानां दर्शने सति ।विक्रियां तु मनाक् प्राप्ता भवेत् साऽपि तु मायिकी ॥७१॥पशुं दृष्ट्वा यथा तद्वन्नरं दृष्ट्वा न विक्रियाम् ।प्राप्नुयात् सा भवेज्जितेन्द्रिया नारी विरागिणी ॥७२॥रहो विकारमापन्ना मध्यरागा हि सोच्यते ।पुंसो योगेऽपि यस्या न विकृतिः सा तु चेश्वरी ॥७३॥ब्राह्मी मुक्तानिका बोध्या ब्रह्मप्रिया हरिप्रिया ।महावैराग्यसम्पन्ना दिव्यनाराणप्रिया ॥७४॥एतादृशी तु या नारी नारायणपरेश्वरे ।वीक्ष्य कामं मदं क्रोधं दिव्यं तं मनुते सदा ॥७५॥तस्या ज्ञेयोपासना तु मेरुतुल्या हि निश्चला ।तयाऽऽप्नुयान्महासिद्धिमुत्तमामिह जन्मनि ॥७६॥मायादोषैः काममानस्वादैर्दग्धाशयस्त्रियाः ।कृतार्थता न वै स्याद्धि प्राप्तौ सत्यामपि प्रभोः ॥७७॥मायादोषा नाशनीया अमायिकप्रसेवनैः ।अमायिको हरिः साक्षात्तत्सन्तश्चाप्यमायिकाः ॥७८॥तेषां समागमात् त्याज्या माया च मायिकाऽरयः ।ब्रह्मभूतया वृत्त्यं वै दास्या कृष्णस्य योषिता ॥७९॥न स्थातव्यं क्षणं चापि विना कार्ष्णीं हि संगतिम् ।नराकारे हरौ स्थेयं सर्वानन्दप्रदे प्रभौ ॥८०॥साधुवाक्यानि संगृह्य वृत्त्यं श्रीपरमेश्वरे ।अहंममते सन्त्यज्य वर्तितव्यं मया हरौ ॥८१॥कठिनानि सद्वचांसि ह्यपि ग्राह्याणि सर्वथा ।अगुणाः संविनश्यन्ति प्रसादात् परमात्मनः ॥८२॥दुर्गुणाश्च विनश्यन्ति सतां प्रसादनात्ततः ।वृत्त्यं तदग्रे निश्छद्ममनोदेहेन्द्रियादिभिः ॥८३॥सर्वथा तत्प्रियं कार्यं कार्यं नैवाऽपराधनम् ।अपराघे क्वचिज्जाते प्रसादनीयाः सेवनैः ॥८४॥सन्तो यस्याः प्रसन्नाः स्युस्तस्याः कालभयं नहि ।श्रेयः परं निश्चितं च तस्याः स्यान्नात्र संशयः ॥८५॥ज्ञानवती ब्रह्मरूपा न बिभेति कुतश्चन ।कृतार्था कृष्णयोगेन मातर्भवति भामिनी ॥८६॥विश्वस्ता श्रीहरौ सत्सु न बिभेति कुतश्चन ।अनादि श्रीकृष्णनारायणस्याऽस्मीतिनिश्चिता ॥८७॥स्निग्धप्रीतिमती कृष्णे न बिभेति कुतश्चन ।कृष्ण एव वरस्तस्याः पातिव्रत्यं हरौ सदा ॥८८॥हृदयेऽस्या भयं नास्ति कृतार्थाया हरेः श्रियाः ।कृष्णस्य वा सतां प्रीत्यै सर्वं जह्याद्धि मायिकम् ॥८९॥राज्यं पतिं च भोगाँश्च गृहं कुटुम्बिनः स्त्रियम् ।न तस्याः क्वापि किमपि भयं त्वन्यत् प्रजायते ॥९०॥दिक्करिणी मदोन्मत्ता यथा तथैव सा भवेत् ।कृष्णग्रहगृहीतात्मा नान्यदिच्छेत् कदाचन ॥९१॥अनेनैव हि देहेन यायात् सा परमां गतिम् ।संस्कृता चाऽसंस्कृता वा भगवद्धाम याति सा ॥९२॥ब्रह्मधामाऽधिपः कृष्णो विरहाऽक्षमिणामिह ।सुखायाऽऽयाति च सुखयित्वा नयति चाऽक्षरम् ॥९३॥एवं सर्वेषु चाण्डेषु भक्तसुखाय जायते ।सुखयित्वा सखीन् सखीर्नयत्यक्षरधाम सः ॥९४॥देवेषु जायते कृष्णः क्वचिदृषिषु पितृषु ।क्यचिन्नरेषु नारीषु यादस्सु पशुपक्षिषु ॥९५॥यावदर्थं विनिर्वर्त्य मूलरूपं व्रजत्ययम् ।द्विभुजं तु निजं रूपं न्राकृति मुक्तसेवितम् ॥९६॥भक्तेच्छया क्वचिन्निजेच्छयाऽपि बहुबाहुमान् ।गृहस्थो वा विरक्तो वा जायते पुरुषोत्तमः ॥९७॥श्रेयोमूर्तिः सर्वथैव मातः सोऽस्ति परेश्वरः ।बहुरूपं महैश्वर्यं मातस्तस्य कृपानिधेः ॥९८॥दास्यो जानन्ति नाऽन्यास्तु कृष्णस्य चान्तरात्मनः ।सोऽन्तर्यामिस्वरूपेण सर्वत्राऽऽस्ते वरः प्रभुः ॥९९॥तस्मै समर्पिता चास्मि मातः कृष्णाय सर्वथा ।कृष्णाश्रयबला चाहं नान्यं पतिं वृणोमि वै ॥१००॥हरे कृष्ण बालकृष्ण श्रीकान्त पुरुषोत्तम ।त्वमेव मे पतिर्नित्यस्तवाऽस्मि शरणं गता ॥१०१॥इत्युक्त्वा सा विरराम बद्रिके बालयोगिनी ।सुरेश्वरी च माताऽपि महाश्चर्यपराऽभवत् ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां सुरेश्वरीविप्राण्यै पुत्रीरूपाया बदर्या बालयोगिन्या मुक्ताया ब्रह्मभावोपदेशादिरितिनिरूपणनामा नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP