संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १२१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १२१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२१ Translation - भाषांतर श्रीनरनारायण उवाच-बद्रिके च ततोऽनादिःकृष्णोनारायणो हरिः ।लक्ष्मीं प्रज्ञां पाशवतीं चान्तर्भाव्य निजात्मनि ॥१॥कुंकुमवापिकाक्षेत्रे त्वेकरूपेण चाऽवसत् ।द्वितीयेन स्वरूपेण श्रिया युक्तेन चान्तरे ॥२॥साधुरूपेण तीर्थेषु ययौ श्रीयुक्तमूर्तिकः ।अगोचरोमुक्तसेव्यदेवजुष्टः सएकलः ॥३॥कुंकुमवापिकातीर्थजलं पीत्वाऽश्वसारसम् ।जलं पीत्वाऽऽचमनं च कृत्वा स्नात्वा सरोवरे ॥४॥श्रीगणेशं गुरुं चापि नत्वा सम्पूज्य भावतः ।सर्वतीर्थानि नत्वाऽपि कृत्वा सरःप्रदक्षिणम् ॥५॥प्रययौ चाऽऽम्रवणतो व्याघ्रारण्यं महत्तरम् ।सिंहारण्यं ययौ पश्चात् तलश्यामस्थलं शुभम् ॥६॥स्नात्वा ययौ सोमनाथं प्राचीपिप्पलमित्यपि ।मूलद्वारावतीं नैजां ततश्चोष्णपुरं ययौ ॥७॥गोपनाथं ययौ पश्चाद् गोकर्णं प्रजगाम सः ।नृसिंहेशं शरभेशं कृत्वा व्योम्ना ययौ द्रुतम् ॥८॥नारायणीं महादीर्घां सर्वोत्तमां नदीं पराम् ।त्रिनासं च सरश्चापि रुदलाल्पसरो ययौ ॥९॥विषतुरीयकसरस्त्रिगायनसरोवरम् ।न्यायजं च सरश्चापि ययौ कङ्गूमहानदीम् ॥१०॥न्यायजरां नदीं गत्वा भूमध्यसागरं ययौ ।नीपरां प्रययौ द्यूनां वातगामुरलां नदीम् ॥११॥बालकृष्णसरश्चापि ययाबोबीं महानदीम् ।यानेशीं च ययौ कृष्णो द्विकलं च सरोवरम् ॥१२॥आयुरां च नदीं रम्यां चाऽब्धिं ययौ ततः परम् ।बहुलिङ्गसमुद्रं च गत्वा मत्कुञ्चिकानदीम् ॥१३॥गर्तस्रावसरो गत्वा लीनपादसरो ययौ ।सूपरीशसरो गत्वा ततोऽर्केशां नदीं ययौ ॥१४॥समुद्रं च ततो गत्वाऽऽमाञ्जनीं सुनदीं ययौ ।पारानसीं नदीं गत्वोल्लंघ्यसमुद्रमायतम् ॥१५॥उष्ट्रालये मयूरां च नदीं ययौ जनार्दनः ।कारुलिङ्गीं नदीं गत्वा ययावैतसरोवरम् ॥१६॥ग्रासकायां नदीं गत्वा व्योम्ना ब्रह्मप्रदेशकम् ।आययौ भगवान् बद्रि मेनकाङ्गीं महानदीम् ॥१७॥शालवीनां तथा चैरावतीं नदीं ययौ प्रभुः ।शिक्षांगीं चाङ्गशिक्षांगां त्रियाज्ञिकां नदीं ययौ ॥१८॥ब्रह्मपुत्रां च गंगां च गोदावरीं च नर्मदाम् ।शत्रुञ्जितां ययौ कृष्णस्ततोऽश्वपट्टसारसम् ॥१९॥आययौ भगवान् व्योम्नाऽक्षरक्षेत्रं निजालयम् ।एकोनत्रिंशां सुभगां नैजां जन्मजयन्तिकाम् ॥२०॥व्यधात् कृष्णः साधुवेषः कुंकुमवापिकालये ।एवं श्रीभगवान् बद्रि लक्ष्म्या मनोऽप्यपूरयत् ॥२१॥पद्मावत्याश्च प्रज्ञायाः मनस्यपि ह्यपूरयत् ।पृथिव्यां यानि तीर्थानि नदीनदाद्रिसागराः ॥२२॥वनभूगह्वरारण्यग्रामद्वीपसुरालयाः ।यत्र तत्र ययौ कृष्णनारायणायनो मुहुः ॥२३॥श्रेयसे स्वस्तये कल्याणाय भद्राय देहिनाम् ।मोक्षाय मुक्तये निर्वाणाय शाश्वतसिद्धये ॥२४॥अनेकान् देहिनः कृष्ण उद्दधार भवार्णवान् ।बद्रिके स्वेच्छया नैजकृपया लीलया धिया ॥२५॥मुहुर्देशेषु सर्वेषु भक्तवशः प्रयात्यपि ।कृत्वोद्धारं जनानां च समायाति निजालयम् ॥२६॥कुंकुमवापिकाक्षेत्रं राजते साधुभूषणः ।लक्षशः साधवः साध्व्यो यत्र वसन्त्यहर्निशम् ॥२७॥त्रिशत्तमाद्याः कृष्णस्योत्सवा जन्मनिमित्तजाः ।क्रियन्ते साधुसाध्व्याद्यसंख्यभक्तैः प्रमोददाः ॥२८॥मुच्यन्तेऽसंख्यमनुजास्तद्योगात् प्रतिवत्सरम् ।कृष्णनारायणपुत्रा युगला ये विदेशगाः ॥२९॥तेऽपि त्वागत्य पितरं वीक्ष्य प्रसेव्य माधवम् ।प्रयान्ति ते निजमातामहदेशान् सुखान्विताः ॥३०॥असंख्याश्च नरा नार्यो वैष्णवा भक्तिभावनाः ।बद्रिके नित्यमायान्ति सेवनार्थं हरिं प्रभुम् ॥३१॥निकामं ते सम्प्रसेव्य समासाद्य मनोगतम् ।प्रयान्ति निजदेशाँश्च प्राप्नुवन्ति परं सुखम् ॥३२॥परं पदं परे धाम देहान्ते सम्प्रयान्ति वै ।अनादिश्रीकृष्णनारायणे तिष्ठति भूतले ॥३३॥सर्वथा कार्तयुगको व्यवर्तत प्रजासु वै ।अन्ये युगाः प्रभावं न कर्तुं शक्ता भवन्ति तु ॥३४॥सत्ये यथा तथा त्रेतायुगे द्वापरके तथा ।कलौ तथा हरेर्योगात् प्रजानां कृतवत् स्थितिः ॥३५॥धर्मकामार्थमोक्षाणां बलं कृष्णकृपावशात् ।यथार्थं सुखदं चास्ते सर्वेषां देहिनां तदा ॥३६॥बद्रिके श्रीकृष्णनारायणोऽनादिः परः प्रभुः ।ब्रह्मविष्णुमहेशाद्यैरर्थितश्च मुहुर्मुहुः ॥३७॥पृथ्व्यां तस्थौ लक्षवर्षाण्यूर्ध्वं च पञ्चविंशतिः ।सहस्राणि तथा पञ्चशतानि सर्वगोचरः ॥३८॥सपादलक्षवर्षान्ते परं धाम निजं पदम् ।तेनैव वर्ष्मणा दिव्यशाश्वतेन ययौ हरिः ॥३९॥ततः कुंकुमवाप्यादौ मूर्तिरूपो विराजते ।सर्वेषां देहिनां चर्मचक्षुषां दृष्टिगोचरः ॥४०॥दिव्यदृशां तु दिव्यात्मा प्रत्यक्षः पूर्ववत् सदा ।लोमशादेस्तु भगवान् नित्यप्रत्यक्ष एव ह ॥४१॥साध्वीनां च सतां साधुस्वरूपो नित्यगोचरः ।योगिनां ध्यानगम्यश्च मुक्तानां धामगोचरः ॥४२॥भक्तानां स्नेहवशगो वर्तते हृदये स्थितः ।सर्वत्र वर्तते साक्षी स एव परमेश्वरः ॥४३॥बद्रिके बहवस्तस्याऽवताराः संभवन्ति हि ।नरनारायणश्चाहं तस्याऽवतार एव ह ॥४४॥त्वं चाऽपि तस्य कृष्णस्याऽर्धांऽगनाऽस्यवतारिणी ।भज तं परमात्मानं कान्तं भजाम्यहं यथा ॥४५॥विष्णुब्रह्ममहेशाद्या यथा भजन्त्यहर्निशम् ।देवर्षिपितृसाध्याश्च यथा भजन्त्यहर्निशम् ॥४६॥ईशा ईशानिका मुक्ता यथा भजन्त्यहर्निशम् ।स्मर कृष्णं सदा कान्तं शाश्वतानन्ददायकम् ॥४७॥स्मारयाऽन्यान् हरिं तं च कृष्णं नारायणं प्रभुम् ।तस्यैव भजनं बद्रि भक्तिं कारय देहिनाम् ॥४८॥तस्यैव भजनेनैव ते यास्यन्ति परं पदम् ।यथैव भजनं तस्य मोक्षदं च तथाविधम् ॥४९॥संहितायाः श्रवणं च मोक्षदं नित्यमोददम् ।मया बद्रि श्रावितानि चरित्राणि हरेस्तव ॥५०॥भक्ताभक्तमोक्षदानि चमत्कारमयानि वै ।तल्लीलाललितं नाथं हृदि निधेहि बद्रिके ॥५१॥श्रीश्वेतायनव्यास उवाच-शृण्वन्तु मुनयो लक्ष्मीनारायणीयसंहिताम् ।ये श्रोष्यन्ति भागतोऽपि ते यास्यन्ति परां गतिम् ॥५२॥खण्डोऽत्र प्रथमश्चास्ते कृतसन्तानकाभिधः ।द्वितीयश्च समास्ते वै त्रेतासन्तानकाभिधः ॥५३॥तृतीयो द्वापरसन्तानाख्यः खण्डोऽस्य वर्तते ।चतुर्थस्तिष्यसन्तानाभिधोऽस्त्यत्र चमत्करः ॥५४॥प्रथमे कृतसन्तानेऽध्यायाः पञ्चशतानि च ।नवतिश्च तथाऽध्याया वर्तन्ते द्विजमूर्तयः ॥५५॥श्लोकास्तु पञ्चपञ्चाशत्सहस्राणि तथा पुनः ।पञ्चशतान्यधिकानि सप्तविंशतियूञ्जि च ॥५६॥द्वितीये त्रीतसन्ताने त्वध्यायास्त्रिशतानि च ।वै द्वात्रिंशत्सहस्राणि द्वे शते च तथा पुनः ॥५७॥पञ्चाशच्चापि चत्वारः श्लोकाः सन्ति हि तीत्रके ।तृतीये द्वापरसन्तानकेऽध्यायाः शतद्वयम् ॥५८॥सप्तत्रिंशत् तथा सन्ति मोक्षदा दिव्यविग्रहाः ।श्लोकाः सन्ति सहस्राणि पञ्चविंशतिरप्यथ ॥५९॥शतं षष्टिश्च वै द्वे च मुक्तिदा भक्तिदाः खलु ।चतुर्थे तिष्यसन्तानेऽघ्यायास्तु शतमित्यपि ॥६०॥त्रयोविंशतिश्चाप्येव वर्तन्ते ब्रह्मधामदाः ।श्लोकाः सन्ति त्रयोदशसहस्राणि तथोपरि ॥६१॥अष्टात्रिंशतिसर्वे साक्षान्मोक्षप्रदाः पराः ।चतुःसन्तानरूपायाः संहितायास्तु सर्वशः ॥६२॥अध्यायाश्चैकसाहस्रं तदूर्ध्वं हि शतान्यपि ।पञ्चाशत् सन्ति च तथा सर्वथा मोक्षकारिणः ॥६२॥अस्याः पूर्णसंहितायाः श्लोकास्तु चैकलक्षकम् ।तदूर्ध्वं तु पञ्चविंशतिसहस्राणि वै तथा ॥६४॥नवशतानि चैकाशीतिरतदूर्ध्वं भवन्ति हि ।ततोऽतिरिक्ताः सप्ताऽपि विद्यन्ते श्लोकका अपि ॥६५॥अनादिश्रीकृष्णनारायणः श्रीवल्लभप्रभुः ।मुनयो! न्यवसत् पृथ्व्यां लक्षवर्षाणि तत्परम् ॥६६॥पञ्चविंशतिसहस्राण्यपि पञ्चशतानि च ।तत्र कृताश्चमत्काराः संख्यातुं चाऽऽप्य गोचराः ॥६७॥साधुरूपेण कृष्णेन कृता ये ये तु तेऽखिलाः ।लिखिता वै साधुसंहितायां साधुभिरादरात् ॥६८॥सनत्कुमारप्रभृतिभिस्तु मोक्षपरायणैः ।श्लोके श्लोकेऽत्र सर्वत्र हरेर्योगेन देहिनाम् ॥६९॥मोक्षेच्छया कृष्णकृपा सिञ्चिता दुर्लभा तु या ।कृपामूर्तिस्वरूपेयं संहिता मोक्षदा ततः ॥७०॥लक्ष्मीरूपा संहितेयं संहिता श्रीस्वरूपिणी ।यथा लक्ष्मीस्तथा चेयं यथा चेयं तथा रमा ॥७१॥दयिताऽनादिकृष्णस्याऽर्धांगना मोक्षदायिनी ।पावनी सर्वलोकानां जननी मुक्तिगामिनाम् ॥७२॥पोषणी चैहिकानां तु सम्पत्प्रदां तु कामिनाम् ।कृष्णकण्ठाद् दिव्यरूपा चाविर्भूतेयमीश्वरी ॥७३॥श्रुतिरूपा ततश्चेयं वेदवद् वेदिनी त्वियम् ।वेदानां फलदा चेयं पूजिता वाचिता श्रुता ॥७४॥सदा शान्तिकरी चेयं मुक्तिवन्मोदकारिणी ।राधावद् ऋद्धिसिद्धिध्रा सर्वर्द्धिसिद्धिदायिनी ॥७५॥नारायणी मूर्तिमती नारायणस्य बोधिनी ।नारायणप्राप्तिकरी पूजिता वाचिता श्रुता ॥७३॥वैष्णवीयं मूर्तिमती वैष्णवानां प्रमोदिनी ।योगिनी युगवार्तानां बोधिनी ब्रह्मयोगिनी ॥७७॥ब्रह्मरूपकरी श्रोतुर्वक्तुः पूजयितुस्तथा ।स्वाहेयं सर्वयज्ञानां फलदा दक्षिणात्मिका ॥७८॥प्रज्ञेयं श्रीकृष्णनारायणवल्लभमूर्तिजा ।ब्रह्मपारप्रदा चेयं यज्ञाऽवभृथरूपिणी ॥७९॥सरस्वती ब्रह्मपत्नी नित्या वाणी हरेरियम् ।सतामाशीर्वादरूपा लोमशेन विकासिता ॥८०॥श्वैतिप्रभतिशिष्यैश्च सनकाद्यैः सुपोषिता ।द्यौर्दिव्या देवकोटीनां सजीवनप्रकारिणी ॥८१॥महासाध्वी सती देवी दिव्येयं चाऽच्युती मता ।गंगेयं पापविध्वंसकारिणी विष्णुधारिणी ॥८२॥शिवेयं शिवदा स्वस्तिप्रदाऽऽनन्दप्रदा सदा ।संज्ञेयं मानदा सौरी गायत्री त्राणदा परा ॥८३॥स्वधेयं सर्वपितॄणां प्रेतानां श्रेयसाम्प्रदा ।कौमुदीयं सुधास्वादप्रदा चान्द्री सरोजनी ॥८४॥पद्मेयं पद्मिका पद्मधरीवाऽव्ययकारिणी ।अन्नपूर्णा कृष्णतृप्त्याभोगसुखप्रदायिनी ॥८५॥गाणेशीयं सर्वविघ्ननाशिनी क्षेमलाभदा ।हानुमती महाशक्तिः शीलिनी ब्रह्मवर्चुला ॥८६॥काच्छपी फणिनी शक्तिः पृथिव्युद्धारकारिणी ।महालक्ष्मीरियं विद्या नारायणस्य खेलनी ॥८७॥बदरीयं हैमगिरौ तापसी तापनाशिनी ।यमुनेयं यमलोकगतिनिरोधिनी स्वसा ॥८८॥गोमतीयं परब्रह्मकिरणानां प्रभात्मिका ।कामधेनुरियं द्रोग्ध्री कृष्णसौरभदायिनी ॥८९॥सर्वकामप्रपूरेयं सेविता क्षीरपायसी ।अमृतेयं सेवकानां महामृतप्रदायिनी ॥९०॥कल्पवल्ली शाश्वतीयं मनोवाञ्च्छाप्रपूरणी ।अक्षय्यपात्रिका चेयं कृष्णकथाऽक्षयान्विता ॥९१॥कल्पद्रुमस्वरूपेयं सर्वार्थरसवर्षिणी ।चिन्तामणिः संहितेयं सर्वेषां कृष्णचिन्तनी ॥९२॥पज्रमणिः सदा चेयं वासनाद्रिप्रभेदिनी ।सर्वव्रतमहाशाला संहितेयं फलप्रदा ॥९३॥सर्वतीर्थमयी चेयं सर्वतीर्थप्रबोधिनी ।सर्वेश्वरी महादेवीश्वराणां स्मृतिकारिणी ॥९४॥धार्मिकीयं धर्मरक्षाकर्त्री धर्मस्य धारिणी ।विभूतिः शाश्वतीयं च श्रीकृष्णस्याऽवतारिणी ॥९५॥संक्रान्तिः सहितेयं च कृष्णसंक्रान्तियोगिनी ।महोत्सवी सदा चेयं श्रोतुर्वक्तुः समुत्सवा ॥९६॥अमूर्ता शब्दमूर्तेयं कृष्णजिह्वा रसाऽऽभरा ।कृष्णयोनिः कृष्णनारायणाऽऽनन्दप्रदायिनी ॥९७॥मोक्षविमानिका श्रेष्ठा धामसृतिः सुकोमला ।कृष्णशय्यात्मिका दिव्या कृष्णपार्श्वप्रदायिनी ॥९८॥श्रीकृष्णाऽऽस्यस्वरूपेयं कृष्णताम्बूलपायिनी ।अनादिश्रीकृष्णनारायणात्मरूपिणी त्वियम् ॥९९॥बहुना किं साधवीयं चतुःपुमर्थदायिनी ।तुलसीमालिकेयं च साध्वीदीक्षेयमित्यपि ॥१००॥महासंन्यासिनी चेयं कण्ठीयं संहिता सदा ।ऋतम्भरेयं सततं सत्त्वप्रकर्षिणी त्वियम् ॥१०१॥आतिवाहिकदेवीयं पराविद्येयमव्यया ।विधिशक्तिरियं शास्त्री भक्तिमूर्तिरियं तथा ॥१०२॥दुःखहाश्रीरियं नित्यं कृष्णनारायणप्रिया ।लक्षाऽश्वमेधयज्ञानां फलदा वाचिता श्रुता ॥१०३॥लक्षविष्णुमखानां च पुण्यदा मोक्षदा शुभा ।सर्वविधानां तपसां फलदा शान्तिदा तथा ॥१०४॥सर्वव्रतानां तीर्थानां सर्वेषां पुण्यदायिनी ।कोटिधेनुगजाश्वानां दानानां फलदोत्तमा ॥१०५॥ब्रह्माण्डदानफलदा जीवाऽभयप्रदायिनी ।कोटिकन्यादानफला कोटिश्रीदानसदृशी ॥१०६॥उपनिषत् मूर्तिमती कृष्णसन्निधिकारिणी ।आत्मविद्या ह्यकामानां सकामानां तु चेष्टदा ॥१०७॥धनदा पुत्रदा पुत्रीप्रदाऽऽरोग्ययशःप्रदा ।राज्यदा पुष्टिदा नारीप्रदा चेष्टपतिप्रदा ॥१०८॥स्वर्गदा धामदा मोक्षप्रदा कृष्णांऽकवासदा ।सर्वदा सर्वदा चेयं संहिता हितदाऽन्वहम् ॥१०९॥गृहस्था तु गृहस्थानां गृहस्थितिप्रपोषिणी ।हृदिस्था तु सतां सच्चिदानन्दहरियोगिनी ॥११०॥सर्वसौभाग्यदा चेयं सर्वोत्कर्षप्रदायिनी ।अनन्तानन्दधामाख्यसाम्राज्यसुखवर्षिणी ॥१११॥वर्तते संहिता चेयं महामुक्तानिका क्षितौ ।प्रत्येकमस्याः सन्तानाः पुत्रा नारायणस्य वै ॥११२॥नारायणसमा मोक्षे बले कीर्तौ च सम्पदि ।यथा कृतः सर्वधर्मे त्रेता यथाऽखिले मखे ॥११३॥द्वीतो यथाऽखिले दाने तिष्योऽखिले जपेऽतुलः ।कृतः सामर्थ्यसञ्जुष्टस्त्रेता दिव्यचरित्रवान् ॥११४॥द्वीतश्च दिव्यलीलाढ्यस्तिष्यः शरणितारकः ।सत्यः स्वात्मबलोद्धर्ता त्रेता सुरादिसंश्रयात् ॥११५॥द्वीतः कृष्णचमत्कारात् तिष्यः साधुसमागमात् ।तिष्योऽयं कृष्णसन्तानः केवलः पठितः श्रितः ॥११६॥श्रुतश्च श्रावितश्चापि पूजितश्च गृहेऽवितः ।स्मृतो गुणैर्गृहीतश्च तारयत्याश्रितान् द्रुतम् ॥११७॥अनादिश्रीकृष्णनारायणस्य कानकीं शुभाम् ।हरेः सुप्रतिमां कृत्वा तिष्यसन्तानकं त्विमम् ॥११८॥दद्याद् दाने तु यो भक्त्या विदुषे ब्रह्मवादिने ।वैष्णवाय विशेषेणाऽऽचार्याय गुरवेऽपि च ॥११९॥विप्रायाऽध्यापकायाऽपि कथावाचनशीलिने ।धेनुं वत्सायुतां सर्वोपस्करणादिसंयुताम् ॥१२०॥शय्यां प्रपूर्णां मृद्वीं च पात्राणि चार्पयेत्तथा ।सरत्नधान्यवस्त्रादि दद्याद् यः स तु मोक्षभाक् ॥१२१॥सकामः स्वर्गमासाद्य ब्रह्मकल्पायुरेव च ।भुक्त्वा भोगान् प्रयात्येव संहितादानतोऽक्षरम् ॥१२२॥तिष्यसन्तानकश्चाऽयं सद्भावाऽऽधायकः सताम् ।सत्सु स्नेहकरः सेवाधर्मबोधप्रदस्तथा ॥१२३॥पापानामपि सर्वेषां क्षालकः पापिमोक्षदः ।शरणागतजीवानां ब्रह्मधामप्रदः सुखः ॥१२४॥अपि साधोर्हरेर्वापि पापी प्रसादधुग् भवेत् ।तिर्यग् वा स्वेदजोऽण्डोत्थो जराजो वा समुच्यते ॥१२५॥तिष्याध्यायं गृहे त्वेकं वाचयेद् यः समाहितः ।तिष्यसन्तानपाठस्य लभते स फलं द्रुतम् ॥१२६॥मुनयः! तिष्यपाठानां तिष्यवेगो न बाधते ।तिष्यदोषा न जायन्ते यमोऽस्य याति दूरतः ॥१२७॥तिष्यकथाश्रवणार्थी मत्कृपापात्रमेव सः ।सर्वमोक्षप्रदान् साधून् श्रित्वा यत्लभतेऽक्षरम् ॥१२८॥यस्य दानं तपो धर्मस्तपो जपो न शीलता ।तस्य तिष्याश्रयाद् साध्वीसाध्वाश्रयात् प्रमोक्षणम् ॥१२९॥स्वर्णविमानकं कृत्वा संस्थाप्य तिष्यखण्डकम् ।प्रपूज्य चाऽर्पयेत् पात्रे दाता विमानगोऽक्षरे ॥१३०॥सर्वकुटुम्बसहितो मोदते हरिमन्दिरे ।भुक्तिं मुक्तिं च लभते शाश्वतीं नात्र संशयः ॥१३१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणस्य मुनिरूपेणाऽपरेण दिव्येनस्वरूपेण श्रीमनोरथपूरणार्थं पृथिव्यां सर्वतीर्थाऽभिगमनं, पुनः कुंकुमवापिकागमनम्, तिष्यसन्तानस्य समस्तसंहितायाश्चाऽध्यायश्लोकसंख्यानिर्देशः, समस्तसंहितायास्तिष्यसन्तानस्य च दानादिमहिमेत्यादिनिरूपणनामैकविंशत्यधिकशततमोऽध्यायः ॥१२१॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP