संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीरमे पार्वतिके यज्जातमुल्बणम् ।विद्रावकं हि देवानां रक्षणं च यथा पुनः ॥१॥सुस्थिरेषु तु देवेषु विश्वस्ते तु हिमाचले ।यत्र हेमानलो हैमशिलातलेऽर्दितोऽभवत् ॥२॥शिखरं तत् सहसैवाऽम्बरे मूलात् परापतत् ।भूकम्पश्चापि शृंगेषु चान्येषु संव्यजायत ॥३॥शब्दो भयंकरश्चापि प्रलयाग्नेरिवाऽभवत् ।मुहुर्भूधूननं जातं शिलावर्षा भुवोऽभवत् ॥४॥समुत्पतन्ति तलतश्चोपला हैमभासुराः ।हेमानलेन तलतो नोदिताः क्षेपितास्तथा ॥५॥हिमे शिलातलाद्धेमासुरो बलात् पुनस्तदा ।उत्तस्थौ योगबलतो महाश्चर्यमिदं ह्यभूत् ॥६॥देवा भयंगताश्चान्ये ब्रह्मविष्णुशिवादयः ।सुराद्या देहिनः सर्वे वीक्ष्योपद्रवमुल्बणम् ॥७॥सस्मरुः श्रीभगवन्तं श्रीकृष्णवल्लभं प्रभुम् ।तथा बदरं राजानं महाभागवतं तदा ॥८॥हेमानलोऽपि गदया योद्धुं तदाऽम्बरेऽभवत् ।पर्वतप्रायदेहः स हिमोपलेव भासुरः ॥९॥यं यं देवं गिरौ तत्र व्यलोकयद् व्यपोथयत् ।हाहाकारो महान् जातस्तावद् विमानकः प्रभुः ॥१०॥अनादिश्रीकृष्णनारायणश्रीबदरीश्वरः।विमानेनाऽऽगमत्तत्र यत्र हेमाऽनलोऽसुरः ॥११॥वीक्ष्य दिव्यविमानं तद् योद्धुमुपाद्रवद्धरिम् ।भगवान् गदया तूर्णं सन्नद्धश्च तदाऽभवत् ॥१२॥श्रियं रमामवस्थाप्य विमाने बहिराययौ ।बदरोऽपि महाराजस्तूर्णं तत्राऽप्युपाययौ ॥१३॥वीक्ष्य हेमानलं महाऽसुरं चोज्जीवितं पुनः ।महाश्चर्यं प्राप राजा तेनाऽयुद्ध्यद् गदाकरः ॥१४॥कृष्णेन बदरेणापि ताडितो गदयाऽसुरः ।जातक्लमोऽभवद् भग्नकटिः पपात भूतले ॥१५॥बदरस्तं समुत्तोल्य जीवन्तं तत्र गर्तके ।यत्राऽभवत् स तत्रैव चिक्षेप हिमगर्तके ॥१६॥हिमशैलं पुनस्तत्र स्थापयामास माधवः ।बदरश्च तदा कृष्णनारायणं परं प्रभुम् ॥१७॥प्रार्थयामास बहुधा ह्यनुत्थाय वै पुनः ।भगवानाह वै राजन् शृणु हैमानलीकथाम् ॥१८॥तपस्तेपे पुराकल्पे प्रसादाय स चक्रिणः ।हस्ते कृत्वा हरेर्गृति वर्षसहस्रकं तदा ॥१९॥ततो वर्षसहस्रं वै त्वेकपादेन चोत्थितः ।ततो वर्षसहस्रं वै वटशाखावलम्बितः ॥२०॥अधोमुखस्तपस्तेपे हस्ते पश्यन् हरिं हि माम् ।ततो वर्षसहस्रं स प्रज्वाल्याऽनलमूर्धनि ॥२१॥लम्बमानो हि शाखायां तपस्तेपेऽतिदारुणम् ।अनाहारस्ततो वाय्वाहारो वर्षसहस्रकम् ॥२२॥वटशाखाजटामध्ये प्रोतदेहोऽभवद्धि सः ।शुष्कमांसाऽस्थिकुणपः शाखाजटान्तरेऽभवत् ॥२३॥जटारूपोऽभवत्तत्र पिपीलिकाधिरोधितः ।मृत्तिकावल्मिकैराच्छादितश्छन्नतरोऽभवत् ॥२४॥हस्ततले मम मूर्ति चाऽत्यजन् वल्मिकोऽभवत् ।दशवर्षसहस्रान्ते चाहं प्रसन्नतां गतः ॥२५॥तस्य करे स्थितश्चाऽहं चैतन्यरसमाददन् ।वटदुग्धं ददँश्चाप्याप्लावयं तस्य वर्ष्म तत् ॥२६॥वर्षावेगेन च धूलीः सर्वा धूताऽभवत्ततः ।अधोमुखः प्राप्तरसोऽसुरो हेमानलोऽभवत् ॥२७॥शनैः सम्प्राप्तचैतन्यश्चोन्निद्र इव चक्षुषा ।उद्धाटितेन परितो व्यलोकयत्तदा पुरः ॥२८॥अदर्शयं मम रूपं चतुर्भुजं श्रियाऽन्वितम् ।असुरः प्राञ्जलिर्भूत्वा नेमे मां स जटान्तरे ॥२९॥प्राप्तमद्विषयज्ञानः प्रसन्नमानसोऽभवत् ।जिज्ञासमान इव तु विह्वलोऽभूत्तु मां प्रति ॥३०॥मया सम्बोधितश्चायं वरदानाय वै तथा ।तपःसमापनार्थं च तदा वव्रे स विह्वलः ॥३१॥यदि त्वं वरदानाय कृष्ण प्रवर्तसे त्विह ।यदि सत्यव्रतत्वं वै यदि योग्योऽस्मि पात्रकम् ॥३२॥तदाऽहं ते श्रियाः पादौ वीक्ष्य मोहं गतोऽस्म्यतः ।श्रियाः पादौ कोमलौ भासुरौ सर्वशुभाश्रयौ ॥३३॥सुस्पृश्यौ दर्शनीयौ च देहि मे चाऽव्ययौ यथा ।मम देहं स्पृशमानौ भवेतां चरणौ श्रियाः ॥३४॥राज्यं तथा परं श्रेष्ठं देहि वैभवसंभृतम् ।सामर्थ्यं च तथा देहि भूतैः पराभवो न मे ॥३१५॥श्रियोऽधीनो भवाम्येव नान्यस्य कस्यचित् क्वचित् ।यदि देहि वरं तं वै तदा त्यक्ष्यामि वै तपः ॥३६॥अन्यथा त्वमसद्वक्ता विश्वास्यो नासि माधव ।यथागतस्तथा याहि तपश्चरामि वै चिरम् ॥३७॥इत्येवमर्थितः कृष्णनारायणः परेश्वरः ।सर्वेषां शृण्वतां बद्रि तथाऽस्त्वेवं जगाद ह ॥३८॥प्राप्ते कर्मविपाके ते सर्वं सत्यं भविष्यति ।इत्युक्त्वा भगवान् कृष्णस्तिरोभवच्छ्रियाऽन्वितः ॥३९॥हेमाऽनलोऽयं सहसा तपस्त्यक्त्वा गृहं ययौ ।मेरौ गत्वा स गदया युद्धार्थं च विनिर्ययौ ॥४०॥पृथिव्यर्धं कृतं तेन कल्पेऽत्र प्राक्तपोबलात् ।सम्राड्राजा वर्ततेऽयं तदा विष्णुरिवापरः ॥४१॥स चायं बदरस्यापि राज्यं जेतुमुपाययौ ।श्रीतरेण न केनापि भूतेन भौतिकेन वा ॥४२॥पराभवं त्वासुरः स समवाप्स्यति वै क्वचित्॥एवं लब्धवरश्चाऽयं हिमशैलशिलोपमः ॥४३॥उत्क्षिप्यापि भुवो गर्भादुत्तस्थौ प्राक्तपोबलात् ।सोऽयं क्षिप्तो बदरेण त्वया गर्तेऽत्र वै पुनः ॥४४॥किन्तु यावच्छ्रिया पादौ तद्देहे न पतिष्यतः ।तावन्नैव पराभाव्यश्चाऽसुरोऽयं भविष्यति ॥४५॥श्रियाः पद्भ्यां निश्चलोऽयं भूगर्भे सन्निवत्स्यति ।अव्ययौ चरणौ लब्ध्वा निश्चलात्मा भविष्यति ॥४६॥तस्माद् बदर माणिक्यां श्रियं मम प्रियां त्विह ।आराधय निवासार्थं देवकार्यार्थमित्यपि ॥४७॥मया दत्तवरस्यापि याथार्थ्याय जयाय च ।अन्यथा निष्फलः सर्वो यत्नस्तेऽत्र भविष्यति ॥४८॥इत्युक्तो बदरो राजा तुष्टाव परमेश्वरीम् ।माणिक्यां श्रीं महामुक्तानिकां श्रीबालयोगिनीम् ॥४९॥ 'नमश्चराचरस्थायै चमत्कारमयीश्रियै ।नारायण्यै ह्यभेदायै बालकृष्णांगयोषिते ॥५०॥नमः श्रीपुरुषोत्तम्यै हरिण्यै ब्रह्मयोषिते ।नमोऽनादिकृष्णनारायणांगनायै ते नमः ॥५१॥नमो माणिक्यवर्णायै धारिण्यै श्रीहरेर्नमः ।नमः श्रीकृष्णकान्तायै पारब्राह्म्यै नमोनमः ॥५२॥भक्तकार्यातिसम्पादयित्र्यै मात्रे नमोनमः ।प्रसन्ना भव देवेशि हेमानलप्रशान्तये ॥५३॥महासुरोऽयं श्रीकान्तामृते मृधो न जायते ।त्वं मातस्तन्मर्दनं वै कुरु देवार्थसाधिके ॥५४॥नमस्तस्यै सर्वहन्त्र्यै रक्षयित्र्यै च ते नमः ।महानारायणपत्न्यै माणिक्यायै च ते नमः ॥५५॥एवमभ्यर्थ्य तां शक्तिं हृदा पूजां चकार सः ।अर्पयामास पुष्पाणि माणिक्याचरणे तदा ॥५६॥तावत् सा परमा लक्ष्मीश्चाक्षरब्रह्मवासिनी ।पुरो बभूव सहसा प्रसन्नास्या हि सुप्रभा ॥५७॥अनादिश्रीकृष्णनारायणरूपानुरूपिणी ।युवती तेजसा व्याप्ता चक्रपद्मादिधारिणी ॥५८॥अंकुशं शूलमुत्कृष्टं दधाना करयोस्तथा ।कृष्णं कान्तं प्रियं प्राणं वीक्षमाणा पुनः पुनः ॥५९॥आज्ञां वोढुं सत्वरा सा तत्परा बलशालिनी ।तन्वी प्रपूर्णपुष्टास्या नवयौवनशालिनी ॥६०॥स्वर्णवर्णा कनकाभा पद्मायतसुलोचना ।शुकनासा कुन्ददन्ता बिम्बौष्ठी शीतलस्पृशा ॥६१॥विद्युद्भास्वरवस्त्राढ्या कौस्तुभेन विराजिता ।कर्णनासाभालबाहुप्रकोष्ठपादभूषणा ॥६२॥कट्यां रशनया युक्ता शृंगारकज्जलान्विता ।कबरीधम्मिलशोभा सिन्दूरचन्द्रकान्विता ॥६३॥सुस्तनी सुनितम्बा च सुमध्या च सुगन्धिनी ।तेजःपरिधिसंव्याप्ता चन्द्राभनखशोभिता ॥६४॥अलक्तकातिसौन्दर्या स्वर्णरोमावलिश्रिता ।प्रेमरसमहापूर्णा कृष्णनारायणी प्रिया ॥६५॥सुगन्धिपुष्पहारालिव्याप्तवक्षःस्थलोत्तमा ।स्थलपद्मनिभसक्थिद्व्यशोभामनोहरा ॥६६॥कृष्णनारायणं कान्तं त्यक्तुं नेच्छावती सदा ।गृहीतश्रीकृष्णकरा नित्ययुक्ता महासती ॥६७॥भगवत्प्रेमपात्रं सा श्रीकृष्णांगनिवासिनी ।शीतशैलसमा देहे तापसीव परेश्वरी ॥६८॥सर्वैश्वर्यादिसम्पन्ना वात्सल्यगुणसागरा ।लावण्याऽऽनन्त्यसंजुष्टा नैकसखीप्रवन्दिता ॥६९॥भगवन्मुखलग्नाक्षी पूर्णानन्दातिमोदिनी ।हसमाना बदरं सा जगाद् पुरुषोत्तमौ ॥७०॥वद राजँस्तव श्रेयो विधास्ये सहसा त्विह ।सुरकार्यं कृष्णकार्यं विधास्ये द्रुतमत्र च ॥७१॥श्रुत्वा राजाऽसुरचूर्णनार्थं व्यजिज्ञपच्छ्रियम् ।नारायणेच्छया सापि पद्भ्यां हन्तुमुपाद्रवत् ॥७२॥तावद् दैत्यवरो गर्ते हिमोपलात्मकोऽभवत् ।नारायणस्तदा लक्ष्मीं माणिक्यां प्राह सत्वरम् ॥७३॥नारायणि द्रुतं त्वत्र पद्भ्यां तिष्ठाऽसुरोपरि ।तव पद्भ्यां हतः स्पृष्टोऽसुरः पुनर्न वै बहिः ॥७४॥उद्गमिष्यति दुष्टात्मा वरदानबलात्तथा ।कुरु कार्यं बदरस्य देवानां च हितावहम् ॥७५॥तदा तु खिन्नचित्ता श्रीमाणिक्या त्ववदत् प्रभुम् ।कथमेकाकिनी कृष्णमृते न्वत्र वसामि वै ॥७६॥अनादिश्रीकृष्णनारायणस्त्वं मे पतिः सदा ।पत्नी चाहं तव कृष्ण पातिव्रत्यपरायणा ॥७७॥पतिं विना क्षणं स्थातुं नोत्सहे विजने हिमे ।यथेष्टं कुरु कृष्ण त्वं शाधि धर्म्यं व्रतं मम ॥७८॥श्रूत्वा विचारमकरोद् भगवान् भूतभावनः ।माणिक्ये त्वं भव बद्री बहुपादा द्रुमात्मिका ॥७९॥अंकुशं शूलमेवापि कण्टकौ ते महायुधे ।भवतां पत्रसहिते सर्वासुरविनाशके ॥८०॥सदा त्वं तापसी वार्क्षी बदरी भव शोभना ।पादैर्हेमानलं स्पृष्ट्वा भूगर्भे तं प्रपेषय ॥८१॥निश्चला शाश्वती देवी बद्रीदेवी सदा भव ।बदरेण स्तुता राज्ञा वदरेणाभिवाञ्च्छिता ॥८२॥बदरेण तथाऽऽकृष्टा त्वायाताऽसि यतस्त्विह ।बदरीतिसदानाम्ना सफला त्वं भविष्यति ॥८३॥बद्रिकाश्रम एवाऽयं दिव्यावासो भविष्यति ।अहं नित्यं बदर्यास्ते छायायां तापसोत्तमः ॥८४॥धर्मपुत्रो नरनारायणात्मा संभवामि च ।जटी शीली ब्रह्मचारी त्वन्मूलावासशोभनः ॥८५॥भवाम्यत्र जगत्कल्याणार्थं नरनरायणः ।यावच्चन्द्रस्तथासूर्यो यावत् स्थास्यति मेदिनी ॥८६॥तावत्तापसवेषोऽहं तापसी त्वं तु बद्रिके ।निवत्स्यामोऽत्र धवले शीतले हिमकाश्रमे ॥८७॥हेमानलोऽपि भूगर्भे तव पादतले सदा ।संपिष्टस्तव भक्तो वै सुषुप्तः संभविष्यति ॥८८॥श्रेयो जगतां परमं तथा स्यात्तत्तथा कुरु ।इत्युक्त्वा माणिकीदेवी बभूव बद्रिका द्रुतम् ॥८९॥हेमानलासुरमूर्ध्नि कृत्वोपलाप्रवर्षणम् ।पादाँस्तत्र निधायैव माणिक्या सा स्थिराऽभवत् ॥९०॥बद्रीरमा महादिव्या वार्क्षी देवी तु शाश्वती ।तापसी तापसेनापि नारायणेन संयुता ॥९१॥न्यवसत्तत्र सहसा धर्मपुत्रेण चक्रिणा ।उपद्रवाः प्रशान्ताश्चाऽसुरभीतिर्लयं गता ॥९२॥देवाद्या निश्चलास्त्वासन् पुपूजुर्बदरीश्वरीम् ।नरनारायणं कृष्णनारायणं समर्चयन् ॥९३॥बद्रीनाथं बद्रिकां च बदरं च नृपं तथा ।बद्रिकाश्रममेवैनं स्थलं प्राहुः सुरादयः ॥९४॥दिव्यं च पावनं बद्रीश्वरि त्वद्वासशोभनम् ।तत आरभ्य देवा वै मासषट्कं पुनः पुनः ॥९५॥तीर्थं कुर्वन्ति हिमवच्छिखरे बद्रिकाश्रमे ।मासद्वयं तु पितरश्चतुर्मासाँश्च मानवाः ॥९६॥बद्रिकाश्रमयात्रां ते कृत्वा हेमानलासुरम् ।पापरूपं हृदयस्थं चार्दयन्ति हिमालये ॥९७॥भूत्वा ते पावना बद्रीश्वरि ते दर्शनात्तथा ।ममापि दर्शनात् पूता मुक्ता भवन्ति देहिनः ॥९८॥यथाऽक्षरे परे धाम्नि ब्रह्मलोके वसाम्यहम् ।माणिक्यासहितस्तद्वच्चात्र बद्रिकया युतः ॥९९॥वसामि सर्वथा बद्रि लोकानां श्रेयसां कृते ।एवं त्वं सर्वथा श्रेष्ठा सर्वपादपपूजिता ॥१००॥तापसी वर्तसे त्वत्र हिमाद्रौ मत्सधर्मिणी ।नारायणी त्वं बदरी माणिक्या वाहिनी मम ॥१०१॥नारायणोऽहं भगवान् नरयुक् पुरुषोत्तमः ।नरनारायणनाम्ना भजनीयो भवामि ह ॥१०२॥एवं ते वै समाख्यानं प्रोक्तं श्रीबदरीश्वरि ।बदरस्य सुभक्तस्य भक्त्या संभृतमुत्तम् ॥१०३॥बदरोऽपि सदा भक्त्या रसरूपो व्यजायत ।फलात्मा ते बदर्या वै वर्तते ते सुतो यथा ॥१०४॥बीजं फले नररूपं फलगर्भे वसाम्यहम् ।तेन त्वन्या बदर्योऽत्र प्रजायन्ते हि बद्रिके ॥१०५॥एतत्स्थानं प्रतीकं मे मूलं स्थानं तु मे गिरौ ।इतो दूरे दिव्यरूपं यस्य यात्रा न जायते ॥१०६॥पश्य त्वं माणिकि तद्धि मानवानां न दृष्टिगम् ।न गतिर्मानवानां तु मुक्तानां गतिरस्ति यत्। ॥१०७॥पठनाच्छ्रवणादस्य स्मरणान्मोक्षणं भवेत् ।आसुरोपद्रवशान्तिस्तथा ब्रह्ममयी गतिः ॥१०८॥सर्वश्रेयःप्रदाशक्तिः प्रजायेत परा यथा ।सर्वाः श्रियो वसेयुश्च बद्रीकथाश्रवाऽन्तिके ॥१०९॥भुक्तिर्मुक्तिर्भवेच्चापि न तिष्यस्य पराभवः ।नरनारायणश्चाऽहं श्रोतुश्चित्ते वसामि हि ॥११०॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने पुनहेंमानलोत्थानं, शिखरक्षेपाद्युपद्रवाः, बदरेण हरिणा च गर्ते निक्षेपः, हेमानलस्यपूर्वतपःकथा, वरदानं श्रीपादाक्रान्तत्ववरप्राप्तिः, श्रीमाणिक्यायास्तन्मर्दनार्थं बदरीरूपता, तत्पादैर्मर्दनं, श्रीकृष्णनारायणस्य नरनारायणरूपता, बदरस्य फलरूपता, नरस्य बीजरूपता, बद्रिकाश्रमतीर्थप्राकट्यं, मूलं बद्रिकाश्रमं तु भिन्नं दूरे चेत्यादिनिरूपणनामा तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP