संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः४३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः४३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः४३ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि श्रीकृष्णस्य महोत्सवम् ।एकविंशतिके जन्मदिने कृष्णे तु कार्तिके ॥१॥प्रातरेव हरिं राज्ञ्यः स्नपयित्वा जनार्दनम् ।सर्वकामप्रदं कान्तं कृष्णनारायणं प्रभुम् ॥२॥चन्दनैर्गन्धसारैश्च महौषधिरसान्वितैः ।जलैस्तीर्थाहृतैस्तैलमिश्रितैः कैसरै रसैः ॥३॥उपसंप्रसुमृद्याऽभिषिञ्च्य मार्जनमाचरन् ।वस्त्रधारणशृंगारभूषापुष्पाद्यधारयन् ॥४॥मुकुटं कटके स्वर्णजाते हाराँश्च कानकान् ।रत्नमाणिक्यहीरकमौक्तिकस्फटिकान्वितान् ॥५॥अधारयन् हरेः कण्ठे तिलकं चन्द्रकं व्यधुः ।भाले कैसरचन्द्रं च कज्जलं नेत्रयोस्तथा ॥६॥कर्णावतंसकौ रम्यौ कर्णपूरौ न्यधारयन् ।रशनां कानकीं कट्यां नूपुरे पादयोस्तथा ॥७॥प्रकोष्ठयोः शृङ्खले चाऽङ्गुल्यादावूर्मिकादिकम् ।चूडामणिं कुण्डले च ग्रैवेयकीयमालिकाः ॥८॥कटके च मणीन् न्यधारयन् सुवर्णपादुके ।कोट्यर्बुदाब्जमूल्याधिमहामणीनधारयन् ॥९॥यत्प्रकाशस्तु सर्वत्र मध्यन्दिनभ्रमावहः ।पादहस्ततलयोश्चालक्तकादि न्यधारयन् ॥१०॥सौवर्णचूर्णसंव्याप्तगात्राण्यपि ह्यकारयन् ।सैन्धवाश्वनिभे स्वर्णासने श्रीस्वामिवल्लभम् ॥११॥न्यषादयँस्तदा राज्ञ्यः सिन्धुजानां तु भूभुजाम् ।प्रथमं ता मंगलानि कृत्वा कृष्णमपूपुजन् ॥१२॥धृत्वोपदाः स्वर्णरूप्यमणिहारमयीः पुरः ।न्यधुस्ते पादयोर्वारि प्रक्षालितं पपुः पयः ॥१३।आरार्त्रिकं व्यधू राज्ञ्यः पुष्पाक्षतादिवर्धितम् ।दुःखहान्यञ्जलीन् कृष्णशिरष्टश्चावतारयन् ॥१४॥प्रदक्षिणं दण्डवच्च क्षमां ययाचिरे दयाम् ।दिनेश्वरी भाणवाण्या रायहरेर्विचित्तताम् ॥१५॥निवेद्याऽयाचत स्वास्थ्यं सुखं च शाश्वतं ततः ।हरिस्तां समुवाचाऽपि स्वास्थ्यमद्यैव शोभनम् ॥१६॥भविष्यत्येव मा चिन्ता कुरु राज्ञि सुखं भवेत् ।क्षणान्ते कोटिरायोऽपि रायहरिं नृपं त्विह ॥१७॥नीत्वा त्वायास्पति पूजां कर्तुं मे स्वस्थमानसम् ।भाणवाणीं पुरो मेऽत्र समानय दिनेश्वरि ॥१८॥इत्युक्ता बद्रिके दिनेश्वरी राज्ञी द्रुतं तदा ।भाणवाणीं विचित्तां श्रीकृष्णनारायणान्तिके ॥१९॥दिनेश्वर्यानयत् कृष्णो भाणवाणीं तु मस्तके ।पस्पर्श पाणिना मीनध्वजशूलधनुष्मता ॥२०॥तावत् सा स्वस्थितिमती पावनी ज्ञानयोगिनी ।निरामया च निर्व्याधिः पण्डितेवाऽभवद् द्रुतम् ॥२१॥वैचित्त्यं विगतं तस्याः सुबुद्धात्वं समागतम् ।पतिता पादयोः कृष्णनारायणस्य सा ततः ॥२२॥पूजां कृत्वा श्रीहरेश्चोपदा ददौ रमाजुषे ।आरार्त्रिकं विधायाऽपि कृष्णपादजलं पपौ ॥२३॥अर्थयामास मोक्षं सा सर्वपापविनाशनम् ।बन्धनानां वासनानां मूलनाशं समार्थयत् ॥२४॥द्यूतपापविनाशं च व्यवायपापनाशनम् ।मुक्तानिकास्थितिं साऽपि प्रार्थयत् परमात्मतः ॥२५॥तथाऽस्त्विति हरिः प्राह तावत् सा दिव्यतां गता ।दिव्यदेहा देवतावद् दिव्यैश्वर्या बभूव ह ॥२६॥कृपालेशेन कृष्णस्य निर्वाणिकाऽभवत् सती ।जीवन्मुक्ताऽभवत्तूर्णं देहावरणवर्जिता ॥२७॥अहो कृपा हरेर्जाता यत्नशून्येऽपि विग्रहे ।सयत्नानां तु वै सिद्धिः पूर्वभावं न संगता ॥२८॥अथ तत्र महाश्चर्यं वीक्ष्य कन्याः सहस्रशः ।सौभाग्यवत्यो नार्यश्च सधवा विधवा अपि ॥२९॥बालिकाश्चापि वृद्धाश्च पुपूजुः परमेश्वरम् ।भाणवाणीं दिव्यदेहां व्यधात् कृष्णेति मोहिताः ॥३०॥ताः सर्वा भावनायुक्ता यथाभावास्तथाऽभवन् ।दिव्यगुणा दिव्यदेहा दिव्यक्रियाः सुदेवताः ॥३१॥दिव्यनेत्रा दिव्यभावा राधारमासमास्तदा ।अनादिश्रीकृष्णनारायणस्पर्शेन योषितः ॥३२॥ब्रह्मप्रिया अभवँश्च हरिप्रियाः सहस्रशः ।मन्त्रं ता जगृहुः कृष्णमुखात् कार्ष्णीभवेच्छया ॥३३॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।बह्व्यस्तत्राऽभवन् रुग्णास्तद्रोगान् स न्यवारयत् ॥३४॥बह्वीनां त्वनपत्यत्वं कृष्णस्तत् सन्न्यवारयत् ।अन्यासां क्लेशवत्त्वादि क्लेशाँस्तासां न्यवारयत् ॥३५॥तथाऽन्यासां निर्धनत्वं दारिद्र्यं स न्यवारयत् ।अन्यासां तु पतिप्राप्तिमत्त्वं स कृपयाऽकरोत् ॥३६॥सौभाग्यवत्त्वमन्यासां सम्पद्वत्त्वं समुत्तमम् ।चकार श्रीकृष्णनारायणः सर्वसुखार्पणम् ॥३७॥राज्ञीनां पूजनकार्यं समाप्तं च प्रजास्त्रियः ।अपूजयन् हरिं सर्वा लक्षशः कोटिशः स्त्रियः ॥३८॥कोटिरूपधरः कृष्णनारायणो व्यजायत ।तत्तन्नारीपुरःस्थित्वा कान्तः पूजामवालभत् ॥३९॥आशीर्वादाँस्ता अगृह्णन् शुभाशिषो ददौ हरिः ।सर्वासां हृदये कृष्णो दिव्यवासं सदा व्यधात् ॥४०॥एवं घटिकामात्रं वै महाश्चर्यचमत्कृतिम् ।प्रदर्श्य तु ततस्तिरोभूयैकरूपतां ययौ ॥४१॥नारीवर्गे न चाऽप्येका कृष्णयोगेऽवशिष्यते ।दयां कृत्वा तथा कृष्णः पूजां जग्राह सर्वधृक् ॥४२॥अथ तृप्तिं गता नार्यो दृष्ट्वा स्पृष्ट्वा प्रपूज्य तम् ।प्राप्य प्रासादिकं भोज्यं फलं पुष्पं दलं जलम् ॥४३॥स्नेहं नेत्रकटाक्षं च सौम्यहास्यं मनस्तथा ।कृतकृत्या अभवँस्ता दिव्यभौतिकविग्रहाः ॥४४॥एवं हरिः प्राप्य पूजां नारीणां दिव्यभावनाम् ।दिव्यैश्वर्ययुतां चापि तिरोभावं गतोऽच्युतः ॥४५॥ततः सर्वाः स्थिरवृत्त्या श्रीकृष्णं विलुलोकिरे ।परब्रह्म पुनः कश्चिन्नारायणं श्रियः पतिम् ॥४६॥श्रीकृष्णं राधिकाकान्तं ललितास्वामिनं हरिम् ।स्वामिनाथं तु माणिक्याः पद्मावत्याः पतिं तथा ॥४७॥काश्चित्तु बद्रिकानाथं काश्चिच्छ्रीभूपतिं तथा ।काश्चित्तु कमलानाथं प्रज्ञेशं विलुलोकिरे ॥४८॥ततः श्रीकुंकुमवापीनाथं तं विलुलोकिरे ।एवं वीक्ष्य महानन्दं सर्वानन्दाँश्च लेभिरे ॥४९॥सैन्धव्यः श्रीहरिं प्राप्य धामिन्यः संबभूविरे ।वैष्णव्यः परमा जाताः पुण्यानां सरितो यथा ॥५०॥कृष्णनारायणस्वामिन्वल्लभाऽऽयेति ता जगुः ।दध्युः श्रीपरमात्मानं चाऽन्तरस्थं बहिःस्थितम् ॥५१॥एवं बद्रीप्रिये प्रातर्नारीपूजनमुत्तमम् ।निवृत्तं च ततो राजा कोटिरायः समाययौ ॥५२॥बहुभिर्नृपशार्दूलै राजन्यै राजयोगिभिः ।राज्यपालै राष्ट्रपालैः सैन्यपालैः सहाऽऽययौ ॥५३॥राजोपचारैः सकलैः पूजयामास माधवम् ।कोटिमूल्यमणिरत्ननद्धं मुकुटं कानकम् ॥५४॥कुण्डले रत्नखचिते कण्ठहारान् सुवर्णजान् ।कर्णपूरान् कटकाँश्चांगदान् सुवर्णशृंखलाः ॥५५॥ऊर्मिका रशनां रत्ननद्धां हारान् सुवर्णजान् ।मणिमाला मणिकल्गिं मणिमञ्जीरनूपुरान् ॥९६॥आर्पयद्धरये भाले कृत्वा चान्दनचन्द्रकम् ।सुगन्धमर्पयामास पुष्पहारान् सुमालिकाः ॥५७॥भूषाशृंगारवस्त्राणि बहुमूल्यानि चार्पयत् ।स्वर्णपात्राणि रम्याणि स्वर्णहेतीन् सुसुन्दरान् ॥५८॥सौवर्णखेलकाँश्चापि श्रीकृष्णाय तदाऽऽर्पयत् ।धूपदीपाऽक्षतवारिनैवेद्याऽऽरार्त्रिकादिभिः ॥५९॥अमूल्यरत्नमणिभिर्भृतैः स्थालैः सुवर्णजैः ।स्वर्णाढ्योपकरणाद्यैश्छत्रचामरवेत्रकैः ॥६०॥पूजयित्वा हरिंकृष्णं तोषयामास भूपतिः ।तिलकं सुभगं भाले कृष्णस्य नृपमाचरत् ॥६१॥नृपाश्चान्ये च राजन्याः कुमारा राजयोगिनः ।राजसम्बन्धिनः श्रेष्ठिवर्या राज्याधिकारिणः ॥६२॥कस्तूरीकेसरगन्धसारकुंकुमकर्दमैः ।पुष्पाऽक्षतजलवृन्दापत्रयवांकुरादिभिः ॥६३॥प्रपूज्य माधवीकृष्णं नत्वा पीत्वा पदाऽमृतम् ।आरार्त्रिकं व्यधुश्चाशीर्वादान् ददुः शुभावहान् ॥६४॥कोटिरायस्तदा रायहरिं स्वस्थस्थितिं गतम् ।प्रैरयत् परमेशस्य पूजार्थं तत्र सोत्सुकम् ॥६५॥निरामयो गतशापः सर्वभानप्रबोधवान् ।श्रीकृष्णंवल्लभंचाऽऽर्यं पुपूज परमादरात् ॥६६॥अथ सर्वप्रजाः कृष्णं जन्मजयन्तिकोत्सवे ।उत्सुकाः पूजयामासुरीशेश्वरेश्वरेश्वरम् ॥६७॥तदाऽनादिकृष्णनारायणदिव्यस्वरूपकम् ।व्यद्योतताऽक्षरधामाश्रितं यद्वत् परात्परम् ॥६८॥लोमशाद्या मुनयोऽपि महर्षयश्च देवताः ।सिद्धाः सत्यः साधवश्चाऽऽनर्चुः श्रीबालकृष्णकम् ॥६९॥आशीर्वादान् ददुश्चापि सूतमागधचारणाः ।बन्दिनः कवयो भट्टा ववन्दिरे शुभाशयाः ॥७०॥एवं मध्याह्नवेलान्तं जन्मजयन्तिकोत्सवः ।समभवत्तदा बद्रि भोजनानि ततोऽभवन् ॥७१॥सायं सभाऽभवद् रम्या लक्षाधिमानवाऽऽश्रिता ।स्वप्रकाशो हि भगवान्नुपादिदेश तत्र ह ॥७३॥मानवे खलु लोकेऽत्र श्रेष्ठं मानं परेश्वरः ।परमेशकृतमाना मानिता नेतरे क्वचित् ॥७३॥श्रीकृष्णश्रीपतिनारायणाऽनादिपुमुत्तमः ।विराजतेऽत्र भगवान् भवतां मानकारकः ॥७४॥भवद्भिर्मानितः कृष्णो भवन्तो मानितास्ततः ।येषां मानं हरेरग्रे तेषां सर्वत्र मानिता ॥७५॥यद्गृहे भगवानास्ते सर्वे दिव्या हि ते मताः ।गृहस्थोऽपि हरिं नैजे गृहे यः स्थापयेत् सदा ॥७६॥साधुरेव गृहस्थः स यद्गृहं माधवात्मकम् ।नारी नारायणपूजाकरी साध्वी तु सा मता ॥७७॥राजाऽपि राजते यत्र श्रीकृष्णेन परात्मना ।स राजा साधुरेवाऽस्ति यद्गृहे श्रीनरायणः ॥७८॥राज्ञी निर्मानदासीव सेवते परमेश्वरम् ।सा राज्ञी सर्वदा साध्वी यतो नारायणश्रिता ॥७९॥राष्ट्रीयास्तु प्रजा या याः सेवन्ते माधवीश्वरम् ।सर्वाः साध्व्यो हि मन्तव्या यद्गृहे भगवानिति ॥८०॥धनवन्तो हरिं ये तु सेवन्ते साधवोऽपि ते ।धनं नारायणो येषां ते सन्तः साधुभूषणाः ॥८१॥सन् वै नारायणस्तं ये चान्ते धरन्ति सर्वथा ।तरन्ति तेन चान्याँश्च तारयन्ति भवार्णवात् ॥८२॥सन्तस्ते त्वत्र संसारे साध्नुवन्ति पुमर्थकम् ।व्यापारस्तु भवेद् येषां कृष्णार्थं साधवस्तु ते ॥८३॥व्यवसायो भवेद् येषां कृष्णात्मा साधवोऽपि ते ।यतयो यत्नवन्तो ये हरौ ते सन्त ईरिताः ॥८४॥संन्यासिनो हरौ ये ते सन्तो मोक्षपरायणाः ।वने वासकराः कृष्णे मग्नास्ते साधवो मताः ॥८५॥योगं कृष्णे प्रयुञ्जानाः साधवस्तेऽपि योगिनः ।तपः कृष्णपरं येषां तापसाः साधवस्तु ते ॥८६॥व्रतं येषां परे कृष्णे साधवो व्रतिनश्च ते ।यज्ञा येषां हरौ कृष्णे साधवो यज्ञिनस्तु ते ॥८७॥जीवनं श्रीहरौ येषां जीवन्मुक्ता हि साधवः ।रागोऽर्पितो हरौ कृष्णे वीतरागा हि साधवः ॥८८।इन्द्रियार्थाः कृताः कृष्णे साधकाः साधवस्तु ते ।प्रवृत्तिं परमेशे ये कुर्वन्ति साधवोऽपि ते ॥८९॥ब्रह्म श्रीपरमात्मैव तत्र चरन्ति मुक्तये ।ये ते ब्रह्मचराः प्रोक्ता ब्रह्मचारिण एव ते ॥९०॥मननं श्रीहरेर्येषां मुनयः साधवो हि ते ।आर्षं ज्ञानं हरेर्येषाम् ऋषयः साधवस्तु ते ॥९१॥दिव्यभावो हरौ येषां देवता अपि साधवः ।कर्म सर्वं परे येषां परार्थाः साधवोऽपि ते ॥९२॥वृत्तयः सर्वथा कृष्णे येषां ते ध्यानिसाधवः ।समाधानं हरौ येषां समाधिस्था हि साधवः ॥९३॥कुटुम्बं यस्य कृष्णार्थं सन्तः कुटुम्बिनस्तु ते ।संख्याः सर्वा हरौ येषां सांख्यास्ते साधवो मताः ॥९४॥अज्ञानात् प्रथमं जन्म ततो ज्ञाने द्वितीयकम् ।द्विजास्ते साधवो बोध्या मोक्षज्ञानपरायणाः ॥९५॥देहात्तु प्रथमं जन्म दीक्षया तु द्वितीयकम् ।नारायणे दीक्षिता ये द्विजास्ते साधवो मताः ॥९६॥संसारः प्रथमं जन्म मोक्षो जन्म द्वितीयकम् ।मोक्षद्विजाः साधवस्ते सर्वेषां तारका भुवि ॥९७॥मायायां साधनं त्वाद्यं ततः साधुषु साधनम् ।त एते त्यागिनः सन्तः सर्वमायाविवर्जिताः ॥९८॥पतियोगं प्रपन्नापि प्रपन्ना या नरायणम् ।सा पत्नी स्त्री भवेत् साध्वी नारायणी सतीश्वरी ॥९९॥उदासीना गृहे या तु नारायणे तु या स्थिता ।साधुसेवापरा साध्वी भवेत् सा ब्रह्मचारिणी ॥१००॥आत्मसाधनसञ्चारा मोक्षसाधनतत्पराः ।सक्रियास्ते साधवो वै कृष्णकर्मपरायणाः ॥१०१॥कृष्णे शौचं सदा येषां शुचयः साधवस्तु ते ।कीर्तनं सर्वदा कृष्णे स्वाध्यायसाधवस्तु ते ॥(१०२॥हरेः पुरो भवेद् यस्याऽऽसनं साधुः सदासनः ।प्राणे प्राणे हरिर्यस्य साधुः प्राणासनः स हि ॥१०३॥आहारे भगवान् यस्य साधुराहारनामवान् ।शान्तिर्हरौ भवेद् यस्य शान्तः साधुः स वै मतः ॥१०४॥योगिना श्रीहरौ कृष्णे भवितव्यं तु देहिना ।सहनीयं कष्टमाद्यं क्षमा कार्याऽपराधिषु ॥१०९॥न कष्टं सम्प्रदातव्यं कस्यचिदपि कर्मणा ।मनसा वापि देहेन वचसापि कदाचन ॥१०६॥सत्यं सम्पालनीयं च स्तैन्यं त्याज्यं तु योगिना ।सन्तोषः सर्वथा रक्ष्यो भाव्यं पाषाणकल्पिना ॥१०७॥स्वादस्तु सर्वथा ग्राह्यो योगिना परमात्मनि ।रतिः प्रीतिर्हरौ देया योगिना ब्रह्मचारिणा ॥१०८॥आचारोऽपि हरौ पाल्यः साधुना कृष्णयोगिना ।श्रुतार्थं श्रीहरौ कुर्याच्छ्रौतः साधुः स योगिराट् ॥१०९॥स्मृतार्थं सर्वथा कृष्णे युञ्ज्यात् साधुः स योजकः ।बाल्यं वा यौवनं वापि वार्धक्यं परमेश्वरे ॥११०॥नरत्वं प्रमदात्वं चार्पणीयं परमेश्वरे ।त एते साधवः सन्ति साधनाच्छ्रीपतेर्हृदि ॥१११॥भूत्वा साधव एवात्र कृष्णं कृत्वा निजं पतिम् ।प्रयान्तु वै नरा नार्यो धामाऽक्षरं परं प्रभोः ॥११२॥अद्यजन्मजयन्त्यस्ति ह्यनादिपरमात्मनः ।वर्धिता सा भवद्भिर्वै महोत्सवेन योजिता ॥११३॥भवतां सिन्धुलोकानां करोत्वभ्युदयं परम् ।परं निःश्रेयसं चापि कल्याणं परमं तथा ॥११४॥शाश्वतं च महानन्दं करोतु श्रीहरेः पदे ।एनं त्वनादिनिधनं श्रीपतिं पुरुषोत्तमम् ॥११५॥सदा ध्यायन्तु हृदये सन्तो भवन्तु साधवः ।सर्वविधानि स्वर्गाणि भवन्तु भवतामिह ॥११६॥अनादिश्रीकृष्णनारायणप्रसादतस्त्विह ।प्रसन्नो भगवान्नस्ति बालकृष्णः परः प्रभुः ॥१७॥स्वस्ति वोऽस्तु कुशलं वो महास्वर्गं सदाऽस्तु वः ।महावंशादिविस्तारो वैष्णवोऽस्तु सदा तु वः ॥११८॥भवतां च गृहे क्षेत्रे साधुवासोऽस्तु मोक्षदः ।अनादिश्रीकृष्णनारायणवासो भवत्सु च ॥११९॥इत्याशीर्वचनान्युक्त्वा प्रस्वप्रकाशः ईश्वरः ।उपारराम युगपज्जयनादास्ततोऽभवन् ॥१२०॥जयत्वनादिभगवान् बालकृष्णो जयत्विह ।सर्वान्तर्गतिः कृष्णनारायणो जयत्विह ॥१२१॥इत्येवं जयनादैश्च तूर्यनादैः सुरादिभिः ।कृताभिवादनादैश्च सभा समाप्तिमागमत् ॥१२२॥हरिर्ययौ निजावासं ययुः सर्वे निजालयान् ।कोटिरायो रायहरिं नत्वा कृष्णालयं ययौ ॥१२३॥उवाच परमात्मानं यदर्थं भगवान्निह ।आहूतः सर्वमेवात्र सम्पन्नं नृपमोक्षणम् ॥१२४॥शापमोक्षोऽत्र सञ्जातः परो मोक्षोऽपि वर्तते ।करे गतो भगवतो वीक्षणेन हि देहिनाम् ॥१२५॥अथ कृष्णाज्ञया राज्यं सिन्धुदेशप्रदेशजम् ।अर्धमर्धं चक्रतुस्तौ हायौदर्यं च शार्करम् ॥१२६॥कृष्णनारायणं ध्यात्वा लेभाते शाश्वतं सुखम् ।रात्रौ भोजनपानादि कृत्वा कृष्णनरायणः ॥१२७॥विश्रान्तिं परमां लेभे सिषेविरे जनास्तु तम् ।बद्रिके श्रीहरिर्निद्रामवाप दिव्यविग्राहाम् ॥१२८॥एवं सिद्धिं परां दिव्यां ददौ तेभ्यो हरिः स्वयम् ।हरेः कृपा सतां यद्वा मोक्षदा सर्वशान्तिदा ॥१२९॥लक्ष्मीनारायणसंहिता तु साध्वी हि मोक्षदा ।सर्वसिद्धिमयी विद्या परब्रह्मप्रसञ्जिनी ॥१३०॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने जन्मजयन्त्युत्सवे नारीणां नराणां पूजाग्रहणं भाणवाणीरायहर्योर्निरामयताकरणं, सभा, साधुत्वविवेचनं विश्रान्तिश्चेत्यादिनिरूपणनामात्रिचत्वारिंशोऽध्यायः ॥४३॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP