संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११२ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११२ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि मुकुन्दविक्रमो नृपः ।क्षीरोदपुत्र्या लक्ष्म्यास्तु सुताय मन्त्रिणे तदा ॥१॥वासुदेवाय राज्यस्य धुरं निर्वहितुं सदा ।आज्ञाप्य निर्ययौ पृथ्वीं वीक्षितुं परितस्तदा ॥२॥विमानेन ययौ प्राक् तु तुहीनाऽद्रीन् तथोत्तरान् ।कुरून् किम्पुरुषं चापि केतुमालमिलावृतम् ॥३॥पूर्वदेशान् दक्षिणाँश्च पश्चिमान् भूप्रदेशकान् ।सर्वत्र भूपवर्या ये तिष्ठन्ति ते तु भावतः ॥४॥चक्रुः सम्मानमर्घ्यं च पूजां सम्राट् सुसन्निभाम् ।करान् ददुश्च ते सर्वे यथायोग्यान् स्वभूभृते ॥५॥एकचक्रं महाराज्यं दशसाहस्रयोजनम् ।वीक्ष्याऽऽगत्य यमीं स्नात्वा दिलावर्यां स्थिरोऽभवत् ॥६॥कोटिपरार्धरत्नानि राजदत्तानि चाऽनयत् ।तानि सर्वाणि च वासुदेवसात्कृत्य वै ततः ॥७॥स्वयं व्रतं प्रजग्राह सदैवात्मनिवेदनम् ।सर्वदा भगवद्भक्तिमयं पत्नीयुतो नृपः ॥८॥यमुनायास्तटे रम्ये कारयित्वा सुगह्वरम् ।प्ररक्ष्य पितृभगवत्प्रतिमां तत्र कानकीम् ॥९॥अनादिश्रीकृष्णनारायणाख्यां शोभनां शुभाम् ।सर्वदा सर्वथा तस्याः सेवापरोऽभवन्नृपः ॥१०॥जटाधृक् सुवल्कलाढ्यः करमालाधरस्तथा ।सुसाधुवेषोऽन्तर्वृत्तिमूर्तिध्यानादिमानसः ॥११॥बभूव सर्वदा बद्रि! योगिराडिव मुक्तिगः ।सर्वः कर्मकलापश्च कृतस्तेन हरेः कृते ॥१२॥पृथ्वीतत्त्वं देहगं च कृतं हर्यर्थमेव तत् ।जलतत्त्वं च देहस्थं कृतं हर्यर्थमित्यपि ॥१३॥वह्नितत्त्वं शरीरस्थं कृतं हर्यर्थमन्वहम् ।वायुतत्त्वं देहगं च कृतं हर्यर्थमुत्तमम् ॥१४॥व्योमतत्त्वं च देहस्थं कृतं हर्यर्थमम्बरम् ।शब्दः स्पर्शो रसो रूपं गन्धो हर्यर्थमित्यमी ॥१५॥पादौ प्रदक्षिणं कर्तुं योजितौ श्रीहरेस्तथा ।हस्तौ कृष्णस्य सेवायां सर्वथा योजितौ सदा ॥१६॥वाणी कृष्णस्य कीर्तौ च व्यापारिता स्तवादिषु ।पायूपस्थेन्द्रिये तेन कृते शीले च संयमे ॥१७॥नेत्रे तु योजितेऽनादिकृष्णरूपादिदर्शने ।श्रोत्रे कृते हरेः शब्दग्रहणे नियमान्विते ॥१८॥त्वङ्नित्यं स्थापिता कृष्णसम्बन्धिवस्तुयोगिनी ।रसना कृष्णनैवेद्यरसमात्राभिवर्तिनी ॥१९॥घ्राणं कृष्णस्य सुरभेर्ग्रहे सदा विनिर्मितम् ।प्राणान् सर्वान् जपगर्भान् चक्रे कृष्णार्थजीवनः ॥२०॥मस्तकं नमने चक्रे योजितं श्रीहरेः सदा ।कण्ठं चकार भगवत्स्वरालापगुणोदये ॥२१॥हास्यं हरेः समीपे भ्रूकुटिं चक्रे हरेः कृते ।निमेषं भगवन्मिषं क्षुवनं नामसंगतम् ॥२२॥ओष्ठयोर्मेलन कृष्णप्रसादान्नादिलेहने ।जिह्वाया भ्रमणं चास्ये कृष्णप्रसादमार्गणे ॥२३॥वर्णस्थानानि सर्वाणि चक्रे कृष्णाभिधाकृते ।ग्रीवां चक्रे हरेः स्रग्भिर्भूषितां चन्दनादिभिः ॥२४॥जाग्रतिः स्पष्टमूर्त्यर्थं निद्रा मानसमूर्तये ।सुषुप्तिस्तुर्यरूपे च कृष्णार्थं तेन योजिता ॥२५॥खर्जनं मोडनं देहत्रोडनं शयनं तथा ।आसनं गुण्ठनं संकोचनं चक्रे हरेः कृते ॥२६॥उत्तानं भूप्रतानं च पार्श्वतानमधःस्थितिम् ।स्वस्तिकाद्यासनभेदान् चक्रे कृष्णे प्रयोजितान् ॥२७॥दण्डवत् करणे नेत्रे करौ पादौ मनः शिरः ।वक्षश्चेत्यष्टकं चक्रेऽञ्जलिं कृष्णस्य सन्निधौ ॥२८॥मालिकाऽऽवर्तने सर्वाङ्गुलीश्चक्रे सुयोजिताः ।हस्ततलेऽङ्गुष्ठयुक्ते चक्रेऽर्हणे हरेः स वै ॥२९॥प्रकोष्ठयोः क्रियाः कफोणिकयोश्च क्रियास्तथा ।स्कन्धयोश्च क्रियाश्चक्रे कृष्णकार्यविधापने ॥३०॥नितम्बयोश्च पृष्ठस्योदरस्य नलयोः क्रियाः ।नाडीनां वायुसञ्चाराँश्चक्रे कृष्णक्रियायुताः ॥३१॥हृदयस्य धमनीत्वं चक्रे कृष्णक्रियान्वितम् ।रोम्णां वलीनामस्तित्वं सर्वं कृष्णार्थमस्य वै ॥३२॥सक्थ्नोश्च जंघयोः पुष्टिर्धातूनां क्लृप्तिरित्यपि ।भोजनं पानमास्वादश्चास्य कृष्णकृतेऽभवन् ॥३३॥देहसंशोधनं भूषावेषशृंगारमार्जनम् ।द्रवद्द्रव्यप्रदानं च सर्वं कृष्णार्थमस्य वै ॥३४॥रोम्णां स्नेहोद्गमश्चापि तथेन्द्रियप्रमोदनम् ।कृष्णप्रमोदप्रीत्यर्थं राज्ञस्तस्याऽभवत् सदा ॥३५॥आदानं गमनं तृप्तिस्तपः संयम उत्थितिः ।आलस्यं सरणं रोधः सर्वमस्य हरेः कृते ॥३६॥मुष्टिः प्रसूतिरस्याप्यञ्जलिर्व्यङ्गुलिविस्तरः ।फणाप्रसार एवापि सर्वमस्य हरेः कृते ॥३७॥नखनिकृन्तनं रोमनिकृन्तनं च कम्पनम् ।नर्तनं गायनं भावा धावनं च हरेः कृते ॥३८॥चाञ्चल्यं च मुनित्वं च बहिरान्तरवर्तनम् ।उद्गारश्चापि हिक्का च व्याप्तत्वं च हरेः कृते ॥३९॥अक्रियत्वं सक्रियत्वं व्यापारा वर्ष्मणस्तथा ।स्नानं सन्ध्या जपो होमः सर्वं तस्य हरेः कृते ॥४०॥लेखनं वाचनं पुष्पपत्राद्याधारणं तथा ।पूजोपकरणाऽवाप्तिः सर्वमस्य हरेः कृते ॥४१॥यानवाहनयोगाश्च नरनार्यभिमेलनम् ।प्रजाप्रदर्शनं चापि सर्वमस्य हरेः कृते ॥४२॥मन्त्रणाऽनुमतिः कार्ये क्वचित्कार्याऽवलोकनम् ।निर्वृत्तिः सम्मतिर्वापि सर्वमस्य हरेः कृते ॥४३॥देशावलोकनं श्रेष्ठोत्सवाभिगमनं शुभम् ।शोभा प्रवृत्तिरेवापि सर्वमस्य हरेः कृते ॥४४॥राजोत्सवाः सैन्यशोभोत्सवा देवोत्सवास्तथा ।व्रतोत्सवाश्च दानानि सर्वमस्य हरेः कृते ॥४५॥यज्ञाः परोपकाराश्च न्याया दण्डाः प्रशिक्षणम् ।स्मृद्धयः सम्पदश्चापि सर्वमस्य हरेः कृते ॥४६॥उदयास्तमयौ तस्य मध्याह्नं संगवस्तथा ।सन्ध्या वेला ब्राह्मकालो निशा चास्य हरेः कृते ॥४७॥ऋतवश्चौष्ण्यशैत्यादि वृष्टयश्चातपास्तथा ।वानं घर्माऽग्निसंज्वालाप्राकट्यं च हरेः कृते ॥४८॥सत्कारः स्वागतं चार्घ्यं मधुपर्कः सुगन्धनम् ।सम्मानं च महीमानागमश्चाऽस्य हरेः कृते ॥४९॥आयव्ययौ च कृष्णार्थौ कोशाः कृष्णार्थकास्तथा ।दासा दास्यो भृत्यवर्गाः सर्वं कृष्णकृतेऽस्य वै ॥५०॥संकल्पो मननं बोधश्चिन्तनं तृप्तिरित्यपि ।ध्यानं च भजनं प्रत्यभिज्ञानं स्मरणं धृतिः ॥५१॥भक्तिः प्रीतिः स्थितिर्मानं सर्वमस्य हरेः कृते ।आत्मसंवेदनं चात्मभोगः साक्षात्स्ववृत्तिता ॥५२॥निजानन्दश्च सन्तोषः सर्वमस्य हरेः कृते ।एकान्तसेवनं चापि श्वसनं जीवनं रतिः ॥५३॥आहारश्चोपवासश्च सर्वमस्य हरेः कृते ।आत्मनो देहवासश्च तथा वस्त्रादिधारणम् ॥५४॥गह्वरे च गृहे वासो वक्षेऽस्यापि हरेः कृते ।निभालयति राजाऽसौ चात्मन्यात्मानमच्युतम् ॥५५॥सर्ववस्तुषु सर्वत्र निभालयति माधवम् ।ऋषयो मुनयो देवास्तीर्थानि मूर्तिमन्ति च ॥५६॥तदाश्रयं समागत्य दृष्ट्वा प्रयान्ति नित्यशः ।सत्यश्च साधवः साध्व्यो योगिन्यो योगिनस्तथा ॥५७॥विरक्ता व्रह्मसंसक्ता ज्ञानिनो ध्यानिनस्तथा ।परितस्तस्य तिष्ठन्ति दिव्याश्रमस्य सीमसु ॥५८॥कृष्णकथाः प्रवर्तन्तेऽनुवेलं चाध्वरा जपाः ।वेदघोषाः कीर्तनानि प्रवर्तन्तेऽस्य चाश्रमे ॥५९॥अभिषेका देवपूजा बलयो भोजनानि च ।चरवो देवकार्याणि नीराजनानि चाभितः ॥६०॥सुघण्टाझल्लरीनादाः प्रवर्तन्तेऽभितोऽस्य च ।शंखनादा जयनादाः कृष्णकृष्णेतिघोषणाः ॥६१॥अपि सिंहा मृगाः सत्त्वाः पक्षिणः पशवस्तथा ।कीटाश्चेताः पतंगाश्च वदन्ति ब्रह्मगायनम् ॥६२॥यादांसि भूमिगर्तस्था वृक्षकोटरवासिनः ।त्वावासाः पत्रवासाश्च वदन्ति ब्रह्मशाश्वतम् ॥६३॥वृक्षाश्च वल्लिकाश्चापि स्मरन्ति ब्रह्म शाश्वतम् ।प्रतिशब्दैश्च गर्जन्ति पर्वता गर्तिका जडाः ॥६४॥एवमस्याऽभवद्भक्तिः कृष्णनारायणे सदा ।बद्रिके नृपतेर्योगात् प्रजाः सर्वा नराः स्त्रियः ॥६५॥वैष्णव्यः सर्वथा दिव्या ह्यजायन्त भुवस्तले ।प्रसादं पितरश्चापि लभन्ते देवता ग्रहाः ॥६६॥पूजां लभन्ते द्युसदो हरिः सर्वत्र पूज्यते ।मानवे मानवे कण्ठी जपमालाऽस्य वर्तते ॥६७॥मानवे मानवे मूर्तिर्नारायणस्य वर्तते ।ग्रामे ग्रामे मखश्चाऽपि बैश्वदेवः प्रतिद्विजम् ॥६८॥गोपुरे गोपुरे कृष्णमूर्तिगोग्रासशोभना ।नार्या नार्या विभूषासु कृष्णाभिधानमस्त्यपि ॥६९॥शस्त्रे शस्त्रे हरेर्नाम सर्वेषूपस्करेष्वपि ।आपणे ह्यापणे मूर्तिर्नारायणस्य वर्तते ॥७०॥ग्रामे ग्रामे मय?भूमौ कृष्णनारायणस्य वै ।मन्दिरं वर्तते श्रेष्ठं पत्तने पत्तनेऽपि च ॥७१॥प्रातः सायं हरेर्लक्ष्मीस्वामिनश्च प्रपूजनम् ।नीराजनानि जायन्ते घण्टादिनादनान्यपि ॥७२॥स्तुतयः सम्प्रवर्तन्ते गीतयः कीर्तनान्यपि ।नैवेद्यानि प्रदीयन्ते ताम्बूलानि जलानि च ॥७३॥प्रसादाश्च प्रभुज्यन्ते पीयतेऽमृतवारि च ।बद्रिके प्रत्यहं ग्रामे ग्रामे सायं कथाः शुभाः ॥७४॥लक्ष्मीनारायणसंहिताया भवन्ति भूतले ।एवं वै वैष्णवी भूमिर्जाता मुकुन्दतन्मयी ॥७५॥मुकुन्दविक्रमो राजा तापसो नित्यमेव च ।प्रातरुत्थाय कृष्णस्य करोति ध्यानमन्वहम् ॥७६॥स्नात्वा पितृगणेभ्यश्च तर्पणं प्रकरोति च ।सूर्याराधनमेवाऽपि सन्ध्यावन्दनमित्यपि ॥७७॥हरेः पूजां प्रतिमायां करोति लग्नमानसः ।आवाहनं स्वर्णसिंहासने कृत्वा ततः परम् ॥७८॥पाद्यमर्घ्यं समर्प्याऽऽचमनीयकं ददात्यपि ।दन्तधावनमेवापि शौचजलं ददात्यपि ॥७९॥हस्तपादादिशुद्ध्यर्थं मृद चूर्णं ददात्यपि ।गण्डूषाय जलं पात्रमञ्जनं प्रकरोत्यपि ॥८०॥कृष्णमूर्तौ सुगन्धिभृत्तैलसारं ददात्यपि ।अर्कसारं रससारं ददाति मर्दनं ह्यपि ॥८१॥चन्दनं च सुगन्धं च ददाति पञ्चगव्यकम् ।दुग्धं दधिं घृतं क्षौद्रं शर्करां तीर्थवार्यपि ॥८२॥अभिषेकं कारयित्वा मार्जनं प्रकरोत्यपि ।वस्त्रदानं विभूषाणामर्पणं च करोत्यपि ॥८३॥शृङ्गारं विविधं सर्वं करोति कृष्णवर्ष्मणि ।केशप्रसाधनं तैलप्रदानं पुष्पयोजनम् ॥८४॥नेत्रयोः कज्जलं भाले तिलकं चन्द्रकं शुभम् ।कस्तूरिकां चन्दनं च मालिकां रत्नमालिकाम् ॥८५॥हारान् तुलसीपत्राणि तथा यज्ञोपवीतकम् ।अक्षतान् कुंकुमं चापि गुलालं प्रददात्यपि ॥८६॥अबीलं चोत्तरगन्धं गुच्छं रंगादिरञ्जनम् ।धूपं दीपं च नैवेद्यं फलं ताम्बूलकं जलम् ॥८७॥करोद्वर्तनकं चापि ददाति नक्तकं ततः ।शय्यां सुशोभनां सर्वोपस्कारसहितां तथा ॥८८॥प्रेंखां ददाति भावेन व्यजनं पवनप्रदम् ।छत्रं सुचामरे यष्टिं पत्त्राणे मुकुटादिकम् ॥८९॥यानं च वाहनं चापि भ्रमणं गृहखेलनम् ।मध्याह्ने भोजनं चापि ददाति श्रीविलासिने ॥९०॥पादसंवाहनं चापि विश्रामं शयने शुभे ।उत्थानं भ्रमणं सायं महोद्याने ददात्यपि ॥९१॥खेलनं चापि सन्ध्यायामारार्त्रिकं करोति च ।स्तवनं पूजनं चापि भोजनं पायसार्पणम् ॥९२॥जलार्पणं मुखवासं शयनं च ददात्यपि ।अंगानां मर्दनं चापि करोति सुखकृद्धरेः ॥९३॥प्रदक्षिणं दण्डवच्च सेवनं विविधं तथा ।कथाया श्रवणं कृष्णकीर्तनं स्मरणं हरेः ॥९४॥दास्यं चात्मार्पणं चापि करोति कृष्णतोषणम् ।एवं कर्मकलापं श्रीशार्थं मुकुन्दविक्रमः ॥९५॥करोति सर्वदा बद्रि नारायणपरायणः ।तद्भार्या च सती मुक्तिबालेश्वरी विरागिणी ॥९६॥वैष्णवी पतिवत् सर्वाः क्रियाः कृष्णार्थसंभृताः ।करोति पतिसेवाढ्या श्रीकृष्णार्पितमानसा ॥९७॥देहनिर्वाहयोग्यं यत् सर्वं कृष्णार्थमेव तत् ।पतिसेवोपयोग्यं यत् सर्वं कृष्णार्थमेव तत् ॥९८॥इत्येवं बद्रिके तेन मुकुन्दविक्रमेण वै ।अर्पितं श्रीहरौ दिव्यादिव्याचरणमात्मनः ॥९९॥वैकुण्ठमपरं भूमौ गोलोकश्चापरः क्षितौ ।कृतस्तेन हरेर्भक्त्याऽवतारित इवोत्तमः ॥१००॥गृहे गृहे चमत्काराः प्रजायन्ते नवा नवाः ।साक्षात् कृष्णहरिर्भक्त्या भक्तदृष्टौ प्रयाति च ॥१०१॥अनेके ब्रह्मवेत्तारो जीवा नार्यो नरास्तदा ।प्रयान्ति परमं धाम श्रीहरेः परमात्मनः ॥१०२॥एवं सत्ययुगस्तत्र मुकुन्दविक्रमे नृपे ।अवर्तताब्धिपर्यन्तं देवमानवसदृशः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने मुकुन्दविक्रमस्य राज्ञो भगवत्परायणतादिवर्णननामा द्वादशाऽधिकशततमोऽध्यायः ॥११२॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP