संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १५ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि ततः श्रीबालयोगिनी ।स्वमात्रे परमब्रह्मप्रेमरसं जगाद यम् ॥१॥मातर्हृदि सदा तिष्ठेद् वासुदेवस्य भावना ।प्रीतिदार्ढ्यं सुमाहात्म्यं श्रद्धा हरौ प्रभूयसी ॥२॥महानन्दः प्रमोदश्च सुखं विराम ईश्वरे ।कृष्णनारायणे शान्तिस्तिष्ठेयुः सर्वथा प्रभौ ॥३॥यस्याः सा भवति ब्रह्मरसवेत्त्री न चेतरा ।तस्या आपदि कष्टायां स्थैर्यं कृष्णनरायणे ॥४॥अनुवृतायाः कृष्णस्य कृष्णाश्रयसतामपि ।सेवाभावयुतायास्तु ब्रह्मप्रेमरसो मिलेत् ॥५॥श्रेयःसाधनमाप्ताया ब्रह्मप्रेमरसोद्भवः ।आत्मनः श्रीकृष्णनारायणस्य दर्शनं विना ॥६॥कस्या अपि न शान्तिः स्यात् साक्षाद् योगं विनाऽपि च ।योगश्च श्रीहरेरेव ध्यानोपासनभक्तिभिः ॥७॥तद्विनेष्टरसप्राप्त्यै वृथा श्रमः खलेहवत् ।कृपया श्रीहरिर्योगं ददाति भक्तियोषिते ॥८॥अतीव रमणीयांगः सर्वसौन्दर्यसंग्रहः ।नित्यदिव्यगुणाढ्यश्च सर्वदेहिमनोहरः ॥९॥कृष्णः स्वामी सेविकाश्च मुक्तानिकाः पुमुत्तमम् ।भजन्ति संप्रसेवन्ते सरूपाः समकामनाः ॥१०॥अस्य योगेन नैर्गुण्यं यान्ति गुणाढ्यदेहिनः ।अन्तर्यामितया सर्वेष्ववस्थितस्य चक्रिणः ॥११॥स जीवनं चिदचितां कर्ता भोक्ता पतिः प्रभुः ।तथा स्वतःसिद्धभूरिमहैश्वर्यकलानिधिः ॥१२॥तस्य श्रीबालकृष्णस्य योगः सौख्यप्रदः सदा ।सच्चिदानन्दरूपाया मुक्ताया अत्र चाक्षरे ॥१३॥परमानन्दकृत् कृष्णः प्रेम्णा प्रसेवितः प्रभुः ।स्वमूर्तौ निजभक्तां वै लीनीकरोति तद्रसः ॥१४॥अद्य कालान्तरे वापि कृष्णे लीनत्वमाप्नुयात् ।यदा तदा कृष्णप्रेमरसमास्वादयेत् सखी ॥१५॥आत्मनिष्ठाबलं श्रीमत्कृष्णनारायणार्पणम् ।उभयं प्राप्य कान्ते वै लीनतां तु सदाऽर्जयेत् ॥१६॥सर्वराजाधिराजश्रीकृष्णे प्रमोदमाप्नुयात् ।महिमानं विजानीयाद् ब्रह्मरसमुपाहरेत् ॥१७॥चतुर्दशावृतिजुष्टं ब्रह्माण्डं ब्रह्मणाऽवितम् ।असंख्याऽण्डानि सन्त्येषां राजा विराट् सुपूरुषः ॥१८॥वैराजास्ते ह्यसंख्याता महाविष्णोः सुपुत्रकाः ।एवं महाविष्णवोऽपि प्रधानपुरुषोद्भवाः ॥१९॥असंख्यास्ते प्रधानेशाः प्रकृतिपुंसमुद्भवाः ।सा माया स पुमान् मुक्तोक्षरे लीनौ लये मतौ ॥२०॥पुनः प्रकाशतां प्राप्तौ सृष्ट्यारम्भे पुनः पुनः ।एवंविधाऽक्षरांशस्य सुखमात्राभिसंप्लुता ॥२१॥सृष्टिः सर्वा सुखं भुंक्तेऽक्षरं तु सुखवद्धरेः ।अनन्ताऽक्षरमुक्ताश्चाऽनन्तधामानि धामिनाम् ॥२२॥अवतारा असंख्याता मुक्ता मुक्तानिकास्तथा ।ऐश्वर्याणि समस्तानि शक्तयः पार्षदास्तथा ॥२३॥पार्षदान्यः समस्ताश्च यन्मूर्तेः सुखभागिनः ।तस्याऽनादिकृष्णनारायणस्य परमात्मनः ॥२४॥एकैकांगे सुखानां विद्यते रोमरोमसु ।तस्याग्रे त्वीश्वरा जीवाश्चार्काग्रे विस्फुलिंगवत् ॥२५॥अतितुच्छा भवन्त्येव ब्रह्माण्डपालका अपि ।सर्वेऽनादिकृष्णनारायणदत्तं प्रभुञ्जते ॥२६॥सुखांशं भुञ्जते स्वल्पमुच्छिष्टं मायिकं क्षयि ।एतादृशार्थं तपसा यतन्ते स्वर्गवाञ्च्छया ॥२७॥मन्वते दुर्लभं चापि राजसा मोहवृत्तयः ।तदा कार्ष्णं भागवतं सुखं किं वर्ण्यगोचरम् ॥२८॥सहजं शाश्वतं यत्र सुखं चालौकिकं परम् ।यदंशे योगिनो योगसमाधौ यान्ति लीनताम् ॥२९॥सहस्रवत्सरान् तत्र तिष्ठन्त्यव्यक्तमोदिनः ।महासुषुप्तौ तुर्यायां भवन्ति सुखिनोऽपरे ॥३०॥कामनायां रतौ चापि भवन्ति सुखिनोऽपि च ।तथेतरेन्द्रियजन्यसुखैर्भवन्ति नन्दिनः ॥३१॥ईदृक्सुखाब्धिर्भगवान् स्वामीश्रीवल्लभः प्रभुः ।रामकृष्णादिरूपाणां धर्ता श्रीमाधवीपतिः ॥३२॥अवतार्यक्षरेशश्च सर्वमुक्ताभिपूजितः ।सर्वपरो बालकृष्णोऽनन्तब्रह्मरसोदधिः ॥३३॥सर्वब्रह्मप्रियाजुष्टो हरिप्रियाभिनन्दितः ।यस्य पादरजो राधालक्ष्मीबदरीशक्तिभिः ॥३४॥ब्रह्मविराण्महाविष्णुपूरुषैरुह्यते सदा ।यत्र श्रीभगवच्छब्दः परब्रह्मेव वर्तते ॥३५॥यस्त्वेक एव सर्वेशो यत्समो नाऽधिकोऽपरः ।यत्सेवयोपास्तिभिश्च यत्साधर्म्यं व्रजन्ति च ॥३६॥तथापि दासवत् सर्वे तस्याऽग्रे तन्त्रिता यथा ।वर्तन्ते ते सरूपाश्च सरूपिण्योऽपि शक्तयः ॥३७॥कालो माया पूरुषाद्या यद्भीताः किंकरा इव ।यदाज्ञां प्राप्य कुर्वन्ति सृष्ट्युद्भवादि सर्वदा ॥३८॥एवमचिन्त्यविभवो बदरीशो जनार्दनः ।अनादिश्रीकृष्णनारायणो गोपालनन्दनः ॥३९॥मानवो वर्तते त्वद्य कुंकुमवापिकालये ।येन जलांशतश्चित्रा हंसा मयूरकाः शुकाः ॥४०॥नराः पतत्रिणः कीटाः पशवः स्वसजातयः ।निर्मिता वंशरूपेण महाश्चर्यादिलीलया ॥४१॥तत्कृतं नान्यथाकर्तुं केनापि शक्यते त्विह ।इत्यादिसर्वसामर्थ्ययुक्तेन तेन शार्ङ्गिणा ॥४२॥रचयित्वा सृष्टिजीवान् सुखांशं प्रददौ निजम् ।तद्रसे रसवन्तश्च सर्वा भवन्ति सृष्टयः ॥४३॥विदित्वा तं कम्भरायाः सुतं श्रीकमलापतिम् ।बदरीशं माधवीशं भार्गवीशं प्रभुंपतिम् ॥४४॥माधवीस्वामिनं तं श्रीलक्ष्मीनाथं सतीपतिम् ।माणिक्याधिपतिं कृष्णं कान्तं मायापतिं हरिम् ॥४५॥मुक्तमुक्तानिकानाथं ब्रह्मधामाधिपं प्रभुम् ।राधारमाऽधिनाथं च रामकृष्णादिकारणम् ॥४६॥तत्र कुर्याद् रतिं प्रीतिं स्नेहं मोहं समुत्सवम् ।आनन्दं क्रीडनं मातर्ब्रह्मरसमवाप्नुयात् ॥४७॥एवंविधा हि बदरी मायिके बध्यते कथम् ।बद्धाऽपि मुच्यते कृष्णे मुक्ताऽन्यत्र न सज्जते ॥४८॥निर्मला जायते दिव्या बध्नाति श्रीहरौ रतिम् ।एषा तु भावना मातः पुष्णात्यंगानि दुग्धवत् ॥४९॥एषा ब्रह्मरसगाथा मातः सर्वार्थसंभृता ।पीता यया तया पीतं नवं ब्रह्मरसामृतम् ॥५०॥एतादृशीप्रभक्तायाः संगं करोति या सती ।साऽपि ब्रह्मरसैः पूर्णा भवेत् कार्ष्णी न संशयः ॥५१॥भक्तिरैकान्तिकी कृष्णे सिद्ध्येदस्याऽवधारणात् ।अस्यैव श्रीहरेर्योगादन्यत्र संगवर्जनात् ॥५२॥शृणु मातः कथां वच्मि चारण्या दिव्ययोषितः ।नाम्ना नागमुखीदेवी जात्याऽभवत्त चारणी ॥५३॥रैवताद्रेः पश्चिमे सा हलमादनपत्तने ।पार्श्ववने महिषीणां पालिकाऽभूत् स्वधर्मिणी ॥५४॥पतिपुत्रविहीना सा त्वेकला जनवर्जिता ।दधिदुग्धघृतान्नादिनिर्वाहा धर्मसंस्थिता ॥५५॥साऽचिन्तयत् पतिर्नष्टः पुत्रा नष्टाश्च पञ्च वै ।पुत्री नास्ति कुटुम्बं न जातिस्तु वर्तते मम ॥५६॥चारण्योऽपि भवन्त्यत्र बह्व्यो गार्हस्थ्यमाश्रिताः ।म्रियन्ते चापि जायन्ते विना ता भक्तिमन्तरा ॥५७॥पतयो बहवः प्राप्तास्ताभिश्चान्तो न विद्यते ।पतीनां सुतपुत्रीणां मायान्तोऽपि न विद्यते ॥५८॥कामदेवस्य चाऽन्तो न विषयाणां लयोऽपि न ।कर्मणां नैव विरतिः कथं जन्मक्षयो भवेत् ॥५९॥वासनाः प्रत्यहं नूत्ना जायन्ते भोगसंभवाः ।आत्मनस्तत्र मोक्षो न कामरसेन योषिताम् ॥६०॥तस्माच्छरीरमासाद्य दुर्लभं मोक्षदं त्विदम् ।तेन लभ्यः शाश्वतो यो ब्रह्मरसो निरामयः ॥६१॥परमात्मा साधवश्च मूर्तिमन्तो धरातले ।भूत्वा तु मानवाश्चापि मानव्यस्तस्य शक्तयः ॥६२॥विचरन्ति श्रेयसे देहिनां त्यागस्वरूपिणः ।तस्य मानवरूपस्य श्रीहरेः साधुरूपिणः ॥६३॥साधूनां सेवया प्रसादेन किंकरीचर्यया ।ब्रह्मरसो ह्यवाप्येत नान्यथा तु कथंचन ॥६४॥हरिर्वा हरिणी वाऽत्र हरिभक्ताश्च साधवः ।परब्रह्मरसाब्धिस्थाः पाययन्ति परानपि ॥६५॥तस्मान्मया सदा सेव्याः साधवः कृष्णरूपिणः ।साध्व्यो लक्ष्मीस्वरूपाश्च राधारमात्मिकास्तथा ॥६६॥तत्प्रसंगेन भगवान् मिलिष्यति प्रियापतिः ।विना मस्तकदानेन साम्राज्यं नोपलभ्यते ॥६७॥विना सर्वस्वदानेन स्वामित्वं दुर्लभं खलु ।कर्मचिते कर्मलोके कृतस्य फलमश्नुते ॥६८॥अहं ददामि सर्वस्वं कृष्णाय कृष्णसेविने ।ततः कृष्णः स्वसर्वस्वं मह्यं दास्यति निश्चितम् ॥६९॥न मे विघ्नं कुटुम्बात्म न मे शास्ता पतिस्तथा ।न मे बन्धो नृपस्यापि स्वतन्त्राऽस्मि सुखान्विता ॥७०॥महद्भाग्योदयो जातो यन्मायाबन्धनं गतम् ।अधुना प्राप्य कृष्णस्य बन्धनं तत्सतामपि ॥७१॥ब्रह्मानन्दमहानन्दं प्राप्स्यामि श्रीशसेवनात् ।विचार्येत्थं नागमुखी चारणी ब्रह्मचारिणी ॥७२॥निजावासे सतां सेवां चक्रे तीर्थनिवासिनाम् ।साध्वीनां सततं सेवा चक्रे दुग्धादिभिर्मुदा ॥७३॥नागमुख्या भावभक्तिं श्रुत्वा चायान्ति साधवः ।निवसन्ति गृहे तस्याः सेवते तान् मुदान्विता ॥७४॥साधुव्रतं विदधाना वर्तते सेविकोत्तमा ।उष्णोदकैः स्नपयति तैलाद्यंगविमर्दनैः ॥७५॥प्रातर्दुग्धानि चोष्णानि सशर्करैलानि भावुकी ।केसराढ्यानि साधूँश्च संपाययति चारणी ॥७६॥चन्दनेन सतां भाले वक्षस्यूर्वोश्च पादयोः ।पूजनं प्रकरोत्येषा पुष्पमालार्पणैस्तथा ॥७७॥आरार्त्रिकं ततः कृत्वा मध्याह्नभोजनादिकम् ।पाचयित्वा मिष्टमिष्टं संभोजयति चारणी ॥७८॥साधवोऽपि प्रभुक्त्वैव कुर्वन्ति भजनं हरेः ।सायं सा चारणी साधून् भोजयित्वा ततः स्वयम् ॥७९॥पादसंवाहनं सतां करोत्यसंशया सती ।साधुरूपः कृष्णनारायणश्चास्ते मिलत्यपि ॥८०॥साधुसेवा निर्गुणा च दिव्या पापविनाशिनी ।मोक्षदा चेति मत्वैव शय्यायां साऽति मोदते ॥८१॥एवं सा चारणी देवी साधुव्रतं करोति हि ।श्रद्धया श्रीकृष्णनारायणं रटति नित्यदा ॥८२॥साधुसेवोद्भवं चात्मानन्दं देहसुखादिकम् ।परब्रह्मरसं मत्वा तृप्ता तत्र प्रमोदते ॥८३॥अस्मिन् साधौ परस्मिन् वा चाऽन्यस्मिन् वा हरिः स्वयम् ।मिलिष्यति प्रसन्नो मे सेवयेति प्रसेवते ॥८४॥अथैकदाऽनादिकृष्णनारायणः श्रियाः पतिः ।साधुरूपं गृहीत्वैव बहुसाधुसमायुतः ॥८५॥ययौ तस्या गृहं मातर्बालकृष्णस्वरूपधृक् ।रूपे गुणे शरीरे च विलक्षणश्च तेजसि ॥८६॥चारण्यास्तु मनस्तत्र लग्नं कृष्णनरायणे ।सर्वान् साधून् भोजयित्वा सेवित्वा देहमर्दनैः ॥८७॥क्षणे क्षणे तु सततं स्फुरन्तं तं विलक्षणम् ।रात्र्यर्धान्ते ययौ सुप्तं तेजःपरिधिमण्डितम् ॥८८॥ब्रह्मानन्दभरं शीतगुणं चन्द्रातिशीतलम् ।पीयूषातिसुखवार्द्धिं सुन्दरं पुष्टयौवनम् ॥८९॥आश्लिष्य प्रथमं स्पर्शसुखं लेभे तु चारणी ।तावच्छ्रीबालकृष्णस्य मूर्तेः सर्वेन्द्रियोद्भवम् ॥९०॥आकर्षणादिसंपुष्टप्रवाहाऽऽनन्दसागरम् ।महासुखं चारणी सा लेभे सर्वेन्द्रियोद्भवम् ॥९१॥तल्लीना सा जडेवाऽऽसीद् देहभानादिवर्जिता ।लीनाऽभवत् कृष्णमूर्तौ यथा संसारपारगा ॥९२॥आप्रातः सा हरौ सक्ता सर्वांगस्पर्शमोदना ।नोत्तस्थौ कृष्णसंश्लिष्टशय्यातश्चारणी तदा ॥९३॥दशसाहस्रयुगजं ब्रह्मरसाऽमृताऽशनम् ।लब्ध्वा तृप्तिं गता कृष्णेच्छयाऽपि ब्रह्मचारिणी ॥९४॥अविप्लुता कृष्णवत् सा कार्ष्णी दिव्या व्यजायत ।अथ कृष्णः प्रगे प्राह पश्य मे रूपमैश्वरम् ॥९५॥इत्युक्त्वा दर्शयामासाऽक्षरं धाम परात्परम् ।अनन्तमुक्तजुष्टं च निजरूपं सुशोभनम् ॥९६॥अनन्तराधालक्ष्म्यादिसेवितं बदरीपतिम् ।ततोऽनादिकृष्णनारायणं कुंकुमवाप्ययम् ॥९७॥बालकृष्णस्वरूपं च दर्शयामास सुन्दरम् ।ततस्तूर्णं तिरोभाव्याऽवदत् तां चारणीं सतीम् ॥९८॥किमिच्छसि ददाम्यत्र त्वया सन्तः प्रतोषिताः ।अहं फलं प्रदातुं ते समागतोऽस्मि त्वत्पतिः ॥९९॥चारणी प्राह भगवन् महिषीमण्डलेन वै ।साकं चाहं तव धामाऽक्षरं प्रयामि देहि तत् ॥१००॥तथाऽस्त्विति प्रभुः प्राह तावद् विमानमाययौ ।तेनैव दिव्यदेहेन चारणीं नाग्नकैसरीम् ॥१०१॥नाम कृत्वा विमाने च संगृह्य परमेश्वरः ।पशुदेहान् महिषीणां त्याजयित्वा च ता अपि ॥१०२॥दिव्यदेहा विधायैव नाग्नकैसरीदासिकाः ।अक्षरं धाम परमं निनाय कृतवल्लभः ॥१०३॥ब्रह्मह्रदे स्नपयित्वा मुक्तानिका विधाय च ।ब्रह्मानन्दरसं दत्वा मोक्षपदे ररक्ष ताः ॥१०४॥एवं मातश्चारणी सा प्रेम्णा सतां प्रसेवया ।परब्रह्मरसं प्राप दिव्या मुक्ता बभूव ह ॥१०५॥सोऽयं श्रीमद्बालकृष्णो राजते श्रीपतिः पतिः ।कुंकुमवापिकाक्षेत्रे लोमशस्याश्रमान्तिके ॥१०६॥राजाधिराजो भगवान् कोट्यर्बुदाब्जशक्तिधृक् ।वृतो मयाऽपि स स्वामी ब्रह्मरसं लभाम्यपि ॥१०७॥इत्युक्त्वा बदरीदेवि क्षणं सा बालयोगिनी ।विरराम पतिं स्वस्या वल्लभं संगता हृदि ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां परब्रह्मप्रेमरसवर्णनं नाग्नमुखीचारण्याः सतां सेवया श्रीकृष्णनारायणप्राप्तिर्ब्रह्मरसाप्तिर्मोक्षणं चेत्यादिनिरूपणनामापञ्चदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP