संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ८२ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ८२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८२ Translation - भाषांतर श्रीबद्रीप्रियोवाच-नागविक्रमसैन्यानां कतिवाजिगजादयः ।कीदृशं च ततो युद्धं कृष्णस्य वद मे प्रभो ॥१॥श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि सहस्राणि तु विंशतिः ।नागविक्रमसैन्यस्याऽऽसन् योद्धारस्तु मानवाः ॥२॥सहस्रं हस्तिनां तत्र पञ्चसाहस्रवाजिनः ।उष्ट्रास्त्रीणि सहस्राणि विमानानि तु विंशतिः ॥३॥अश्वतरास्तथा पञ्चसहस्राण्यभवन् मृधे ।सर्वे कृष्णप्रतापास्ते कृष्णदत्तबलाधिकाः ॥४॥महारथिनः प्रबलाः सर्वरथिन इत्यपि ।वज्रदेहाः कृष्णनारायणाऽऽवेशात्तदाऽभवन् ॥५॥सैन्ययोरुभयोस्तत्र साक्षान् गोचरताऽभवत् ।अनादिश्रीकृष्णनारायणस्य शाश्वतं रथम् ॥६॥रणाग्रे वीक्ष्य सहसा नन्दिभिल्लं तु तद्गुरुः ।अग्निरातऋषिः सर्वशस्त्रास्त्रकुशलोऽपि सन् ॥७॥सन्दिह्य विजये शिष्यं समुवाच हितावहम् ।सर्वसृष्टिमयं कृष्णं नन्दिऽभिल्ल विलोकय ॥८॥योद्धुकामः पुरश्चास्ते प्रतिसैन्ये जनार्दनः ।यत्संकल्पे जगत् सर्वं जायते लीयतेऽपि च ॥९॥सोऽयं शस्त्रधरः कृष्णः सैन्याग्रे त्वभितिष्ठति ।तस्य पार्श्वे जयश्चास्ते तथाऽऽस्ते विजयोऽपि च ॥१०॥मा वृथा त्वं प्रयासं वै विधेहि विजयेच्छया ।नारायणस्य जेता न न तं जेष्यति कश्चन ॥११॥राजन् राज्यं विपुलं ते कथं क्षिपसि भस्मनि ।भुंक्ष्व भोगान् विहायैव मत्सरं युद्धभूभृता ॥१२॥त्वमास्से नागराज्याद्वै श्रेष्ठो दशगुणोऽधिकः ।महतां जायते हानिर्नीचैः सह तु धर्षणम् ॥१३॥नीचस्य विजये कीर्तिः शतधा जायते द्रुतम् ।महतां विजये सैव यथा साऽस्ति तथैव सा ॥१४॥स्वरूपस्य न मानस्य हानिः पराजयेऽधिका ।विचार्येत्थं विहायैव युद्धं भुंक्ष्व क्षितिं निजाम् ॥१५॥न भाति मे विजयोऽद्य तवाऽपशकुनादिभिः ।मद्वाक्यं कुरु राजेन्द्र मा जुहुध्यनले प्रजाः ॥१६॥सुखं राज्यं सम्पदश्च मा जुहुध्यनले विदन् ।गुरोर्वाक्यं सुखदं वै लंघने तस्य चापदः ॥१७॥एह्यागच्छ प्रणम्यैनं श्रीकृष्णं भक्तिभावतः ।आशीर्वादान् शुभान् प्राप्य कृतकृत्यः सुखी भव ॥१८॥गुर्वग्रे मानहानिर्न कृष्णाग्रे सुतरां तु न ।सर्वनाशाभिसम्प्राप्तौ त्यक्त्वा किञ्चित् प्ररक्षयेत् ॥१९॥युवां शिष्यौ समौ तस्य विनीतौ भवतां यदि ।द्वयोः श्रेयोविधाता स्यात् कृष्णो दयापरः प्रभुः ॥२०॥मानं रक्ष्यं समानाग्रे नाऽधिकाग्रे कदाचन ।तत्रापि गुरुदेवाऽग्रे मानं रक्ष्यं न सर्वथा ॥२१॥पूर्वेषां पूर्वपूर्वेषां गुरुः शास्ता हि माधवः ।गुर्वग्रे मनसा वाचा कर्मणाऽऽर्प्यं निजं वपुः ॥२२॥समस्तं चार्पणीयं वै गुर्वग्रे सर्वसिद्धये ।माता गुरुः पिता वृद्धो गुरुर्ज्ञानप्रदो गुरुः ॥२३॥हितकृद्धितदश्चापि गुरुर्मोहविनाशकः ।त्रिकालज्ञो गुरुश्चापि दण्डदोऽपि गुरुर्मतः ॥२४॥शास्तारो गुरवः सर्वे ऐहिकाऽमुत्ररक्षकाः ।बहुश्रुतानां मन्तव्यं गुरूणां वाक्यमैश्वरम् ॥२५॥त्रिसन्ध्यं खलु कर्तव्या गुरोः पूजा हितेच्छुना ।यो गुरुः स हरिः प्रोक्तो यो हरिः स गुरुर्मतः ॥२६॥यथा हरिस्तथा शर्वो यथा शर्वस्तथा गुरुः ।हरविद्या हरेर्विद्या गुरोर्विद्या हि मोक्षदा ॥२७॥सर्वदेवमयः सर्वशक्तिमयो गुरुर्यतः ।सगुणो निर्गुणो वापि तस्याऽऽज्ञां पालयेत् सदा ॥२८॥श्रेयोर्थी यस्तु गुर्वाज्ञां मनसाऽपि न लंघयेत् ।गच्छेस्तिष्ठन् स्वपन् भुञ्जन् गायन् यद्यत् समाचरन् ॥२९॥समक्षं वा परोक्षं वा स लभेतात्मसम्पदः ।गुरोर्देवस्य सान्निध्ये न यथेष्टासनो भवेत् ॥३०॥गुरुर्देवो यतः साक्षात् तद्गृहं देवमन्दिरम् ।गुरोः प्रसेवया भक्त्या तद्धर्मफलभाग् भवेत् ॥३१॥यथैवानलसंसर्गान्मलं त्यजति काञ्चनम् ।तथैव गुरुसम्पर्कात्पापं त्यजति सेवकः ॥३२॥यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ।तथा पापं विलीयेत गुरोर्देवस्य सन्निधौ ॥३३॥यथा प्रज्वलितो वह्निः कच्चरादि विनिर्दहेत् ।गुरुः प्रसेवितस्तद्वत्पापं दहति सर्वथा ॥३४॥ब्रह्मा हरिश्च शंभुश्च देवा देव्यो महर्षयः ।कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे सुखप्रदाः ॥३५॥कर्मणा मनसा वाचा गुरोः क्रोधं न कारयेत् ।तस्य क्रोधेन दह्यन्ति पुण्याऽऽयुर्ज्ञानश्रीक्रियाः ॥३६॥गुरोः क्रोधप्रकर्तॄणां कृता यज्ञा हि निष्फलाः ।निष्फलाः सम्पदः सर्वा निष्फला नियमा यमाः ॥३७॥गुरोर्विरोधकृद्वाक्यं वदेन्नैव कदाचन ।वदेच्चेन्मूर्खतायोगाद् रौरवं स व्रजेद् ध्रुवम् ॥३८॥हृदा चित्तेन वित्तेन वाचा देहेन कर्मणा ।परोक्षं वा समक्षं वा मिथ्या न कारयेद् गुरोः ॥३९॥दुर्गुणे स्थापिते तस्य दौर्गुण्यशतभाग् भवेत् ।सद्गुणे स्थापिते तस्य सर्वसाद्गुण्यभाग् भवेत् ॥४०॥गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ।असमक्षं समक्षं वा गुरोः कार्यं समाचरेत् ॥४१॥गुरोर्हितं प्रियं कुर्यान्मनोवाक्कायकर्मभिः ।अधः पतन्नपि राजन् हितं कुर्यात् स वर्धते ॥४२॥गुरुर्नारायणकृष्णस्त्वया राजन्निजालये ।पूजितो वन्दितः सोऽयं सङ्गरेऽभ्यधिसङ्गतः ॥४३॥अहं राजन् गुरुस्तेऽस्मि विप्रो राज्यगुरुः सदा ।मत्वा मे शोभनं वाक्यं निवर्तस्व रणांगणात् ॥४४॥मा वैधव्यं दिलावर्या राज्ञ्या पुर्याश्च मन्त्रय ।नन्दिभिल्ल्याः सभाया मा नूत्नेशत्वं च मन्त्रय ॥४५॥मा रोषं कुरु .राजेन्द्र सत्यं ते निगदाम्यहम् ।मा स्वहस्ते स्थितं राष्ट्रं परहस्ते निपातय ॥४६॥शूराणां मा विनाशं वै शूरतरैर्विधापय ।योद्धव्यं मायया साकं मायाविना समं तथा ॥४७॥तथापि नैव कृष्णेन योद्धव्यं परमात्मना ।यत्र सर्वं यतः सर्वं यः सर्वात्मा विराजते ॥४८॥यं सर्वः सेवते श्र्यर्थं तं कथं योधयेद् रणे ।सेवनीयो विजयार्थं तोषणीयः प्रमुक्तये ॥४९॥प्रसादनीयः क्षेयोऽर्थं प्रस्तोतव्यः प्रशान्तये ।लब्धव्यः शरणं गत्वा तं कथं योधयेद् बुधः ॥५०॥पृथ्वी हसति राजँस्त्वां यमुनाजलफेनकैः ।सस्यपुष्पमयैर्हास्यैः पृतनाशस्त्रजैः करैः ॥५१॥लूनीवारिप्रवाहोत्थनादफेनबकादिभिः ।निमन्त्रयति मृत्युं यन्नन्दिभिल्लो दिलापतिः ॥५२॥राजन् काले यथायोग्यं मयोक्तमौषधप्रभम् ।स्वतन्त्रोऽसि निजे कार्ये यथायोग्यं समाचर ॥५३॥इत्युक्त्वा तं गुरुश्चाग्निरातर्षिर्नन्दिभिल्लकम् ।बद्रिके स्वस्ति स्वस्त्यस्तु व्याजहार पुनः पुनः ॥५४॥प्रत्युत्तरं गुरुं नत्वा नन्दिभिल्लो ददौ ततः ।धृतमूर्द्धा धृतकेशो महाकालेन मृत्युना ॥५५॥जानाम्यहं समस्तं तद् गुरो भवता नोदितम् ।सर्वं तत् साधुभावेऽस्ति राज्यवादे न युज्यते ॥५६॥गुरुर्वा जनको वापि भ्राता सुहृत् सुतोऽपि वा ।सङ्गरे प्रतिसम्पन्नः स योद्धव्यो नृपेण ह ॥५७॥तृप्तिस्तु यतिसाधूनां स्वल्पे भवति योगिनाम् ।राज्ञां तृप्तिः पृथिव्याश्चेद् राजधर्मः कमाश्रयेत् ॥५८॥जयश्च विजयश्चैतौ सामर्थ्यबलकिंकरौ ।नैकान्तकृष्णपार्श्वस्थौ सर्वगौ हि मतौ मम ॥५९॥नारायणः सदा जय्यः सर्वैरिव मुमुक्षुभिः ।स्वार्थिभक्ता जयन्त्येव नारायणं मुहुर्मुहुः ॥६०॥अग्निर्नारायणः साक्षात्तस्मिन् होमोऽपि मोक्षदः ।नारायणेन महता नीचस्य योधने मम ॥६१॥कीर्तिर्वा बहुला स्यान्मे मोक्षगो वा भवाम्यहम् ।न मे हानिः कृष्णहस्तहतस्य मम काचन ॥६२॥सुखं राज्यं सम्पदश्च वह्नौ जुह्वति मोक्षिणः ।कृष्णे जुहोमि तत्सर्वं वृथा होमो न मे गुरो ॥६३॥गुरोर्वाक्ये हितं लोके जीवनं चिरमेव यत् ।अवाक्ये योधनं कृष्णे वासश्च शाश्वते पदे ॥६४।देहपृथिवीनाशेऽपि लप्स्ये लाभं तु शाश्वतम् ।निर्णीतं तु मया कृष्णे सर्वार्पणं तु भावतः ॥६५॥ऐहिकाऽमुत्रसिद्धिर्मे कृष्णयोगाद् भविष्यति ।नृपधर्मैः पूजयिष्ये रणांगणे हरिं प्रभुम् ॥६६॥कालहस्तेन मृत्योस्तु कृष्णहस्ताद्वरो हि सः ।गुरोः सेवां रणयोग्यां करिष्ये पादयोः पतन् ॥६७॥करिष्ये वा हरेर्मूर्ध्नि शस्त्रपुष्पाऽक्षताऽर्पणम् ।त्यक्ष्ये मलं हरेः शस्त्रानलसङ्गाद् दृढं द्रुतम् ॥६८॥यदि तुष्टो भवेत् कृष्णो मयि शस्त्रनिपातनैः ।तदा मे पितरस्तुष्टास्तुष्टाः सुरा महर्षयः ॥६०॥गुरौ नारायणे कृष्णे क्रोधदोषो न विद्यते ।परोक्षं वा समक्षं वा करिष्ये नृपधर्मतः ॥७०॥गुरो प्रसन्नो भगवान् यन्मां युद्धे विलोकितुम् ।आगतोऽस्ति हरिः साक्षात्ततो भाग्यं कियन्महत् ॥७१॥गुर्वग्रे मूर्खशिष्योऽपि तरत्येव न संशयः ।परोक्षं वा समक्षं वा क्षात्रं मिथ्या न कारयेत् ॥७२॥क्षात्रधर्मेण गन्तुर्मे दिलावर्या अनाथता ।भाविनी नैव विप्रर्षे ततो धर्मो हतो भवेत् ॥७३॥करोमि धर्मसंग्रामं संग्रामे शत्रुवद्गुरुः ।आगच्छेच्छरसन्धानैः पूजार्हः स गुरुस्तदा ॥७४॥ब्रह्मा विष्णुर्महेशो वा महाविष्णुर्नरायणः ।यमः कालो महाकालः पुराणपुरुषोत्तमः ॥७५॥यो वा को वा समागच्छेच्छरपूजार्ह एव सः ।धर्मे स्थितस्य विजयो न त्वधर्मे स्थितस्य वै ॥७६॥युद्धं राज्ञां परो धर्मो युद्धस्था वधगोचराः ।क्षात्रधर्माण एवैते गुरुधर्मास्तदा न ते ॥७७॥न पूज्यधर्मा न शिष्यधर्मा न मित्रधर्मिणः ।न पुत्रधर्मा न च वा कुटुम्बधर्मिणोऽपि ते ॥७८॥न स्वधर्माण एवापि परधर्मिण एव ते ।साकं तैः खलु योद्धव्यं क्षात्रधर्मः स शाश्वतः ॥७९॥युद्धे चेत् कृष्णहस्तेन गमिष्यामि पराभवम् ।कृष्णहस्ते विजयः स न वै स नागविक्रमे ॥८०॥कृष्णं हित्वा जयेन्मां स तदा मन्ये पराक्रमम् ।कृष्णयुक्तं जगत्सर्वं बलवद्भाति मे गुरो ॥८१॥स धाता च विधाता च स मेरुर्मेदिनी च सः ।स जेता च विजेता च पराभावयिता च सः ॥८२॥स्रष्टा पोष्टा पोषयिता रक्षयिताऽविताऽपि सः ।तं शरण्यं च कारुण्यपूर्णं प्राप्य समक्षगम् ॥८३॥अत्र वापि परत्रापि जयं लप्स्ये न दुर्जयम् ।द्वयोस्तु कार्ययोः प्राप्तौ निर्बलं तत्र बाध्यते ॥८४॥गुरोर्वाक्यं निर्बलं वै कृष्णाप्तिर्या बलान्विता ।कृष्णाप्तौ पुरुषार्थास्तु निवर्तन्ते तदन्तिमाः ॥८५॥ग्रामं त्यजेत् कुलस्याऽर्थे स्वस्याऽर्थे तु कुलं त्यजेत् ।स्वं त्यजेच्चापि गुर्वर्थे कृष्णार्थं सकलं त्यजेत् ॥८६॥जानाति भगवान् मां च जानाति नागविक्रमम् ।नागक्रमः सकामोऽस्ति न मे कामो हरिं विना ॥८७॥हरिर्युद्धप्रसंगेन निष्कामं समनेष्यति ।सकामं निरये लोके प्रतिष्ठाप्य प्रयास्यति ॥८८॥यथा विप्रो गुरुश्चास्ते तथा धर्मोऽपि सद्गुरुः ।धर्मो वक्ति सदा युद्धं क्षत्रस्य त्वपलायनम् ॥८९॥आरब्धात् कर्मणश्चेत् स्यात् पश्चपादो जनो यदि ।हास्यपात्रं भवत्येव धर्महन्ता स एव ह ॥९०॥विचार्याऽऽरम्भणीयानि पारं नेयानि तानि वै ।फलं वा विफलं वापि सयत्नदैवसात्कृतम् ॥९१॥तस्माद् योत्स्ये नमस्कृत्वा धृत्वा हृदम्बरे हरिम् ।तव योगबलं तत्राऽऽकांक्षेऽग्निरात सद्गुरो ॥९२॥इत्युक्त्वा तूर्णमेवाऽसौ दध्मौ शंखं मृधार्थकम् ।तावत्तूर्णमवाद्यन्त रणभेर्यः पृथक् पृथक् ॥९३॥विगुलानि समन्ताच्च पटहाऽऽनकगोमुखाः ।योद्धृणां गर्जना व्योमवाण्यो युद्धाभिदर्शिकाः ॥९४॥अभवन् मेघमार्गेऽपि विमानानां प्रगर्जनाः ।युद्धार्थं विजयार्थं च गजानां बृंहितानि च ॥९५॥ह्रेषाश्च वाजिनां तत्र वृषाणां रंभणानि च ।उष्ट्राणां गांगणनाश्च समन्ततोऽभवन् मृधे ॥९६॥महाकालस्तथा रुद्रो यमो विश्वेश्वरो हरः ।आकाशे देवतास्तत्र महर्षयश्च पार्षदाः ॥९७॥व्यापृतं श्रीकृष्णनारायणं ज्ञात्वा समाययुः ।चक्रं सुदर्शनं नैजम् आजगत्कलनं धनुः ॥९८॥दधार भगवान् शीघ्रं शरं च ग्रसनाह्वयम् ।नागविक्रम एवापि सर्वास्त्राणि दधार ह ॥९९॥सेनानीर्नन्दकुबरो रथस्थोऽग्रे स्थितोऽभवत् ।एवं ब नन्दिभिल्लोऽपि सेनापेन्द्रव्रजोऽपि च ॥१००॥स्वस्वरथौ पुरः कृत्वाऽतिष्ठतां सज्यकार्मुकौ ।प्रतीक्षन्ते च सैन्यानि शस्त्रमोचनसूचकम् ॥१०१॥महामहाध्वनिं शांखं स्वस्वसेनापसंभवम् ।इत्येवं बद्रिके तत्र सन्नाहोऽभवदाच्युतः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कृष्णेन सह न योद्धव्यमिति गुरोरग्निरात्तस्योपदेशं स्वानुकूलं योधने नन्दिभिल्लो मत्वा युद्धक्षणसूचकशंखध्वानमाचरत्, उभयसैन्यध्वानानीत्यादिनिरूपणनामा द्व्यशीतितमोऽध्यायः ॥८२॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP