संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११५ Translation - भाषांतर श्रीनरनारायण उवाच-रासमण्डलतश्चोर्ध्वं हरेर्विहारमण्डलम् ।लक्षयोजनविस्तारं व्यलोकयन् विमानगाः ॥१॥यत्र परममुक्तानां निवासा मन्दिराणि च ।प्रासादा दिव्यकलशाः सन्ति कृष्णालया यथा ॥२॥मुक्ता मुक्तानिका भूत्वा सेवन्ते कान्तमच्युतम् ।विहारो यत्र सौधेषु भवन्ति ब्रह्मयोषिताम् ॥३॥कोटिकोट्यर्बुदपत्न्यो मुक्तानिका हरिं पतिम् ।विहारमण्डले नैजसौधेषु दिव्यविग्रहाः ॥४॥सेवन्ते परमात्मानं सुखशय्यास्वहर्निशम् ।शृंगारा यत्र वर्तन्ते नवा दिव्याश्च शाश्वताः ॥५॥पानभोजनभोगाश्च वर्तन्तेऽमृतसंभृताः ।यत्र कामदुघा गावो विद्यन्ते मानसेष्टदाः ॥६॥यत्र शय्याः कोमलाश्च नित्यसुगन्धिसंभृताः ।मानसेष्टप्रदाः सर्वाः सुखस्पर्शाश्चिदात्मकाः ॥७॥दिव्यरूपस्पर्शगन्धशब्दरसरतिप्रदाः ।कल्पताम्बूलवल्ल्यादिपत्रचर्वणगन्धिकाः ॥८॥सुगन्ध्युत्तरसुरभिकेसरादिविराजिताः ।कामपूरास्तथा सर्वोपकरणोत्तमाञ्चिताः ॥९॥स्नानशालास्तापशाला रसशालाश्च यत्र वै ।भोज्यशाला रहःशालाः स्वापशालाश्च यत्र वै ॥१०॥द्रवशाला नाट्यशाला दृश्यशालाश्च यत्र वै ।गीतशाला नृत्यशाला वेषशालाश्च यत्र वै ॥११॥सर्वशृंगारशालाश्च कामशालाश्च यत्र वै ।भोगशालाश्चांगप्रसाधनशालाश्च यत्र वै ॥१२॥रेखाशालास्तथा कान्ताश्लेषशाला भवन्ति च ।प्रासादा कलशैर्युक्ता दिव्या स्वर्णविनिर्मिताः ॥१३॥शोभन्ते कोटिशो यत्र विहारमण्डलोऽभितः ।नगराणि विचित्राणि विचित्रमन्दिराणि च ॥१४॥वर्तन्ते मुक्तकोटीनां निवासा यत्र चाभितः ।वसतयः सेवकानां सेविकानां भवन्त्यपि ॥१५॥दासानां चापि दासीनां पुंरूपाणां भवन्त्यपि ।सुहृदां मित्रवर्गाणां मुक्तानां सुगृहाणि च ॥१६॥भवन्ति श्रीहरेः सौधभाऽऽभभावन्ति तत्र ह ।एवं विहारिमुक्तानां वीक्ष्य विहारमण्डलम् ॥१७॥विमानगा ययुरग्रे राष्ट्रप्रदेशभूमिषु ।हरिद्वर्णाऽतिरसभृन्मिष्टकणिशवन्ति वै ॥१८॥यासु सस्यानि सर्वाणि राजन्ते ऋद्धिमन्ति च ।दिव्यब्रह्ममयान्येवाऽक्षतशालिभिधानि च ॥१९॥गोधूमयवनिवारचणकादीनि सन्ति वै ।दिव्यब्रह्मस्वरूपाणि कामरूपाणि तानि वै ॥२०॥मुक्तरूपाणि सस्यानि धामिनां सुखदानि हि ।इक्षुक्षेत्राणि परितः शाकक्षेत्राढ्यवाटिकाः ॥२१॥राजन्ते दीर्घिकावापीकूपतडागवन्ति च ।सरितो दिव्यजलदा वहन्ति चित्स्वरूपिकाः ॥२२॥सीमभूमिप्रदेशाश्च विद्यन्ते फलिपादपाः ।अनेकपुष्पिवृक्षाणां वृतिभिर्वर्तुलीकृताः ॥२३॥रक्षिताः सर्वतो दिग्भ्यो महासस्यसमृद्धयः ।मुद्गमाषै राजमाषैः कङ्गूभिः शोभिताः शुभाः ॥२४॥राजिकाकेसरैर्युक्ता दुग्धिकाबृहतीयुताः ।अनेकान्नेरसंख्यैश्च भाजीशाकैः समन्विताः ॥२५॥कन्दपुष्पदलाद्यैश्च समृद्धाः शोभना ह्यति ।कर्षुकाख्यप्रमुक्तानां नगराणि च तत्र वै ॥२६॥सन्ति ग्रामाश्च खेटाश्च खर्वटा गोपकर्मणाम् ।पुराणि दिव्ययोगानि दिव्यव्यापारवन्त्यपि ॥२७॥भवन्ति दिव्यसौवर्णवर्णानि प्रोज्ज्वलानि च ।यत्र मुक्ता महामुक्ता वसन्ति ब्रह्मरूपिणः ॥२८॥तथा परममुक्ताश्च वसन्ति ब्रह्मयोगिनः ।अनादिश्रीकृष्णनारायणख्यपरायणाः ॥२९॥येषां कर्मकलापा वै दिव्याः कृष्णपरायणाः ।भवन्ति सर्वथा बद्रि ताँस्ते व्यलोकयन् मुदा ॥३०॥आलयानाश्रमानावसथान् सौधान् कुटीस्तथा ।गृहाणि कोटरान् मन्दिराणि कुंजान् निकुंजकान् ॥३१॥सौधान् शाला निवासाँश्च भवनानि च गर्भकान् ।विद्यालयान् कलाशाला गोशाला गोपुरान् शुभान् ॥३२॥दुर्गान् भित्तिस्तम्भशृंगाण्यपि वृत्तसुमण्डपान् ।उपगृहाणि चारामान् छत्राणि तूपकाँस्तथा ॥३३॥सभागृहाणि च न्यायनृत्यगान्धर्वभूमिकाः ।मल्लनाट्येन्द्ररमणान् महानसानि यान्यपि ॥३४॥मखालयान् राजसौधानापणान् व्योमकोष्ठकान् ।त्रिवरान् द्वारदेशाँश्च वीक्ष्य सौवर्णशोभनान् ॥३५॥समाकाररचनाँश्च स्वर्णकलशराजितान् ।नैसर्गिकप्रकाशाँश्च सर्वर्द्धिप्रदभित्तिकान् ॥३६॥कल्पकुंभीकल्पचुल्लीकल्पपात्रविराजितान् ।अक्षय्येष्टप्रदान् वीक्ष्य भोज्यपानर्द्धिसंभृतान् ॥३७॥सर्वोपकरणैर्युक्तान् दिव्यशाश्वतविग्रहान् ।सच्चिदानन्दरूपाँश्च सर्वरंगर्द्धिशोभनान् ॥३८॥ध्वजैः पताकिकाभिश्च वावातादिभिरन्वितान् ।दिव्यमुक्तगणैर्युक्तान् वीक्ष्य प्राप्य समर्हणाम् ॥३९॥अग्रे विमानगा देशानुल्लंघ्याऽर्बुदयोजनान् ।मुक्तवसतीन् संवीक्ष्य ययुः सुराष्ट्रमुत्तमम् ॥४०॥यत्र मार्गा दीर्घतमा ब्रह्मसमुद्रयोगिनः ।वनपर्वतवसतीनभिव्याप्य च मण्डपान् ॥४१॥मण्डलानि पुरग्रामान् समायान्ति सुराष्ट्रकम् ।छायावृक्षैः फलिवृक्षैर्युताः पन्थान उत्तमाः ॥४२॥सर्वयात्रिकसुखदाः सुभगा रमणीयकाः ।प्रवासिनां सर्वभोग्यप्रदाः सच्चिद्रसप्रदाः ॥४३॥विद्यन्ते ते मृदुस्पर्शा गतिश्रमविवर्जिताः ।शीतोष्णानुकूलसर्वतत्त्वाऽऽनन्दप्रदाः शुभाः ॥४४॥पार्श्वनदीनदवारिसुधावलीद्रुशोभिताः ।तरुसूच्चफलवालुमृदुपार्श्वसुशोभिताः ॥४५॥पुष्पीवृक्षकृतराजिकदम्बराजिराजिताः ।लताप्रतानितछत्रच्छायाद्रुमसुपार्श्वकाः ॥४६॥शर्कराफलवल्लीनां कृत्रिमनदपार्श्वकाः ।चञ्चद्दिव्यमहामूल्यमणिगर्भातिशोभनाः ॥४७॥कूष्माण्डवल्लिकाव्याप्तकुटीयुक्क्षेत्रमध्यगाः ।त्र्यमृतस्तम्बक्षेत्रान्तःप्रविष्टदीर्घयायिनः ॥४८॥मधुस्राविमहावृक्षशाखारसाभिषेकिनः ।ब्रह्मचन्दनवृक्षाणां रसवृष्ट्या सुगन्धिताः ॥४९॥देवपुष्पविकीरैश्चाञ्चिताः शय्याभसौख्यदाः ।मुक्तमुक्तानिकावृन्दपादपद्मातिपावनाः ॥५०॥नैकधातुप्रचूर्णोत्थलहरीवलिशोभिताः ।पार्श्वविश्रान्तिवेदीभिर्मनोहराऽऽश्रयप्रदाः ॥५१॥नदीनदमहासेतुसंकलनाऽद्वितीयकाः ।मुक्तिसौख्यप्रदा मार्गास्तृप्तिदा नित्यसौख्यदाः ॥५२॥मध्यक्षेत्रीयसृतिभिः संगताश्चत्वरान्विताः ।तानप्रतानमार्गैश्च मिलिता देशदर्शकाः ॥५३॥सुधापर्वात्मकशालाऽमृतदानप्रमोददाः ।ब्रह्मराष्ट्राऽऽविद्धमध्या परब्रह्मगृहान्तगाः ॥५४॥अनादिमुक्तविहराः शाश्वतानन्दसंभृताः ।अपुनरावर्तनाश्च गतानां मुक्तिसंगिनाम् ॥५५॥मांगलिकरसद्रव्यैः सिक्ताः श्रेयोरसादिभिः ।कल्याणपदवीयुक्ता विशाला बहुविस्तराः ॥५६॥एतादृशान्मोक्षमार्गान् वीक्ष्याऽऽश्चर्यगतास्तु ते ।अग्रे विमानगा देशानसंख्ययोजनायतान् ॥५७॥वीक्ष्य तुल्यर्द्धिसम्पद्भिः शोभनान् ययुरुत्सुकाः ।अपश्यन् दूरतस्ते चाऽक्षरधामपुरं महत् ॥५८॥परार्धयोजनदीर्घदिव्यचिद्भूविराजितम् ।असंख्याऽक्षरमुक्तानामावासमन्दिरात्मकम् ॥५९॥सर्वसृष्टिमहातेजोऽधिकतेजोऽम्बरान्वितम् ।सर्वसृष्टमहानन्दाधिकानन्दाऽम्बरान्वितम् ॥६०॥सर्वसौरभवासं च सर्वरूपाभिरूपवत् ।सर्वरसाऽधिमिष्टं च सर्वमिष्टस्वरान्वितम् ॥६१॥सर्वलावण्ययुक्तं च सर्वमाधुर्यसंभृतम् ।असंख्यानादिमुक्तानां महामन्दिरशोभनम् ॥६२॥कोटिकोट्यब्जसूर्याणां तेजोवत्कलशान्विताः ।दिव्यशृंगयुता यत्र शोभन्ते मुक्तसंश्रयाः ॥६३॥कामरूपधराऽनादिमुक्तवृन्दा वसन्ति च ।दिव्यरत्नहीरकाणां मणीनां मन्दिरेषु ह ॥६४॥असंख्यपारं तद्धाम सर्वधामोत्तमोत्तमम् ।असंख्यदिव्यसंयानविमानैरुपशोभितम् ॥६५॥असंख्यनगरैर्ग्रामैः पत्तनैः खेटखर्वटैः ।उद्यानारामवाटीभिः क्षेत्रभूविस्तरैर्युतम् ॥६६॥सच्चिदानन्दतत्त्वैस्तैर्ब्रह्मपुरैरलंकृतम् ।सर्वगोपुरदुर्गाद्यैर्वनपर्वतराजिभिः ॥६७॥आक्षरैश्च नदीसरोवरैर्नदैः सुशोभितम् ।कौस्तुभानां दीर्घशृंगैः पर्वतैरतिशोभनम् ॥६८॥असंख्यदिव्यदुग्धानां कुल्याभिरभितो युतम् ।सुधापीयूषभोज्यानां कुल्याभिरभिरामकम् ॥६९॥यानवाहनशय्यानामुपस्कारैः समृद्धिमत् ।कामरूपधरमुक्तमुक्तानिकाकृताश्रयम् ॥७०॥सर्वसमानरूपैश्च कृष्णनारायणाश्रितैः ।कृतावासमनन्तं चाऽपारमसीमकं महत् ॥७१॥सर्वसस्यर्द्धिसंयुक्तं फलान्नकणसिद्धिमत् ।सर्वदिव्यसुसौवर्णभूमिगृहादिपत्तनम् ॥९२॥असंख्यस्तम्भसंशोभन्महासौधालिसत्प्रभम् ।निसर्गधामतत्त्वोत्थसर्वभोग्यसुहेतुकम् ॥७३॥यस्य पारो न वै चास्ति गन्तॄणां व्योमचारिणाम् ।दिव्यचक्षुष्मतां कृष्णदृष्ट्या मनाक् सुगोचरम् ॥७४॥यत्र मुक्ता असंख्याता राजाधिराजरूपिणः ।कृष्णनारायणतुल्या वृन्दात्मानो भजन्ति तम् ॥७५॥बद्रिके केचन मुक्ताः सभाऽऽत्मानश्च कोटिशः ।ध्यायन्ति परमात्मानं श्रीकृष्णं पुरुषोत्तमम् ॥७६॥अन्येऽब्जसंख्यका मुक्ताः कथां शृण्वन्ति शार्ङ्गिणः ।अपरे पद्मसंख्याश्च स्तुवन्ति स्वामिनं हरिम् ॥७७॥तथाऽन्ये स्वामिनो वाद्यैः कीर्तनं विदधत्यपि ।अर्चयन्ति शतवस्तुभिश्चेतरे हरिं पतिम् ॥७८॥तथाऽन्ये दास्यमेवाऽपि कुर्वन्ति परमात्मनः ।आत्मनिवेदनं मुक्तानिकाः कुर्वन्ति सत्पतौ ॥७९॥रमन्ते श्रीहरेरग्रे सेवन्ते तन्मनोऽनुगाः ।यज्ञे तथा हरिं मुक्ता आराधयन्ति तन्मयाः ॥८०॥भोजयन्ति स्नापयन्ति संवाहयन्ति तं हरिम् ।नीराजयन्ति तं नाथं प्रसादयन्ति चाऽर्पणैः ॥८१॥रञ्जयन्ति गन्धीयन्ति शृङ्गारयन्ति माधवम् ।आनन्दयन्ति बहुधा पाययन्ति सुधामृतम् ॥८२-॥धूपयन्ति दीपयन्ति यथा तद्रूपधारिणः ।एवं विविधरूपाँश्च परार्धाऽधिकमुक्तकान् ॥८३॥विमानगा विलोक्यैवाऽऽश्चर्यं प्रापुः परं तदा ।सेवाभक्तिप्रकाराँश्च वीश्य निर्मानतां गताः ॥८४॥अक्षरः पुरुषः सोऽपि निजालये परेश्वरम् ।अनन्तमुक्तसहितः सेवते स्वामिनं हरिम् ॥८५॥सर्वदेहकृताभिश्च क्वचिन्नारी क्वचिन्नरः ।भूत्वा भूत्वा क्रियाभिश्च सेवते स्वामिनं निजम् ॥८६॥अक्षरस्य महासौधे कोट्यर्बुदादितोरणे ।कोट्यर्बुदस्तम्भतोलये कोट्यर्बुदादिशृंगके ॥८७॥असंख्यभोग्यवस्त्वाढ्येऽसंख्यदासीसमन्विते ।असंख्यमुक्तमुक्तानीसेविते ब्रह्मरूपिणि ॥८८॥ब्रह्महोलसंज्ञे स्वे सेवते स्वपतिं हरिम् ।वीक्ष्येदं सेवनं बद्रि ब्रह्मप्रियास्तु सर्वथा ॥८९॥स्तब्धा निर्गर्वभावं च प्राप्ताः स्वस्वामिनं प्रति ।एवंविधं तु तद्धामाऽक्षरं तद्वसतीन् शुभान् ॥९०॥भुक्तावसतीन् सेवां च वीक्ष्याऽक्षरगृहं तथा ।अक्षरं सेवकं वीक्ष्य महानन्दं प्रलेभिरे ॥९१॥अक्षरस्य गृहे बद्रि विशालेऽसंख्ययोजने ।ईश्वराणां समस्तानां मुक्तानां दिव्यवर्म्मणाम् ॥९२॥ब्रह्माण्डानां च सर्वेषामुद्धयः सौक्ष्म्यतः स्थिताः ।अक्षरे वद्रिके सर्वमेतज्जगच्चराचरम् ॥९३॥विद्यते संस्थितं बद्रि सर्वसृष्टिस्वरूपकम् ।यदक्षरगृहे चास्ते तद् ब्रह्माण्डेषु वर्तते ॥९४॥यदक्षरगृहे नास्ति सृष्टिषु तन्न विद्यते ।एकैकस्मिन् मणौ दिव्ये वसन्ति भिन्नसृष्टयः ॥९५॥एतादृशा हि मणयः सन्त्यक्षरगृहे शुभाः ।मायाधामानि सर्वाणि विद्यन्ते चैकके मणौ ॥९६॥गोलोकाद्या महाभौमा विद्यन्ते चैकके मणौ ।वैकुण्ठाद्या आलयाश्च विद्यन्ते चैकके मणौ ॥९७॥वासुदेवादयो व्यूहाः सर्वर्द्धिसहिता मणौ ।वर्तन्ते चैकके कर्तुं वर्णनं नैव शक्यते ॥९८॥एतादृशं ब्रह्मपदं धामाऽक्षरं सुशोभनम् ।असंख्यर्द्धिभृतं वीक्ष्य लब्ध्वा पूजां च तत्कृताम् ॥९९॥अवतारालयान् दिव्यान् मन्दिराण्युत्तमानि च ।असंख्यान् मुक्तरूपाँश्च कृष्णनारायणांशजान् ॥१००॥कृष्णनारायणरूपान् कृष्णनारायणात्मकान् ।असंख्यसृष्टिसंजातान् तदक्षरे सदा स्थितान् ॥१०१॥ब्रह्मशीलपरान् सर्वावतारान् श्रीप्रभुप्रभान् ।असंख्यैश्वर्यसम्पन्नान् वीक्ष्य धामोत्तरस्थितान् ॥१०२॥अयं स्वामी ह्ययं स्वामी कृष्णनारायणो ह्ययम् ।इत्येवं प्रतिपन्नास्ते विमानगाः क्षणं तदा ॥१०३॥असंख्यकृष्णरूपाणि प्रभून् कृष्णानसंख्यकान् ।मुक्तात्मकान् विलोक्यैव विलोक्य दिव्यचक्षुषा ॥१०४॥सारूप्यभावमापन्नान् मुक्तान् विज्ञाय तादृशान् ।प्रतिपत्तिं मुक्तरूपां प्राप्याऽऽनन्दं प्रलेभिरे ॥१०५॥आश्चर्यं परमं प्राप्ता अदृष्टदर्शनात् खलु ।प्रशशंसुर्विमानस्था ब्रह्मप्रियादयो भृशम् ॥१०६॥अहो भाग्यं हरेर्योगाद् यददृश्यादिदर्शनम् ।लभामहे कृपालेशात् स्वामी नः परमो यतः ॥१०७॥बद्रिके चाऽवताराद्यैः कृतां लब्ध्वा समर्हणाम् ।प्रभुः कृष्णो हरिश्चाग्रेऽपासरत् माधवीपतिः ॥१०८॥जयनादैस्तोषशब्दैरक्षतादिसुवर्धनैः ।पुष्पाञ्जलिप्रदानैश्चाशीर्भिः सहाग्र उद्ययुः ॥१०९॥विमानानि समस्तानि दिव्याम्बराभियोगिनाम् ।मुक्तानां श्रीहरेः पत्युर्मन्दिरं परमं प्रति ॥११०॥तद्गत्या तद्वायुयोगात् परधामप्रभांशकात् ।महानन्दकृतां मूर्छां सुखाढ्यां प्रापुरेव ते ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने विमानगा हरेर्विहारमण्डलं राष्ट्रप्रदेशान् सुराष्ट्रमण्डलम् अक्षरधामपुरम् अनादिमुक्तपुराणि दिव्यभक्तिकलापान् अक्षरब्रह्ममहोलम् असंख्यावतारमहोलानि वीक्ष्य परमं धाम प्रति चापासरन्नित्यादिनिरूपणनामा पञ्चदशाऽधिकशततमोऽध्यायः ॥११५॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP