संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ८६

तिष्यसन्तानः - अध्यायः ८६

लक्ष्मीनारायणसंहिता


श्रीश्वेतायनव्यास उवाच-
सनकाद्या गुरुजनाः भगवान् कृष्णनन्दनः ।
भक्तकार्याणि कृत्वैवं स्वाऽऽक्षरीं भूमिमागतः ॥१॥
नरनारायणस्त्वेनां कथां बद्र्यै भिधाय च ।
विरराम तथा बद्री विरराम हरिस्मृतिः ॥२॥
दध्यौ ध्याने सदा बद्रीप्रिया नारायणं पतिम् ।
तृप्ता कथारसास्वादपूर्णाऽभवद्धि शाश्वती ॥३॥
अथैत्य कुंकुमवापीमुवास स्वालये हरिः ।
ततः कृत्वा सभां सर्वप्रजाभक्तप्रियान्विताम् ॥४॥
वृत्तान्तं विजयस्याऽऽह विस्तरेण सुखश्रवम् ।
तत्र नन्दिभिल्लपत्नी दिलावरीति वै सती ॥५॥
अभूद् वृत्तमिमं श्रुत्वा प्रज्ञा पद्मावती प्रिया ।
सहचर्यौ भगिन्यौ ते पत्न्यौ श्रीकृष्णसत्प्रभोः ॥६॥
पप्रच्छतुः सर्वसभ्यलाभार्थं विनयान्विते ।
प्रणिपत्य पतिं कान्तं स्वामिनं कृष्णमाधवम् ॥७॥
अनादिश्रीकृष्णनारायणं स्वामिनमच्युतम् ।
कुंकुमवापिकानाथं विराजन्तं सभापतिम् ॥८॥
श्रीपद्मावतीप्रज्ञे ऊचतुः-
भगवन् भवता प्रोक्ता दिलावरी सतीति या ।
कथं दिलावरी नन्दिभिल्लपत्नी सती ह्यभूत् ॥९॥
श्रीकृष्णनारायण उवाच-
भवतीभ्यां शुभं पृष्टं शृणुतं सहचारिके ।
नन्दिभिल्ले मृते राज्ञी दिलावर्यां स्थिताऽभवत् ॥१०॥
पतिभक्ता व्यपश्यत् सा नारायणस्य मन्दिरे ।
जपपूजनकाले स्वपत्युर्जयविचिन्तना ॥११॥
साकं कृष्णेन पत्युश्च मूर्तेः पूजापरायणा ।
छत्रमुकुटयुक्तायाः पतनं सहसा क्षितौ ॥१२॥
पत्युर्मूर्तेः प्रपतनं विना प्रतिहतं द्रुतम् ।
छत्रस्य पतनं चापि मुकुटस्यापि वीक्ष्य सा ॥१३॥
शुशोच पतिधर्मा सा विवेद पतिपातनम् ।
नन्दिभिल्लो रणे नूनं मृतो दिलावरीपतिः ॥१४॥
यदर्थं यद्विजयार्थं त्यक्ताऽऽहारजलाशना ।
कृष्णव्रतपरा पत्युः पूजापराऽस्मि जापिका ॥१५॥
सा सर्वा सत्क्रिया मेऽद्य पत्यू रक्षाकरी न वै ।
न सत्याः सत्यमेवाऽपि पत्यू रक्षाकरं त्विह ॥१६॥
न पूजायाः फलं मेऽद्य पत्युः कृते सहायदम् ।
अहो दैवे विपरीते सर्वं भवति निष्फलम् ॥१७॥
यत्नाः सर्वेऽपि विफला विफला देवमानताः ।
व्रतं बाधा च नियमाः सर्वं भवति निष्फलम् ॥१८॥
अथ श्रीकृष्णभक्तस्य द्रोहपापं बलिष्ठकम् ।
यदग्रे भगवानास्ते तस्य द्रोहो भयंकरः ॥१९॥
न तत्र देवकार्याणि शत्रोः साहाय्यदानि वै ।
नन्दिभिल्लो कृतवान् वै द्रोहं मखाभियोगिनः ॥२०॥
नागस्य च हरेश्चापि तत्र पूजा मृषा मम ।
जाताऽद्य विफला सर्वा स्वामी रणे हतो मम ॥२१॥
यद्येवं श्रीकृष्णनारायणविष्णो जगत्प्रभो ।
जगद्गुरो सतीसत्यं समारोहतु मामिह ॥२२॥
इत्युक्त्वा सा करे धृत्वा जलं मुमोच भूतले ।
तावत्तस्याः पादतले कुंकुमाक्ते बभूवतुः ॥२३॥
भूमौ मुद्रापिते पादतलेऽपश्यद् दिलावरी ।
वीक्ष्य सत्यं व्रतं सत्याः साक्षि पत्युर्मृतौ तदा ॥२४॥
कृष्णध्यानपरा साध्वी पतिचिन्तापरायणा ।
क्षणं रुरोद लोकार्थप्रकाशनपरायणा ॥२५॥
तावत् पुत्र्यश्च दास्यश्च भृत्यवर्गाः समाययुः ।
रोदनस्य तु याथार्थ्यं ज्ञात्वा तेऽपि विमूर्छिताः ॥२६॥
तावद्विमानमार्गेण दूतः शोकपरायणः ।
ध्वजशून्याद् विमानाद्वै पृथ्व्यामवाततार ह ॥२७॥
पराजयं मृतिं राज्ञो ज्ञात्वा दूतमुखादपि ।
दिलावरीसती सत्यं वह्निमुत्पाद्य पादतः ॥२८॥
तत्रैव देवदेवस्य चत्वरे मन्दिराग्रतः ।
कृष्णमूर्त्या पतिमूर्त्या साकं जज्वाल मुक्तये ॥२९॥
तत्पुत्र्यः पञ्च सर्वास्ताः सत्य आसन् कुमारिकाः ।
अपुत्रस्य भिल्लराज्ञो जलप्रदास्तदा सुताः ॥३०॥
व्यलोकयन् विमानं वै स्वर्णं समागतं द्रुतम् ।
यत्र राजा नन्दिभिल्लः कृष्णनारायणान्वितः ॥३१॥
आययौ श्रीसती नेंतुं दिलावरीं प्रभस्मिताम् ।
दिलावरी दिव्यदेहा चन्द्रानना विभूषिता ॥३२॥
पत्या च हरिणा साकं निषसाद विमानके ।
उवाच पुत्रिकाः पञ्च सह नेतुं हरिं पतिम् ॥३३॥
हरिस्ताः पुत्रिकाः पञ्च जलेनाऽभ्युक्ष्य सत्वरम् ।
दिव्यदेहा विधायैव विमाने ताः समग्रहीत् ॥३४॥
जयकारस्तदा तत्र महानासीज्जनेष्वथ ।
रिक्ता सा नगरी जाता राजपत्नीविवर्जिता ॥३५॥
अथाऽन्या दासिका दासाः प्रजाः क्षत्रादिजातिजाः ।
तन्निमित्तं दानयज्ञं द्वादशाहादि चक्रिरे ॥३६॥
गृहस्था अपि कर्माढ्या भक्त्या यान्त्यक्षरं पदम् ।
कामधर्मपराश्चापि चेत् कृष्णाज्ञापरायणाः ॥३७॥
लभन्ते ते महाराज्यं स्वर्गं धामाऽक्षरं तथा ।
कृष्णाज्ञा विपरीता ये ते तु कष्टं प्रयान्ति वै ॥३८॥
श्रीपद्मावतीप्रज्ञे प्रोचतुः-
भगवन्नौ संशयोऽत्र तं निवर्तस्व सर्वथा ।
गृहस्थो दारसंयुक्तो दाराः कामस्य भूमिकाः ॥३९॥
कामो दोषो वासनाढ्यः पापात्पापतरो हि सः ।
कामधर्मा गृहस्थाश्च कथं मुक्तिं प्रयान्ति ते ॥४०॥
देवा ये कामधर्माणः पत्नीयुजो रतिप्रियाः ।
कथं ते बद्धदेवा वै परेषां मोक्षकारिणः ॥४१॥
संशयं नौ कृष्णनारायणस्वामिन्निवारय ।
सर्वेषां हितलाभाय विज्ञे प्रच्छाव ईपते ॥४२॥
इष्टदेवा देवताभिः सहिताः सर्वपूजने ।
पूज्यन्ते चाप्युपास्यन्ते स्वस्वशक्त्यंगनायुताः ॥४३॥
ते कथं मोक्षदा मोक्षे स्थिता वा स्त्रीसमन्विताः ।
मायायुक्ताः कथं मायापारास्ते पारयायिनः ॥४४॥
ईश्वरा ईश्वरीभिश्च युक्ताः कथं नु मोक्षदाः ।
सरागाणां न वै मुक्तिः संशयं नौ निवारय ॥४५॥
श्रीकृष्णनारायण उवाच-
तत्त्वं वदामि सम्यग् वां शृणुतं सहचारिके ।
यज्ज्ञात्वा संशयो नैव जायेतात्र कदाचन ॥४६॥
सन्देहोऽपि निवर्तेत सर्वथा यस्य शीलनात् ।
यदाऽनादिकृष्णनारायणश्रीकृष्णमाधवः ॥४७॥
अहमाज्ञामक्षरब्रह्मणे चक्रे तु सृष्टये ।
साऽऽज्ञा मे श्रीहरेः शक्तिमूर्तिमती स्वरूपिणी ॥४८॥
कृष्णनारायणीरूपा मुक्तानिकेश्वरी सती ।
श्रीमुक्ताश्रीर्दिव्यरूपा स्वामिसन्मुखतः स्थिता ॥४९॥
सा पत्नी सा धर्मपत्नी सा श्रुतिः सा विधायिनी ।
सा राधा श्रीः रमा लक्ष्मीर्ललिता माधवी प्रिया ॥५०॥
कमला सुगुणा पद्मा सावित्री मञ्जुला च सा ।
हंसा संज्ञा शिवा नारायणी ब्राह्मी सरस्वती ॥५१॥
साऽऽज्ञा नारी सतीरूपा कृष्णेच्छामूर्तिरूपिणी ।
सा लीला भूर्विभूतिश्च वामांगं सा महेश्वरी ॥५२॥
ब्रह्मप्रिया माणिकी सा कार्ष्णी कृष्णा हरिप्रिया ।
आगमी नैगमी चिदंशा सद्युक्ताऽऽनन्दसंभृता ॥५३॥
ताः सर्वा मे हरेराज्ञास्वरूपाणि भवन्ति वै ।
आज्ञा विधिस्वरूपश्च विधिर्धर्मश्च सत्क्रिया ॥५४॥
आज्ञायां ये तु वर्तन्ते मुक्ता एव त उत्तमाः ।
आज्ञायां ये न वर्तन्ते बद्धास्ते द्वेषरूपिणः ॥५५॥
आज्ञा मे मूर्तयः सर्वा आविर्भवन्ति मे हृदः ।
हृदये मे निवसन्ति तिरोभवन्ति मे हृदि ॥९६॥
आज्ञया योषिता साकं नित्ययुक्तोऽस्मि मापतिः ।
आज्ञायुक्तो हरिस्तस्माद् दिव्य एव न रागवान् ॥५५७॥
संकल्पो दिव्य एवाऽस्ति नारायणस्य मे सदा ।
आज्ञा संकल्पसंभाव्या दिव्या पुमर्थदायिनी ॥५८॥
चत्वारस्ते पुमर्था च वै धर्मार्थकाममुक्तयः ।
आज्ञया पाल्यते धर्मश्चाज्ञा धर्मो विधिर्मतः ॥५९॥
गृहस्थधर्मः कामाढ्यश्चाज्ञया विधिना कृतः ।
न स रागाय बन्धाय न द्वेषाय प्रकल्प्यते ॥६०॥
आज्ञाधर्मः कामधर्मो देवानां नहि बन्धकृत् ।
आज्ञाधर्मो मानवानां स्वधर्मे श्रेयसां प्रदः ॥६१॥
आज्ञा धर्मश्च नारीणां पातिव्रत्यं परो मतः ।
पातिव्रत्ये स्थिता नारी ब्रह्मलोकं प्रयाति वै ॥६२॥
पत्नीव्रते स्थितो ना च ब्रह्मलोकं समश्नुते ।
अवतारा ईश्वराश्च पितरो मानवाः सुराः ॥६३॥
अन्येऽपि देहिनश्चाज्ञास्थितास्ते मोक्षभागिनः ।
प्रजार्थमाज्ञया कामस्तेषां पुमर्थ एव सः ॥६४॥
आज्ञाधर्मो धर्मदेवश्चार्थे प्रयोजने शुभे ।
पुमर्थेऽन्वयतां याति सत्त्वसम्पत्स्वरूपिणि ॥६५॥
सत्त्वार्थः कामसंकल्पे धर्मिण्यन्वयतां तथा ।
याति तेन हि संकल्पः कामो निष्काम एव ह ॥६६॥
रागद्वेषरहितः स कामो न वासनामयः ।
न भोगपरमः कामो न दोषपरमस्तथा ॥६७॥
आज्ञापालनमात्रार्थः कामो भवति धर्मदः ।
ऋतावुपेयाद् भार्यां वै पतिं गच्छेदृतूत्तरम् ॥६८॥
एवमाज्ञा धर्मरूपा कामक्रिया हि मैथुनम् ।
रतिः सा चाऽऽनन्ददाऽपि रागद्वेषविवर्जिता ॥६९॥
विधिना गोचरा सा तु ततो बन्धनवर्जिता ।
मायाहीना पापहीना धर्माढ्या सा रतिक्रिया ॥७०॥
आज्ञाधर्मेण सहितश्चाऽर्थः कामश्च मुक्तये ।
सहायास्ते प्रजायन्ते प्रयुक्ताश्चाज्ञया तु ये ॥७१॥
भवत्यो या धर्मपत्न्यः सर्वा आज्ञास्वरूपिकाः ।
भवत्यो विधयः सर्वे ह्याज्ञास्वरूपसंभवाः ॥७२॥
भवत्यो या वधूः पत्नी भार्या चाज्ञास्थिताः सदा ।
पत्युश्चाज्ञास्वरूपास्ताः पत्याज्ञामूर्तयो हि ताः ॥७३॥
आज्ञास्था वर्तमाना या नार्यो कामप्रभोगदाः ।
अपि चाज्ञावशास्तस्मान्नैव बन्धाय ताः क्वचित् ॥७४॥
यत्र बन्धो न चास्त्येव तत्र मुक्तिः करे स्थिता ।
संकल्पो धर्मपौत्रः स कामपुत्रः प्रमुक्तये ॥७५॥
मानवानां तु या नार्य आज्ञासर्वस्वसंस्थिताः ।
ता एव मोक्षदायिन्यः पत्युः स्वासां कुटुम्बिनाम् ॥७६॥
अनाज्ञावर्तमानास्तु मायाबन्धनदा हि ताः ।
मोक्षभ्रंशविधायिन्यो विधिशून्या यतो हि ताः ॥७७॥
देवानां देवता देव्यस्तत्तद्देवांगसंभवाः ।
तत्तदाज्ञास्वरूपिण्यो वेदाज्ञोक्ताऽधिदेवताः ॥७८॥
तास्तथा स्त्रीस्वरूपिण्यो वर्तमानाः सुरप्रियाः ।
सुरभोगप्रदात्र्यस्ताः सर्वा बन्धनवर्जिताः ॥७९॥
यत्राऽऽज्ञा तत्र बन्धो न न रागो द्वेष एव न ।
कृष्णाज्ञा निर्गुणो धर्मो नैष्कर्म्यं बन्धकृन्नहि ॥८०॥
परब्रह्म स्त्रीसहितश्चावताराः प्रियान्विताः ।
ईश्वरा ईशिकायुक्ता देवाश्च देवतान्विताः ॥८१॥
मानवा मानवीयुक्ता ये त्वाज्ञार्थपरायणाः ।
आज्ञा नारायणी ह्येषां बहुरूपा प्रवर्तिका ॥८२॥
भक्त्याज्ञा च मखाज्ञा च विवाहाज्ञा सदारिका ।
सृष्ट्याज्ञा धर्मकर्माज्ञा विध्याज्ञा मोक्षदा सदा ॥८३॥
यदाज्ञा सा तु विद्याऽस्ति विद्या वै मोक्षदा मता ।
अनाज्ञा सा त्वविद्याऽस्ति माया सा बन्धता मता ॥८४॥
पतिधर्मपरा नारी पत्याज्ञारूपवर्तिनी ।
मोक्षस्थैव तु सा नारायणीश्रुतिस्वरूपिणी ॥८५॥
मोक्षदा सा सदा चाज्ञारूपिणी पतिधर्मिणी ।
प्रज्ञा पद्मावती त्वेवं चाज्ञास्था नैव कामतः ॥८६॥
कामो न रागजस्तेषां ततो द्वेषो न युज्यते ।
वासना नैव तेषां च दूषणं नैव बन्धनम् ॥८७॥
श्रीकृष्णेच्छानुकूल्येन वर्तनं मोक्षदं भवेत् ।
वर्तनं तादृशं कृष्णप्रसन्नताप्रदं भवेत् ॥८८॥
प्रसन्नता मोक्षदाऽस्ति हरेर्मेऽत्र न संशयः ।
आत्मा प्रसन्नतायुक्तो मोक्षं विन्दति चाऽश्नुते ॥८९॥
न ह्येषा प्रकृतिर्जैवी याऽऽज्ञा श्रीपरमात्मनः ।
न विकारो न वा माया स्वेच्छाशरीरिणः प्रभोः ॥९०॥
पत्नी या सा स्मृतिश्चाऽऽज्ञा प्रज्ञा विद्या कला श्रुतिः ।
धृतिर्निष्ठा क्रिया चेच्छा ज्ञप्तिर्ज्ञा शक्तिरीश्वरी ॥९१॥
आत्मशक्तिश्च सा भार्या मुक्तिः सा विधिनोदिता ।
नैषा माया विकृतिर्न वासना न न बन्धनम् ॥९२॥
पुरा कृष्णमुखादाज्ञा चाविर्भूता सनातनी ।
वेदवक्त्रा महाभागा जगतां स्थितिदायिनी ॥९३॥
तामाज्ञां संप्रविश्यैव पत्नीवन्तोऽपि मोक्षिणः ।
आज्ञातदाश्रययोश्च भिन्नता नास्ति वस्तुतः ॥९४॥
द्विधाऽसौ रूपमास्थाय स्थित एव हरिः प्रभुः ।
विज्ञायेत्थं न बध्यन्ते निःसंशया भवन्त्यपि ॥९५॥
यदा विद्वान्नसंगः स्यादाज्ञया परमात्मनः ।
तदा मुक्तिः क्षणादस्य नान्यथा कर्मकोटिभिः ॥९६॥
वर्णाश्रमक्रमो लोके कृतः श्रीपरमेष्ठिना ।
भूतविवृद्धये तत्र क्रमे तिष्ठन्ति मोक्षिणः ॥९७॥
अक्रमे ये प्रयान्त्येव ते बद्धा नैव मुक्तये ।
आज्ञया च प्रसादेन क्षणान्मुक्तिर्न संशयः ॥९८॥
गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा ।
वृद्धो वा मुक्त एवाऽस्ति प्रसादाज्ञासमन्वितः ॥९९॥
उद्भिजश्चाण्डजश्चापि स्वेदजो वा विधिस्थितः ।
प्रसादान्मे श्रीहरेर्वै मुच्यते नाऽत्र संशयः ॥१००॥
कृष्णाज्ञैषा स्थिता राधा ह्यनया मुक्तिराक्षरी ।
आज्ञा लक्ष्मीस्वरूपा च नारायणी नरेश्वरी ॥१०१॥
गायत्री च सती दुर्गा सावित्री वैष्णवीश्वरी ।
देव्यः सर्वाश्च या वेदेष्वधिदेव्यः प्रकीर्तिताः ॥१०२॥
सर्वास्ता मुक्तिरूपा वै मुक्तिदाः समुपासिताः ।
अपि जैवी प्रिया चाज्ञास्थिता स्वामिवृषस्थिता ॥१०३॥
कृष्णप्रसन्नतां प्राप्य मोक्षदा सा प्रजायते ।
प्रज्ञे पद्मावती कामक्षेत्रं नारीमयं सदा ॥१०४॥
आज्ञापालनमग्नं चेन्मोक्षक्षेत्रं तदुच्यते ।
अत्र वां संशयो माऽस्तु वासनाद्वेषरागजः ॥१०५॥
आज्ञां नीत्वा हरिर्लोके सपत्नीकः प्रवर्तते ।
ईश्वरा देवताः सन्तश्चाज्ञापत्नीयुजोऽमलाः ॥१०६॥
नैष्कर्म्यभावमापन्ना मुक्तास्ते मोक्षदाः सदा ।
मोक्षस्था बन्धहीनास्ते लीला त्रयाविधायिनः ॥१०७॥
अशास्त्रज्ञास्तमोमग्ना ये तु चाज्ञाविखण्डिनः ।
ते स्वकल्पनकैर्मां वै दूषयन्त्यधमा जनाः ॥१०८॥
देवान् शक्तियुतान् पापा अनाज्ञाकर्मचारिणः ।
पशुवृत्ता मम चाज्ञां विहाय मत्तगामिनः ॥१०९॥
विरक्तवादिनश्चापि तथाऽरण्यनिवासिनः ।
अपरिग्रहमग्नाश्च द्वेषशून्यत्ववादिनः ॥११०॥
अपि भवन्ति परमेश्वरे चेश्वरिणीयुते ।
रागद्वेषाढ्यवचना युगलद्रोहकारिणः ॥१११॥
स्वकल्पिताशावृत्ताश्च तत्राएप्यपूर्णवर्तिनः ।
अतो दुष्टाः पाशवन्तो न मुच्यन्ते कदाचन ॥११२॥
इत्येवं माधवि वच्मि प्रज्ञे नारायणः स्वयम् ।
यथार्थं लोकहितकृद् आज्ञापत्नी न बन्धदा ॥११३॥
इष्टदेवा देवताश्चाप्युपासन्ते स्वयम्भुवः ।
आज्ञामूर्तिस्वरूपास्ते मोक्षदा मोक्षिणो हि ते ॥११४॥
नारी यद्यपि मायाऽस्ति या शास्त्राज्ञाविवर्जिता ।
विधिशून्या यतो माया साज्ञा नारायणी तु सा ॥११५॥
नारायणान्न मद् भेदो नारायण्या अभिन्नयोः ।
नारायणो मोक्षदोऽहं नारायण्यपि मोक्षदा ॥११६॥
आज्ञायां वर्तमानानां माया सदा निवर्तते ।
माया दिव्या भवत्येव मोक्षदा बन्धनाशिनी ॥११७॥
पठनाच्छ्रवणादस्य नास्तिक्यं विनिवर्तते ।
दिव्यता जायते दृष्ट्यां चित्ते जीवे निजात्मनि ॥११८॥
आज्ञाभोगो मोक्षणं च स्वर्गमेतद् द्वयं प्रिये ।
आज्ञाऽङ्कितस्य जायेत माधवि नात्र संशयः ॥११९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने गृहगीतायां नन्दिभिल्लपत्न्या दिलावर्याः सतीत्वं, सस्त्रीकदेवेश्वरावतारादीनां परमेशाज्ञात्मकस्त्रीस्वरूपसेविनां मोक्षस्थितिर्मोक्षदातृत्व-
मित्यादिनिरूपणनामा षडशीतितमोऽध्यायः ॥८६॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP