संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ९८

तिष्यसन्तानः - अध्यायः ९८

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
ततः बद्रीप्रिये देवि भगवान् श्रीप्रमापतिः ।
जम्बूद्वीपेश्वरसौधं विमानेन ययौ द्रुतम् ॥१॥
आग्नीध्रः पूरयामास मानयामास माधवम् ।
राजाधिराजशोभाभिः सिषेवे माधवीपतिम् ॥२॥
राज्ञ्यः सर्वा महालक्ष्मीराधादियोषिदर्हणम् ।
चक्रुर्महोपदादानैः सिषेविरेऽतिभावतः ॥३॥
आग्नीध्रस्य नव पुत्रा निन्युर्नारायणं ततः ।
नाभिर्हिमाह्वये राज्ये निनाय परमेश्वरम् ॥४॥
पुपूज परया प्रीत्या महोपदा ददौ तथा ।
किंपुरुषो भूपतिश्च हेमकूटाह्वये निजे ॥५॥
महाखण्डे महाराज्ये निन्ये पुपूज भावतः ।
हरिर्भूपो नैषधाख्ये वर्षे निनाय माधवम् ॥६॥
पुपूज भावभक्त्या तं ददावुत्तमसन्मणीन् ।
इलावृतो नृपो निन्ये खण्डे चेलावृते निजे ॥७॥
गोपीपतिं पुपूजाऽप्युपदाश्च प्रददौ मणीन् ।
रम्यो राजा हरिं नीत्वा नीलाचलाख्यखण्डके ॥८॥
पुपूजाऽपि सिषेवेऽपि भोजयामास चादरात् ।
हिरण्वान्नृपतिर्निन्ये श्वेतवर्षे निजे हरिम् ॥९॥
पुपूज परया प्रीत्योपदा ददुस्तथोत्तमाः ।
कुरुराजो हरिं निन्ये निजोत्तरकुरून् प्रति ॥१०॥
पुपूज रामरामेशं स्वर्णद्रव्यादिभिस्तदा ।
भद्राश्वो नाम राजाऽपि पूर्ववर्षे निनाय तम् ॥११॥
पुपूज परया प्रीत्योपदा ददौ शुभोत्तमाः ।
केतुमालस्ततो राजा निनाय स्वालये हरिम् ॥१२॥
पुपूज परया भक्त्या भोजयामास सत्पतिम् ।
विदायं संगृह्य कृष्णनारायणो द्रुतं ततः ॥१३॥
अन्यद्वीपान् प्रगन्तुं वै स्वं विमानं तदैरयत् ।
प्रियव्रतस्य वै पुत्राः प्रजापतिसमा दश ॥१४॥
आग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमाँस्तथा ।
मेधा मेधातिथिर्हव्यः सवनः पुत्रकस्तथा ॥१५॥
ज्योतिष्मान् दशकश्चेति सर्वे वै वैष्णवाः शुभाः ।
मेधाऽग्निबाहुपुत्राश्च त्रयस्ते साधवोऽभवन् ॥१६॥
सप्ताऽन्ये त्वभवन् भूपास्तद्द्वीपान् प्रययौ प्रभुः ।
प्लक्षद्वीपेश्वरं मेधातिथिं प्रति ययौ हरिः ॥१७॥
मार्गशीर्षे मासि कृष्णं मेधातिथिरपूजयत् ।
मेधातिथेस्तथा पुत्राः स्वराज्येष्वानयन् प्रभुम् ॥१८॥
शान्तभयश्च शिशिर आनन्दश्च सुखोदयः ।
शिवश्च क्षेमकश्चापि ध्रुवश्च सप्त भूभृतः ॥१९॥
महाराजाधिराजस्य सम्मानं चक्रुरुत्सुकाः ।
विविधा उपदा रम्या ददुः पुपूजुरादरात् ॥२०॥
आरार्त्रिकं प्रचक्रुश्च पपुः पादजलं हरेः ।
भोजयामासुरीशेशं प्रसादं जगृहुश्च ते ॥२१॥
मनुं कृष्णस्य जगृहुः सेवयामासुरच्युतम् ।
विदायं प्रददुश्चापि प्रजापूजोत्तरं ततः ॥२२॥
भ्रमित्वा श्रीहरिर्द्वीपं विमानेन द्रुतं ततः ।
पौषमासे ययौ कृष्णः शाल्मलिद्वीपमुत्तमम् ॥२३॥
तस्य सम्राड् वपुष्माँश्च राजा कृष्णमपूपुजत् ।
स्वप्रासादे हरिं नित्यं ररक्ष भावपूरितः ॥२४॥
असेवत सदा भक्त्याऽभोजयद् बहुधा प्रभुम् ।
रत्नहारादिकान् रम्यानमूल्यान् हरये ददौ ॥२५॥
तत्पुत्राः सप्त राजानः श्वेतश्च हरितस्तथा ।
जीमूतो रोहितश्चापि वैद्युतो मानसः प्रभः ॥२६॥
सप्तैते परमात्मानं निजराज्येषु चानयन् ।
बहुमानेन सौधेषु नीत्वा नीत्वा समार्चयन् ॥२७॥
उपदाभिश्चन्दनाद्यैर्हीरकाद्यैश्च कानकैः ।
भूषणैर्मणिरत्नाद्यैः कम्बलैः स्वर्णपात्रकैः ॥२८॥
तद्राज्ञ्यश्च प्रजाश्चापि पुपूजुः परमेश्वरम् ।
तेभ्यो दत्वा मनुं कृष्णो विदायं प्राप्य सत्वरम् ॥२९॥
माघे विमानमारुह्य कुशद्वीपमुपाययौ ।
ज्योतिष्मान्नामकः सम्राट् ससैन्यो मानमाचरत् ॥३०॥
निजसौधे नगर्यां च भ्रामयामास केशवम् ।
पुष्पाक्षताद्यैः सम्पूज्य मणिरत्नानि सन्ददौ ॥३१॥
भोजनानि ददौ राज्ञ्यः सिषेविरे तमच्युतम् ।
तस्य पुत्राश्च राजानः सप्त निन्युर्हरिं निजान् ॥३२॥
प्रासादानालयाँश्चापि राष्ट्रेष्वपि समन्ततः ।
उद्भेदो वेणुमाँश्चापि धृतिरश्वरथस्तथा ॥३३॥
लम्बनः कपिलः प्रभाकरस्ते वेणुवादिनम् ।
आनर्चुर्बहुभावेन सिषेविरे तमच्युतम् ॥३४॥
उपदाः प्रददुश्चापि गुरुमन्त्रं च जगृहुः ।
प्रजाः सीतापतिं कृष्णं पुपूजुः परमादरात् ॥३५॥
जगृहुः कृष्णमन्त्राँश्च विदायं प्रददुस्ततः ।
फाल्गुने स्वविमानेन क्रौंचद्वीपं ययौ हरिः ॥३६॥
सम्राड् राजा द्युतिमाँश्च सैन्यैः सम्मानमाचरत् ।
निजप्रासादवर्ये तं कृष्णं न्यवासयन्मुदा ॥३७॥
भोजयामास देवेशं सेवयामास केशवम् ।
सर्वसार्थयुतं कृष्णं पूजयामास नाणकैः ॥३८॥
मणिरत्नादिभिश्चापि कुंकुमाक्षतचन्दनैः ।
अथ पुत्रास्तस्य सप्त निन्युर्नारायणं ततः ॥३९॥
मनोहरश्च कुशल उष्णश्च पीवरो मुनिः ।
दुन्दुभिरन्धकारश्च नृपा आनर्चुरच्युतम् ॥४०॥
सेवां चक्रुर्हि बहुधा प्रजाश्चानर्चुरीश्वरम् ।
विदायं प्रददुश्चापि ततो मन्त्रं च जगृहुः ॥४१॥
अथ चैत्रे हरिः शाकद्वीपं जगाम सत्वरम् ।
सम्राट् तत्र हव्यनामा ससैन्यो मानमाचरत् ॥४२॥
निजसौधे निवासं चाकारयत्परमात्मनः ।
पुपूज परया भक्त्या सिषेवे बहुभावया ॥४३॥
भोजयामास गोविन्दं विदायमुपदा ददौ ।
तत्सुताः सप्त राजानो निन्युः कृष्णं निजालयान् ॥४४॥
जलदश्च कुमारश्च सुकुमारो मणीचकः ।
कुशोत्तरश्च मोदाकिर्महाद्रुमश्च ते ततः ॥४५॥
आनन्दं रुक्मिणीकान्तं ददुर्दिव्योपदाः शुभाः ।
सिषेविरेऽतिसम्पद्भिर्ददुर्विदायमुत्तमम् ॥४६॥
तत्प्रजाद्या हरिं नीत्वा स्वालयेष्वभ्यपूजयन् ।
हरिर्मन्त्रं प्रदायैव विमानेन हि सत्वरम् ॥४७॥
वैशाखे पुष्करं द्वीपं ययौ ससार्थशोभनः ।
पुष्कराधिपतिर्भूपः सवनः सैन्यशोभितः ॥४८॥
सम्मानं श्रीहरेश्चक्रे भ्रामयामास पत्तने ।
सौधे नैजे ततो नीत्वा पूजयामास वस्तुभिः ॥४९॥
वासयामास नित्यं च सेवयामास भक्तितः ।
भोजयामास नित्यं स विदायं प्रददौ बहु ॥५०॥
तस्य पुत्रौ नृपौ द्वौ च निन्यतुः परमेश्वरम् ।
निजराष्ट्राणि भावेन स्वस्वसौधेष्ववासयन् ॥५१॥
महीवीतो धातकिश्च सेवयामासतुर्हरिम् ।
तद्राज्ञ्यश्च प्रजाश्चापि पुपूजुः माधवीप्रभुम् ॥५२॥
भोजयामासुरीशेशं मन्त्रं च जगृहुर्हरेः ।
विदायं प्रददुश्चापि हरिः सज्जोऽभवत्ततः ॥५३॥
लोकालोकाचलं कृष्णो ज्येष्ठमासे ययौ मुदा ।
विहर्तुं वीक्षितुं स्त्रीभ्यो दर्शयितुं प्रदेशकान् ॥५४॥
पर्वतान् ग्रहमार्गाश्च वनान्युपवनानि च ।
प्रादक्षिण्येन वेगेन विमानगमनेन च ॥५५॥
लोकालोकं प्रवीक्ष्याऽथ काञ्चनीं भूमिमीक्ष्य च ।
आषाढे श्रीहरिं प्रत्याययौ कुंकुमवापिकाम् ॥५६॥
इत्येवं बद्रिके कृष्णनारायणो महाप्रभुः ।
पावयित्वा भूमिलोकान् कृपया तत्प्रजा अपि ॥५७॥
एको भूत्वा निजसौधे चातुर्मास्यं चकार ह ।
कुंकुमवापिकाक्षेत्रे निजजन्मजयन्तिका ॥५८॥
पञ्चविंशाऽष्टमी कृष्णा कार्तिकस्याऽस्य चागता ।
तत्र स्वर्णोत्सवं चक्रे पिता गोपालकृष्णकः ॥५९॥
सौवर्णं मण्डपं चक्रे ह्यपूर्वं बहुशोभनम् ।
सर्वशो मणिरत्नाद्यैर्नद्धं धामाऽक्षरं यथा ॥६०॥
दिव्ये गजासने कृष्णः कृतस्नानो विभूषितः ।
आगत्य निषसादाऽथ लोमशस्तमपूजयन् ॥६१॥
प्रातर्वाद्यान्यवाद्यन्त गीतिका मङ्गलानि च ।
मुक्तावतारदेवानामीश्वराणां च देहिनाम् ॥६२॥
अभवन् सर्वतो बद्रि सर्वलोकनिवासिनाम् ।
वेदघोषाश्च परितो मुनीनामभवँस्तदा ॥६३॥
प्रातर्होमा महर्षीणां ह्यजायन्ताऽक्षरस्थले ।
अथ पूजा हरेस्तत्र प्रावर्तत क्रमादनु ॥६४॥
अवताराश्च मुक्ताश्चेश्वराश्चाथ महर्षयः ।
पितरश्च सुरा दैत्या दानवा राक्षसास्तथा ॥६५॥
मानवा नागसर्पाश्च यक्षा सिद्धाश्च चारणाः ।
सूताश्च मागधाः किंपुमांसश्च किन्नरास्ततः ॥६६॥
बन्दिनो वेदविप्राश्च राजानो वैश्यदेहिनः ।
दासाश्च दासिकाश्चापि तीर्थानि देवतास्तथा ॥६७॥
अप्सरसो गणाश्चापि पार्षदा गणिकास्तथा ।
पुपूजुः परमात्मानं ददुस्ते चोपदाः शुभाः ॥६८॥
तिलकं कुंकुमेनापि तथाऽक्षतैश्च चन्दनैः ।
चक्रुश्चिरं जीव चेत्याशीर्वादं प्रददुस्ततः ॥६९॥
आरार्त्रिकं प्रचक्रुश्च ददुर्दानानि वै तदा ।
योषितः सर्वसृष्टीनां तदा चक्रुः प्रपूजनम् ॥७०॥
पिता तदानीं रत्नानां मणीनां च प्रदानकम् ।
धेनुदानानि धातूनां दानानि कानकान्यपि ॥७१॥
पात्रभूषाम्बरादीनां कोट्यर्बुदादिसंख्यया ।
प्रददौ लोमशश्चापि ददावाशिष उत्तमाः ॥७२॥
पूजान्ते भोजयामासुर्लक्ष्म्यो ब्रह्मप्रियादिकाः ।
महीमानान् समस्ताँश्च विदायं च ततो ददुः ॥७३॥
यद्यत् समागतं प्राप्तं सर्वलोकेषु सर्वथा ।
भ्रमणे ह्युपदारूपं स्वर्णरूप्यादिकं बहु ॥७४॥
हीरकाश्च मणयश्च रत्नानि विविधान्यपि ।
मौक्तिकानि विचित्राणि पात्राणि चाम्बराणि च ॥७५॥
पिता दाने ददौ सर्वं विप्रेभ्यो दीनवत्सलः ।
दीनेभ्यो भिक्षुकेभ्यश्च साध्वीभ्यः सद्भ्य इत्यपि ॥७६॥
योषिद्भ्यो मानवेभ्यश्चाऽनाथेभ्यः सर्वथा तदा ।
अथ सर्वेभ्य एवाऽन्नं मिष्टान्नं प्रददौ ततः ॥७७॥
विदायं प्रददौ चापि परिहारोऽभवत्ततः ।
ययुः सर्वे समापृच्छ्य कृष्णं निजालयान् सुराः ॥७८॥
ब्रह्माण्डदेहिनः सर्वे ययुर्नैजान् प्रलोककान् ।
ईश्वराश्च विराडाद्याः प्रार्थयामासुरच्युतम् ॥७९॥
निजलोकान् समागन्तुं हरिः प्राह तथाऽस्त्विति ।
एकादश्यामूर्जकृष्णे हरिः सज्जो बभूव ह ॥८०॥
सर्वसार्थसुयुक्तस्तैरीश्वरैः सह केशवः ।
बद्रिके दिव्यमहता विमानेन द्विरूपधृक् ॥८१॥
पूर्ववद् भगवान् भूत्वा प्रतस्थे चाम्बरे द्रुतम् ।
जयनादैः सुखशब्दैः प्रतस्थे परमेश्वरः ॥८२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने जम्बुप्लक्षादिसप्तद्वीपेश्वराणां राज्येषु भगवतो भ्रमणं कुंकुमवाप्यां च पञ्चविंशतितमस्वजन्मजयन्त्युत्सवकरणं चेत्यादिनिरूपणनामाऽष्टनवतितमोध्यायः ॥९८॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP