संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २२ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २२ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि ततः सा बालयोगिनी ।क्रियायोगं समग्रं वै हरौ चक्रेऽतितन्मयी ॥१॥चतुरङ्गं महायोगं योजयामास माधवे ।व्यापारान् कर्मरूपान् सा निदधे श्रीधवे धवे ॥२॥तद्यथा निजदेहं श्रीकृष्णशय्यावशं व्यधात् ।हस्तौ निजौ हरेः कण्ठाश्लेषणे समयोजयत् ॥३॥पादौ कृष्णाभिगमने कृष्णप्रदक्षिणादिषु ।कृष्णार्थे सा व्यधाज्जिह्वां श्रीकृष्णकीर्तने व्यधात् ॥४॥कटिदानं च कृष्णार्थं कृष्णांके स्वासनं व्यधात् ।रतिं प्रीतिं परासक्तिं कामनां हरयेऽकरोत् ॥५॥हावान् भावान् प्रमोदाँश्च चेष्टाश्च हरये व्यधात् ।संकेतान् मौनिनिर्देशान् क्रियार्थान् हरयेऽकरोत् ॥६॥भोजनं शयनं पानं विहारं हरये व्यधात् ।शृंगारं शोभनं रूपं दिव्यतां हरयेऽकरोत् ॥७॥कञ्जलं रञ्जनं सम्मार्जनं केशप्रसाधनम् ।वेषं भूषाः सुगन्धं च रचनां हरये व्यधात् ॥८॥मालां हारं मणिं रत्नं तैलं स्नानं सुचन्दनम् ।केसरं कुंकुमं चन्द्रं पत्रिकां हरये व्यधात् ॥९॥अलक्तकं केशवेषं धम्मिलं कबरीं लताम् ।तिलं तिलकं तिलकीं चन्द्रिकां हरये व्यधात् ॥१०॥हास्यं नृत्यं च गमनं लीलां रमणं खेलनम् ।अंगस्वास्थ्यं सुशुद्धिं च नारायणाय सा व्यधात् ॥११॥उद्गारं प्राणनं निषदनं देहांगभंजनम् ।अंगुलिस्फोटनं तालीवादनं हरये व्यधात् ॥१२॥गीतिं मिष्टस्वरं तालं वादनं चांगखर्जनम् ।सन्धिवलयनं वार्यानयनं शाकरन्धनम् ॥१३॥आस्तरणं तापशीतसहनं हरये व्यधात् ।एवं सखीवयस्याभिर्बाल्यक्रीडनकादिकम् ॥१४॥काष्ठसमित्फलपुष्पपत्राहरणमित्यपि ।अनादिश्रीकृष्णनारायणकान्तार्थमानयत् ॥१५॥सर्वाः कलाः श्रीहरयेऽकरोन्नात्मार्थमीश्वरी ।एवं व्यापारयोगांगं श्रीकृष्णार्थं व्यधात् सदा ॥१६॥अथ द्वितीयं योगांगमालोचनं हरौ व्यधात् ।आलोचनानि ज्ञानानि सर्वाणि हरये व्यधात् ॥१७॥दर्शनानि समस्तानि यावन्ति श्रवणानि च ।स्पार्शनानि समस्तानि यावन्ति रासनानि च ॥१८॥घ्राणजानि समस्तानि जाग्रत्स्वप्नकृतानि च ।मूर्छासुषुप्तितुर्यादिप्रोद्भवानि व्यधाद्धरौ ॥१९॥प्रत्यक्षादीनि सर्वाणि प्रत्यभिज्ञानकान्यपि ।धार्याकाराणि सर्वाणि यावन्ति स्फुरणानि च ॥२०॥अनुमानानुमित्यादीन्यपि सा हरये व्यधात् ।उपमानं चोपमितिं सादृश्यं शाब्दमित्यपि ॥२१॥आकांक्षावशसंसर्गज्ञानानि हरये व्यधात् ।अर्थापादनमेवाऽपि तर्कं सिद्धिं च निर्णयम् ॥२२॥अनुपलम्भमेवापि संभावनां कुतूहलम् ।मानसं चिन्तनं प्रबोधनं तथाऽभिमाननम् ॥२३॥गुणानां गणनां चापि भावनां शुभवासिनीम् ।स्नेहं सुखं प्रमोदं च वाञ्च्छां यत्नं वृषं श्रुतिम् ॥२४॥वेगं चोपासनां भक्तिं सेवां ध्यानं दयां कृतिम् ।ग्रहणं स्मरणं हर्षं विह्वलतां प्रसञ्जनम् ॥२५॥एवमालोचनान्यंस्या हर्यर्थ वै सदाऽभवन् ।अथ तृतीयं योगांगं जीवार्पणं व्यधाद्धरौ ॥२६॥आत्मा यश्चेतनो देहे प्राणयोगेन जीवति ।जीवनं भोगसम्पत्तिर्भोगार्पणं व्यधाद्धरौ ॥२७॥सुखमोदानुचैतन्यं प्रकाशश्चात्मरूपकः ।प्रकाशस्याऽर्पणं कृष्णे व्यधाद्वै बालयोगिनी ॥२८॥सच्चिदानन्दरूपो यो नित्यानन्दप्रपूरितः ।सच्चिदानन्दतां कृष्णे प्रार्पयत्सा तु बालिका ॥२९॥आत्मनिवेदितां कृष्णकान्ते व्यधात्तु योगिनी ।सद्भावं सत्स्वरूपे वै चिद्भावं चित्सनातने ॥३०॥आनन्दं शाश्वतानन्दे चात्मानं परमात्मनि ।ब्रह्मतां पूर्णतां चापि ज्ञातृता चेन्द्रतां निजाम् ॥३१॥शास्तृत्व राजतां चापि कृष्णे बाला समार्पयत् ।अथ तुर्यं परब्रह्मरसभोगात्मकं सुखम् ॥२२॥योगांगं कृष्णनिर्वाणं कृष्णानन्दरसाप्लवम् ।परब्रह्मरसाऽऽभोगं कृष्णतादात्म्यसंभवम् ॥३३॥अखण्डाऽसीमसंभोगाऽऽनन्दास्वादसुखोत्तमम् ।स्वादैकतानतामूर्छातदात्मकसमाधिताम् ॥३४॥द्रवीभावं तददृश्यात्मकत्वं रसदिव्यताम् ।लावण्याऽमृतमाधुर्यपीयूषपानतृप्तिजाम् ॥३५॥सुधाशीतलशान्तिं सा प्रार्पयत् परमात्मनि ।एवं सा बदरीदेवि कन्यका बालयोगिनी ॥३६॥योगांगानि तु चत्वारि समार्पयत् परात्मनि ।माता सुरेश्वरी वीक्ष्य विस्मयं याति नित्यदा ॥३७॥नाऽस्याः कृष्णं विना तत्त्वं पार्थक्यं भजते क्वचित् ।कृष्णः कार्ष्णी तथा कार्ष्णी कृष्णः सा बालयोगिनी ॥३८॥वाचकेऽपि न वै भेदो लिङ्गभेदोऽप्यलीयत ।मात्रा क्वचिद् दृश्यते सा कृष्णनारायणात्मिका ॥३९॥कृष्णनारायणो भूत्वा दृश्यते बालयोगिनी ।कृष्णनारायणी लक्ष्मीर्बदरीतिमुहुर्मुहुः ॥४०॥व्यापारालोचनजीवब्रह्मरससमर्पणम् ।चतुरंगमहायोगं योगीश्वरे ह्यवाप सा ॥४१॥अथैवं वीक्ष्य तां कन्यां नारायणपरायणाम् ।सुरेश्वरी सुतां प्राह पुत्रि संस्कारमन्तरा ॥४२॥देहो ह्यशुद्धो भवति तस्माद् विवाह इष्यते ।विवाहेन सदा शुद्धिः कन्यकानां प्रजायते ॥४३॥दीर्घिकायाः कुमार्यास्तु स्वर्गे त्विन्द्रसभास्थले ।सभायां वर्तमानाया यदा सभाविसर्जनम् ॥४४॥भवत्येव ततः पश्चात् तस्या असनमुत्तमम् ।इन्द्रो मत्वा ह्यशुद्धं वै कारयत्येव शोधनम् ॥४५॥जलेन प्रोक्षणं कृत्वा शुद्धिं करोति देवराट् ।तद् विज्ञाय ततः पृष्ठो दीर्घिकया सुरेश्वरः ॥४६॥कथं मदासने चेन्द्र प्रोक्षणं क्रियतेऽन्वहम् ।प्रत्युत्तरं जगादेन्द्रो भवती युवती ह्यसि ॥४७॥अविवाहितकन्याऽसि ह्यशुद्धाऽसि ततो न्वहम् ।अशुद्धमासनं तेऽत्र शोधयामि तु सिञ्चनैः ॥४८॥यद्वा विवाहिता भूत्वा भव शुद्धिमती सुते ।मानव्यसि रजोव्याप्ता पतिशून्या ह्यशुद्धिगा ॥४९॥पतिं प्राप्य विवाहेन शुद्धा त्वं संभविष्यसि ।विवाहाख्यस्तु संस्कारः पतिना च समागमः ॥५०॥कन्यानां देहशुद्ध्यर्थं ब्रह्मणा तु विनिर्मितः ।तद् याहि कृतशुद्धिस्त्वं भव शुद्धासना सुते ॥५१॥इत्युक्ता सा महेन्द्रेण कृत्वा विवाहमात्मनः ।ऋषिणा स्वेष्टयोग्येन ततः शुद्धासनाऽभवत् ॥५२॥तत् त्वं कन्ये बालिके त्वं वरं कृष्णं पतिं प्रभुम् ।विधिना तु विवाहेन समासादय मद्गृहे ॥५३॥वह्निविप्रजनसाक्ष्ये शुद्धाऽपि शुद्धिमेष्यसि ।मातुर्मे वचनं मत्वा विवाहोत्सवमाप्नुहि ॥५४॥इत्युक्ता सा मातृभक्ता सर्वधर्मार्थवेदिनी ।ओमित्याह प्रसू तत्र माता मोदमवाप ह ॥५५॥दध्यौ सा कन्यका कृष्णनारायणं वरं हरिम् ।कुंकुमवापिकावासं पार्वीबद्रीप्रियम्पतिम् ॥५६॥गोपालबालकं श्रीमत्कंभरातनुजं प्रभुम् ।नरनारायणरूपं स्वेष्टस्वामिपुमुत्तमम् ॥५७॥मातुर्मानससिद्ध्यर्थं नितरां मग्नमानसा ।सततं श्रीकृष्णनारायणं दध्यौ समाधिषु ॥५८॥दिवारात्रं स्थिता ध्याने तावत् तैजसविग्रहः ।पुष्टयुवाऽनादिकृष्णनारायणो हसन् हरिः ॥५९॥श्रीकृष्णोवल्लभःस्वामी सर्वशृंगारभूषणः ।रूपरूपानुरूपाढ्यमूर्तिः कन्यामनोहरः ॥६०॥स्वर्णभासुरशोभांगः स्वयमेक उपागतः ।उवाच तां निजपत्नीं वद किं कांक्षसि प्रिये ॥६१॥या ते वाञ्च्छा करिष्ये तां पूर्णां ब्रूहि मनोगतम् ।अथ शीघ्रं समुत्थाय हृष्टा सा बालयोगिनी ॥६२॥पपात पादयोः प्राह गृहाण विधिना तु माम् ।वरमालाभूषितश्च वह्रिमण्डपसत्कृतः ॥६३॥विवाहनं देवतानां सन्निधौ मे कुरु प्रभो ।मातुर्मे वचनं तथ्यं कुरु नारायण प्रभो ॥६४॥श्रुत्वा बालोदितं चानुग्रहमूर्तिः स्वयं हरिः ।अस्त्वेवं चेति जग्राह विवाहार्थं समुत्सुकः ॥६५॥अथ बाला ददौ तस्मै मधुपर्कं प्रपूजनम् ।जग्राह स ततो बाला निन्ये तं निजमातरम् ॥६६॥प्राह तां मातरं कन्या मातः कृष्णनरायणः ।आयातः कृपया चात्र तवेच्छयाऽर्थिमानकृत् ॥६७॥कृतार्थं कुरु चात्मानं मातः प्रपूज्य केशवम् ।मानवेन स्वरूपेण कृपया त्वामुपस्थितम् ॥६८॥माता ससंभ्रमा तस्य चक्रे स्वागतमासनम् ।अनर्घ्यं प्रददावर्घ्यं ददौ चक्रे प्रपूजनम् ॥६९॥निकामदेवं सहसा जगादाऽऽगतमच्युतम् ।सोऽपि वीक्ष्य हरिं पुत्रीप्राणेशं परमेश्वरम् ॥७०॥सुप्रहृष्टः परं चक्रं सन्मानं पारमेश्वरम् ।ननर्त स क्षणं दृष्ट्वा कन्याप्राणपतिं पतिम् ॥७१॥सर्वपतिं कृपापारावारं मानवविग्रहम् ।गृहातिथिं सौम्यवेषं सर्वाभरणभूषितम् ॥७२॥अथ माता समियेष द्रष्टुं रूपं चतुर्भुजम् ।दिव्यं श्रीस्वामिनं कृष्णं नारायणं परेश्वरम् ॥७३॥विज्ञाय सहसा श्रीमद्बालकृष्णो हृदि स्थितम् ।चतुर्भुजोऽभवत्तूर्णं शंखचक्रगदाधरः ॥७४॥राधालक्ष्मीपूजितश्च पार्षदादिकृतार्हणः ।दर्शयित्वा दिव्यरूपं पुनः स मानवोऽभवत् ॥७५॥अर्चितो वन्दितः कृष्णो भोजितः सेवितस्ततः ।तिलकेन सुचन्द्रेण पुष्पहारैः प्रशोभितः ॥७६॥वाग्दानेन च कन्यायाः प्रहर्षितो विधानतः ।विवाहविधिना कन्यां परिणेतुं ततोऽर्थितः ॥७७॥प्रस्थापितश्च बहुधा शीघ्रागमाय चार्थितः ।वर्धितश्चाशिषा तूर्णं तिरोऽभवत् तदाऽम्बरे ॥७८॥अथ सर्वे प्रतीक्षन्ते पुनर्नारायणागमम् ।बालयोगिनीरूपायाः श्रिया विवाहसूत्सवम् ॥७९॥तावन्नारायणकृष्णः प्रेषयामास भूसुरम् ।नाम्ना योगीश्वरदेवं वृत्तान्तकथनाय वै ॥८०॥विप्रः शीघ्रं समागत्य निकामदेवमन्दिरम् ।कृष्णोदितं तु वृत्तान्तं निकामदेवनामिने ॥८१॥कथयामास सर्वस्वं विवाहस्य क्षणोत्तमम् ।आषाढधवले पक्षे चतुर्थ्यां प्रातरेव ह ॥८२॥आगमिष्ये हि लग्नोक्तविवाहार्थं कुटुम्बयुक् ।इत्युक्त्वा प्रययौ विप्रस्तिरोभूय निजालयम् ॥८३॥सुरेश्वरी च तत्पुत्री निकामदेवभूसुरः ।प्रसन्नाश्चाऽभवँस्तत्र कन्याविवाहमोदिनः ॥८४॥अथ निकामदेवश्च लग्नपत्रं विलिख्य वै ।प्रेषयामास शीघ्रं तद् विप्रद्वारा तु माधवम् ॥८५॥कुंकुमवापिकाक्षेत्रं गत्वा विप्रो हरीश्वरः ।अर्पयामास लग्नस्य पत्रं मंगलबोधकम् ॥८६॥जग्राह भगवान् कृष्णनारायणो मुदा तु तत् ।विप्रं पुपूज पुष्पाद्यैर्धनं रत्नानि सम्पदः ॥८७॥विप्राय प्रददौ श्रीमद्गोपालकृष्ण आदरात् ।माता श्रीकंभरालक्ष्मीर्मंगलानि ह्यगापयत् ॥८८॥ददौ दानानि बहूनि रोपयामास मण्डपम् ।कुटुम्बिभ्यः पत्रिकाश्च तद्बोधिका ह्यवासृजत् ॥८९॥लोमशेन समं कृष्णनारायणो हरिः प्रभुः ।अश्वपट्टसरस्तीर्थे स्नात्वा निजालये स्थितः ॥९०॥पिष्टिकामर्दनं चक्रुर्नार्यस्तस्य हरिप्रियाः ।स्नपयामासुरत्यर्थं चन्दनाद्यैः सुमर्दितैः ॥९१॥आषाढशुक्लतृतीयानिशाया परमेश्वरः ।विभूषितो युवा पुष्टो राजाधिराजचिह्नितः ॥९२॥मातापितृकृतसर्वमंगलः सुमहर्षिभिः ।आशीर्भिर्वर्धितः सर्वकुटुम्बिभिः प्रमोदितः ॥९३॥तीर्थदेवैश्च मुक्तैश्च ब्रह्मप्रियादिभिर्युतः ।सौराष्ट्रभक्तवर्गैश्च दिव्याश्वगजवाहनैः ॥९४॥पारेसाहस्रनारीभिः समन्वितः शुभे क्षणे ।सर्वैर्दिव्यसुशोभाढ्यैर्युतश्च साधुभिर्वरैः ॥९५॥कुंकुमवापिकासर्वप्रजाभिः सहितो ययौ ।प्रतस्थिरे कृताज्ञाश्च वरवाहिनिकायुजः ॥९६॥बहूत्साहभवा नार्यो नराः सौभाग्यशालिनः ।प्रातरेव ब्राह्मकाले प्रापुर्वरसमन्विताः ॥९७॥धूनीग्रामं महोद्यानाभिव्याप्तं बहुशोभितम् ।करुणावारिगातीरे महोद्याने निवासनम् ॥९८॥विश्रान्तिं लेभिरे तत्र तावन्निकामदेवकः ।कुटुम्बसहितो नारीगीतमंगलशोभितः ॥९९॥विप्रादिसहितः पूजां कर्तुं तूर्णमुपाययौ ।अनादिश्रीबालकृष्णं वरं कन्यार्थमागतम् ॥१००॥सर्वैश्वर्यपरिपूर्णं वीक्ष्य हर्षं जगाम ह ।दिव्यो वरो वरवृद्धा दिव्याः कुटुम्बिनस्तथा ॥१०१॥दिव्याश्च वरवाहिन्यागता नार्यो नरास्तदा ।दिव्या वाहाश्च यानानि दिव्योपकरणान्यपि ॥१०२॥दिव्या देवा देवताश्च देव्यो ब्रह्मप्रियास्तथा ।हरिप्रियाः प्रजाश्चापि दिव्यतैजसविग्रहाः ॥१०३॥सर्वं दिव्यं विलोक्यैव महाश्चर्यं ययौ मुधा ।चिन्तयामास सर्वेषां दशसाहस्रदेहिनाम् ॥१०४॥सत्कारार्थं मिष्टमन्नं मिष्टं जलं च मन्दिरम् ।शय्यासनानि सर्वाणि भवनान्युत्तमानि च ॥१०५॥भोज्यपात्राण्यनन्तानि द्रव्याऽन्नरसशर्कराः ।पूजां चक्रे महाधैर्यः स्मरन्नारायणप्रभुम् ॥१०६॥पुत्रीपतिं सर्वसिद्धिसेवितं चागतं हरिम् ।चिन्तामणिं प्रभुं स्पृष्ट्वा चिन्तयामास वैभवान् ॥१०७॥नारायणार्थपर्याप्तान् विवाहोत्सवशोभनान् ।सर्वार्थान् कल्पयामास पूजयन् स्वसुतापतिम् ॥१०८॥जामातारं प्रभुं प्राप्य भयं दारिद्र्यसंभवम् ।नाऽभूत्तस्य तदा तत्र पुत्र्याः प्रतापतोऽपि च ॥१०९॥महाराजाधिराजानां चिन्तयामास सम्पदः ।तावत्तत्र वनोद्देशे महोद्यानानि सर्वतः ॥११०॥फलपुष्पसुगन्धाढ्यजलाब्जपूरितानि वै ।अभवन् तत्र सौवर्णसौधानि परितस्तदा ॥१११॥दासा दास्योऽयुतान्यपि देवा देव्योऽभवन् द्रुतम् ।निकामदेवपक्षस्य कार्यनिर्वर्तकास्तदा ॥११२॥पाकशाला अश्वशाला राजशालाश्च वै शुभाः ।नारीशाला मण्डपश्च सौवर्णनिर्मितास्तदा ॥११३॥महानसानि भोज्यानि रसाश्च मधुशर्करा ।मिष्टान्नानि समस्तानि शाकानि द्रववन्ति च ॥११४॥गन्धसाराणि सर्वाणि दुग्धसाराणि यानि च ।भक्ष्याणि लेह्यचोश्यानि प्रत्यक्षाणि तदाऽभवन् ॥११५॥शय्यासनानि पर्यंका समस्तभोग्यकान्यपि ।न न्यूनं विद्यते तत्र कल्पवल्ल्यो गृहे गृहे ॥११६॥यथा स्वर्गं च वैकुण्ठं धूनीग्रामस्तथाऽभवत् ।नार्यो नराश्च पशवो गृहाणि मृत्तिकास्थलम् ॥११७॥सर्वं स्वर्गसमं तत्र जातं कृष्णकृपावशात् ।पूजयित्वा वरं वृद्धान् सत्कृत्वा च प्रजास्तथा ॥११८॥निकामदेवो वीक्ष्याऽपि वैकुण्ठाभं निजस्थलम् ।मुमुदे कृष्णजं सर्वं दिव्यं मत्वा तु वैभवम् ॥११९॥आवासान् कारयामास ददौ दासीश्च किंकरान् ।वादयामास वाद्यानि वेदघोषान् व्यधापयत् ॥१२०॥गापयामास सर्वत्र मंगलानि तदा द्रुतम् ।प्रेषयामास भोग्यानि रसान्नसलिलान्यपि ॥१२१॥अपेक्षितातिवस्तूनि दिव्यमनोहराणि च ।सेवयामास भावैश्च महीमानानशेषतः ॥१२२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिन्याश्चतुर्विधमहायोगवर्णनं मातृवचनेन विवाहविध्यर्थम् अनादिश्रीकृष्णनारायणस्य ध्यानोत्तरमागमनं तिरोभावश्च, विवाहार्थंवाहिन्या सह धूनीग्राममागमनम्, दिव्यवैकुण्ठवत् सम्पत्करणं महीमानसत्कारादि चेतिनिरूपणनामा द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP