संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १७ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि पुनः सा बालयोगिनी ।सुरेश्वरी मातरं यज्जगाद कथयामि ते ॥१॥सौराष्ट्रे महुवासाख्ये पत्तनेऽब्धितटे शुभे ।बहुरूपोऽभवच्छूद्रो नैकवेषाभिधारकः ॥२॥रूपे त्विन्द्रसमो देहे युवा षोडशवत्सरः ।नारीमुखः सुजटिलः केशवेषाभिसुन्दरः ॥३॥कर्णनासाविभूषादिधारकः समयो क्वचित् ।क्वचिद् राजा क्वचिद् राज्ञी क्वचित् सेनापतिस्तथा ॥४॥क्वचिच्छ्रेष्ठी क्वचिच्चौरः क्वचित् कन्या कुमारकः ।क्वचिद् वधूः क्वचिद् देवी देवः क्वचिन्नटः क्वचित् ॥५॥क्वचिद् विप्रः क्वचिद् योद्धा दरिद्रो भिक्षुकः क्वचित् ।क्वचिद् वनेचरो नौकावाहः क्वचित्तु कर्षुकः ॥६॥क्वचित् प्रेतो वानरश्च क्वचिद् भल्लुकरूपधृक् ।क्वचित् पुत्रवती भार्या क्वचिद् वाजिनियामकः ॥७॥क्वचित् साधुर्यतिः स्वामी ब्रह्मचारी च तापसः ।क्वचिन्नर्मकरः सर्वशृंगाराढ्यः क्वचित् खलः ॥८॥एवंविधः स भवति वेषरूपाढ्यचेष्टितैः ।बाहुलकइतिनाम्ना तं वदन्ति प्रजाजनाः ॥९॥नृत्ये वेषे गायने तं कुशलं वाद्यवादने ।आहूय चोत्सवान् लोकाः कुर्वन्ति जनरञ्जनान् ॥१०॥पूर्वभाग्यवशात् तस्य पत्नी तत्सदृशी ततः ।विवाहिताऽभवत् कन्या नाम्ना लीलावती शुभा ॥११॥गान्धर्वीव कलाभिज्ञा सर्ववेषाभिधारिणी ।चतुरा नरवत् प्राज्ञा नरवेषेषु कोविदा ॥१२॥पूर्वं सम्यक् कृतोऽभ्यासो जन्मान्तरे फलत्यपि ।धर्मो धनार्पणं सेवा भक्तिः फलन्ति कालतः ॥१३॥नाऽकृतं प्राप्यते किञ्चिद्धर्यनुग्रहमन्तरा ।पूर्वदत्ता शुभा विद्या नारी सम्पत् सुखानि च ॥१४॥जन्मान्तरेऽभिलभ्यन्ते गुणा यशो धनानि च ।तथैव कृतपापानां चोपतिष्ठन्ति चाऽऽधयः ॥१५॥सुकृतीनां सूत्सवास्तु प्रवर्धन्ते दिने दिने ।भार्या नैवाऽल्पपुण्येन लभ्यते निजसक्रिया ॥१६॥गुणे रूपे स्वभावे च विचारे हृदये समा ।चातुर्ये च विवेके च बहुपुण्येन लभ्यते ॥१७॥पतिश्चापि तथा पत्न्या स्वानुकूलस्वभाववान् ।नाऽल्पपुण्येन लभ्येत लभ्यते तपसा तु वै ॥१८॥हानौ दुःखे तथोद्वेगे कैंकर्ये निर्धनस्थितौ ।रोगे विपदि पीडायां समचित्तौ हि दुर्लभौ ॥१९॥हान्यादौ समचित्तौ चेत् स्वर्गे तयोः करस्थितम् ।लाभादौ तु भवेतां वै समचित्तौ गृहेगृहे ॥२०॥लाभहान्योः समचित्ताः साधवो योगिनोऽमलाः ।नारायणोऽतिबुद्धाश्च पुण्या वा गृहधर्मिणः ॥२१॥एवमेतौ युयुजाते किन्न्वेकस्य कृतिद्वयम् ।एवंविधौ तौ सुखिनौ नाट्यादिव्यवसायिनौ ॥२२॥नाट्यप्रसंगे चोपार्ज्य धनाऽन्नाम्बरवस्तुभिः ।सम्यङ्निर्वहतो यात्रां प्राणादेर्लोकदुस्तराम् ॥२३॥प्रयातस्तीर्थयात्रायां सोमनाथं च रैवतम् ।द्वारावतीं चमत्कारपुरं कुंकुमवापिकाम् ॥२४॥तत्राऽक्षरे शुभे क्षेत्रे चाऽश्वपट्टसरोवरे ।स्नात्वा श्रीलोमशं गत्वा नेमतुः सद्गुरुमृषीन् ॥२५॥जगृहतुर्महामन्त्रं मायापाशविनाशकम् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥२६॥वैष्णवौ परमौ जातौ भक्तौ यथा कृतश्रमौ ।उषतुर्बहुकालं च भेजतुर्बालकृष्णकम् ॥२७॥गोपालबालकं दिव्यं प्रभुं कृष्णनरायणम् ।नित्यमानर्चतुः प्रीत्या भेजतुः माधवीपतिम् ॥२८॥चक्रतुश्च सदा तत्र सत्संगं ज्ञानमापतुः ।दिव्यतां प्रापतुश्चोभौ वर्तेते दास्यशोभितौ ॥२९॥लक्ष्मीनारायणसंहितायाः कथां मुहुर्मुहुः ।शुश्रुवतुश्च तत्रत्याऽवतारचरितानि च ॥३०॥प्रदध्यतुः सुराणां सन्नृपाणां चरितान्यपि ।मुक्तानां योषितां चापि भक्तानां चरितान्यपि ॥३१॥श्रुत्वा हृदये संक्लृप्य चाश्वपट्टसरस्तटे ।यथाश्रुतानि सर्वाणि वेषचेष्टाक्रियादिभिः ॥३२॥ताववतारयामासतुर्दर्शयामासतुर्मुहुः ।रात्रौ चान्द्र्यां हि कौमुद्यां जनेभ्योऽतिमुदाऽन्वितौ ॥३३॥जनास्तु लक्षशो दृष्ट्वा भवन्ति चकिता ह्यति ।नटीं नटं प्रशंसन्ति बहुरूपाभियोगिनौ ॥३४॥देवतुल्याविमौ स्तश्च नारायणांशकाविव ।पुरावृत्तं तदाकारं यच्चोपस्थापयन्ति वै ॥३५॥मानार्हौ कुंकुमवापीक्षेत्रे जातौ सुरूपिणौ ।एवंविधयोः सम्प्राप्तः समयो भाग्यवर्धनः ॥३६॥अनादिश्रीकृष्णनारायणजन्मदिनोत्सवः ।सप्तदशस्तत्र देवा मुक्ताः सन्तः समाययुः ॥३७॥ईश्वरा मानवाद्याश्च सूतमागधबन्दिनः ।महर्षितीर्थविप्राश्च कलाविदः समाययुः ॥३८॥रमाद्याः शक्तयश्चापि प्रजा लोकाः समाययुः ।अनादिश्रीकृष्णनारायणस्य परमात्मनः ॥३९॥सम्बन्धिनो भुवनानां वासिनश्च समाययुः ।कृष्णनारायणजन्मतिथ्यूर्जकृष्णकाष्टमीम् ॥४०॥अभिलक्ष्य निशायामाययुः स्थावरजङ्गमाः ।अष्टम्यां प्रातरेवाऽयं स्नात्वा श्रीकृष्णमाधवः ॥४१॥कृतमंगलपूजादिः कृतकौतुकशोभनः ।कोट्यर्बुदाब्जपत्नीभिः कृतार्चनसुवन्दनः ॥४२॥मात्रा पित्रा वृद्धजनैः श्वश्रूभिः श्वशुरादिभिः ।कृताशीर्वादसद्भाग्यः कृतवेषाभिसुन्दरः ॥४३॥सभायां तु विशालायां चाऽश्वपट्टसरस्तटे ।सर्वसृष्टिजनाढ्यायां युक्तायां लोमशादिभिः ॥४४॥गजासने जयकारान् शृण्वन् कृष्णसद्यशः ।निषसाद समागत्य तदाऽवाद्यन्त सर्वशः ॥४५॥वाद्यानि सर्वलोकानां गीतयश्चाऽभवन् शुभाः ।वेदघोषा महर्षीणामभवन् कर्णपावनाः ॥४६॥स्नेहभराणि सर्वेषां विलोकनानि चाऽभवन् ।हर्षाः प्रमोदा आनन्दा मूर्तिमन्तस्तदाऽभवन् ॥४७॥पुपूजुः परमात्मानं लोमशः ऋषयः सुराः ।द्विजा नृपाश्च पितरः सिद्धो ईश्वरकोटयः ॥४८॥अप्सरसश्च देव्यश्च मानव्यो मानवादयः ।पातालादिनिवासाश्च तीर्थानि जडचेतनाः ॥४९॥समस्तसिद्धयो वृद्धा नार्यो देव्यो रमादिकाः ।साध्व्यश्च साधवश्चापि पुपूजुः परमेश्वरम् ॥५०॥तिलकं चन्दनाद्यैश्चाऽक्षतकुंकुममंगलैः ।चन्द्रकं ते प्रचक्रुश्च पुष्पहारान् न्यधुर्गले ॥५१॥गन्धसारान् शब्दसारान् मन्त्रसारान् शुभाशिषः ।प्रददुश्चोपदाश्चापि हृदयानि विशेषतः ॥५२॥मुकुटं कुण्डले हारान् कटकानि च शृंखलाः ।ऊर्मिकाश्च मणीन् रत्नस्वर्णभूषाश्च ते ददुः ॥५३॥यशोगानान्यभवँश्च नर्तनान्यभवँस्तथा ।ताम्बूलदानपानादि मिष्टान्नमंगलानि च ॥५४॥हस्तधूननमेवाऽपि तदाऽभवन् समाजके ।महीमानाऽभियोगाश्च सभायां चाऽभवँस्तदा ॥५५॥आरार्त्रिकं कृष्णनारायणस्यर्षिगणा व्यधुः ।मुक्ताद्याः .संस्तवान् चक्रुश्चैवं महोत्सवोऽभवत् ॥५६॥अत्रोत्सवे तु सम्प्राप्याऽवसरं बहुरूपधृक् ।बाहुलकश्च तत्पत्नी कृतवेषौ सुसुन्दरौ ॥५७॥चमत्कारकरौ सभ्यमनोहरौ सभान्तरे ।आययतुर्हसन्तौ तावुभौ स्त्रीवेषशोभनौ ॥५८॥का नारी को नरश्चेत्यविदितौ तौ सभाजनैः ।रूपातिसुन्दरौ देवैरपरीक्ष्यौ तदा क्षणे ॥५९॥समकण्ठस्वरौ हावभावांगव्यञ्जनैः समौ ।सर्वज्ञोऽपि हरिः साक्षात्तदर्थे मुग्धतां गतः ॥६०॥का कथा तु तदाऽन्येषां मायाढ्यचर्मचक्षुषान् ।एवं सभाऽपि सहसा वीक्ष्य स्त्रियौ समन्ततः ॥६१॥स्तब्धतां वै गता यद्वन्मुग्धा पुत्तलिकामयी ।गायनं ते स्त्रियौ तत्र वालकृष्णयशोमयम् ॥६२॥चक्रतुः सर्वकामानामानन्दरसपूरितम् ।प्रसन्नः श्रीकृष्णनारायणस्ताभ्यां मणीन् ददौ ॥६३॥रत्नहारानलंकारानाशिषश्च शुभा ददौ ।अथ नृत्यं चक्रतुस्ते स्त्रियौ भावादिगर्भितम् ॥६४॥अनादिश्रीकृष्णनारायणवृत्तान्तगानयुक् ।अक्षराधिपतिः साक्षात् परमेशोऽसि मानवः ॥६५॥भवान् येषां तु जिह्वासु मनस्सु च मतिष्वपि ।आत्मस्वपि नर्तकोऽस्ति तेषां मोक्षो हि शाश्वतः ॥६६॥प्रसन्नो भव भगवन् रूपं नृत्यं सुसार्थकम् ।कुरु त्वं चावयोर्नार्योः पादस्पर्शं प्रदेहि नौ ॥६७॥ओमित्याह सभामध्ये प्रसन्नः कृष्णनन्दनः ।द्रुतं नार्यौ समायातां श्रीकृष्णचरणान्तिकम् ॥६८॥कृष्णचरणधूलीं ते चोहतुर्मस्तके तथा ।उरस्युदरे देहे च ततः पादौ हरेः पुनः ॥६९॥स्पर्शयामासतुर्वक्षोजयोः प्रसन्नमानसे ।पश्यतां सभ्यलोकानां तावच्छाटीविहीनकौ ॥७०॥पुंवेषसहितौ तूर्णं युवानौ संबभूवतुः ।पुंभाषासहितौ सर्वपुमंकपरिशोभितौ ॥७१॥स्त्रीत्वं गतं प्रवीक्ष्यैव कृष्णनारायणः प्रभुः ।समाजश्चेश्वराद्याश्च महाश्चर्यं प्रपेदिरे ॥७२॥जग्मुः सभाजनास्तत्र संशयं वा नरौ स्त्रियौ ।न निर्णयं तदा कर्तुं समर्थाः केऽपि चाऽभवन् ॥७३॥मुग्धा सभा समाजश्च सर्वे निरीक्षकास्तदा ।अथेमौ किंकिणीजालैर्घुर्घुरैः पादसंक्रमान् ॥७४॥कुर्वन्तौ रंगमध्ये तौ महानृत्यं प्रचक्रतुः ।शंकरोऽपि क्षणं मुग्धोऽ।न्तरसः सुतरां तदा ॥७५॥गन्धर्वा नर्तकाश्चाऽन्ये गलद्गर्वास्तदाऽभवन् ।अथ नृत्यं विधायैव बालकृष्णमहाप्रभोः ॥७६॥संस्पृश्य चरणौ प्राप्योपदाश्च पारितोषिकम् ।मणिरत्नहीरकादि स्वर्णभूषाऽम्बरादि च ॥७७॥सभामध्ये समन्यस्य तूर्णं पुंभाववर्जितौ ।अभवतामुभौ तत्र पश्यतां सर्वदेहिनाम् ॥७८॥षण्ढवेषौ षण्ढभावौ षण्ढविलासनर्मदौ ।हस्ततालीपरौ नेत्रकोणोल्लाससमन्वितौ ॥७९॥षण्ढभाषां भाषमाणौ सभाहास्यकरावुभौ ।अथ क्षणान्ते तत्रैको नटी भूत्वा ननर्त ह ॥८०॥भूत्वाऽपरो नटस्तत्र वाद्यं श्रेष्ठमवादयत् ।पश्यतां देवतादीनां नटी चाऽदृश्यतां गता ॥८१॥नटोऽपि रंगसातत्यार्थं नटी संबभूव ह ।ननर्त यावद् रंगे सा तावन्नटी समाययौ ॥८२॥दृष्ट्वा नटीं तु नृत्यन्तीं नरोऽभवद्धि सा नटी ।एवं बहुस्वरूपाणि वीक्ष्य सभाऽतिहर्षिता ॥८३॥तयोर्द्वयोर्बहुमानशब्दान् जगाद सा सभा ।अथ पत्नीपतिरूपौ क्षणान्ते वरमालया ॥८४॥योजितौ दम्पतीरूपौ सभामध्ये बभूवतुः ।नमस्कारं हरये च सभ्येभ्यस्तौ प्रचक्रतुः ॥८५॥अपराधक्षमायाञ्चां चक्रतुर्विनयाऽन्वितौ ।तस्थतुश्च सभामध्ये यथार्थरूपमास्थितौ ॥८६॥तदेश्वराद्या देवाद्या मानवाः संशयोज्झिताः ।अभवन् ऋषयश्चापि प्रसन्नाश्चाऽभवन् ह्यति ॥८७॥अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।श्रीमद्गोपालकृष्णाद्या माता श्रीकंभरा सती ॥८८॥अन्येऽपि लोकपालाद्या महाश्चर्यपरायणाः ।उपदाः प्रददुस्ताभ्यां प्रसन्नत्वप्रयोजिताः ॥८९॥अनादिश्रीकृष्णनारायणः प्रसन्नमानसः ।वरदानं ग्रहीतुं तावुवाच तौ तदा शुभम् ॥९०॥परब्रह्मरसानन्दं वरयामासतुर्हरेः ।दिव्यानन्दमहाब्रह्मरसाऽब्धौ मग्नतां पराम् ॥९१॥अर्थयामासतुः कृष्णान्नारायणाद्धि केशवात् ।तथाऽस्त्वेवं हरिः प्राह तत आरभ्य वै तयोः ॥९२॥निर्विकल्पसमाधिश्च बभूव कृष्णमोददः ।सर्वभूतेन्द्रियादीनां वृत्तिषु स्फुरणं हरेः ॥९३॥सदा तयोरभवद्वै यथाऽक्षरस्थमुक्तयोः ।एवं हरेर्हि कृपया कलया निजयाऽपि च ॥९४॥बहुरूपभवनया हर्यर्थकृतया तदा ।परब्रह्मानन्दमहासुखमोदरसं परम् ॥९५॥अवापतुः सदा दिव्यं दिव्यदेहेन्द्रियाऽन्वितौ ।सप्तदशो जन्ममहोत्सवः सम्पूर्णतां गतः ॥९६॥भोजनानि विचित्राणि समाजानां तदाऽभवन् ।पूजाश्च परितोषाश्च महादानानि चाऽभवन् ॥९७॥एवं स्वां मातरं बालयोगिन्याह हरेः रसम् ।यौ लब्धवन्तौ तौ भक्तौ वृत्तौ च माधवं ततः ॥९८॥एवं ब्रह्मरसं प्राप्ता कृपयाऽपि सुशाश्वतम् ।बालयोगिनी संमग्ना स्मृत्वेशं विरराम ह ॥९९॥एवं ते कथितो बद्रीप्रिये ब्रह्मरसः परः ।अनुग्रहेण कृष्णस्याऽवाप्यते नाऽन्यथा क्वचित् ॥१००॥बहवः सेवया प्राप्ता ब्रह्मानन्दरसं परम् ।कृपया बहवः प्राप्ता यथा ब्रह्मप्रियास्त्विह ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां बालयोगिन्या मात्रे बहुरूपधृग्युगलस्य बाहुलकलीलावतीनामकस्य भक्तिवृत्तान्तकथनेन परब्रह्मरसाऽवाप्तिसाधनोक्तिः श्रीहरेःसप्तदशजन्मदिन्योत्सवश्चेति निरूपणनामा सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP