संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ४७

तिष्यसन्तानः - अध्यायः ४७

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां परमपावनीम् ।
सिन्धुदेशे संहितायाः कथां श्रोतुं तु नित्यशः ॥१॥
विमानेन समायाति क्षारपुरक्षितीश्वरः ।
नाम्ना क्षीरोदवीराख्यस्तथा राज्ञी रुहारणिः ॥२॥
उभौ शृणुत सदसि पूजयित्वा तु वाचकम् ।
संहितां पूजयित्वाऽपि प्रणम्यर्षीन् मुनीन् गुरून् ॥३॥
समासीनौ राजवर्गासनयोः कृष्णमानसौ ।
श्रवणेन ततो जातौ पावनौ तौ नृपीनृपौ ॥४॥
जगृहतुर्मनुं व्यासात् स्वीयप्रकाशकाद्धि तौ ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥५॥
प्रियकृष्ण बालकृष्ण कृष्णनारायणेति च ।
जेपतुर्मालिकाद्वारा नामसंकीर्तनं हरेः ॥६॥
चक्रतुस्तौ सतां सेवां कृष्णभक्तिपरायणौ ।
प्रियकृष्ण हरिकृष्ण कृष्णनारायणेति तौ ॥७॥
ऊचतुः सततं चेति प्रातः पूजां प्रचक्रतुः ।
नैवेद्यं हरये धूपं दीपं ताम्चूलकं जलम् ॥८॥
अर्पयामासतुर्ध्यानं चक्रतुः मालतीपतेः ।
महाभागवतौ त्वेवं जातौ दिव्यगुणान्वितौ ॥९॥
निर्मानौ दासवन्नित्यं वर्तमानौ सभास्थले ।
कथामूर्तिं कृष्णमूर्तिं धारयामासतुः सदा ॥१०॥
तयोः प्रजाजनाश्चापि समायान्ति कथार्थिनः ।
नरा नार्यः पवित्राश्च जायन्ते श्रवणादिभिः ॥११॥
बहवस्ते हरेर्मन्त्रं जगृहुः शरणागताः ।
कार्तिके धवले पक्षे द्वादश्यां तु कथास्थले ॥१२॥
क्षीरोदवीरो नृपतिः रुहारण्या समं तथा ।
प्रजाजनैः समं तत्र कथायां समतिष्ठत ॥१३॥
श्रत्वा कथां संहिताया आरार्त्रिकं व्यधात्तदा ।
प्रसादं श्रीहरेः प्राप्य भुक्त्वाऽऽस्वाद्यजलामृतम् ॥१४॥
सभायां तत्र लोकानां पश्यतां समुपाविशत् ।
राज्ञी चापि तदा तत्र सन्निधौ समुपाविशत् ॥१५॥
तावत्तत्र समायातं विमानं दिव्यतैजसम् ।
अनादिश्रीकृष्णनारायणाधिष्ठितमुज्ज्वलम् ॥१६॥
अवातरत् सभापार्श्वे तस्मान्नारायणप्रभुः ।
निःससार क्षितावेत्य कृत्वा तौ दिव्यविग्रहौ ॥१७॥
नृपीनृपौ विमाने तु नीत्वा श्रीपुरुषोत्तमः ।
सर्वेषां पश्यतां धामाऽक्षरं ययौ तदा प्रभुः ॥१८॥
आश्चर्यं परमं वीक्ष्य लोका मोदमुपाययुः ।
न देहौ भौतिकौ तत्र तयोः स्तश्चेति तन्महत् ॥१९॥
सामर्थ्यं वीक्ष्य नृपयोः कृपां नारायणस्य च ।
अनेनैव तु देहेन मोक्षं नयति माधवः ॥२०॥
विचार्येत्थं तु बहवो नरा नार्यः समुत्सुकाः ।
गन्तुं धामाऽक्षरं सज्जा बभूवुस्तत्र बद्रिके ॥२१॥
तत्र सहस्रशः सन्तो महर्षयः सहस्रशः ।
वृद्धाः सहस्रशश्चापि स्त्रियोऽनाथाः सहस्रशः ॥२२॥
पापा यद्वा च निष्पापाः कथाश्रवणकारिणः ।
कृष्णनारायणधामाऽक्षरं गन्तुं सुतत्पराः ॥२३॥
अभवन् द्वादशीसायं कथानीराजनोत्तरम् ।
कीर्तनान्ते हरिर्ज्ञात्वा भक्तानां वाञ्छितं शुभम् ॥२४॥
कथाश्रवणधौताघान् शरणागतिसंप्लुतान् ।
त्यक्तेषणान् भक्तिमतो नेतुं कृष्णः समाययौ ॥२५॥
लब्धमन्त्रान् समस्तान् वै नरान्नारीस्तदा हरिः ।
कृत्वा सर्वान् दिव्यदेहान् तच्छरीरामृतान् हि तान् ॥२६॥
विमाने सुविशाले वै धृत्वा धामाऽक्षरं ययौ ।
आश्चर्यं परमं बद्रि कृष्णेनैतत् तदा कृतम् ॥२७॥
अमन्त्राश्चाऽगुरवो ये ते तु नैवाऽधिकारिणः ।
अवशिष्टाश्चाऽधृताश्च स्थितास्तत्रैव ते तदा ॥२८॥
तेऽपि कथाश्रवणान्ते लोमशात् तत्र वै मनुम् ।
जगृहुः पावनाः सर्वे सज्जास्ततोऽभवन् खलु ॥२९॥
अथाऽऽययौ भगवान् श्रीपतिर्नेतुं समन्त्रकान् ।
रात्रौ विमानके धृत्वा दिव्यदेहान् प्रसज्जितान् ॥३०॥
निन्येऽनादिकृष्णनारायणो धामाऽक्षरं निजम् ।
सहस्रशो नरा नार्यो वृद्धा वा वासनोज्झिताः ॥३१॥
कृष्णनारायणमूर्तौ प्रेमस्नेहपरायणाः ।
विषवत्कृतसंसारास्त्यक्तलोकेषणास्तथा ॥३२॥
निरुद्धवृत्तयः कृष्णे प्रपत्तिं परमां गताः ।
कृपया चेच्छया विष्णोर्ययुर्धामाक्षरं हरेः ॥३३॥
अहो भाग्यं हि बलवद् बलिष्ठा च कृपा हरेः ।
कोटिकल्पतपोलभ्यं लब्धवन्तोऽक्षरं यया ॥३४॥
नर्षयो यत्पदं श्रेष्ठं यं हरिं वाऽर्जयन्त्यपि ।
तपोभिरल्पबहुलैस्तं हरिं ते प्रपेदिरे ॥३५॥
यदर्थं भूभृतः भूमिं राज्यं त्यक्त्वा तपन्त्यपि ।
तथापि नाऽऽप्नुवन्त्येनं तं प्राप्ताः कृपया प्रभोः ॥३६॥
दुर्लभः सुलभो जातो धामेशो भूतले त्विह ।
अदृश्यो दृश्यतां प्राप्तः कृपया सर्वदेहिनाम् ॥३७॥
कष्टसाध्यो हरिस्त्वद्य कृपासाध्योऽस्ति सर्वथा ।
कथमन्यथा पापानां चक्षुषोर्गोचरो हरिः ॥३८॥
जना ऊचुः-
अहो भाग्यं शुभं श्रेष्ठमस्माकं यद्धरिस्त्विह ।
निजे गृहे स्वयमेत्य ददाति दर्शनं निजम् ॥३९॥
एवंविधं तु सुलभं प्राप्याऽपि न भजन्ति ये ।
त एव कर्महीना वै दुर्भाग्या मानवा अपि ॥४०॥
पशुवज्जीवनं तेषां गतं भवति मोक्षदम् ।
न पुनर्मानवो देहोऽवाप्स्यतेऽतो भजन्तु तम् ॥४१॥
गृह्णन्तु श्रीहरेर्मन्त्रं शरणं यान्तु सर्वथा ।
तन्वा लक्ष्म्या धिया कृष्णं प्रसेवन्तां कृतादराः ॥४२॥
गृहं वाटी सुता नारी पतिः पुत्राश्च वाजिनः ।
सम्पदश्चञ्चलाः सर्वास्ताभिः कृष्णं लभन्त्विह ॥४३॥
एवं बद्रीप्रिये तत्र जनाः प्रोचुः परस्परम् ।
जगृहुः कृष्णमन्त्राँश्च बभूवुर्वैष्णवास्तदा ॥४४॥
भेजिरे श्रीकृष्णनारायणं साधून् सिषेविरे ।
नरा नार्यः परां पवित्रतां प्राप्य ततः सदा ॥४५॥
महाभागवता भूत्वा प्रतीक्षन्ते स्म माधवम् ।
कदा नारायणकृष्णो धामाऽस्मान्नेष्यति प्रभुः ॥४६॥
कदा साक्षान्निजान् कृत्वा ग्रहीष्यति करं प्रभुः ।
आतुरा एवमर्थास्ते नारायणपरायणाः ॥४७॥
आबालवृद्धा अभवन् विवेकभक्तितत्पराः ।
बद्रिके सिन्धुजा देशाः कथाप्रभावतस्ततः ॥४८॥
प्रायो भागवतैर्भक्तैः सम्पन्ना दिव्यतां गताः ।
स्थले स्थले बालकृष्णो विमानेन स्वदर्शनम् ॥४९॥
दत्वा भक्तं च भक्तां च नयत्यक्षरधाम सः ।
एवमाश्चर्यमनिशं प्रत्यहं तत्र वर्तते ॥५०॥
बद्रिके परितो देशे राष्ट्रे ग्रामे च पत्तने ।
वार्त्तेयं सम्प्रवृत्ता यत् परायणं हि मुक्तिदम् ॥५१॥
यन्ति मुक्तिं मावनास्तु श्रुत्वा पारायणं प्रभोः ।
कृत्वा तु दर्शनं साक्षाद् यान्ति धाम विमानगाः ॥५२॥
न पापं भगवान् कृष्णो गणयत्यत्र पापिनः ।
पावयित्वा कृपयैव नयत्यूर्ध्वाऽक्षरं पदम् ॥५३॥
श्रुत्वाऽन्येऽपि महापापाः पापसन्त्रस्तमानसाः ।
आगत्य बद्रिके श्रुत्वा कथां यन्ति परं पदम् ॥५४॥
एवंविधं चमत्कारं बहुमानवकीर्तितम् ।
श्रुत्वा पापा महापापा आययुः संहितास्थलम् ॥५५॥
हिंसका घातकाश्चौराः कृतघ्नाश्च प्रतारकाः ।
विश्वासघातका मद्यपाना मांसादना अपि ॥५६॥
मुमुक्षाप्रेरितास्त्रस्ताः कर्मभिः स्वकृतैस्तदा ।
निष्ठाश्रद्धाप्रपत्तिविश्वासधर्मास्तु ते हरेः ॥५७॥
कथां श्रुत्वा नरा नार्यो लेभिरेऽतिपवित्रताम् ।
शृणु श्रीबद्रिके तत्र महापापास्त्रियाः कथाम् ॥५८॥
अन्ततः पावनीं सर्वपापघ्नां कृष्णयोगदाम् ।
अभवत्सोमिकानाम्नी गणिका पञ्च तत्सुताः ॥५९॥
मांसादिन्यो मद्यपास्ता जीवहिंसापरायणाः ।
सर्वादिन्यः कुक्कुटादिपालिन्यश्चाऽण्डभक्षिकाः ॥६०॥
पुत्र्यश्च गणिका चापि सर्वास्ता वारयोषितः ।
मिथुनकुट्टवास्तव्या बीजसांकर्यगर्भजाः ॥६१॥
श्रुत्वा लोकमुख्येभ्यो वै महिमानं हरेः परम् ।
कथाश्रवणजं चापि मोक्षलाभं प्रकर्ण्य च ॥६२॥
जातपापप्रणाशेच्छाः स्वज्ञात्युद्धारहेतवे ।
प्रथमं ताः पञ्चपुत्र्यो माता च शर्करापुरम् ॥६३॥
संहितायाः कथां श्रोतुमाययुः साधनान्विताः ।
लोमशं ताः प्रणम्यैव चक्रुर्निवेदनं निजम् ॥६४॥
दयालुर्लोमशस्ताभ्यो ददौ कृपाऽमृतं बलम् ।
हरेः प्रसादजं वारि पुष्पं पत्रं फलं ददौ ॥६५॥
एकाशनं व्रतं नित्यं स्नानं सिन्धौ प्रपूजनम् ।
अनादिश्रीकृष्णनारायणमूर्तेः सुचिन्तनम् ॥६६॥
मद्यमांसादिसन्त्यागं साधुसेवनमन्वहम् ।
कृष्णनारायणजापं ददौ ताभ्यस्तु लोमशः ॥६७॥
बद्रिके तास्तथैवाऽऽसन् सर्वा गुरोर्वचःस्थिताः ।
मासमेवं व्रतस्थास्ताः शुश्रुवुः संहिताकथाः ॥६८॥
पापनाशोऽभवत्तासां धर्मशुद्धिस्तथाऽभवत् ।
देहशुद्धिश्च सञ्जाता प्रसादान्नफलाशनात् ॥६९॥
ततो मन्त्रं ददौ ताभ्यो लोमशः पारमेश्वरम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥७०॥
कृष्णनारायणस्वामिकृष्णनारायणं जपम् ।
ददौ ताभ्यस्ततः सर्वाः शुद्धात्मदिव्यभावनाः ।
कार्तिकस्य तु पूर्णाया आरभ्य मासमेव ताः ॥७१॥
मार्गशीर्षपूर्णिमापर्यन्तं पारायणे स्थिताः ।
शुश्रुवुः परमात्मानं लक्ष्मीकान्तं हृदि स्थितम् ॥७२॥
जेपुर्नारायणस्वामिप्रभुंकृष्णं निशामुखे ।
अपश्यन् परमात्मानं हसन्तं द्राक् पुरःस्थितम् ॥७३॥
गुरोः कृपया मन्त्रस्य जपेन साधुसेवया ।
कथायाः श्रवणेनापि भक्त्या ध्यानेन निष्ठया ॥७४॥
पुण्योदयेन भगवान् श्रीकृष्णो दर्शनं ददौ ।
कोटिकामातिसौन्दर्यलावण्ययौवनान्वितः ॥७५॥
सर्वाभरणभूषाढ्यः सर्वशृंगारशोभनः ।
सर्वस्नेहप्रमोदाढ्यो महानन्दप्रदो हरिः ॥७६॥
तेजसा परितो भागान् प्रद्योतयन् हसन् हरिः ।
षट् ताः प्राह वरार्थं वै ताश्च कृष्णं प्रवव्रिरे ॥७७॥
वाराङ्गिन्य ऊचुः-
वरदानं कृष्णनारायणोऽस्तु परमो वरः ।
आक्षरं च पदं स्थानं निवासार्थं सदाऽस्तु नः ॥७८॥
सर्वपापविनाशोऽत्र भक्त्या ते नो ह्यजायत ।
शुद्धा मुक्तानिका दिव्याः कृत्वा नय परं पदम् ॥७९॥
इत्येवं बद्रिके तास्तु वव्रिरे श्रीहरेस्तदा ।
तथाऽस्त्वेवं हरिः प्राह तावद्विमानमागतम् ॥८०॥
दिव्यं सुवर्णवर्णं वै सर्वसम्पद्भरं शुभम् ।
अनादिश्रीकृष्णनारायणस्तत्राऽभवद्धि हरिः ॥८१॥
राधालक्ष्मीयुतः सोऽयं चावातरद् विमानतः ।
सभायाः पुरतः स्थित्वा पस्पर्श ताश्च पाणिना ॥८२॥
तावत्तासां भौतिकास्तु देहास्ते न्यपतन् क्षितौ ।
दिव्यदेहाः कमलासदृश्यस्ता वै तदाऽभवन् ॥८३॥
सर्वेषां पश्यतां कृष्णाऽऽज्ञयाऽऽरुरुहुरुत्सुकाः ।
विमानं सहसा बालकृष्णेन सह तद्द्रुतम् ॥८४॥
अम्बरे त्वभवद् यानं ययौ धामाऽक्षरं प्रति ।
जयनादास्तदा ह्यासन् महाश्चर्यमभूत्तु तत् ॥८५॥
अहो पापसमाचारमय्योऽपि श्रवणाद्धरिम् ।
पतिं प्राप्य ययुर्धामाऽक्षरं भक्तेर्हि गौरवम् ॥८६॥
कृपालुः श्रीकृष्णनारायणः श्रीस्वामिवल्लभः ।
महापापातिपापाढ्यान् विशोध्य नयति ध्रुवम् ॥८७॥
परं पदं शाश्वतं वै नात्र कार्या विचारणा ।
एवं श्रुत्वा बद्रिके वै चमत्कारं तदाऽपराः ॥८८॥
मिथः प्राहुरहो आल्यो नो ग्रामाद् गणिका कथाम् ।
श्रोतुं पञ्चसुताभिः सोमिकानाम्नी ययौ तु या ॥८९॥
सा प्रययौ विमानेन हरेर्धाम परं पदम् ।
सा धन्या सोमिका चापि धन्या पुत्र्यश्च पञ्च ताः ॥९०॥
अरुणानी पाटलानी धवलानी मृणालिनी ।
किञ्जल्कानी पञ्च पुत्र्यो देव्यो भूत्वाऽक्षरं ययुः ॥९१॥
अहो वयं प्रयास्यामः श्रीकृष्णशरणं शुभम् ।
आत्मोद्धारं करिष्यामः साक्षात्प्राप्य पतिं हरिम् ॥९२॥
इत्येवं वारसुन्दर्यो मिथो मिथुनकुट्टगाः ।
निश्चित्य ताः कथां श्रोतुमाययुर्वै सहस्रशः ॥९३॥
बद्रिके तीर्थयानेऽपि पदे पदेऽश्वमेधजम् ।
फलं सञ्जायते श्राद्धवतां तासां तथाऽभवत् ॥९४॥
पापान्यासां विनष्टानि तीर्थाभिगमनात्तदा ।
स्नात्वा स्थित्वा कथां श्रुत्वा मन्त्रं प्रापुर्हि लोमशात् ॥९५॥
पौषकृष्णैकादश्यां ताः कथान्ते प्रातरेव ह ।
विमानं त्वम्बरात्प्राप्तं व्यलोकयन् सुवर्णजम् ॥९६॥
अनादिश्रीकृष्णनारायणयुक्तं महायतम् ।
हरिश्चावाऽतरत् तस्मात् कथाशालान्तिकं तदा ॥९७॥
विमानादानीतवारिप्रोक्षणं स मुहुर्मुहुः ।
कृतावान् श्रीकृष्णनारायणो वारांगनागणे ॥९८॥
तास्तु प्राप्य कणौंस्तूर्णं त्यक्तभौतिकपुत्तलाः ।
दिव्यमुक्तानिका भूत्वा तस्थुः कृष्णस्य सन्निधौ ॥१९॥
पश्यतां सर्वलोकानां नीत्वा कृष्णो विमानके ।
सहस्रवारमुक्ताभिः सहितश्चाक्षरं ययौ ॥१००॥
ताश्च शुद्धा ब्रह्मह्रदे स्नात्वा श्रीकमलासमाः ।
धाममुक्तानिका जाताः कथाकृष्णप्रसादतः ॥१०१॥
श्रद्धया फलमाप्नोति भक्त्या प्रसन्नतां तथा ।
सेवयाऽऽत्मानमाप्नोति कृपया परमेश्वरम् ॥१०२॥
बद्रिके सर्वलोकेषु संहितायाः कथाबलम् ।
प्रासरत् सहसा मोक्षप्रदं पापनिवासकम् ॥१०३॥
संघशो वै नरा नार्यो मोक्षार्थं कृतनिश्चयाः ।
कथायाः श्रवणार्थं ते समायान्ति समन्ततः ॥१०४॥
कीर्तनानि प्रजायन्ते भजनानि स्थले स्थले ।
सतां सेवाः प्रवर्तन्ते भक्ष्यभोज्यप्रदानकैः ॥१०५॥
चमत्काराः प्रजायन्ते तत्र तत्र दिने दिने ।
श्रुत्वा श्रुत्वा नरा नार्यो हर्षिताः संभवन्ति वै ॥१०६॥
भजन्ते श्रीबालकृष्णं साक्षाद्वद्ध्रदयस्थितम् ।
लभन्ते परमं लाभं ज्ञानं शुद्धिं परां गतिम् ॥१०७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणेन क्षीरोदवीरनृपतेः रुहारिणीराज्ञीयुतस्य, सहस्राधिप्रजानां, पञ्चपुत्रीसहितायाः सोमिकानाम्नीगणिकायाः, तथा मिथुनकुट्टवासिनीगणिकानां, संहिताकथाश्रवणेन मोक्षणं चेत्यादिनिरूपणनामा सप्तचत्वारिंशोऽध्यायः ॥४७॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP