संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २१ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि सदा मे सहचारिणि ।ततः श्रीमातरं प्राह यं धर्मं बालयोगिनी ॥१॥त्यागिनीनां वृषा ये च योगिनीनां च ये वृषाः ।गृहिणीनां वृषा ये च तेऽनुयन्ति परेश्वरे ॥२॥साध्वीनां ये वृषाः प्रोक्ता दासीनां चापि ये वृषाः ।वधूनां किंकरीणां ये तेऽनुयन्ति जनार्दने ॥३॥शोभन्ते ते वृषाः सर्वे सर्वासां माधवीश्वरे ।सर्वधमाश्रये कृष्णनारायणे सुधर्मिणि ॥४॥भोगाः सर्वे विलासाश्च कामाश्च सम्पदोऽपि च ।विभूतयः स्त्रियो दास्यो युज्यन्ते परमात्मनि ॥५॥वने वासो विवासाश्च जटित्वं चाऽवमानिता ।काषायकृष्णवेषित्वं युज्यन्तेऽपि परात्मनि ॥६॥आश्रमाश्चापि वर्णाश्च युज्यन्ते श्रीरमापतौ ।श्रद्धायुता ततो नारी प्रसेवेत परेश्वरम् ॥७॥सर्वधर्माश्रयं ज्ञात्वा श्रीकान्तं कम्भरासुतम् ।अल्पप्रज्ञा तु गृह्णीयात् स्वां तु पण्डितमानिनीम् ॥८॥निर्दोषां च बहुज्ञा च परेशं बुद्धिवर्जितम् ।सर्वकर्तारमात्मानं सर्वकर्त्रीं परेश्वरीम् ॥९॥लक्ष्मीपतिं बदरीशं ललितेशं तु किंकरम् ।शेषादिवन्दितं कृष्णं तथा वृथाभिमानिनम् ॥१०॥निगमागमवन्द्यं तं तुच्छचेष्टादिकारिणम् ।एवं दोषान् हरौ कृष्णे समुद्भाव्य वदेद्घृणाम् ॥११॥सा तु धर्मान्न जानाति धर्ममूर्तिं न विन्दति ।परमेशं न मनुते मनुते कर्मचारिणम् ॥१२॥एतादृशी मोहवती ब्रह्मरसं न विन्दति ।विन्दत्येवाऽरसं कष्टं याम्यकृतं तु दक्षिणे ॥१३॥सत्संगेन वशं याति प्रभुः कृष्णनरायणः ।हरौ सत्सु च साध्वीषु त्वात्मबुद्धिः सदा शुभा ॥१४॥यस्याः प्रजायते प्रीतिजननी सार्वकालिकी ।सैव वशं हरिकृष्णधवं करोति कामिनी ॥१५॥आत्मबुद्धिर्यथा देहे नार्यां पत्यौ च मन्दिरे ।भवने प्रतिमायां च जले निजजनादिषु ॥१६॥पुत्रे च विषये स्वष्टे तथेन्द्रिये मुखे शुभे ।रूपे भोगे विलासे च तथा यस्या हरौ प्रभौ ॥१७॥सैव कृष्णरसं पाति पिबत्यपि मुहुर्वधूः ।सैव कृष्णं वशं सम्पादयत्येव न चेतरा ॥१८॥या भाविनी कृष्णकान्ता तस्याश्चेष्टापि वैष्णवी ।देवाभिगमनं नित्यं कृष्णदर्शनमन्वहम् ॥१९॥कृष्णनारायणवार्ताकथारसातिमोदनम् ।सतां समागमे वृत्तिस्तीर्थवासो विशेषतः ॥२०॥कृष्णभक्तेषु रमणं शयन कालयापनम् ।निर्भीकत्वं मायिकेषु तथौदासीन्यमन्वहम् ॥२१॥तुल्यता कृष्णभिन्नेषु कृष्णे विशेषता सदा ।साररूपं तु यत् कार्ष्णं तदन्यत् सारवर्जितम् ॥२२॥सतां प्रसन्नतार्थं च क्रियाः सर्वाः प्रचेष्टनम् ।हरेः स्वरूपचिन्तैव गुणगानं हरेस्तथा ॥२३॥हर्यर्थं कृतसर्वस्वं हयर्थं जीवनादिकम् ।शृंगाररूपसौन्दर्यं हर्यर्थं सर्वमेव तत् ॥२४॥यस्या एवं सदा वृत्तं भाविनी सा हरिप्रिया ।परब्रह्मरसवेत्त्री नारायणी रमानिभा ॥२५॥अन्ते पक्वदृढमूला 'परब्रह्महृदंगता ।प्रीतिर्यस्या हरौ प्राप्ता विश्रान्तिं सा रसाशना ॥२६॥यत्राऽऽवरणं नास्त्येव ब्रह्मसत्तात्मवर्तने ।निरावरणा तद्योगाद् ब्रह्मनारायणी भवेत् ॥२७॥अन्यत्त्यागवती साध्वी रोधकस्य विसर्जिनी ।प्राणेशस्याऽभियाना च कल्याणादेशशायिनी ॥२८॥संगिनीनां सखीनां श्रेयसे यत्नोपदेशिनी ।स्वेष्टस्वामिचरित्राणां गायिका चोपदेशिका ॥२९॥सतां हरेश्च कैंकर्ये वेत्ति श्रेयो निजं परम् ।यस्याः सन्त्यधिकाः सन्तः श्रेष्ठा ब्रह्मादितोऽप्यति ॥३०॥हरेः सतां सुयोगाद्वै नान्यच्छ्रेयः परं मतम् ।महापुण्यवतीनां च सेवायोगं करोत्यपि ॥३१॥स्नेहः सत्सु यथा पत्न्यां पत्यौ पुत्रे च मातरि ।सहोदरे च पितरि गुरौ देहे धने तथा ॥३२॥कारयित्री हरौ सत्सु स्नेहं सा रसपात्रिका ।कृतार्था सा नित्यसक्ता स्निग्धा भवति भामिनी ॥३३॥पूर्वभवादिभिः साधोर्हरेः सेवापरायणा ।पुनर्भवं प्रसादार्थं सेवार्थं संगतेच्छया ॥३४॥भजमानां न लोकानां विक्षेपाः पीडयन्ति ताम् ।हरेर्वियोगविक्षेपाः सतां वियोगरूपिणः ॥३५॥पीडयन्त्येव तां भक्तां ब्रह्मरसपरायणाम् ।स्वयं श्रूत्वाऽवमानादि स्वेष्टस्य च सतामपि ॥३६॥उद्वेगं हृदये नेजे प्राप्नोति स्वावमानवत् ।श्रुत्वा मानं सतां चापि मोदते सा हरिप्रिया ॥३७॥साधुस्वाम्यपराधाद्यसहमाना हरिप्रिया ।शिरो दत्वाऽपि कान्तस्य कृष्णस्य रञ्जने स्थिता ॥३८॥कृष्णनारायणे भावे निम्नगा न कदाचन ।असंशया हरेः कार्ये ह्युपस्थिता च या भवेत् ॥३९॥सपत्नीनां सखीनां च स्नेहपक्षाभियोगिनी ।हर्यर्थार्पितसर्वस्वा मस्तकं स्वं ददात्यपि ॥४०॥आज्ञां प्राप्याऽविचार्यैव करोति सर्वथा तथा ।परब्रह्मरसास्वादा द्रुतं सा जायते सखी ॥४१॥देहेन्द्रियान्तःकरणैरात्मना क्रियया हि सा ।कृष्णार्पणविधाना वै द्रुतं चाप्नोति तद्रसम् ॥४२॥मनाक् वा कृष्णसंयुक्ता दिव्यतां याति तत्क्षणात् ।सर्वं नैजं योजयेद्वै कृष्णसेवादिकर्मसु ॥४३॥वर्तेत श्रीकृष्णनारायणकान्तपरायणा ।सा श्रीराधारमातुल्या जायतेऽत्रैव माधवे ॥४४॥पातिव्रत्येन च तथा ह्यात्मनिष्ठाऽतिशोभिना ।दास्येन याऽपि सेवायां वर्तते साऽक्षरप्रिया ॥४५॥प्रकाशमानां सततं ब्राह्मी चाऽक्षरसन्निभा ।ब्रह्मभावे निजे रूपे परब्रह्म प्रपश्यति ॥४६॥अतः कृष्णेतरत् सौख्यं विषवद् भासते सदा ।कृष्णसंगे भवेच्छान्तिरितरत्र तु तापनम् ॥४७॥कृष्णसंगिसतां संगे चाश्रये शान्तिरस्ति च ।कृतार्थता सतां संगैर्हरेः संगैर्विशेषतः ॥४८॥सेवयाऽपि महामोक्षो भवेत् प्राकृतयोषिताम् ।कृष्णसत्तावतीनार्या मायाकालभयं न वै ॥४९॥सतां सत्तावतीनार्या वासनाबन्धनं न वै ।आत्मनिष्ठावतीनार्याः पुनर्जन्मभयं न वै ॥५०॥हरेः प्रीतिमतीनार्या मृत्युपाशो न विद्यते ।भक्तसेवावतीनार्या निरयाणां भयं न वै ॥५१॥सतां दर्शनकर्त्र्यास्तु व्याध्याधिभीर्न विद्यते ।सन्तः सन्ति ब्रह्मरूपा ब्रह्ममूर्तय उत्तमाः ॥५२॥तेषां सेवासमं पुण्यं मोक्षो वाऽन्यो न विद्यते ।बलेच्छा यदि वर्तेत सेवनीया हि साधवः ॥५३॥स्वरूपाः श्रीहरेः सन्तोऽवताराः श्रेयसांप्रदाः ।परोऽनादिकृष्णनारायणः श्रीमाधवीपतिः ॥५४॥स्वामी सर्वावताराणां मुक्तानां ब्रह्मणस्तथा ।स्वामिनीनां च शक्तीनामीश्वरीणां च कारणम् ॥५५॥वासुदेवादयो व्यूहाः श्रीकृष्णाद्यास्तु पूर्णकाः ।आवेशाः पर्शुरामाद्या अंशाः पृथ्वादयस्तथा ॥५६॥सनकाद्याः कलाश्चापि सूर्याद्याश्च विभूतयः ।नारायणाश्च विभवा अर्चास्तु शक्तिमूर्तयः ॥५७॥सर्वे ते ब्रह्मदेहा वै परब्रह्मोद्भवाः शुभाः ।परब्रह्मसमाः सेव्याः परब्रह्मरसाप्तये ॥५८॥सर्वे ते पूर्णसुखदाः संभृताः सुखसद्रसैः ।परब्रह्मानन्ददास्ते सेव्या योषिन्नरादिभिः ॥५९॥मोक्षदास्ते मताः सर्वे सर्वकामप्रदास्तथा ।दिव्यानन्दप्रदाः सर्वे मायापारकरास्तथा ॥६०॥तेषां सर्वावताराणां धारकः पुरुषोत्तमः ।अनादिश्रीकृष्णनारायणो गोपालनन्दनः ॥६१॥कोट्यर्बुदाब्जकान्तानां कान्तः श्रीकम्भरात्मजः ।स्वाऽक्षरपरधामस्थो राजाधिराजशासनः ॥६२॥ददाति दर्शनं सृष्टौ यत्रेच्छा भक्तपूरणी ।अनादिसर्वसिद्धयाढ्यः सर्वाश्चर्यप्रपूजितः ॥६३॥अनन्तचमत्कारेशो युगपत्सर्वरूपधृक् ।कोट्यर्बुदाब्जमूर्त्यात्मा सर्वयोगकलानिधिः ॥६४॥रसिको रसिकानां सः त्यागिनां त्यागवर्तनः ।ज्ञानिनां ज्ञानदश्चापि सर्वमानसपूरकः ॥६५॥सर्वबलच्छलकलामायाजालफलार्थकृत् ।सर्वोपरिस्थितः शास्ताऽनादिस्वामिनरायणः ॥६६॥निर्मोहो देहिदेहेषु ह्यलौकिकप्रतापवान् ।भक्तसेवां प्रेमयुक्तामङ्गीकर्तुं कृपावशः ॥६७॥भक्तदत्तान् विषयोत्थान् भोगान् भुंक्ते पतिर्यथा ।अज्ञा दोषान् कल्पयन्ति मन्वते सक्तमेव तम् ॥६८॥प्राकृतं मानवं यद्वत् खला महिमवर्जिताः ।एषा भ्रान्तिश्च माया च तादृशानां हराविह ॥६९॥न ज्ञानं श्रीहरेर्यद्वै प्रत्युताऽभावदर्शनम् ।ब्रह्मस्थितिसमापन्ना ये त्वात्मदर्शिनो जनाः ॥७०॥न मुह्यन्ति हरौ तत्र जानन्ति परभावनाम् ।नापि मुह्यन्ति मायायां कुतो मोहो हरेस्तदा ॥७१॥निर्लेपः सर्वदा चास्ति कृष्णनारायणः प्रभुः ।सर्वभोक्ताऽप्यभोक्ताऽस्ति पावनः पावको यथा ॥७२॥नार्यः पवित्रा जायन्ते तद्भोगैर्गोपिका इव ।नराः पवित्रा जायन्ते सत्संगात्तस्य सर्वथा ॥७३॥एवंविदो नरा भक्ता भक्तानिकाश्च सर्वशः ।ज्ञानैकान्तिकताऽनन्यदास्यभक्ता मताः सदा ॥७४॥तादृशानां कृते कृष्णो ब्रह्मरसान् सुशाश्वतान् ।प्रवर्षयति मूर्तिस्थान् प्रपाययति चाश्रितान् ॥७५॥कृपा मुख्यं साधनं वै हरेर्ब्रह्मरसाप्तये ।आश्रयः साधनं चापि प्रपत्तिः साधनं परम् ॥७६॥अनन्यभावना चापि दृढोपास्तिश्च साधनम् ।आज्ञाप्रपालनं चापि सेवा स्नेहश्च साधनम् ॥७७॥माहात्म्यज्ञानमेवापि स्मरणं च निरन्तरम् ।सर्वस्वार्पणमेवाऽपि विश्वासो न्यास इत्यपि ॥७८॥दास्यं शुश्रूषणं पातिव्रत्यं साधुत्वमित्यपि ।पत्नीत्वं स्वामिनीत्वं च प्रेमभावाभिषञ्जनम् ॥७९॥कृष्णेङ्गितानुसरणं सतां प्रसन्नतादिकम् ।साक्षात् सतां सुसत्संगो हरेर्ब्रह्मरसप्रदः ॥८०॥यस्याः सतां भगवतः साक्षात्प्राप्तिरिहाऽस्ति वै ।तस्यास्तेषां कथागानैः स्मृत्या कालस्य निर्गमः ॥८१॥त्र्यवस्थाऽतीतचैतन्यात्मकात्मनो निजस्य वै ।ब्रह्मरूपस्य साक्षात् स्याद् दर्शनं कृष्णमिश्रितम् ॥८२॥कृष्णवज्जायते धाम्नि लोकेऽप्यत्र न संशयः ।अनादिश्रीकृष्णनारायणस्य चरणाश्रये ॥८३॥अत्र परत्र सर्वत्र वसति राधिका यथा ।स्वामिनी जायते तत्र सेविकाऽनुग्रहाद्धरेः ॥८४॥यावन्तं च महिमानं जानाति परमात्मानः ।सुखसामर्थ्यशोभाभिप्रतापरूपसद्गुणैः ॥८५॥तावत्समर्था भवति कार्ष्णी नारायणी यथा ।तथापि श्रीहरेः पत्युः सामर्थ्यादेरसीमता ॥८६॥अपारता महैश्वर्यसौन्दर्यादेस्तु माधवे ।असंख्यकोटयः सन्ति मादृश्यो भगवन्निभाः ॥८७॥प्राप्ताः कृष्णसकाशात् ता गुणैश्वर्यप्रभादिकम् ।तथापि महिमा पत्युश्चापारो विद्यते सदा ॥८८॥लेशोऽपि न्यूनभावो न विद्यते परमात्मनि ।सामर्थ्यगुणकर्मादिसौन्दर्यसुखदायिताः ॥८९॥कल्याणधर्मयोगाश्च भवन्त्यनन्तसंख्यकाः ।हरेस्तैर्गुणलेशैश्च भजनैश्च हरेः परे ॥९०॥हरितुल्याः प्रजायन्ते ह्यनन्तार्बुदवैष्णवाः ।तथापि नाणुमात्रश्रीहरिप्रतापसद्गुणाः ॥९१॥न्यूनतां संव्रजन्त्येव परिपूर्णतमस्ततः ।अगाधाऽपारसीमादिसख्याऽन्तछेदवर्जितः ॥९२॥वर्तते श्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।भजनेन गता धाम्नि तत्समा अपि योषितः ॥९३॥अपारतां विदित्वैव सेवन्ते सेविकाः सदा ।दास्यः सदा प्रवर्तन्ते ब्रह्मरसान् प्रभुञ्जते ॥९४॥एवं किं बहुनोक्तेन प्राप्ता साधनकोटिभिः ।साध्यं कान्तं बदरीशं माणिक्येशं सतां पतिम् ॥९५॥भवामीति न चान्यन्मे प्राप्तव्यमवशिष्यते ।विधेयं शिष्यते नैव विवाहितायाश्चक्रिणा ॥९६॥सर्वे कामाः समाप्ता मे मातः श्रीबालमाधवे ।ततोऽहं सर्वदा दासी कृष्णस्य बालयोगिनी ॥९७॥बदरीशी तापसी च ब्रह्मशीला परेश्वरी ।भवामि श्रीकृष्णनारायणकान्तरसात्मिका ॥९८॥रसं विन्दामि तस्यैव जाताऽपि तव पुत्रिका ।वरदानप्रपूर्त्यर्थमिहाऽहं समुपागता ॥९९॥कृष्णार्धाऽहं कृष्णकान्ता ललिता माणिकी यथा ।राधा लक्ष्मीः माधवी च यथा कृष्णस्य वै प्रियाः ॥१००॥भज मातस्तथा तं श्रीकृष्णनारायणं प्रभुम् ।इत्युक्त्वा सा कन्यका स्वां मातरं तु सुरेश्वरीम् ॥१०१॥विररामाऽधिकवाण्यै कृष्णनारायणस्मृतिः ।ततः सुरेश्वरी कान्तं निकामदेवमाह तत् ॥१०२॥पुत्रीयं बदरीदेवी माणिक्या चाक्षरे स्थिता ।अनादिश्रीकृष्णनारायणपत्नी परेश्वरी ॥१०३॥पुत्रीरूपा गृहेऽस्माकं प्रजाताऽस्ति नरायणी ।नान्यं चेच्छति विषयं श्रीकृष्णकान्तमन्तरा ॥१०४॥तद्योगे चावयोर्मुक्तिर्भाविन्येव न संशयः ।एवं विज्ञाय विप्रोऽपि मुमुदे चाभजद्धरिम् ॥१०५॥बालयोगिनी बाल्याद्वै बभूव ब्रह्मचारिणी ।सा त्वं श्री बदरीदेवि बदर्याश्रमवासिनी ॥१०६॥बद्रीप्रभे भवसि बद्रिका त्यागस्वरूपिणी ।स्मर सर्वं तवैवेमं वृत्तान्तं परमेश्वरि ॥१०७॥मम प्रेमरसः प्राप्तस्त्वया वै शाश्वतः सदा ।करोषि त्वं योषितां च मोक्षणं गीतयाऽनया ॥१०८॥बालयोगिनीं गीतां या नारी श्रोष्यति वै तथा ।वदिष्यति हरौ स्नेहं विधास्यति वधूरिव ॥१०९॥सा वंशं च धनं कीर्तिं सुखं शाश्वतजीवनम् ।कान्तं कृष्णं परब्रह्म समवाप्स्यति धामनि ॥११०॥चतुर्णां पुरुषार्थानां सिद्धिस्तस्या भविष्यति ।ताम्बूलं प्राप्य कृष्णांऽके भोक्ष्यत्यक्षय्यतद्रसम् ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां शाश्वतबालयोगब्रह्मरसप्रदधर्मादीनां निरूपणनामैकविंशतितमोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP