संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ५

तिष्यसन्तानः - अध्यायः ५

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीरमे देवि तेतो नरकथामपि ।
निर्बीजे बदरे तत्र नरो वै बीजतां ययौ ॥१॥
दृष्ट्वा भुक्त्वाऽमृतस्वादून्युत्तमानि फलानि वै ।
सुरा महर्षयो देवा मानवा देहिनोऽपरे ॥२॥
नरनारायणं कृष्णनारायणं च माणिकीम् ।
प्रार्थयामासुरत्यर्थं बद्रीं देशे निनीषया ॥३॥
नरनारायणविष्णो सर्वोपकारकप्रभो ।
बदरीयं कल्पवृक्षोत्तमा पीयूषसत्फला ॥४॥
सम्पन्ना कृपया तेऽत्राऽक्षरधामनिवासिनी ।
बदरोऽत्र च फलतां प्राप्तस्तृप्तिकरो रसः ॥५॥
नैतादृशी सुधा स्वर्गे जने तपसि सत्यके ।
न मानवे न पाताले मेरौ लोकाऽचलेऽपि न ॥६॥
इमामक्षय्यफलदामक्षय्यतृप्तिदामपि ।
देहि लोकेषु नः कृष्णनारायणदयानिधे ॥७॥
यथा देवा वयं भक्ताः ऋषयश्च महार्षयः ।
वनारण्यनिवासा वै स्याम चैतत्फलादनाः ॥८॥
भवान् लोकस्य सर्वस्य श्रेयोऽर्थं तपति प्रभो ।
बदरीलाभदानेन परंश्रेयः करोत्वपि ॥९॥
पापा जीवा अपि लोके बदराशनकारिणः ।
निष्पापास्ते भविष्यन्ति यास्यन्ति परमं पदम् ॥१०॥
कृपा कार्या हि लोकेषु फलं नैतादृशं परम् ।
मोक्षदं पावनं पुण्यप्रदं यज्ञफलप्रदम् ॥११॥
तपस्विनां तपोवृद्धिकरं शाश्वततृप्तिदम् ।
देवाऽमृतातिमिष्टं च पितॄणां तृप्तिदं परम् ॥१२॥
वनारण्यनिवासानां साधूनां सत्त्ववर्धनम् ।
अन्तःकरणनैर्मल्यसम्पादकं हरेः प्रियम् ॥१३॥
ब्रह्मफलं हि बदरं दिव्यामृतफलं तथा ।
लक्ष्मीफलं तथा भक्तिफलं श्रीमाणिकीफलम् ॥१४॥
आक्षरं सत्फलं त्वेतन्नान्यत्र लभ्यते प्रभो ।
दत्वा नस्त्वं कृतार्थान्नः कुरु कृष्णनरायण ॥१५॥
बदराख्यफलं त्वेतद् बदराख्यो नृपस्तथा ।
लक्ष्मीश्रीमाणिकीबद्रीपार्वीरमा हरिप्रियाः ॥१६॥
नरनारायणस्त्वं च सर्वे लोकोपकारकाः ।
उपकारं प्रकुर्वन्तु बदरार्पणकर्मणा ॥१७॥
इत्यर्थितो हरिः प्राह सर्वान् बदरभिक्षुकान् ।
भवतां मम भक्तानां मनःपूर्त्त्यै दयावशः ॥१८॥
दातुमिच्छामि बदराण्यविच्छिन्नानि स्युर्यथा ।
इमानि दिव्यरूपाणि निर्बीजानि भवन्ति वै ॥१९॥
तेषां दानेन भवतां चिरप्राप्तिर्न वै भवेत् ।
वृक्षस्त्वेको बदर्यास्तु विद्यतेऽविचलस्तथा ॥२०॥
हेमासुरोपमर्दार्थश्चोत्खातुं स न शक्यते ।
बदराणां यथा वंशपरम्परा भवेत्तथा ॥२१॥
मया फलानि सर्वाणि कार्याणि बीजवन्ति च ।
विना बीजं न तज्जातिरविच्छिन्ना प्रवर्धते ॥२२॥
मूलात्स्तम्बात्फलात्पत्रात्काण्डान्नालाच्च चक्षुषः ।
शाखायाश्च जटायाश्च ग्रन्थेर्वा वंशवर्धनम् ॥२३॥
बीजाच्छ्रेष्ठतरा वंशवृद्धिः साऽत्र विभाव्यते ।
वंशजैः पूर्वजानां तु समुद्धारो वितन्यते ॥२४॥
ह्रासे नूतनसम्पत्तौ क्षयश्चापि भवेन्न वै ।
ततश्चात्र बदरेषु बीजानि रचयाम्यहम् ॥२५॥
उक्त्वैवं बदरीनाथो नारायणस्तु शीलवान् ।
स्वांशं नरं प्रसन्नात्मा लोकयामास तत्क्षणे ॥२६॥
नरो नम्रो विनीतश्च कृताञ्जलिरभाषत ।
यदिच्छा ते हरे चास्ते कुर्वे द्रुतं वदाऽत्र मे ॥२७॥
त्वदिच्छयाऽक्षरे धाम्नि श्रीपुरुषोत्तमात् पुरा ।
यदा राधाऽऽर्बभूव तदाऽहं कृष्णतां गतः ॥२८॥
गोलोके राधया साकं त्वदाज्ञयाऽवसं सदा ।
यदा पुनश्च ते मूर्तेः रमादेवी व्यजायत ॥२९॥
तदा नारायणत्वं सम्प्राप्य वैकुण्ठगोऽभवम् ।
यदा रमा तव मूर्तेः प्राविर्बभूव वै तदा ॥३०॥
वासुदेवस्वरूपोऽहं व्यूहरूपोऽभवं पुरा ।
यदा जाता महालक्ष्मीर्ललिता ते स्वरूपतः ॥३१॥
तदाऽहं तु महाविष्णुः श्रीपुरे त्वभवं पुरा ।
लक्ष्मीर्यदा तव देहाज्जाता विष्णुस्तदाऽभवम् ॥३२॥
श्रीश्च जाता तव मूर्तेस्तदाहं शेषशायनः ।
कमला च तव मूर्तेर्जाता यदा त्वदाज्ञया ॥३३॥
श्वेतद्वीपे श्वेतनारायणोऽहं त्वभवं तदा ।
यदा त्वं माणिकीं बद्रीं कृत्वा निषेवसे हिमे ॥३४॥
तदाऽत्राऽहं तव भ्राता नरो भवामि तेऽनुजः ।
धर्मपुत्रो मानसोऽस्मि वद यत्तत्करोम्यहम् ॥३५॥
धर्मपुत्रा हि चत्वारो नारायणा भवन्ति ये ।
ज्येष्ठो हरिस्त्वक्षरेऽस्ति भवान् श्रीपुरुषोत्तमः ॥३६॥
कृष्णो गोलोकधामस्थो नारायणो विकुण्ठके ।
स त्वं शीलस्वरूपश्च कृष्णनारायणो हरिः ॥३७॥
माणिक्यासहितस्त्वत्र वर्तसे परमेश्वरः ।
तवांऽशोऽहं नरश्चाऽस्मि करोम्याज्ञां प्रदर्शय ॥३८॥
इत्युक्त्वा प्रणनामैनं बद्रीनाथं नरायणम् ।
तदा नारायणः प्राह भ्रातः कल्याणकृद्भवान् ॥३९॥
लोकोपकारकर्ताऽस्ति मत्पराक्रमरूपवान् ।
वर्तसे त्वं मम वीर्यबलशक्त्यादिमूर्तिकः ॥४०॥
इमे देवादयो भक्ताः प्रार्थयन्ति हि बद्रिकाम् ।
बदराणि समिच्छन्ति नित्यभोजनसिद्धये ॥४१॥
एकैव बदरी त्वद्य वर्तते मूलदेविका ।
बदराणि ह्यसंख्यानि जातान्यस्याः फलानि वै ॥४२॥
निर्बीजानि भवन्त्येव सुराद्यैरर्थितानि च ।
तानि सर्वाणि दीयन्ते भक्ष्यन्ते च सुरादिभिः ॥४३॥
एकवारं तृप्तिदानि भविष्यन्ति न चाधिकम् ।
किन्तु वंशकराण्येव तानि स्युर्यदि सर्वदा ॥४४॥
अक्षय्यवंशदान्येव तदा लोकसुखं भवेत् ।
बदर्या वंशवृद्धिश्च तापसानां च भोजनम् ॥४५॥
फलाहारात्मकं स्याच्च भूतले दिवि चापरे ।
सर्वलोकेषु बदरीवंशो भवेत् परार्थकः ॥४६॥
बदरेषु ततश्चात्र बीजानीष्टानि सन्ति मे ।
भूत्वा त्वं बीजरूपोऽत्र फलेष्वाविश चाऽनुज ॥४७॥
त्वदात्मकैर्बीजमूलैर्बदर्यः कोटिशोऽपराः ।
भविष्यन्ति वनारण्योद्याक्षेत्राटवीष्वपि ॥४८॥
सर्वलोकेषु बीजाढ्यबदराण्युत्तमान्यपि ।
भविष्यन्ति तवादेशाद् बदरे बीजवद्भव ॥४९॥
इत्युक्तः सहसा भक्तो नरो नारायणाज्ञया ।
बीजरूपोऽभवद् बद्रीमूले विवेश च द्रुमे ॥५०॥
वदरेषु समस्तेषु बीजात्मा स व्यजायत ।
नरोऽयं बदरीगर्भो व्यजायत सुवंशकृत् ॥५१॥
तापसेनापि वेषेण पृथक् चापि स्थितोऽभवत् ।
नारायणः प्रसन्नोऽभूद् दृष्ट्वा बीजात्मकं नरम् ॥५२॥
बदरीश्रीः प्रसन्नाऽभूद् वंशवती ह्यजायत ।
अथ नारायणः प्राह देवादिभ्योऽतिगौरवम् ॥५३॥
माहात्म्यं बदराणां वै बदर्याश्चाघनाशनम् ।
एतन्मूला बदर्यो वै भविष्यन्ति क्षितौ दिवि ॥५४॥
चन्द्रे मेरौ सत्यलोके जने तपसि मानवे ।
लोकालोके रैवताद्रौ पुष्करे दक्षिणे कुरौ ॥५५॥
ब्राह्मे परीप्रदेशेषु प्राचीनेष्वमरीशके ।
गौरीलोके चाब्रिक्तेषु तथोष्ट्रेषु च भूमिषु ॥५६॥
पातालादौ मुनीनां च निवासेषु शुभेष्वपि ।
नदीतीरेष्वरण्येषु सिंहारण्यादिकेष्वपि ॥५७॥
धर्मारण्येषु सर्वत्र भविष्यन्ति हि बद्रिकाः ।
सर्वर्तुफलदाः काश्चित् स्वर्गादौ चाक्षया सदा ॥५८॥
काश्चिद् देशादिगुणका यथर्तुफलदा अपि ।
काश्चिद् वर्षासु फलदाः काश्चिच्छीतफलप्रदाः ॥५९॥
काश्चिदुष्णर्तुफलदा भविष्यन्ति द्रुमात्मिकाः ।
काश्चित्पौष्यस्तथा माध्यः फाल्गुन्यश्चैत्र्य इत्यपि ॥६०॥
भूभागेषु भविष्यन्ति बदर्यश्चापि पुत्रिकाः ।
पक्वमिष्टायतपुष्टमहत्फलप्रदाः शुभाः ॥६१॥
माघे पूजां बदरीणां करिष्यन्ति तु ये जनाः ।
तेषां लक्ष्मीरमापूजाफलं स्यान्नात्र संशयः ॥६२॥
वसन्तस्य दिने त्वेकादश्यां वा पूर्णिमातिथौ ।
अमायां वा बदर्यास्तु गत्वा मूलस्य सन्निधौ ॥६३॥
फाल्गुनैकादशिकायां फाकनपूर्णिमातिथौ ।
फाल्गुनस्यामावास्यायां गत्वा श्रीबदरीतले ॥६४॥
पूजयेद्बदरीं देवीं जलार्पणेन वै पुरा ।
गूडं दद्याच्छर्करां च मिष्टान्नं मूलकेऽर्पयेत् ॥६५॥
दुग्धं समर्पयेच्चापि धूपं दीपं तथाऽक्षतान् ।
कुंकुमं च गुलालं च चन्दनं जलमर्पयेत् ॥६६॥
यज्ञोपवीतकं सूत्रं शाटीसूत्रं च कज्जलम् ।
सिन्दूरकं च भूषार्थं पुष्पमालां समर्पयेत् ॥६७॥
आरार्त्रिकं प्रकुर्याच्च प्रदक्षिणं नमःक्रियाम् ।
ताम्बूलकं प्रदद्याच्च फलं दद्यान्मनोहरम् ॥६८॥
बद्रीदेव्यै ध्वजं दद्यान्नारायण्यै नमोऽस्तु ते ।
श्रीमाणिक्यै नमस्तुभ्यं रमायै ते नमोनमः ॥६९॥
नमः श्रीपुरुषोत्तम्यै पद्मावत्यै नमोनमः ।
नमस्ते बालयोगिन्यै कार्ष्ण्यै देव्यै नमोनमः ॥७०॥
शूलांऽकुशधरायै ते हिमजायै नमोऽस्तु ते ।
त्वं लक्ष्मीस्त्वं सती श्रीश्च त्वं रमा राधिका प्रभौ ॥७१॥
त्वं पार्वती महालक्ष्मीस्तस्यै ब्राह्म्यै च ते नमः ।
नमस्ते बदरीश्वर्यै हरिण्यै ते नमोनमः ॥७२॥
तापसानां फलदात्र्यै सुधाधर्त्र्यै च ते नमः ।
त्रैलोक्यवन्दितायै ते मातर्बद्रि च ते नमः ॥७३॥
तव छायाऽनादिमायाछायानाशकरी मता ।
तव मूलं ब्रह्ममूलं मूलप्रकृतिवारकम् ॥७४॥
तव शाखा धामशाखा उल्लंघ्याऽक्षरधामदाः ।
तव पत्राणिच्छत्राणि ब्रह्मसाम्राज्यदानि वै ॥७५॥
तव फलानि भुक्तानि योगिनां फलदानि च ।
सर्वयोगफलदानि परब्रह्मप्रदानि च ॥७६॥
तव बीजानि लोकानां वासनाक्षयकाणि वै ।
तव वंश्या बदर्यश्च पापिनां पापनाशिकाः ॥७७॥
त्वत्फलानां भक्षणं च मोक्षफलादनप्रदम् ।
त्वत्पत्राणां स्पर्शनं च ब्रह्मानन्दगृहप्रदम् ॥७८॥
त्वन्मूलेषु नमनं च सर्वाऽसुरविनाशनम् ।
त्वन्मूर्तेर्दर्शनं बद्रि पखह्माऽवलोकनम् ॥७९॥
त्वत्फलाढ्यजलैः स्नानं ब्रह्मह्रदावगाहनम् ।
त्वदधःशयनं बद्रि सर्वतीर्थाधिवासनम् ॥८०॥
त्वन्मूले जलदानादि पितॄणां तृप्तिदायकम् ।
त्वत्फलार्पणमेवापि श्राद्धेऽयुताधितृप्तिदम् ॥८१॥
त्वत्फलानां प्रपक्वानां दानं ब्रह्मरसप्रदम् ।
सर्वरसप्रदं बद्रि सर्वसम्पत्प्रवर्धनम् ॥८२॥
बदरी यत्र वै स्थाल्यां तत्राऽक्षरं पदं मम ।
यत्र श्रीबदरीदेवी तत्र श्रीबद्रिकाश्रमः ॥८३॥
बद्रीवने गतप्राणो देही मोक्षाय कल्पते ।
बद्रीतले न वै याम्या दूता यान्ति कदाचन ॥८४॥
पापिनां पापनाशानि बदर्यधो भवन्ति वै ।
मरणे बदरीद्रष्टा स्वर्गं मोक्षं च विन्दति ॥८५॥
फलं भुंजन् बदर्यास्तु मृतो याति परां गतिम् ।
बदरीपुष्पसंव्याप्तशय्यो यात्यक्षरं पदम् ॥८६॥
आपद्गतस्य बदरीपूजयाऽऽपद्विनाशनम् ।
दुःस्वप्नं जायते नैव बदरीसेविनः क्वचित् ॥८७॥
भूतप्रेतपिशाचानां नश्यन्त्युपद्रवास्तथा ।
ग्रहोपपीडा नश्यन्ति बदरीसेविनां सदा ॥८८॥
धार्या बदरमाला वै कण्ठे माघ्यां शुभे दिने ।
भक्ष्यं च बदरं पक्वं मिष्टं माघ्यां शुभे दिने ॥८९॥
देहे बदरगर्भश्च रसो मृद्यः शुभेऽहनि ।
स्नानं कार्यं बदराढ्यजलैश्चापि व्रतेऽहनि ॥९०॥
तेन यावन्मखानां वै चावभृथफलं भवेत् ।
सर्वयज्ञफलं बद्रीपूजनात् स्यान्न संशयः ॥९१॥
बदरीफलहाराँश्चाऽर्पयेत् पक्वफलकृतान् ।
देवकार्यार्थमेवापि वदरीकाष्ठमर्पयेत् ॥९२॥
हवनार्थं बदराणि पक्वानि चार्पयेत्तथा ।
फलाहारार्थमेवापि बदराणि समर्पयेत् ॥९३॥
शर्करासहितान्येव घृतयुक्तानि वै तथा ।
दुग्धयुक्तानि यतये तापसाय समर्पयेत् ॥९४॥
माघ्यां गत्वा बदर्यास्तु तले भोजनमाचरेत् ।
सर्वे देवा भुञ्जते तत् तृप्यन्ति पितरोऽपि च ॥९५॥
विप्राय साधवे दद्याद् दानानि बदरीतले ।
अनाथाय स्त्रियै दद्यादक्षयानि भवन्ति हि ॥९६॥
पुरा पित्रे सुशीलाख्यो विप्रो दत्वा शुभं फलम् ।
बदरं पितृकरयोः श्राद्धे त्विन्द्रपदं ह्यगात् ॥९७॥
बदरं बदरीनाथं बद्रिकां बद्रिकाश्रमम् ।
बद्रीबीजं वदन् मर्त्यो ब्रह्मभूयाय जायते ॥९८॥
स्मृत्वा बदरीं बदरं वद्रीश्वरं हिमाश्रमम् ।
अन्तकाले त्यजन् देहं यास्यत्यूर्ध्वो परां गतिम् ॥९९॥
नारीं श्रीबदरीदेवीं स्मृत्वा यास्यति चाक्षरम् ।
भविष्यति हरेः पत्नी माणिक्यायाः सखीश्वरी ॥१००॥
नरो यास्यति मोक्षं च नारायणपदाम्बुजे ।
पशवः पक्षिणश्चापि कीटाश्च जलजा अपि ॥१०१॥
तृणाद्या बदरीं श्रित्वा मृत्वा यास्यन्ति मोक्षणम् ।
बदरीयं नरनारायणांऽगना प्रवर्तते ॥१०२॥
तस्या योगेन भुक्तिं च मुक्तिं स्वर्गादिसम्पदः ।
प्राप्स्यन्ति कृतपापा वै भविष्यन्ति हि पावनाः ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने देवादीनां सततबदरीफलाप्तिवाञ्च्छायां बदर्याः सबीजफलवत्त्वकरणं, नरस्य बीजरूपता, बदरीमाहात्म्यं चेत्यादिनिरूपणनामा पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP