संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ५१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ५१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५१ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां गुरुघ्नमोक्षदाम् ।आसीत् खनिपुरे विप्रो नाम्ना सुरप्रसादकः ॥१॥मातापितरौ वार्धक्ये सुतमेकमवापतुः ।बुद्ध्या युक्तं च वात्सल्यपात्रं स्नेहास्पदं परम् ॥२॥लालयामासतुः सम्यक् पालयामासतुर्बहु ।वर्धयामासतुः खानपानादिभिः समाहितौ ॥३॥मोदयामासतुः पुत्रं वस्त्रभूषादिभिस्तथा ।पाठयामासतुश्चापि विप्रविद्यां च वैदिकीम् ॥४॥तथापि बद्रिके भाग्यं यादृशं रेखयोत्थितम् ।तादृशं भुज्यते काले भोगार्थे समुपस्थितम् ॥५॥यदि पूर्वकृतं पुण्यं पुत्रजन्मप्रदं भवेत् ।तदा पुत्रो जायतेऽथ ऋणाऽपाकरणाय सः ॥६॥यदि पुण्यं न दीर्घं स्याज्जीवनार्थं तथा सुतः ।उत्पद्य मरणं चैति दैवं तादृक् हि निर्मितम् ॥७॥यदि पुण्यं दशवर्षायुष्यप्रदं भवेत्तदा ।तावन्मात्रं गृहे स्थित्वा परलोकाय याति सः ॥८॥यदि सेवाऽर्थकं पुण्यं पित्रोः पुत्रस्य चार्जितम् ।भवेत्तदा सुतः सेवां पित्रोः करोति वै ध्रुवाम् ॥९॥यदि पुण्यं न सेवार्थं पितृभ्यां पालितोऽपि सः ।तदा पितरौ सन्त्यज्य परदेशं परगृहम् ॥१०॥पराऽङ्कं वा परवशं परपुत्रत्वमेत्यपि ।सेवते न सुतो नैजः पितरावप्यपुण्यतः ॥११॥परपुत्रः सेवतेऽप्यपितरौ पुण्ययोगतः ।कर्मबन्धो हि संसारो यत्रर्ण तत्र पद्यते ॥१२॥अनृणं न पशुश्चापि समेति मानवः कुतः ।बद्रिके यद् यददृष्टजन्यं तद् दूरमित्यपि ॥१३॥साक्षात्परम्परया वा तदर्थमुपयाति तम् ।कन्या गौर्गजहंसाद्या जायन्ते परभूमिषु ॥१४॥प्रपद्यन्तेऽदृष्टवन्तं स्वामिनं परभूस्थितम् ।अन्नं पत्रं फलं पुष्पं क्षारं सलिलमोषधम् ॥१५॥प्रजायन्तेऽन्यत्र भाग्यवन्तोऽन्यत्राऽऽप्नुवन्ति तान् ।तापः शैत्यं पयो मुद्राऽम्बरं भूषा च हीरकः ॥१६॥खन्यन्तरोद्भवाश्चापि प्राप्नुवन्ति परं जनम् ।एवं वै बद्रिके लोके कर्मसम्बन्धयोजितम् ॥१७॥प्रवर्तते महाचक्रमगम्ययोगदायकम् ।यदर्थं यतते लोकस्तल्लोकार्थं न तिष्ठति ॥१८॥यदर्थे न यतते तत् प्रसह्याऽऽगत्य तिष्ठति ।एवंविधेऽत्र लोकै वै ज्ञानिनां रागशून्यता ॥१९॥अपरिग्रहता चापि विशोकता विबद्धता ।आत्मारामसुखिता च ब्रह्मानन्दपदस्थितिः ॥२०॥जायन्ते निर्गुणत्वं च मायाशून्यत्वमित्यपि ।मोक्षणं ते प्राप्नुवन्ति विवेकिनो हि भक्तितः ॥२१॥अन्यथा तु सुयोगे स्यात् सुखं दुःखं वियोगके ।कर्मबद्धं सुखं दुःखं योजनं च वियोजनम् ॥२२॥कर्मशून्यस्य मोक्षः स्याद् दुर्भाग्यस्य न मोक्षणम् ।सर्वेऽर्थाः सन्ति लोकेऽत्र दुर्भाग्या नाप्नुवन्ति हि ॥२३॥वार्धक्ये पुत्रवत्तापि दौर्भाग्ये सुखदा न हि ।तथा सुरप्रसादस्य पितरावतिवत्सलौ ॥२४॥प्रेषयामासतुः पुत्रमध्ययनार्थमुत्सुकौ ।प्रभावरपुरं विद्वद्विप्रगृहे हितावहौ ॥२५॥बहुविद्यादिलाभार्थ ययौ सुरप्रसादकः ।अध्येतुमधिकां विद्यामाशा हि बलवत्तरा ॥२६॥सोऽपि विद्येच्छया त्यक्त्वा मातरं देवनन्दिनीम् ।पितरं देवधर्माणं ययौ गुरोर्गृहं द्रुतम् ॥२७॥नत्वा गुरुं भर्गचात्वालकं वृत्तान्तमाह तम् ।गुरुः प्रसन्नचित्तश्चाध्यापयामास तं मुदा ॥२८॥उवास बहुवर्षाणि गुरोर्गृहे निरामयः ।निश्चिन्तो नित्यपाठी च महोद्यमपरायणः ॥२९॥दैवज्ञता तत्त्ववित्त्वमात्मविद्यां समार्जयत् ।विद्वान् कीर्तिपरिपूर्णो जातो विद्याप्रभाववान् ॥३०॥बद्रिके स तु - विद्याप्तिपुण्यवानपि सर्वथा ।पित्रो सेवापुण्यहीनः तयोः सेवां न लब्धवान् ॥३१॥अधित्याऽपि गृहं नैव ययौ विद्याभिमानवान् ।कदर्यस्य गृहं यद्वन्नैजं गृहं न रोचते ॥३२॥अतो नैव ययौ पित्रोः सेवालाभं न चाप्तवान् ।स लाभस्तु गतश्चाऽस्य तावद्वृद्धौ तु तद्गुनहे ॥३३॥वार्धक्येनाऽऽमयव्याप्तावभूता ll-वरपीडितौ ।सस्मरतुः सुतं त्वेकं विद्वासं दूरवासिनम् ॥३४॥अधित्वा नाऽऽगतं प्रेष्ठं तत्यजतुश्च जीवनम् ।पुत्रपुत्रेतिपुत्रेति वदन्तौ मरणं गतौ ॥३५॥बद्रिके बहुपुण्येन पित्रोः सेवा तु लभ्यते ।मरणस्य क्षणे पुत्राऽऽस्यप्रदर्शनमित्यपि ॥३६॥बहुपुण्येन भवति न भवेत् कर्महिनयोः ।एवं पापं तु पुत्रस्य जातं तदा तु बद्रिके ॥३७॥पित्रसेवाकृतं सर्वं मृत्युर्निःश्वासकारितम् ।विद्याधनं न वै श्रेष्ठं पितृसेवादिसन्निधौ ॥३८॥पितृसेवा चातिपुण्यतमा श्रेष्ठा च पुण्यदा ।मोक्षदा स्वर्गदा सर्वपापध्वंसविधायिनी ॥३९॥सर्वापन्नाशिनी बद्रि पितृसेवोत्तमोत्तमा ।सा न लब्धा सुतैश्चेत् सा परा हानिः प्रजन्मिनाम् ॥४०॥सर्वं विनाशितं तेन पितृनिःश्वासभस्मितम् ।अप्यन्याशीःसहस्राणि दह्यन्ति पितृशापतः ॥४१॥अन्यशापसहस्राणि नश्यन्ति तत्प्रसादतः ।बद्रिके पुण्यहीनस्य सुरप्रसादकस्य ह ॥४२॥पित्रसेवोद्भवं पापं हानिदं समजायत ।विद्याध्यापयितुर्द्वेषं तत आरभत द्विजः ॥४३॥भर्गचात्वालको विद्यागुरुः ख्यातोऽभवद्ध्यति ।सहते न स तां ख्यातिं दुष्टभावोऽतिमानवान् ॥४४॥गुरुं स निन्दति नित्यं विद्यायां गौरवं गतः ।गुरोः कीर्तिं खण्डयति गतोऽन्यत्र सभादिषु ॥४५॥एवं पापेन लिप्तः स विशेषेणाऽप्यजायत ।दुष्टा बुद्धिरुत्थिताऽस्य विद्वानहं न चाऽपरः ॥४६॥गुरुर्मया समो नास्ति तदाऽन्यस्य तु का कथा ।एवं स्वं गौरवं वक्ति चिन्तयत्येव तादृशम् ॥४७॥मनसा वचसा निन्दां द्वेषं करोति सद्गुरोः ।कर्मणाऽपि क्रतौ श्रैष्ठ्यं नैजं विज्ञापयत्यपि ॥४८॥कर्मकाण्डे च विज्ञाने गर्वं करोति चोर्ध्वगम् ।बद्रिके नाशमायाति पुण्यं सर्वं गुरुद्विषः ॥४९॥विद्या भाग्यं सम्पदश्च यशो नाशं प्रयान्ति च ।पापं भ्रमो विचित्तत्वमुन्मत्तता भवन्ति च ॥५०॥औन्मत्येन तु दोषेण सहितोऽपि गुरोर्गृहे ।वसत्येव स तं द्वेष्टि गुरुं चेद् दृष्टिगोचरम् ॥५१॥पुत्रवत् पालितं शिष्यं दयालुर्गुरुदेवता ।न निष्कासयति स्थानाद् वात्सल्यं हि निरोधकृत्। ॥५२॥उन्मत्तोऽपि महाविद्वान्नव्यवस्थो विवेकवान् ।पापाभिभूतहृदयः पापनष्टविचारवान् ॥५३॥एकदा स्वगुरुं सुप्तं गत्वा हस्तकुठारकः ।चिच्छेद मस्तकं रात्रौ ननर्त चित्तवर्जितः ॥५४॥नृत्यघोषं समाकर्ण्य तत्र भार्या गुरोस्तदा ।तथा शिष्या अपरे च समाययुस्तदन्तिके ॥५५॥तावत् कुठारहस्तं तं वीक्ष्य भासं प्रपेदिरे ।वीक्ष्य हतं गुरुं सर्वे रुरुदुर्मुक्तकण्ठिनः ॥५६॥हाहाकारो महान् जातश्चाश्रमेषु द्विजातिषु ।विचित्तस्याऽतिदुष्टत्वं ज्ञात्वा शापान्ददुस्तदा ॥५७॥अहो हत्या कृताऽनेन दुष्टेन गृहवासिना ।महाचाण्डालतुल्येन सोऽपि हतोऽस्तु तत्तथा ॥५८॥गुरोर्हत्या महाहत्या शतस्त्रीहत्यया समा ।स्त्रीहत्या तु शतभ्रूणहत्यातुल्या निगद्यते ॥५९॥भ्रूणहत्या शतमत्स्यहत्यासमा निगद्यते ।मत्स्यहत्या शतवृक्षहत्यासमा भवत्यपि ॥६०॥वृक्षहत्या शतस्तम्बनाशसमा प्रकीर्त्यते ।पिता बीजप्रदः श्रेष्ठो माता गर्भस्य रक्षिणी ॥६१॥गुरुर्ज्ञानप्रदानेन मुक्तिदो हि तयोः परः ।संसारार्णवमग्नानामुद्धारकृद्गुरुर्हरिः ॥६२॥मोक्षं करोति जीवानां पापानि क्षालयत्यपि ।कृष्णवद्रक्षणं मायापाशात् करोति सद्गुरुः ॥६३॥स वै श्रेष्ठतमश्चाऽऽस्तेऽसंख्यप्राणिप्रमोक्षकृत् ।नारायणस्य विज्ञानं परिचयं ददात्यपि ॥६४॥नयत्यग्रे गतिं गच्छन्नाकर्षयन् प्रपन्नकम् ।साक्षी यो धर्मकर्मादौ याम्यकष्टनिवारकः ॥६५॥ब्रह्मानन्दप्रदाता च गुरुः श्रेष्ठतमोऽधिकः ।गुरोर्मुखे चतुर्वेदा जिह्वायां शारदा सती ॥६६॥गायत्री चौष्ठयोस्तस्य सावित्री कण्ठवर्तिनी ।मस्तके ब्रह्मनिर्वाणं भाले रुद्रस्थली गुरोः ॥६७॥भ्रूमध्ये तु भवश्चास्ते ब्रह्मा भूकुटिमध्यगः ।विष्णुर्गुरोस्तु हृदये सूर्यचन्द्रौ तु नेत्रयोः ॥६८॥कर्णयोर्वर्तते शब्दब्रह्म शाश्वतमक्षरम् ।हस्तयोरिन्द्रदेवाद्या नासायामश्विनीसुतः ॥६९॥गोलोकश्चापि वैकुण्ठस्तनयोर्वर्तते गुरोः ।उदये त्वमृतं धाम नाभावव्याकृतं पदम् ॥७०॥जघने सत्यलोकं च गुप्ते ब्रह्मव्रतं गुरोः ।कट्यां हिरण्यगर्भोऽस्ति पृष्ठे मेरुः सुरालयः ॥७१॥नितम्बयोर्महापृथ्वी प्रकृतिर्गह्वरेऽस्ति च ।सक्थ्नोः श्वेतद्वीपदुग्धोदधी स्तः श्रीगुरोः सदा ॥७२॥जान्वोः सुतलवासाश्च जंघयोर्दिव्यशक्तयः ।पादयोः श्रीगुरोः सर्वतीर्थान्यभिवसन्ति वै ॥७३॥पितरश्चाऽस्य केशेषु सिद्धाश्चाऽस्य त्वचि स्थिताः ।प्राणे पुण्यानि सर्वाणि मोक्षो गुरोः करे स्थितः ॥७४॥गुरोः प्रसादे स्वर्गाणि संकल्पे सम्पदः स्थिताः ।गुरोः क्रियायां वै चिन्तामणयः कामधेनवः ॥७५॥सेवायां कल्पवृक्षाश्च वचने कल्पवल्लयः ।इच्छायामक्षयपात्रं गुरोः स्नेहे हरिः स्वयम् ॥७६॥गुरोः शरणे मुक्तिश्च गुर्वासने श्रियः पुरम् ।गुरोर्मूर्तिः परब्रह्म वासुदेवो गुरौ स्थितः ॥७७॥श्रीकृष्णोऽस्ति गुरुतादात्म्यतां प्राप्तः परेश्वरः ।सर्वकामप्रपूरः श्रीसद्गुरुर्बद्रिके भुवि ॥७८॥विना गुरुं न निस्तारो भवार्णवरणस्य वै ।अगुरूणां देहिनां तु गतिः कुत्रापि नास्ति वै ॥७९॥तस्माद् गुरुं श्रयेद् भक्त्या सर्वस्वार्पणसेवया ।गुरुघ्नः सर्वविद्याघ्नः सर्वदेवादिनाशकः ॥८०॥स्वर्गमोक्षर्द्धिसम्पद्घ्नश्चात्मघ्नो ब्रह्महा मतः ।सर्वपुमर्थहाः प्रोक्तः सर्वशक्तिविघातकः ॥८१॥गतिर्नास्ति स्थितिर्नास्ति स्थानं नास्ति गुरोर्हनः ।यशो नास्ति सुखं नास्ति सर्वथा धिग् गुरोर्हनः ।८२॥सर्वपापानि लोकानां नश्यन्ति गुरुसन्निधौ ।गुरोर्द्वेषात्मकं पापं कृष्णाग्रेऽपि न नश्यति ॥८३॥श्रीकृष्णो गुर्वधीनोऽस्ति राधालक्ष्म्यादिका अपि ।गुर्वधीना देवताश्च सर्वातिवाहिकीप्रभाः ॥८४॥गुरुस्त्वनर्गलं दिव्यं कपाटं परमोक्षिणाम् ।गुरुर्विद्युत्प्रकाशोऽस्ति महादीपोऽन्तरप्रभः ॥८५॥तद्धाते सर्वघातानां जायन्तेऽघानि घातिनाम् ।तत्सेवने सर्वसेवाफलान्यभिमिलन्ति च ॥८६॥तत्प्रसादे सर्वप्रसन्नता भवन्ति सेविनः ।गुरोर्लाभे सर्वलाभा गुरोर्हाने लयो महान् ॥८७॥गुरोर्मूर्तिः सदा दिव्या त्वाशिखानखमद्भुता ।नारायणः पृथङ् नास्ति गुरोर्मूर्तेः कदाचन ॥८८॥पूजया सद्गुरोः कृष्णनारायणः प्रपूज्यते ।भोजनेन गुरोः कृष्णनारायणो भुनक्ति च ॥८९॥जलपानेन च गुरोः कृष्णस्तृप्तो पिबत्यपः ।गुरोर्देहस्य सेवाभिः सेव्यते परमेश्वरः ॥९०॥गुरोर्नाशेन यावत्यः सेवा नष्टा भवन्ति वै ।एवं तेन द्विजेनापि गुरोर्हत्या कृता यतः ॥९१॥सर्वं तस्याऽभवद् बद्रि विनष्टं शुभसंज्ञितम् ।विचित्तो जडवन्मूर्ख उन्मत्तो बुद्धिवर्जितः ॥९२॥भ्रमन् मार्गे वनेऽरण्ये निर्ययौ स गुरोर्गृहात् ।शर्करानगरं प्राप्तो दैवात्पूर्वानुकर्मतः ॥९३॥कथास्थानं ययौ विद्वाँस्तस्थौ क्षणं मुदं ययौ ।संहितायाः कथां श्रुत्वा पीत्वाऽमृतं हरेस्तदा ॥९४॥प्रसादान्नं महापंक्तौ बुभुजे च कथामखे ।सतां महर्षिवर्याणां दर्शनं प्राप्तवान् मुदा ॥९५॥गुरुहत्याकृतं पापं शनैः शनैर्न्यवर्तत ।मनसः स्वस्थता जाता देहभानं व्यवर्तत ॥९६॥उन्मादोऽस्य लयं प्राप्तो विचित्तता सुचित्तता ।जाता ततः सशोकेन लोमशं शरणं ययौ ॥९७॥न्यवेदयत् समस्तं तत् पापं दुःखं विशोधनम् ।लोमशो ब्रह्मकूर्चाख्यं व्रतं तस्मै ददौ तदा ॥९८॥मासं चक्रे पलाशादिपत्राणां वह्निना कृतम् ।गव्यानां क्वथितं वारि पपौ शुद्धिं जगाम सः ॥९९॥कथायाः श्रवणेनाऽसौ निष्पापः साधुसेवया ।विप्रो जातस्ततो मन्त्रमस्मै श्रीलोमशो ददौ ॥१००॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।कृष्णनारायणस्वामिन् 'श्रीहरेवल्लभ प्रभो ॥१०१॥अनादि श्रीकृष्णनारायण पद्मावतीप्रभो ।एवं स भजनं चक्रे ध्याननिष्ठो हरौ स्थितः ॥१०२॥तीव्रसंवेगमापन्नः स्मृत्वा हत्यां गुरोः स्वयम् ।पितृत्यागं तथा स्मृत्वा महाशोकमगात्तथा ॥१०३॥रात्रिन्दिवं भजनं स चकार पारमेश्वरम् ।विरागभावमापन्नः प्रातिलोम्यमवाप सः ॥१०४॥सर्वा वृत्तीः परावृत्त्य प्रत्याहारं परं गतः ।धारयामास सततं प्रभुं कृष्णं महाप्रभुम् ॥१०५॥दध्यौ कृष्णं रमाकान्तं गोपालबालकं हृदि ।समाधौ श्रीपतिं बद्रि साक्षात् प्रापाऽतिवेगवान् ॥१०६॥माघशुक्लैकादश्यां स प्रातः स्नात्वा कथास्थलम् ।भजन्नाम रटन् प्राप तस्थौ व्यासं व्यलोकयन् ॥१०७॥पुपूज मन्त्रसहितो व्यासं च संहितां तथा ।शुश्राव च सभासंस्थः कथान्ते कीर्तनोत्तरम् ॥१०८॥शीघ्रं समाधिमापन्नः प्राणाः संकुचिता द्रुतम् ।पपात देहो भूमौ वै श्रोतॄणां पश्यतां सताम् ॥१०९॥विमानमम्बराद् दिव्यमवातरत् समुज्ज्वलम् ।कृष्णनारायणस्तस्माद् बहिरागत्य तं द्विजम् ॥११०॥दिव्यरूपं सुमुक्तं च विधाय दिव्यविग्रहम् ।नीत्वा विमानके तूर्णं हसन् धामाऽक्षरं ययौ ॥१११॥आश्चर्यं परमं जातं कथाश्रवणकारिणाम् ।अहो गुरुघ्नविप्रस्य शरण्यो भगवान् प्रभुः ॥११२॥शरणागतरक्षाकृत् पापं विधूय सर्वथा ।विप्रं भक्तं निजं धाम निन्ये देहिषु वत्सलः ॥११३॥एतादृशी कृपा तस्य घटते परमात्मनः ।जीवास्तु सर्वथा पापाः सन्ति वै पापकारिणः ॥११४॥कुपालुर्भगवानस्ति कृपालवश्च साधवः ।विना विनिमयं वा च करमृणं विना खलान् ॥११५॥दुष्टान् पापान् पावयित्वा प्रेषयन्त्यक्षरं पदम् ।एवं वै बद्रिके कृष्णो मोक्षं ददाति सेविने ॥११६॥पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।भुक्तिमुक्तिः शुभं स्वर्गं भवेदेव न संशयः ॥११७॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सुरप्रसादनामकविप्रस्य मातापितृसेवाविहीनस्य विद्याप्रदगुरुहत्याविधायिनोऽपि श्रीलक्ष्मीनारायणसंहिताकथाश्रवणेन सतां सेवया पापनाशो मुक्तिश्चेत्यादिनिरूपणनामैकपञ्चाशत्ततमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP