संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९९ Translation - भाषांतर श्रीनरनारायण उवाच-बद्रिके भगवान् कृष्णनारायणो मुहूर्ततः ।सत्यपारं ययावष्टावरणान्यप्यलंघयत् ॥१॥महातेजोमयेनातिदिव्यविमानकेन सः ।वैराजलोकमासाद्य वैराजेन समं हरिः ॥२॥वैराजभवने तत्र पूजितः समुवास सः ।सिषवे चाति वैराजो वैराज्ञीसहितस्तदा ॥३॥वैराजीयप्रजाश्चाप्यानर्चुर्दिव्योपचारकैः ।आरार्त्रिकं हरेश्चक्रुर्महोपदा न्यधुः पुरः ॥४॥हरिं प्रसादयामासुः सर्वार्पणैर्मुहुर्मुहुः ।ईश्वराणां दिव्यरीत्या सेवयामासुरच्युतम् ॥५॥वैराजस्य सुताश्चापि ब्रह्मविष्णुमहेश्वराः ।ब्रह्माणोऽष्टाननाश्चापि शतास्या अयुताननाः ॥६॥लक्षाननास्तथा कोट्याननाः सिषेविरे हरिम् ।त्र्यक्षाश्च शंकराश्चैकपञ्चाशन्नेत्रकाः शिवाः ॥७॥नवनवतिनेत्राश्चैकसहस्रादिनेत्रकाः ।अयुतैकादिनेत्राश्च लक्षैकादिसुचक्षुषः ॥८॥कोटयेकचक्षुषश्चापि सदाशिवाः सिषेविरे ।तथाविधाश्च ब्रह्माण्यः शिवाश्चापि तथाविधाः ॥९॥सिषेविरे ब्रह्मनारीर्नारायणं सिषेविरे ।विष्णवोऽष्टभुजाश्चापि शतायुतभुजास्तथा ॥१०॥लक्षकोटिभुजाश्चापि वैष्णव्यश्च तथाविधाः ।सिषेविरेऽनादिकृष्णनारायणं समर्पिताः ॥११॥नैजलोकेषु सर्वेषु कार्तिके मार्गशीर्षके ।पौषे चाप्यनयन् कृष्णं चतुर्दशस्तरेषु च ॥१२॥अष्टाविंशतिकक्षेषु षट्पञ्चाशत्क्षितिष्वपि ।ततो द्विगुणकक्षेषु निन्युर्नारायणं हरिम् ॥१३॥स्वागतं चक्रिरे पूजां चक्रिरे चोपदा ददुः ।भोजयामासुरिष्टानि दिव्यानि भोजनानि च ॥१४॥भ्रामयामासुरेतेषां राज्येषु विविधेष्वपि ।विदायं प्राप्य भगवान् महाविष्णोर्महास्पदम् ॥१५॥हैरण्यं धाम सुभगं ययौ श्रीपरमेश्वरः ।यत्राश्चर्यमभूद् दिव्य बद्रिके प्रवदामि ते ॥१६॥महाविष्णुस्तदा श्रीमद्गोपालकृष्णमूर्तिमान् ।स्वपितृरूपोऽदृश्यत पितृदेहे तिरोभवत् ॥१७॥महालक्ष्मीस्तथा श्रीमत्कंभरावर्ष्मणि स्थिता ।श्रीकंभरास्वरूपेणाऽदृश्यत च तिरोऽभवत् ॥१८॥मातापितृस्वरूपाभ्यां पूजितः पुत्र ईश्वरः ।बालकृष्णोऽतिभावेन प्राविर्भवद्भ्यां यत्ततः ॥१९॥आश्चर्यं तत्परं वीक्ष्य तदा ब्रह्मप्रियादिकाः ।मेनिरे तु तयो रूपौ श्वश्रूं श्वशुरमित्यपि ॥२०॥पद्मावतीप्रिये वीक्ष्य श्वश्रूश्वशुरौ रूपिणौ ।महासन्तोषमाप्ते ते ववन्दाते स्नुषात्मिके ॥२१॥मासमासं समस्तं वै महाविष्णोर्गृहे हरिः ।समस्तसार्थसहितश्चोवास पितृमानितः ॥२२॥पित्रोः सेवां कृष्णनारायणश्चकार सर्वदा ।ब्रह्मप्रियाद्याः सर्वाश्च सिषेविरे च तौ मुदा ॥२३॥विदायं जगृहे कृष्णस्ततः श्रीपुरमाययौ ।ललिताया महालक्ष्म्या दिव्यं धाम मनोहरम् ॥२४॥पूजितो वन्दितः कृष्णः सेवितश्च प्रसादितः ।उपदाभिस्तोषितश्चोवास तत्रापि पक्षकम् ॥२५॥ललितायाः स्वरूपे च तदा श्रीललिताऽऽविशत् ।अन्याश्च कोटिशः सख्योऽपश्यन्निजसुविग्रहान् ॥२६॥आश्चर्यं मेनिरे ताश्च वीक्ष्य नैजां तु दिव्यताम् ।पूजां च भोजनं लब्ध्वा प्राप्य विदायमित्यपि ॥२७॥परस्परं प्रसम्मिल्य कृष्णेन सह सत्वरम् ।विमानं च समारुह्य भूम्नोऽव्याकृतमाययुः ॥२८॥अनादिश्रीकृष्णनारायणं वीक्ष्याऽऽगतं तदा ।भूमा नारायणस्तूर्णं स्वागतं महदाचरत् ॥२९॥महेश्वराधिराजार्हमानं ददौ सुसैन्ययुक् ।तत्पत्न्यश्च रमाद्याश्चाऽऽगायन् कृष्णस्य गीतिकाः ॥३०॥अव्याकृते शुभे धाम्नि भूमसौधे हरिं तथा ।भूमा न्यवासयन्नित्यं मासमेकमपूजयत् ॥३१॥अभोजयत् सदा कृष्णं ससार्थं चामृतादिकम् ।ततो हरिर्विदायं च लब्ध्वा विमानमास्थितः ॥३२॥वासुदेवाऽमृतं धाम ययौ सार्थसमन्वितः ।वासुदेवो हि भगवानाचरत् स्वागतं हरेः ॥३३॥फाल्गुनार्धोत्तरे तत्रोवास कृष्णनरायणः ।वासुदेवालये रम्येऽसंख्यवैष्णवपूजितः ॥३४॥चैत्रे कृष्णो ययौ तूर्णमनिरुद्धालयं तथा ।प्रद्युन्नमन्दिरं चापि संकर्षणालयं ह्यपि ॥३५॥तैः सर्वेश्चातिदिव्यैः स्वैः सैन्यैश्च पार्षदादिभिः ।सम्मानितः स्वागताद्यैः पूजितश्चोपदार्पणैः ॥३६॥भोजितश्चाऽमृतभोगैः सेवितो भावभक्तिभिः ।विदायं प्राप्य भगवान् नैजं विमानमास्थितः ॥३७॥गोलोकं श्रीकृष्णधाम वैशाखे प्रययौ द्रुतम् ।श्रीकृष्णेन निजे धाम्नि परकृष्णः प्रपूजितः ॥३८॥सर्वगोलोकमुक्तादिसैन्यैः सन्मानितो हरिः ।राधादिभिरसंख्याभिर्ब्रह्मप्रियाश्च सेविताः ॥३९॥पूजिता भोजिताश्चापि वन्दिताश्च प्रसादिताः ।श्रीकृष्णभवने कृष्णनारायणोऽवसन्मुदा ॥४०॥राधाद्याः स्वस्वरूपेषु तिरोऽभवँस्तदा द्रुतम् ।आश्चर्यं परमं वीक्ष्य विज्ञाय निजरूपकम् ॥४१॥ततः प्राविरभवँश्च महानन्दं प्रपेदिरे ।सिषेविरे सुरत्यर्थं कृष्णेशं कृष्णयोषितः ॥४२॥श्रीकृष्णश्च तथा गोपा गोप्यश्चाप्यर्बुदाऽर्बुदाः ।हरिं प्रसादयामासुस्तोषयामासुरच्युतम् ॥४३॥श्रीकृष्णोऽपि तदा नैजं मूलं परमकारणम् ।अस्तौच्छ्रीपरमात्मानमवताराऽवतारिणम् ॥४४॥ 'यतो वयं चावतारास्तव मूर्तेः पृथक्स्थिताः ।स्मोऽत्र धामाधिपतयस्तस्मै पित्रे नमः सदा' ॥४५॥यतो राधादयश्चापि भवन्मूर्तेः प्रशक्तयः ।अस्मदर्धांगतां प्राप्तास्तस्मै पित्रे नमो नमः ॥४६॥यतश्चाऽन्येऽसंख्यरूपा अवतारा भवन्त्यपि ।तस्मै मूलपरब्रह्मपित्रे नमोऽवतारिणे ॥४७॥प्रसन्नो भव कृष्णेश निजरूपेषु सर्वथा ।यदाज्ञां प्रवहामोऽत्र तस्मै पित्रे मुहुर्नमः ॥४८॥सदा त्वत्पूजनं चात्र करोमि सर्वथा पितः ।अनुग्रहं सदेच्छामि पावितोऽहं ससार्थकः ॥४९॥एवं स्तुत्वा हरिं नत्वा लब्ध्वा प्रसादमुत्तमम् ।विदायं प्रददौ कृष्णः कृष्णनारायणाय वै ॥५०॥चैत्रे त्वन्यानि धामानि ह्यवतारकृतानि च ।हरिर्ययौ विमानेन त्रयोविंशतिकानि च ॥५१॥त्रयोविंशत्यवतारैस्तत्तद्धामसु धामिपः ।परब्रह्म पूजितः सेवितो भक्त्या प्रपूसादितः ॥५२॥भोजितश्चोपदाभिश्चार्पितः स्तुतः क्षमां प्रति ।हरिर्विदायमासाद्य वीक्ष्याऽक्षरस्य सीमगम् ॥५३॥मात्स्यं धाम च कौर्मं च वाराहं धाम वीक्ष्य च ।कापिलं च हरेर्धाम वासुदेवीयकं तथा ॥५४॥पृथोर्धाम तथा दत्तात्रेयधाम प्रवीक्ष्य च ।हंसधाम च वीक्ष्यापि नृहरेर्धाम वीक्ष्य च ॥५५॥आर्षभं वामनं धाम पर्शुरामालयं तथा ।याज्ञीयं रामधामाऽपि कौमारं धाम वीक्ष्य च ॥५६॥हायग्रीवं नारदीयं राजराजीयमित्यपि ।व्यासीयं कार्ष्णमन्यं च बौद्धं धामाऽभिवीक्ष्य च ॥५७॥तथा चाऽसंख्यघामानि वीक्ष्य प्रमिल्य तत्प्रभून् ।तत्प्रदत्ताऽर्हणां गृह्य प्रसाद्य तान्निजात्मजान् ॥५८॥सर्वधामिन आपृच्छ्य विमानेन निजेन सः ।वैकुण्ठलोकं वैशाखे ययौ नारायणालयम् ॥५९॥लक्ष्मीनारायणस्तत्र स्वागतं प्रसमाचरत् ।सर्वपार्षदवृन्दैश्च पार्षदानीसमन्वितः ॥६०॥सर्वभक्तयुतः कृष्णं पुपूज परमादरात् ।हारकेयूरमुकुटैस्तथा कौस्तुभभूषणैः ॥६१॥दिव्याम्बरविभूषाद्यैरक्षतैश्चन्दनादिभिः ।आनर्च परमात्मानं वासयामास मन्दिरे ॥६२॥सर्वा लक्ष्म्यो दासिकाश्च पुपूजुः श्रीरमादिकाः ।व्रह्मप्रियाद्याः सर्वाश्च भोजयामासुरुत्सुकाः ॥६३॥पादसंवाहनाद्यैश्च सेवयामासुरच्युतम् ।स्तवनाद्यैश्चोपकारैश्चक्रुः प्रसन्नमच्युतम् ॥६४॥आरार्त्रिकं प्रचक्रुश्च नारायणश्रियोऽपि च ।विदायं प्रददौ नारायणः कृष्णाय वै ततः ॥६५॥हरिर्निजविमानेन प्रकृतेर्धाम चाययौ ।महामाया चकारापि सर्वतत्त्वान्विताऽर्हणम् ॥६६॥प्रधानपुरुषाद्याश्च पुपूजुर्धामिधामिनम् ।पादजलं पपुश्चाथ भोजनानि ददुस्तथा ॥६७॥विदायं प्रददुश्चाथ ज्येष्ठे कृष्णनरायणः ।विमानेनाऽऽययौ तूर्णं सदाशिवमहालयम् ॥६८॥नित्यकैलासधामाख्यं तत्र सदाशिवः प्रभुः ।स्वागतं स्वेष्टदेवस्य व्यधाद् गणसमन्वितः ॥६९॥पुपूज परया प्रीत्या सेवयामास तं हरिम् ।उपदाः प्रददौ चापि व्यधात् प्रसन्नमच्युतम् ॥७०॥विदायं श्रीहरिर्लब्ध्वा विमानेन निजेन वै ।तैजसावरणप्रान्ते जलावरणमस्तके ॥७१॥स्थिते वैकुण्ठसंज्ञे वै सिद्धसाध्यादिसेविते ।आषाढे चाययौ तत्र पद्मेशश्चाक्षराधिपम् ॥७२॥पुपूज परया भक्त्या कृत्वा स्वागतमुत्तमम् ।अथाऽन्ये चावरणानामीश्वरस्तत्त्वचिन्तकाः ॥७३॥पुपूजुः परमात्मानं स्वस्वावासेषु भावतः ।तानि स्थानानि चाऽऽलोक्य सेवां लब्ध्वा विदायकम् ॥७४॥आययौ स्वविमानेन प्रविध्याऽन्धतमो महत् ।सत्यलोकं मुहूर्तेन मुहूर्तेन तु भूतलम् ॥७५॥कुंकुमवापिकाक्षेत्रेऽवाततार निजालये ।द्वैतभावं तिरोभाव्य त्वेकभावं जगाम ह ॥७६॥कृष्णनारायणस्वामिभगवत्परमेश्वरः ।कोट्यर्बुदाब्जपत्नीभ्यो दर्शयामास सर्वशः ॥७७॥सर्वधामानि चैशानि सर्वलोकाँश्च मायिकान् ।सर्वराज्यानि भूपानां सर्वद्वीपान् भुवस्तथा ॥७८॥समुद्राऽद्रिवियत्स्वर्गविहाराँश्च यथायथम् ।तन्मिषेण ददौ लाभं सर्वेभ्यः स्वस्य सर्वगः ॥७९॥बद्रिके प्रार्थितः कृष्णनारायणो महेश्वरैः ।धामिभिः सिद्धसाध्यैश्च मुनिभिः पितृभिस्तथा ॥८०॥लोकपालैर्नृपैश्चापि सर्वलोकाधिपैरपि ।अर्थितः स्वालये नेतुं तन्मिषेण प्रभुः स्वयम् ॥८१॥सर्वकुटुम्बसहितो ययौ ददौ स्वदर्शनम् ।सृष्ट्यारंभे पृथिवीं स पावयामास तन्मिषात् ॥८२॥पातालानि समस्तानि स्वर्गाणीश्वरभूमिकाः ।अवतारालयाँश्चापि पावयामास लीलया ॥८३॥सर्वत्र व्यापकस्याऽस्य सर्वान्तर्यामिणः प्रभोः ।सर्वशरीरकस्याऽस्य गन्तव्यं नैव विद्यते ॥८४॥यत्र यत्र प्रयात्येव स्थितोऽस्त्यग्रे परः प्रभुः ।अन्येषां जायते बुद्धिश्चायं गतस्तथाऽऽगतः ॥८५॥सर्वत्र व्यापकस्याऽस्य दूरं किञ्चिन्न विद्यते ।सर्वत्र संस्थितस्याऽस्य निरोधः कोऽपि नास्ति च ॥८६॥सर्वशरीरिणश्चाऽस्य नाऽपथ्यं किञ्चिदस्ति वै ।नाऽगम्यं चापि नाऽसह्यं नाऽप्राप्यं किञ्चिदस्ति च ॥८७॥नाऽविधेयं च नाऽयोग्यं नाऽकार्यं किञ्चिदस्त्यपि ।यस्य सर्वाणि तत्त्वानि क्षेत्राणि भवनानि च ॥८८॥सृष्टयो जडरूपाश्च चिद्रूपा यस्य सन्ति च ।कालो येन कृतो दीर्घः क्षणो येन च ह्रस्वितः ॥८९॥गतयः पारहीनाश्च सुपारा येन निर्मिताः ।व्योमाऽनन्तं तथा सान्तं येन कृष्णेन निर्मितम् ॥९०॥यत्संकल्पे प्रलम्बन्ते ह्रस्वायन्ते दिनादयः ।अक्षरे प्रकृतिं धत्तेऽक्षरं धत्ते तनावपि ॥९१॥प्रकृतौ सर्वतत्त्वानि धत्ते मायामयेऽक्षरम् ।एवं कर्तुं चाप्यकर्तुमन्यथाकर्तुमीश्वरः ॥९२॥यो हि सर्वाऽधिकश्चैको भगवतां परेश्वरः ।सोपि लीलावशो नैजान् दर्शयामास भूतिकाः ॥९३॥जीवसृष्टीश्चेशसृष्टीर्दर्शयामास सर्वथा ।सर्वाभ्यो निजशक्तिभ्यः स्वाऽभिन्नाभ्यः पृथक्तया ॥९४॥तदिदं मोहनं बद्रि चाद्वैते द्वैतवद् यथा ।एवं विदित्वा निर्लेपं निष्क्रियं च निरञ्जनम् ॥९५॥निजनाथं कृपानाथं सद्यः सृष्टेर्विमुच्यते ।सर्वधामेशपूज्यं स्वं पतिं श्रीवल्लभंगुरुम् ॥९६॥विदित्वा ब्रह्मरूपास्ता ब्रह्मप्रियादिकाः स्त्रियः ।परं भावं हरौ प्राप्ताः सर्वोत्कर्षं निजं विदुः ॥९७॥तृप्तास्तासां समस्ताशा विभाव्य सर्वतोधिकम् ।निजं कान्तं परमेशं विरामं ताः परं ययुः ॥९८॥कृष्णनारायणस्वामी तासां मनांस्यपूरयन् ।भक्तमनःपूर्णताऽऽनुषङ्गिकत्वेन लीलया ॥९९॥चर्मनेत्रा जना लोके न जानन्ति कलां हरेः ।चिकीर्षितं न जानन्ति चतुःपुमर्थसंभृतम् ॥१००॥बद्रिके स्वप्रियाद्यैश्च सेवितो भगवत्तमः ।चातुर्मास्ये वसन् क्षेत्रेऽक्षरे कुंकुमसंज्ञके ॥१०१॥जन्मजयन्तिकां चक्रे षड्विंशां स्वस्य शोभनाम् ।आययुस्तत्र सर्वे वै सर्वसृष्टिनिवासिनः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसहितायां चतुर्थे तिष्यसन्ताने वैराजादीश्वरलोकेषु चावतारधामादिषु गत्वा भगवान् ससार्थः कुंकुमवापिकामाययावित्यादिनिरूपणनामा नवनवतितमोऽध्यायः ॥९९॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP