संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ७४

तिष्यसन्तानः - अध्यायः ७४

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये लक्ष्मि कथां सूतस्य मोक्षदाम् ।
पञ्चनदे शुभे देशे सिन्धुचीनापगान्तरे ॥१॥
संगमे भूतले त्वासीन्नगरी पञ्चनादिनी ।
तस्या राजाऽभवन्नाम्ना सप्ताब्धिसिंह उत्तमः ॥२॥
महापराक्रमः ख्यातशौर्यः प्रजाप्ररक्षकः ।
हस्तिवाजिमहायानविमानादिचमूपतिः ॥३॥
प्रजापालो धर्मबुद्धिर्ब्रह्मकर्मपरायणः ।
तस्य स्वस्य रथवाहः सूतोऽभवत् सुकेसरी ॥४॥
सोऽपि भूपसमो देहे भाने मन्त्रे रणे मतौ ।
सूतकार्यकरो नित्यं राज्ञः प्रियतरोऽभवत् ॥५॥
स राजा रथमास्थाय सूतनोदितमुत्तमम् ।
मृगयार्थमरण्यानीं विचचार नदीतटे ॥६॥
तत्र पातुं जलं सिन्धुतटं ययौ रथान्वितः ।
विशश्राम पपौ वारि सूतो वारि पपौ ततः ॥७॥
अश्वाः पपुर्जलं श्रान्ता मुक्ता रथयुगात् क्षणम् ।
वटच्छायातले राजा सूर्यतापेन नोदितः ॥८॥
लेभे निद्रां मनाक् तावत् सर्पो वटात् पपात ह ।
नृपकण्ठोपरि श्वेतवर्णोऽदशन्नृपं द्रुतम् ॥९॥
सूतो ददर्श सर्पं तं दशन्तं दीर्घविग्रहम् ।
नेमे दूरात् सूतवर्यो जानन् देवसमं सृपम् ॥१०॥
 'नमस्ते श्वेतवर्णाय शेषरूपाय भोगिने ।
दंशते मम राजानं विष्णुरूपाय ते नमः ॥११॥
कालरूपाय रुद्राय रौद्राय प्राणहारिणे ।
नमस्ते दुःखहाराय रक्षाकर्त्रे मुहुर्नमः ॥१२॥
एषोऽहं नृपतेः सूतो भृत्योऽस्मि किंकरस्त्विह ।
अपरो न सहायोऽस्ति दयालो मां प्ररक्षय ॥१३॥
ईदृशे निर्जने ऽरण्ये जीविते मयि किंकरे ।
स्वामिनो मरणं योग्यं नैव नैव च नैव च ॥१४॥
ततो मत्स्वामिनं सर्प समुद्धर विषानलात् ।
तत्स्थाने मां दश सर्प स्वस्ति मे ते मुहुर्नमः ॥१५॥
राजार्थे देवतार्थे च गुवर्थे गोकृते तथा ।
पित्रर्थे प्राणदाता यः स स्वर्गं दिव्यमश्नुते ॥१६॥
नष्टे नृपे मम मृत्युर्ध्रुवश्चात्र भविष्यति ।
तत्पापं ते भवेत् सर्प तस्मादुद्धर मन्नृपम् ॥१७॥
नृपोद्धारे मम भृत्यौ पाप ते न भविष्यति ।
मृते स्वामिनि भृत्यस्य जीवनं गर्हितं क्षितौ ॥१८॥
तस्माद् रक्षय भोगीन्द्र दयां कृत्वा ममोपरि ।
विषं वाराय शीघ्रं तु यावन्निर्यान्ति नाऽसवः ॥१९॥
त्वं वने विद्यसे स्वामी वटस्थायीति तर्कये ।
तवाऽतिथिस्वरूपोऽहं नृपस्तेऽतिथिरस्ति च ॥२०॥
आतिथेयो भवान् भूत्वा प्ररक्षतु क्षितीश्वरम् ।
विधेहि स्वागतं सर्प जीवदानेन भूपतेः ॥२१॥
न चेत् पापं भवेत्तेऽत्र पुण्यनाशो भवेत्तव ।
आशाभग्नोऽतिथिर्यस्य गृहात्प्रतिनिवर्तते ॥२२॥
पापं दत्वा पुण्यमप्यादायातिथिः स गच्छति ।
धन्यास्ते गृहिणः सर्प पूज्यन्तेऽतिथयोऽन्वहम् ॥२३॥
येषां गृहेषु पूजान्नवस्त्रवारिप्रदानकैः ।
जीवदानसमं दानं परं दानं न विद्यते ॥२४॥
सर्वदानकृतं पुण्यमभयस्य प्रदे भवेत् ।
सर्वपापानि भयदे तिष्ठन्ति नाऽत्र संशयः ॥२५॥
भयं कार्यं न कस्यापि सूक्ष्मस्यापि तु देहिनः ।
भयदस्य फलं स्याद्वै प्रतिभयं न संशयः ॥२६॥
तस्माद् रक्षय राजानं सर्प त्वं वटसंगृही ।
न चेत् प्राणभयं तेऽपि मम बाणेन विद्धि हि ॥२७॥
एकस्य पश्चादुभयोर्व्यसुत्वं निश्चितं त्विह ।
दत्वा प्राणं तव प्राणान्नीत्वा यास्ये यमालयम् ॥२८॥
वदाऽत्र शीघ्रं कर्तव्यं शर एषोऽनुसन्धितः ।
इत्युक्त्वा बद्रिके धनुः सगुणं सशरं तथा ॥२९॥
विधाय क्रोधमापन्नः प्रतीक्षते हितं वचः ।
तावत् सर्पो भीत इव प्रत्युवाच तु सान्त्वयन् ॥३०॥
शृण्वतिथे तथ्यमत्र ततो योग्याय चार्हसि ।
अविचार्यकृतः शीघ्रं भयमापद्यते ऋतम् ॥३१॥
सुकेसरिन् पुरा सृष्टौ ब्रह्मा रुद्राय सृष्टये ।
आज्ञां चकार रुद्रोऽसौ न स्वीचकार वै तदा ॥३२॥
स्वयं ब्रह्मा तु विविधाः प्रजाः ससर्ज शान्तिमान् ।
अथोत्पन्नाः प्रजाश्चासन्नाकल्पस्थायिजीवनाः ॥३३॥
नाऽप्यवर्धन्त च नाशं न प्रापुर्वै यदा तदा ।
वृद्ध्यर्थं स निजाद्देहात् प्रजाः ससर्ज मैथुनीः ॥३४॥
युगलानि सहस्राणि सहस्राणां शतानि च ।
बह्व्यः प्रजास्ता उत्पन्ना युगलेभ्योऽर्बुदाऽर्बुदम् ॥३५॥
तासामसंख्यसंतत्या प्रपूरितमिदं जगत् ।
तासां पुष्टिं चकारैव विष्णुर्लक्ष्मीपतिः प्रभुः ॥३६
न नाशोऽस्ति तदा तासां संकुलितं जगद् यदा ।
तदा ब्रह्मा तु रुद्राय प्रजानाशकलां ददौ ॥३७॥
रुद्रः प्राह न मे हिंसा रोचते भयकारिणी ।
हिंसाफलं तु नरकं शापो दुःखं तथोल्बणम् ॥३८॥
क्रूरं कर्म दयाहीनं हिंसनं प्राणघातनम् ।
न तत् करिष्ये दोषाढ्यं पापाढ्यं वै प्रजापते ॥३९॥
तदा ब्रह्मा विचार्यैव रुद्रमुवाच तत्क्षणम् ।
कालं मृत्युं जरां व्याधीन् सृजामि पश्य नाशकान् ॥४०॥
ते विनाशान् करिष्यन्ति मा ते हिंसा भवेच्छिव ।
निमित्तेन विनाशः स्यात् त्वं तन्निरीक्षको भव ॥४१॥
इत्युक्तः शङ्करो देवो जगृहे ब्राह्मणो वचः ।
संहारकर्मणामाधिदैवत्वं जगृहे हरः ॥४२॥
ततो ब्रह्मा ससर्जोक्तान् कालमृत्युजराधिकान् ।
क्रूरान् निमित्तभूताँश्च देहिनो नः ससर्ज च ॥४३॥
सर्पान् व्याघ्रान् वृश्चिकाँश्च विषाढ्यान् देहिनस्तथा ।
ज्वरान् रोगान्मन्दशक्तौः ससर्ज मारकानजः ॥४४॥
तेभ्योऽस्मभ्यो ददावाज्ञां येषां मृत्युर्यथा मतः ।
येन निमित्तमात्रेण बाधध्वं तान् तथैव ह ॥४५॥
एवमाज्ञां प्रदायैव शङ्कराय समर्पिताः ।
ते वयं नाशकर्तारो नष्टायुषां न चान्यथा ॥४६॥
प्रेर्यन्ते शङ्करेणैव काला रोगा अशक्तयः ।
विषाढ्या रूपवन्तश्च भूत्वा भूत्वा प्रजासु च ॥४७॥
विचरामो नाशरेखां नाशक्षणं विलोक्य च ।
दशामो नान्यथा सूत गतायुर्नृपतिस्त्विह ॥४८॥
दृष्टो मया न दोषो मे न वयं भयशालिनः ।
ये येऽस्माकं महीमाना भवन्त्यतिथयस्तथा ॥४९॥
कुर्मस्तेषां तु सम्मानं विषार्पणैर्हि मृत्यवे ।
कृतो मया चातिथेयः सत्कारो योऽस्तिमद्गृहे ॥५०॥
राजा गतो हि निधनं न पुनः प्राणमेष्यति ।
सूत ते जीवनं चास्ते शवं नय प्रयाहि च ॥५१॥
यदि त्वं शरसन्धानैर्मम प्राणान् हरिष्यसि ।
नूत्नेन कर्मणा त्वं च प्राणान् त्यक्ष्यसि चात्र वै ॥५२॥
मानुषाणां तु शस्त्राणां दैवे प्रवर्तनं नहि ।
सर्पोऽहं कालरूपोऽहं तथ्यं वच्मि प्रयाहि च ॥५३॥
विरमाऽस्मात् कर्मणश्च मा स्वायुष्यं विनाशय ।
विचार्याऽत्र यथायोग्यं यद् विधेयं विधेहि तत् ॥॥५४॥
एषोऽस्मि वटशाखायां निर्भीको हृद्गतं कुरु ।
कर्तुस्तु साहसस्यैवापद्यन्ते दुःखकोटयः ॥५५॥
वयं नियामकाः सृष्टेस्त्वं नियाम्योऽसि सनृपः ।
हिंसायां मम पापं न तव पापं तु वै ध्रुवम् ॥५६॥
हिंसायां मे न नरकं ते नरकं ध्रुवं भवेत् ।
राज्ञा कार्यो विरोधो न जनेन सुखमिच्छता ॥५७॥
विरोधो नापि दैवेन भाग्येनापि च नैव ह ।
यदापतेत् तद्भोक्तव्यं यथाकर्म ह्युपस्थितम् ॥९८॥
सूत नैव हि कर्तव्यो विरोधो वह्निना सह ।
न कालेन सह कार्यो विरोधः सुखमिच्छता ॥५९॥
न मृत्युना नेश्वरेण न शास्त्रा न स्त्रिया ह्यपि ।
न मूर्खेण न क्रुद्धेन न शस्त्रधारिणाऽपि च ॥६०॥
न समर्थेन कर्तव्यो विरोधो मृदुना सता ।
न शस्त्रेण न भूतैश्च न चमत्कारकारिणा ॥६१॥
बलिना न विरोद्धव्यं न मात्रा जनकेन च ।
गुरुणा न विरोद्धव्यं तपस्विना न साधुना ॥६२॥
बहुभिर्न विरोद्धव्यं क्षेमं कुशलमिच्छता ।
पतिना न विरोद्धव्यं न गृहस्वामिना क्वचित् ॥६३॥
न पिशाचेन योद्धव्यं रक्षसा दानवेन न ।
न सिंहेन गजेनापि न सर्पेण विषेण च ॥६४॥
न दुष्टेन च योद्धव्यं न निर्दयेन शत्रुणा ।
तत्र धर्मो न वै तिष्ठेच्छठे दुष्टे च निर्दये ॥६५॥
शरं संहर राजानं नयोर्द्ध्वदैहिकं कुरु ।
यद्वा मुञ्च शरं शीघ्रं मयि यत्फलमाप्नुयाः ॥६६॥
विवेकेन विदध्याद्वै तद्धीनस्त्वापदां पदम् ।
मनुष्योऽसि च मेधावी यद् योग्यं तत् समाचर ॥६७॥
नाऽयं हतो मया सूत राजा हतः स्वकर्मणा ।
नाऽहं घातमवाप्स्यामि शरेण तव केसरिन् ॥६८॥
प्रत्युत तव घातार्थः शरश्चात्र भविष्यति ।
ममाऽहमिति मोहं त्वं मुञ्च मा कुरु मोहनम् ॥६९॥
क्व ते राजा क्वाऽस्य सूतः सर्वं वै कर्मबन्धनम्
भौतिके पुत्तले बद्धा आत्मानो निजकर्मभिः ॥७०॥
भुञ्जते स्वकृतं कर्म यावद् देहे वसन्ति हि ।
तत् त्यक्त्वा चापरे देहे पुनः कर्माणि भुञ्जते ॥७१॥
मयि सर्पे न विश्वासस्ते यदि मुञ्च मार्गणम् ।
कृत्वा परीक्षां च ततो मौढ्यं स्वयं प्रहास्यसि ॥७२॥
इत्युक्त्वा बद्रिके सर्पो विरराम कथानकात् ।
सूतो विचार्य सहसा त्यक्त्वा धनुः शरं तथा ॥७३॥
एषोऽहं शरणे तेऽस्मि सर्पदेव शुचं हर ।
देवोऽसि कालकालोऽसि कालोऽसि शंकरोऽसि वा ॥७४॥
योऽसि सोऽसि ऋतं मन्ये कृतं त्वया यथातथम् ।
तथापि वन्दनां कुर्वे हितं मे स्याद् यथा तथा ॥७५॥
नृपतेश्च हितं स्याद् यत् दंशस्ते विफलोऽपि न ।
तथा दैवनियोगेन विधेहि सर्पराडिह ॥७६॥
इत्युक्त्वा बद्रिके सूतो दण्डवत्प्रचकार तम् ।
सर्पोऽपि कालरूपोऽपि हितं व्यचिन्तयत् क्षणम् ॥७७॥
उवाच सूत भीं त्यक्त्वोत्तिष्ठ नृपं समाह्वय ।
विषं हरामि चाद्याऽत्र नृपो जीवतु चाधुना ॥७८॥
किन्तु धारय मन्त्रं त्व नृपं श्रावय सत्वरम् ।
पुण्येन तेन कालोऽहं हराम्यस्य न जीवनम् ॥७९॥
इत्युक्त्वा बद्रिके कालः सर्पो मन्त्रं ददौ तदा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८०॥
 'ओं बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।
तन्नः श्रीशः प्रचोदयादि'ति मन्त्रं च वै ददौ ॥८१॥
कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण' ॥८२॥
नामधुन्यं ददौ चापि सर्पः सूताय वै तदा ।
सूतः श्रीनृपतेः कर्णे श्रावयामास सत्वरम् ॥८३॥
तावद् राजा समुत्तस्थौ निर्विषः स्वस्थदेहवान् ।
सर्पश्चैनं नृपं प्राह याहि राजन् कथास्थलम् ॥८४॥
लक्ष्मीनारायणसंहितायाः शृणु कथां शुभाम् ।
कुरु सेवां सतां चापि ततः श्रेयः परं व्रज ॥८५॥
सूतादथ विशेषेण वृत्तान्तं नृपतिः स्वकम् ।
ज्ञात्वा ददौ धन्यवादान् सूताय भोगिनेऽपि च ॥८६॥
नमस्कृत्य द्रुतं नैजरथेन गृहमाययौ ।
गृहिणीं दासदासीश्च नीत्वा सह ययौ कथाम् ॥८७॥
पुपूज परमात्मानं प्रभुं कृष्णं सुमूर्तिकम् ।
व्यासं च लोमशं चापि साधून् पुपूज भूपतिः ॥८८॥
ददौ दानान्यनेकानि कथां शुश्राव भावतः ।
भोजनानां प्रदानैश्च सेवां सतां चकार सः ।८९॥
सूतेन स्मारितो राजा भजनं प्रचकार ह ।
प्रसादं पादसलिलं जग्राह नृपतिर्मुहुः ॥९०॥
कुटुम्बसहितो बद्रि पावनः सम्बभूव ह ।
मृत्युभयात् कृष्णमूर्तौ लीनवद् वर्तते सदा ॥९१॥
ज्येष्ठे कृष्णैकादश्यां तु मध्याह्ने भगवान् हरिः ।
अनादिश्रीकृष्णनारायणो विमानमास्थितः ॥९२॥
आययौ तस्य मोक्षार्थं राजा सज्जो बभूव च ।
ददौ दानानि सर्वाणि नमस्कृत्य समस्तकान् ॥९३॥
कृष्णनारायणाऽऽहूतो विमानमारुरोह सः ।
सूतः सुकेसरी चापि राज्ञी रक्षावती तथा ॥९४॥
पुत्राः पुत्र्योः भृत्यवर्गा दासा दास्यो नृपाय वै ।
जयवादान्नमोवादान् ददुर्मोक्षप्रगामिने ॥९५॥
सर्वेषां पश्यतां राजा सप्ताब्धिसिंहनामकः ।
दिव्यो भूत्वा बद्रिके स ययौ धामाऽक्षरं हरेः ॥९६॥
राज्ञ्याद्याश्च नृपस्यौर्ध्वदैहिकं प्रव्यधुस्ततः ।
सूतः सुकेसरी राज्ञी रक्षावती सुतादयः ॥९७॥
वैष्णवाः परमा भूत्वा श्रुत्वा कथां प्रमोक्षिणीम् ।
ययुनैंजां हि नगरीं सैन्धवीं पञ्चनादिनीम् ॥९८॥
भजित्वा वल्लभं कृष्णं प्रभुं गोपालबालकम् ।
अनादिश्रीकृष्णनारायणं पद्मावतीपतिम् ॥९९॥
ययुः कालेन सर्वे ते हरेर्धामाऽक्षरं परम् ।
एवं बद्रीप्रिये राजा मृतो मन्त्रेण जीवितः ॥१००॥
कथां श्रुत्वा हरिं प्राप्य ययौ ब्रह्माऽक्षरं पदम् ।
पठनाच्छ्रवणादस्य चिन्तनादपि सर्वथा ॥१०१॥
कालमायापापकर्मविमुक्तिः संभवेत्तथा ।
भुक्तिर्मुक्तिर्भवेच्छ्रेष्ठा यथेष्टाः स्युः समृद्धयः ॥१०२॥
कृष्णकथाबलं बद्रि सर्वबलाधिकं मतम् ।
ततोऽधिकं कृष्णकृपाबलं सर्वार्थसाधकम् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सर्पदष्टस्य सप्ताब्धिसिंहनृपते सूतदत्तमन्त्रधुन्ययोगेन संजीवनं कथाश्रवणेन च मोक्षणमित्यादिनिरूपणनामा चतुःसप्ततितमोऽध्यायः ॥७४॥

N/A

References : N/A
Last Updated : May 07, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP