संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २७ Translation - भाषांतर श्रीनरनारायण उवाच-श्रूयतां बदरीदेवि त्वया निकामयोगिनः ।पत्न्याः कथा परा दिव्या मोक्षदाऽपि ततोऽभवत् ॥१॥यावत् पश्यति दिव्यं श्रीकृष्णनारायणं प्रभुम् ।निकामदेवः सहसा दिव्यस्तब्धाकृतिं गतः ॥२॥तावत् तत्र समायाता सुरेश्वरी सती द्रुतम् ।पूजार्थं श्रीकृष्णनारायणस्य कमलैः शुभैः ॥३॥सहस्रकमलैश्चाऽश्वपट्टसरोभवैः सती ।चन्दनैश्चाक्षतैः पुष्पैः कृष्णपूजार्थमागता ॥४॥व्यपश्यत् स्वपतिं स्तब्धं दिव्यसमाधिसंस्थितम् ।अनुक्त्वा सा द्रुतं कृष्णनारायणाय चक्रिणे ॥५॥कमलानि समर्प्यैव चन्दनं चाक्षतान्यपि ।समस्तानि सुपुष्पाणि समर्प्य परमात्मने ॥६॥पादसंवाहनार्थं सा यावत् पुरो निषीदति ।तावच्छ्रीकृष्णकान्तस्य पादयोर्निर्गता प्रभा ॥७॥अव्याप्नोद् बद्रिके सौधे ततश्चत्वरमण्डले ।निबिडा च घनीभूताऽव्याप्नोदम्बरमण्डले ॥८॥चन्द्रनिभाऽभवत् सा तु माधुर्यशीतमिष्टदा ।अथ विद्युन्निभा जाता स्वर्गानलसमा ततः ॥९॥महाभूतमयी जाता तैजसी सा ततोऽम्बरे ।अथेश्वराणां योग्या च गम्या स्वर्गनिवासिनाम् ॥१०॥ब्रह्मादीनां ततो गम्या ततश्चेश्वरपुंगवैः ।निभाल्या श्रीपुरे धाम्नि यथा वै तैजसी प्रभा ॥११॥वासुदेवप्रभा पश्चात् कृष्णप्रभाऽक्षरप्रभा ।अक्षरं धाम सर्वं साऽभवत् ताभ्यां निभालितम् ॥१२॥मुक्ता मुक्तानिकाश्चापि ब्रह्मप्रिया हरिप्रियाः ।समस्ता श्रीर्माणिकी च ललिता च जया रमा ॥१-२॥राधापद्मावतीशक्तयश्च ताभ्यां विलोकिताः ।धाम्नि चारामसौधानि मन्दिराणि शुभानि च ॥१४॥भवनानि विचित्राणि मुक्तानामालयाः शुभाः ।अनादिश्रीकृष्णनारायणस्य मुख्यमन्दिरम् ॥१५॥सहस्रैककलशाढ्यबहुमन्दिरमध्यगम् ।निभालितास्तथा सख्यः सखायः परमात्मनः ॥१६॥उद्यानानि विहाराश्च दिव्यभोगा विलोकिताः ।दिव्याऽतिदिव्यसौन्दर्यमाधुर्यौज्ज्वल्यसंभृताः ॥१७॥पार्षदाः पार्षदान्यश्च ताभ्यां तत्र विलोकिताः ।कल्पद्रुमा ब्रह्मद्रुमा ब्रह्मवल्ल्यो विलोकिताः ॥१८॥फलपुष्पर्द्धयस्तेषु मिष्टरसा विभाविताः ।अनन्तभोगसामग्र्योऽसंख्यसाधनसंभृताः ॥१९॥अनन्तदासदास्यश्चाऽनन्तैश्वर्यविभूतयः ।अनन्तसिद्धदेहाश्च मुक्तात्मानो विलोकिताः ॥२०॥मुक्तैर्मुक्तानिकाभिश्च सेवितः परमेश्वरः ।कुंकुमवापिकाक्षेत्रस्थितो धाम्नि विलोकितः ॥२१॥दिव्याक्षरे परे धाम्नि सौराष्ट्रोऽपि विलोकितः ।अश्वपट्टसरो दिव्यं रम्यः श्रीलोमशाश्रमः ॥२२॥महर्षीणां चाऽवसथान्यपि दिव्यानि तत्र च ।आलोकितानि दिव्यानि कोट्यर्बुदाब्जशक्तयः ॥२३॥अनादिश्रीकृष्णनारायणकान्ता विलोकिताः ।तत्र त्वं बदरी चास्से माणिक्या भगवत्प्रिया ॥२४॥दिव्यगजासनं कृष्णमन्दिरे सर्वशोभने ।सर्वर्द्धिसंभृतं चापि ताभ्यां विलोकितं तदा ॥२५॥अथ तत्राऽनादिकृष्णनारायणः पुमुत्तमः ।पुराणपुरुषो बद्रि दिव्ययुवा सुसुन्दरः ॥२६॥स्वर्णकेशः स्वर्णश्मश्रुः स्वर्णाम्बरः सुतैजसः ।सर्वलावण्यमूर्तिश्च मन्दहास्यान्वितः प्रभुः ॥२७॥अनन्तचन्द्रशीताढ्यनेत्रद्वयविराजितः ।सर्वानन्दप्रदप्रेमरसाढ्यनेत्रपद्मजः ॥२८॥मन्दहास्यसुगन्धाढ्यमुखमण्डलराजितः ।रक्तौष्ठस्थसुमाधुर्यप्रियताबोधबोधकः ॥२९॥श्वेतकान्तिप्रसरत्सद्रत्नबीजाभदन्तकः ।श्रीरूपाऽव्यक्तभावाढ्यमाणिक्यजिह्विकान्तरः ॥३०॥पुष्टस्कन्धद्वयाऽऽलम्बिमन्दारादिस्रगन्वितः ।भुजबन्धभुजाशोभच्छृंङ्खलाढ्यप्रकोष्ठकः ॥३१॥दक्षकरतलस्थानमीनशूलधनुर्ध्वजः ।नखचन्द्रावलिद्योतत्समग्राभिपुरःस्थलः ॥३२॥रत्नभूषावलिव्याप्तकौस्तुभरेखिकौरसः ।स्वर्णाम्बरादिशोभाढ्यो रशनाकटिशोभितः ॥३३॥क्वणत्किंकिणिकाकूजत्पादभूषाविराजितः ।स्वर्णचित्रमृदुस्वस्तिपादुकाचरणान्वितः ॥३४॥अलक्ताभचरणोभतलादिसर्वचिह्नवान् ।पारमेशं परं छत्रं मस्तकोर्ध्वे विराजते ॥३५॥चामरे चाऽल्पमानेऽपि श्रीलक्ष्मीभ्यां धृते शुभे ।व्यजनेन सती बालयोगिनी यत्र तिष्ठति ॥३६॥सुरेश्वरी ताम्बूलकं यस्मै कृष्णाय यच्छति ।निकामदेवः श्रीकृष्णवेत्रधरोऽत्र राजते ॥३७॥एवं दिव्यस्वरूपः श्रीकृष्णस्ताभ्यां प्रवीक्षितः ।अथाऽस्य कृपया कृष्णोद्यानानि भवनानि च ॥३८॥अन्तः प्रविश्य सर्वाणि ताभ्यां विलोकितानि वै ।अनन्तानन्दमोदाश्च ताभ्यां तत्र समर्जिताः ॥३९॥प्रसादाश्चार्जिता दिव्यश्रीकृष्णेन समर्पिताः ।तृप्ताः शाश्वतभावाश्च मुक्ताश्चापि विलोकिताः ॥४०॥श्रीमद्गोपालकृष्णश्च धर्ममूर्तिर्विलोकितः ।तथा श्रीकंभरालक्ष्मीर्भक्तिरूपाऽवलोकिता ॥४१॥सन्तुष्टा च सती बाला कृष्णशक्तिर्विलोकिता ।एवं दृष्ट्वा प्रसादं च लब्ध्वा भुक्त्वा च तौ तदा ॥४२॥तृप्तौ नारायणदृष्ट्या गोलोकं समुपागतौ ।अक्षरं धाम सहसा समस्तं विलयं गतम् ॥४३॥गोलोके श्रीकृष्णरूपस्ताभ्यां स एव माधवः ।अनादिश्रीकृष्णनारायणः कृष्णो विलोकितः ॥४४॥वंशीधरो गोपिकानां मण्डलेषु सराधिकः ।रासं रामयन् रमयन् गोपवृन्देषु वीक्षितः ॥४५॥गवां सुसेवने सक्तो दुग्धदध्यादिभोजनः ।अनादिश्रीकृष्णनारायणः कृष्णो विलोकितः ॥४६॥अथ ताभ्यां स गोलोकस्तिरोभूतो विलोकितः ।वैकुण्ठस्तावदेवैव सञ्जात इति वीक्षितः ॥४७॥तत्र नारायणो लक्ष्मीपतिः प्रभुर्विलोकितः ।असंख्यपार्षदैः सेव्योऽनन्तरमादिरामणः ॥४८॥अव्याकृतं महद्धाम ततस्ताभ्यां विलोकितम् ।वासुदेवस्तत्र धाम्नि वासुदेव्यादिसेवितः ॥४९॥प्रद्युम्नादिभ्रातृभिश्च सर्वसामर्थ्यशोभितः ।आलोकितो हि भगवान् ततः श्रीपुरधामनि ॥५०॥ललिताश्रीमहादेव्या सेवितोऽनन्तशक्तिभिः ।अमृताख्ये ततो धाम्नि कृष्णनारायणः स च ॥५१॥भूमा हि भगवान् सोऽपि वीक्षितः कमलापतिः ।ततः कैलासरूपे च सदाशिवो विलोकितः ॥५२॥स एव भगवाँस्ताभ्यां हिरण्यगर्भधामनि ।हिरण्मयः स्वर्णमूर्तिर्महाविष्णुर्विलोकितः ॥५३॥वैकुण्ठे चाऽपरे तत्र स वै विष्णुस्वरूपधृक् ।पद्माश्रीसहितः कृष्णनारायणो विलोकितः ॥५४॥अथ सूर्ये स एवाऽपि नारायणो हिरण्मयः ।विलोकितो हि भगवान् वह्नौ वह्निस्वरूपधृक् ॥५५॥स एव भगवान् बद्रिकाश्रमे च नराग्रजः ।तापसो लोकितस्ताभ्यां श्वेतद्वीपेऽथ शेषगः ॥५६॥स एव भगवान् क्षीरे लक्ष्मीकान्तो विलोकितः ।कुंकुमवापिकाक्षेत्रे सर्वावताररूपधृक् ॥५७॥कोट्यवतारसहितः कोटिकृष्णसमन्वितः ।विलोकितस्ततस्ताभ्यामनादिपुरुषोत्तमः ॥५८॥अथाऽन्तर्यामिरूपः स प्रत्यात्माऽपि निभालितः ।सुरेश्वर्या हृदयेऽपि निकामदेवमानसे ॥२९॥समग्रायां प्रतिमायां बालयोगिनिकाऽस्थिषु ।प्रत्यवयवं श्रीकृष्णनारायणो विलोकितः ॥६०॥एवं प्रदर्श्य भगवान् ताभ्यां दिव्यं महत्तमम् ।महिमानं निजं पश्चात् तिरोऽभावयदच्युतः ॥६१॥मानवः सहसा जातश्चाश्वपट्टसस्तटे ।पृथ्व्यां स्थितोऽभवत्तत्र स्नानार्थकृतनिश्चयः ॥६२।निकामदेवं हस्ताभ्यां पस्पर्श च सुरेश्वरीम् ।तावत्तौ चर्मचक्षुष्कौ जातौ यद्वद्धि मानवौ ॥६३॥निपेततुः पूर्णकामौ कृतसर्वात्मदर्शनौ ।स्तुतिं साश्रुदृष्टिनेत्रौ चक्रतुः स्वामिनः प्रभोः ॥६४॥पावितौ कृपया कृष्ण पुत्रीदानेन पावितौ ।रक्षितौ सन्निधौ कृष्ण कृपया मोक्षितावपि ॥६५॥कृतकृत्यौ प्रजातौ स्वः प्रार्थितं नाऽवशिष्यते ।परेशस्त्वं चिरं प्राप्तो भवार्णवे पुनस्त्विह ॥६६॥भवो गतो गतो भावो भयं गतं तु नैधनम् ।आगता ब्रह्मसंवित्तिर्ब्राह्मी तृप्तिः समागता ॥६७॥यद्वा प्रेषय तत्रैव यत्रास्से त्व महाऽक्षरे ।यद्वा रक्षय चात्रैव पादयोस्ते जनार्दन ॥६८॥ब्रह्मेशस्त्वं यथार्थोऽसि जन्ममरणतारकः ।जा जनिर्मा मृतिश्चेति तस्तारक इत्यसि ॥६९॥सर्वात्मकोऽसि भगवन् सर्वेच्छा नौ रराम ह ।न त्वां विना परात्मानं किञ्चिज्जगति विद्यते ॥७०॥त्वामेव विश्वरूपं च परं ज्ञात्वा विमुच्यते ।सर्वस्थं त्वां विलोक्यैव समाधिः सर्वदा स्थितः ॥७१॥त्वां ध्यात्वा यस्त्यजेत्प्राणान् स याति ब्रह्मधाम वै ।त्वां संस्थाप्य निजात्माऽब्जे गन्तव्यं नाऽवशिष्यते ॥७२॥कृष्णप्रकाशकं ध्यानं सर्वबन्धविमोचकम् ।अहो भाग्यं परं नौ च यदत्र मिलितो भवान् ॥७३॥मन्थनाद् दृश्यते ह्यग्निर्भवान् सर्वसमर्पणात् ।कृपा ते नौ विमोक्षाय नान्यः पन्था हि कारणम् ॥७४॥श्रवणं मननं ध्यानं ज्ञानं तीर्थं तपो व्रतम् ।न मुक्तौ कारणं चात्र कृपा ते चात्र कारणम् ॥७५॥यदा सर्वे समर्प्यन्ते कामा हृत्स्थास्त्वयीश्वरे ।तदाऽमृतपदप्राप्तिः कृपया ते भवेदिह ॥७६॥सर्वज्ञः सर्वदर्शी त्वं क्षेत्रज्ञश्चात्मदीपकृत् ।विलीय वासना नैजान् नयस्यक्षरधामनि ॥७७॥इत्युच्चार्य नम ओं श्रीकृष्णनारायणाय ते ।नमस्कारं चक्रतुस्तौ तावच्छ्रीबालयोगिनी ॥७८॥आयाता श्रीकृष्णनारायणाय दातुमुत्तमम् ।सुमिष्टं सलिलं पानयोग्यं च शीतलं सती ॥७९॥दिव्यदृष्ट्या ज्ञातवती पित्रोस्तूर्णं हि मोक्षणम् ।नातिदूरे च सहसा पाययित्वा जलं हरिम् ॥८०॥प्रसादवारि पितृभ्यां ददौ सा बालयोगिनी ।तावत्तौ कृष्णकृष्णेति कृष्णनारायणेति च ॥८१॥जगदतुर्दिव्यवाचा कृपया स्वामिनः प्रभोः ।प्रसादवारिपानेन देहाभ्यां परिवर्तितौ ॥८२॥दिव्यरूपौ तैजसौ तौ भागत्यागविवर्जितौ ।बभूवतुर्हि तत्रैव मुक्तौ धामगतौ यथा ॥८३॥तावद् विमानं सुभगं गजाग्रपरिशोभितम् ।मुक्तमुक्तानिकाजुष्टं जयशब्दादिकूजितम् ॥८४॥अम्बरं पृथिवीं स्वर्गे प्रभासयद् यथाऽक्षरम् ।अवातरन्मन्दिरस्य सन्निधौ सेतुभूमिषु ॥८५॥जयशब्दैर्हरिकृष्णं स्वामिनं श्रीरमापतिम् ।पुष्पाक्षतादिभिर्दिव्यैश्चन्दनैस्तमपूजयन् ॥८६॥अवतीर्य विमानाच्च श्रीकृष्णचरणामृतम् ।जगृहुश्च रजो मूर्ध्नि निदधुश्च पपुर्जलम् ॥८७॥पश्यतां सर्वलोकानां तावत्तौ मानवावपि ।दिव्यदेहौ बालकृष्णहस्तधृतौ विमानके ॥८८॥निषादितौ विप्रसुरेश्वरीनिकामदेवकौ ।नतौ पुत्र्या च हरिणा बदर्या तत्र तावुभौ ॥८९॥माणिक्यया नतौ चापि नतौ कृष्णकुटुम्बिभिः ।नत्वा सर्वान् विमानेन ययतुर्धाम चाऽक्षरम् ॥९०॥आश्चर्यं परमं प्राप्ता देहिनो देवकोटयः ।एवं बद्रीप्रिये देवि श्वशुरौ परमात्मना ॥९१॥प्रेषितावक्षरं धाम पितरौ ते तदा मतौ ।इदं ये परमाख्यानं श्रोष्यन्ति परमादरात् ॥२॥श्रावयिष्यन्ति वा लोकान् प्राप्स्यन्ति परमां गतिम् ।कृष्णसेवा मोक्षदा वै साधुसेवा च मोक्षदा ॥९३॥मन्त्रो विषं वारयति वह्निः शीतं हरत्यपि ।सदा तु तौ हि निर्दोषौ मन्त्रः कृष्णोऽनलो हि सन् ॥९४॥सतां योगेन मुक्तिः स्याद् यथा श्रीकृष्णयोगतः ।कृष्णयोगेन मोक्षः स्याद् यथा साधुप्रसंगतः ॥९५॥साक्षात् कृष्णस्य योगेन दिव्यता वर्ष्मणस्त्विह ।सर्वार्थलाभ एवापि शिष्यते नाऽपरं सुखम् ॥९६॥बालयोगिनीगीताया अभ्यासेन परात्मनः ।पत्नी स्यात् कन्यका नारी नरो दासस्तु पार्षदः ॥९७॥सकामाः सम्पदां वासा निष्कामाः स्युर्विमुक्तिगाः ।असिद्धाः सिद्धतां चेयुर्बद्धा निर्बद्धतामपि ॥९८॥भ्रमिता ब्रह्मभावं च प्राप्नुयुः श्रवणादपि ।माननात् कृष्णतां निदिध्यासनात् परमेशताम् ॥९९॥प्राप्नुयुः सर्वथा बद्रि प्राह श्रीपुरुषोत्तमः ।बालयोगिनीगीतेयं बालकृष्णसुयोगदा ॥१००॥श्रोतव्या सततं मुक्त्यै गन्तव्यः परमः पुमान् ।भोक्तव्यं च सुखं कार्ष्णे सुप्तव्यं शयने हरेः ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणेन निकामदेवाय तत्पत्न्यै च सर्वधामधामिरूपस्वदर्शनं दत्तम्, निकामदेवतत्पत्न्योः सदेहदिव्यमोक्षणं कृतमित्यादिनिरूपणनामा सप्तविंशतितमोऽध्यायः ॥२७॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP