संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः ११६

तिष्यसन्तानः - अध्यायः ११६

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि हृदयं द्रवते मम ।
वर्णयतो हरेर्धाम प्रत्यक्षं पश्यतो यथा ॥१॥
अवर्ण्यानन्दसन्दोहान् प्रभुञ्जामि प्रवर्णनात् ।
अनन्यमानसी भूत्वा हृद्यं गद्यं निबोध मे ॥२॥
सहस्रशो गम्यमाना विमानगाश्चिदम्बरे ।
दिव्यदृष्ट्या महातेजःपुञ्जाद्रिं पद्मयोजनम् ॥३॥
ब्रह्मतेजोऽधिकखर्वगुणितेजोभिवर्धितम् ।
व्यलोकयन् दूरतस्ते शताऽब्जयोजनोच्छ्रयम् ॥४॥
अक्षरब्रह्मणस्तेजोराशिर्यस्याऽणुमात्रके ।
प्रदेशे लीनतां याति तादृक् तेजो व्यलोकयन् ॥५॥
अक्षरब्रह्मधाम्नस्तद्धाम श्रेष्ठं परं पदम् ।
अक्षरात् खर्णगुणितप्रभावदैकरोमकम् ॥६॥
परब्रह्माऽनादिकृष्णनारायणस्य धाम तत् ।
श्रीकृष्णनारायणस्वाम्यक्षरेशस्य परात्मनः ॥७॥
मूर्तिजन्यं हि तत्तेजः शाश्वतं चैकतानकम् ।
समैकरसघनकं सच्चिदानन्दनामकम् ॥८॥
परब्रह्मलोकरूपं सर्वतोऽनन्तभाप्रदम् ।
यत्प्रकाशैककिरणेनाऽक्षरं पूर्णतेजसा ॥९॥
पूर्यते शिष्यते नैव रिक्तं तत् तादृशं धनम् ।
यत्तेजोदर्शनं दूराच्छीतमिष्ट सुधाऽदनम् ॥१०॥
समर्पयति द्रष्टॄणां सर्वाकर्षणतर्पणम् ।
सर्वानन्दप्रदं सर्वामृतवर्षि प्रमोददम् ॥११॥
अनन्ततृप्तिदं तेजो दूराद् व्यलोकयन् प्रियाः ।
यथा यथा विमानानि चाभियान्ति तथा तथा ॥१२॥
मुग्धास्तेजोऽभिभूतान्तर्नेत्राऽनुद्धाटनक्रियाः ।
विमानगा अभवँश्च तदा पिहितपक्ष्मकाः ॥१३॥
अथ श्रीभगवान् यावत् प्रियास्वाविश्य नेत्रदः ।
नेत्रतेजोमहाशक्तिप्रदोऽभवद् विमानिषु ॥१४॥
दासा दास्यः प्रिया मुक्तानिका मुक्ताश्च ते ततः ।
कृष्णनेत्रैः कृष्णतेजोऽभवन् शक्ता विलोकितुम् ॥१५॥
एवं रूपं रसं स्पर्शं शब्दं तद्धामगं परम् ।
आदत्तुं त्वसमर्थानां कृष्णः शक्तीर्निजां ददौ ॥१६॥
कम्पितानां महाधैर्यं ददावाविश्य वर्ष्मसु ।
विशीर्णानां बलं वीर्यं ददौ नैजं प्रविश्य च ॥१७॥
चिदम्बरमहावेषान् ददौ दार्ढ्यबलान्वितान् ।
तदा विमानिनः स्वास्थ्यमापन्ना वीक्षितुं प्रभाम् ॥१८॥
अथ श्रीभगवान् तेभ्यः परब्रह्ममहानदे ।
स्नापयामास सहसा चिदाकाशगते परे ॥१९॥
तेनाऽऽप्तसर्वसामर्थ्याः परब्रह्मस्वरूपिणः ।
परब्रह्मसमदेहाः परब्रह्मात्मशक्तिकाः ॥२०॥
विमानगाः समस्तास्तद्धाम्नो योग्यास्तदाऽभवन् ।
विवृद्धशक्तिका दिव्याक्षरोर्ध्वदिव्यविग्रहाः ॥२१॥
अथ स्वामिप्रतापेन विमानानि तदन्तिके ।
नदे सम्लावितान्येव बलवन्ति ततोऽभवन् ॥२२॥
आययुर्दिव्यतत्त्वानि परधामगमानि वै ।
परब्रह्ममहाधामाऽन्तिकं निरतिशायिनि ॥२३॥
महाचिद्घनतेजोभासीमान्तस्तटकाम्बरे ।
यावत्तावत्परधामानन्दं प्राप्य विमानिनः ॥२४॥
विसस्मरुः सुखं सर्वमक्षरस्य यदर्जितम् ।
परधाम्नोऽण्डभागे तत्सुखं सर्वं व्यलीयत ॥२५॥
बद्रिके श्रीहरेर्धाम्नः सुखाग्रे गणना तु का ।
असंख्याक्षरधाम्नः वै मुक्तानां गणना कुतः ॥२६॥
चिद्घने परमे धाम्नि लीना इवाऽभवन् हि ते ।
बहिष्टो नहि दृश्यन्ते मेघछन्ना यथा ग्रहाः ॥२७॥
महातेजोऽन्तःप्रविष्टा मिथो पश्यन्ति गर्भगाः ।
अन्तःस्थाश्च बहिर्नैव पश्यन्ति तेजसाऽधिकाः ॥२८॥
परधामगतानामक्षरं तम इवाऽभवत् ।
शून्यमिवाऽभवत् सर्वं शून्यं स्याद् गोचरं कथम् ॥२९॥
छायेव चाऽभवत् सर्वमक्षरं परमात्मनः ।
एतादृशं परं तेजः परं धाम व्यलोकयन् ॥३०॥
तेजोमयं महादुर्गं सौवर्णं चाप्यलोकयन् ।
उच्छ्रितं च विशालं चोभयथा लक्षयोजनम् ॥३१॥
दैर्घ्येऽस्य गणना नास्ति सा संख्या विद्यते नहि ।
अनन्ताऽपारदैर्घ्यं वै तस्य दुर्गस्य विद्यते ॥३२॥
गोपुरा लक्षशस्तत्र कोटिशश्च प्रकोष्ठिकाः ।
प्रस्तरा लक्षशस्तत्र कक्षाश्च लक्षशस्तथा ॥३३॥
लक्षशश्चापि तन्मध्ये प्रासादाः सेतुमाश्रिताः ।
कोटिशोऽनादिमुक्तानां निवासाः सन्ति गर्भगाः ॥३४॥
असंख्यमण्डपास्तत्राऽसंख्यमुक्तानिकाऽऽलयाः ।
असंख्यसौधप्रासादा यत्र विधन्त ऊर्ध्वगाः ॥३५॥
असंख्यानि विमानानि यत्स्तरेषु श्रमन्ति च ।
असंख्यभूमिकावासाऽनादिमुक्ता वसन्ति च ॥३६॥
एतद्दुर्गसमं दिव्यमसंख्ययोजनायतम् ।
नगरं नाऽपरं दृष्टं पूर्वं विमानगैस्तदा ॥३७॥
परधाम्नोऽभितो दुर्गश्चायं सर्वोत्तमोत्तमः ।
असंख्यनगरात्मा चासंख्योद्यानप्रशोभनः ॥३८॥
असंख्यमुक्तवसतिशोभाढ्यो धामरक्षकः ।
अत्राऽनादिकृष्णमूर्तेः किरणानि समन्ततः ॥३९॥
पतन्ति तैः सदा दुर्गे स्मृद्धयः शाश्वतात्मिकाः ।
किरणेभ्यः सुधावर्षा भवन्ति च यथेष्टकाः ॥४०॥
परब्रह्मसुधानद्यो दुर्गे वहन्ति मध्यगाः ।
महानदास्तटाकाश्च दीर्घिका वाटिकास्तथा ॥४१॥
नित्यपूर्णा महानन्दप्रदा भवन्ति दुर्गिणाम् ।
रसकुल्या घृतकुल्या दधिकुल्या भवन्ति च ॥४२॥
पानकुल्या वारिकुल्या मधुकुल्या भवन्ति च ।
शीतकुल्या ऊष्णकुल्याः स्वादकुल्या भवन्ति च ॥४३॥
लेह्यकुल्याश्चोष्यकुल्या भोज्यद्रवा भवन्ति च ।
भक्ष्याद्रयो भोज्यशैलाः फलपुष्परसोत्तमाः ॥४४॥
मिष्टादनोदजान्नानि शर्कराः संभवन्ति च ।
पिण्याकानि समस्तानि पीयूषाण्युत्तमानि च ॥४५॥
मूर्तिरस्यानि सर्वाणि तृप्तिदाज्यानि यान्यपि ।
नवनीतानि तक्राणि दुग्धसाराणि यान्यपि ॥४६॥
क्षीराणि पायसानिष्टप्रियाणि संभवन्ति च ।
सर्वरसोत्तमा दिव्याः कल्पद्रुमकरन्दकाः ॥४७॥
कल्पवल्लीफललेह्यपेयरसा भवन्ति च ।
शाखिदुग्धाऽमृतसाराः सिद्धान्नानि भवन्ति च ॥४८॥
सर्वशाकरसाः सर्वमिश्ररसा भवन्ति च ।
सर्वशृंगारभोगार्हद्रवोद्भवा भवन्ति च ॥४९॥
सर्वशय्यागन्धवासाः किरणेभ्यो भवन्ति च ।
सर्वशालासुखपुञ्जा दिव्याऽक्षय्या भवन्ति च ॥५०॥
सर्वभूषाम्बरवेषा वाटिकोद्यानसंभवाः ।
सर्वेष्टपात्रपुञ्जाश्चोपस्काराश्च भवन्त्यपि ॥५१॥
सर्वसौन्दर्यसद्द्रव्याण्युत्तमानि भवन्ति च ।
सर्वरागा रञ्जनानि चिक्कणानि भवन्त्यपि ॥५२॥
सर्वतेजांसि वर्चांसि बलानि पुष्टयस्तथा ।
धातवः सुखदाः कृष्णकिरणैः सम्भवन्ति च ॥५३॥
किरणैः सम्प्रजायन्ते रत्नमौक्तिकहीरकाः ।
मणयो हेतवः सर्वसाधनानि शुभानि च ॥५४॥
बद्रिके कोमलं रूक्षं मृदु तीव्रं च मध्यमम् ।
यद्वस्तु यादृशं यैश्चापेक्ष्यते तत्प्रजायते ॥५५॥
कायाकल्पाः प्रजायन्ते कायाविवर्तकान्यपि ।
यथेष्टरूपधारित्वं कल्पशृंगैर्भवन्ति हि ॥५६॥
असंख्यानन्तभोगानामालयो दुर्ग एव सः ।
यत्समस्तवर्णनं तु शक्यते नाऽक्षराऽऽयुषा ॥५७॥
वीक्ष्य दुर्गं विमानस्था ध्यजतोरणराजितम् ।
चक्रुर्मनांसि तत्रैवोषितुं चानन्ददायिनम् ॥५८॥
अथापि चोह्यमानास्ते तथाऽग्रे वीक्षणेच्छया ।
ययुर्विमानगाश्चाऽग्रे सप्त दुर्गान् प्रवीक्षितुम् ॥५९॥
परार्धयोजनभूम्यान्तरभागोत्तरस्थितान् ।
अनाद्यनन्तमुक्तानां राष्ट्राणां रक्षकान् शुभान् ॥६०॥
घनतेजोमयीं भूमिमसंख्यनगराश्रयाम् ।
असंख्यानादिमुक्तानां वसत्यादिसमाश्रिताम् ॥६१॥
सर्वर्द्धिसहितां सर्वरसपूर्णां मनोहराम् ।
सर्वसस्यद्रुमवृक्षलतावल्लीतृणान्विताम् ॥६२॥
परब्रह्मात्मकमिष्टफलकन्ददलप्रदाम् ।
सर्वभोग्यप्रदां कामरूपध्रां सरिदन्विताम् ॥६३॥
परब्रह्मरसवारियुक्ततडागशोभनाम् ।
महानदनदीव्याप्तां महासागरशोभनाम् ॥६४॥
दिव्यामृतसरोभिश्च सर्वकमलयोगिभिः ।
असंख्यमुक्तवल्लीभिः शोभनां हृदयंगमाम् ॥६५॥
व्यलोकयन् विमानस्था सच्चिदानन्दतन्मयीम् ।
वीक्ष्य तां दीर्घपट्टां चाप्यनन्तां दिव्यगोचराम् ॥६६॥
आगतं कानकं दुर्गं घनतेजोऽभिरामकम् ।
व्यलोकयन्महाश्चर्ययुतं पूर्ववदायतम् ॥६७॥
पूर्ववदुच्छ्रितं पूर्ववत् सुवसतिसंश्रयम् ।
अनादिदिव्यमुक्तानां प्रासादैर्गोपुरैर्युतम् ॥६८॥
संकल्पोत्थसमस्तैश्च भोग्यभोगोपसाधनैः ।
भोगोपकरणैर्दिव्यैः संभृतालयशोभनम् ॥६९॥
आश्चर्यं परमं प्राप्ता वीक्ष्य विमानगामिनः ।
बद्रिके ते कल्पयन्ति प्रतीक्षन्ते हरेर्गृहम् ॥७०॥
महाश्चर्यमयं चेदं प्राप्य नेति विदन्त्यपि ।
अथाऽग्रे प्रययुश्चापि भूमिकां दीर्घपट्टिकाम् ॥७१॥
असंख्याऽनादिमुक्तानां नगरैरधिवासिताम् ।
पूर्ववच्छोभनां सर्वभोग्यभोगोपसाधनैः ॥७२॥
सर्वभोगोपकणैरलंकृतां प्रभासुराम् ।
वीक्ष्याश्चर्यमयीं भूमिं चासंख्यनगराश्रिताम् ॥७३॥
ययुरग्रे परं दुर्गं सौवर्णतैजसोद्भवम् ।
पूर्ववदायतं पूर्ववदुच्छ्रितं मनोहरम् ॥७४॥
असंख्याऽनातिमुक्तानामावासैरतिशोभनम् ।
सर्वकामर्द्धिसहितं सर्वरसादिसंभृतम् ॥७५॥
सर्वचिन्तोद्भवतत्त्वप्रदं दिव्यसुखप्रदम् ।
आवीक्ष्य तं महादुर्गं तदन्तर्भूमिमागताः ॥७६॥
विमानिनः समस्तास्ते व्यलोकयन् हि राजतीम् ।
श्वेतां चन्द्रसमां भूमिं सर्वर्द्धिवसतिश्रिताम् ॥७७॥
असंख्यानादिमुक्तानां पत्तनाद्यधिशोभिताम् ।
असंख्ययोजनायामां ययुर्दुर्गं चतुर्थकम् ॥७८॥
दिव्यराजततत्त्वात्मतेजोराशिसमुद्भवम् ।
पूर्ववदायतं सर्वस्मृद्धिभोग्यसमन्वितम् ॥७९॥
असंख्यानादिमुक्तानां शुक्लानां मन्दिरैर्युतम् ।
वीक्ष्येदं वै भवेत् कृष्णनारायणस्य मन्दिरम् ॥८०॥
एवं प्रतर्कयन्तस्ते न प्राप्याऽग्रे ययुर्द्रुतम् ।
भूमिं वै दिव्यवैदूर्यतेजोमयीं तथाऽऽयताम् ॥८१॥
दिव्याऽनादिमुक्तवासामसंख्यर्द्धिरसान्विताम् ।
सर्वकामप्रपूरां चालोकयन् बहुशोभनाम् ॥८२॥
पूर्वतेजोऽधिकतेजोरसमयीमनुत्तमाम् ।
वीक्ष्य तूर्णं पुरो याता दुर्गं तु पञ्चमं प्रति ॥८३॥
स्फाटिकाख्यमणिगर्भमहातेजोऽभिनिर्मितम् ।
असंख्यानादिमुक्तानां दिव्यालयादिशोभनम् ॥८४॥
श्रीहरैः किरणैः सर्वभोग्यतत्साधनान्वितम् ।
महानन्दप्रदं बद्रि वीक्ष्याऽग्रे प्रययुश्च ते ॥८५॥
षष्ठं दुर्गं तथादीर्घायतोच्छ्रयं मनोहरम् ।
सर्वाऽसंख्यमहादिव्यकौस्तुभमणिविग्रहम् ॥८६॥
असंख्यानादिमुक्तानां दिव्यमन्दिरशोभनम् ।
सर्वदिव्यर्द्धिसहितं सर्वकामप्रपूरकम् ॥८७॥
विमानगास्त्विदं कृष्णनारायणाश्रयस्थलम् ।
मत्वा वीक्ष्य तमप्राप्य ययुरग्रे समुत्सुकाः ॥८८॥
लीलाभूमिं विशालां च दिव्यतेजोभिशोभनाम् ।
पूर्वपूर्वत उत्कृष्टतेजोरसर्द्धिवर्धिताम् ॥८९॥
असंख्याऽनादिमुक्तानां वसत्या वासितां शुभाम् ।
महासाम्राज्यशोभाढ्यां सर्वानन्दपरिप्लुताम् ॥९०॥
सर्वेन्द्रियसुखानन्दप्रदां दिव्यात्मगोचराम् ।
वीक्ष्याऽग्रे प्रययुः सर्वे दुर्गं तु सप्तमं प्रति ॥९१॥
चिन्तामणिमहातेजःक्लृप्तं पूर्ववदायतम् ।
असंख्यानादिमुक्तानां महामन्दिरशोभनम् ॥९२॥
सर्वर्द्धिसहितं सर्वभोग्यभोगाभिपूरितम् ।
अयं नाथस्य वासश्चेत्येवं मत्वाऽनवाप्य तम् ॥९३॥
ययुरग्रे दिव्यचिन्तामणिभूमिं तदुत्तमाम् ।
सर्वर्द्धिसहितां सर्ववनोद्याननदादिभिः ॥९४॥
शोभनां सर्वथा दिव्यामसंख्ययोजनायताम् ।
असंख्यानादिमुक्तानां प्रासादपत्तनान्विताम् ॥९५॥
वीक्ष्य तूर्णं ययुर्दुर्गमष्टमं कल्पतत्त्वजम् ।
कल्पतेजोमयं सर्वकल्पकिरणभोगदम् ॥९६॥
असंख्यानन्तमुक्तानामनादीनां च मन्दिरैः ।
सर्वथा सर्वतो व्याप्तं सर्वदुर्गोत्तमोत्तमम् ॥९७॥
पूर्वेभ्यश्चापि सर्वेभ्यो विशालायतमुच्छ्रितम् ।
असंख्यभूमिकाव्यक्षास्तरमालाविराजितम् ॥९८॥
अनादिश्रीकृष्णनारायणोत्थकिरणान्वितम् ।
सर्वविधाभिर्भाभिश्च परब्रह्मरसप्रदम् ॥९९॥
असंख्यगोपुरैर्युक्तमुपर्युपरि संस्थितैः ।
असंख्यभूमिकाकक्षाऽनादिमुक्ताऽभिवासितम् ॥१००॥
असंख्यघनतेजोजस्वर्णमण्डपकोष्ठकम् ।
असंख्यगह्वरगर्भमसंख्यतोरणोज्ज्वलम् ॥१०१॥
असंख्ययानसंयानविमानाद्यभिसंश्रितम् ।
असंख्यचन्द्रशालास्थोद्यानवाटीसुशोभनम् ॥१०२॥
असंख्यदीर्घशिखरैर्युक्तप्रासादविग्रहम् ।
असंख्यनगरावासं चाऽसंख्यपत्तनान्वितम् ॥१०३॥
असंख्यानन्तसम्पद्भिर्भोग्याभिश्च प्रपूरितम् ।
भोगोपकरणैर्दिव्यैर्भोगैः प्रसाधनैर्युतम् ॥१०४॥
असंख्याऽनन्तदिव्येष्टकल्पग्रावमणिकृतम् ।
असंख्यदिव्यशालाभिर्विहारै रासमण्डलैः ॥१०५॥
युक्तं रंगविचित्रांऽगमण्डपैर्गर्भवर्तिभिः ।
असंख्याऽव्ययसर्वोर्ध्वदिव्यानन्दसरिन्नदैः ॥१०६॥
महानन्दसरोभिश्च शोभितं कनकोज्ज्वलम् ।
अनादिश्रीकृष्णनारायणरूपाऽनुरूपिभिः ॥१०७॥
शक्तिसामर्थ्यमुक्तैश्चाऽध्युषितं सर्वतोमुखैः ।
अनादिमुक्तमुक्तानीसाम्राज्यदिव्यमन्दिरम् ॥१०८॥
उपर्यनन्तं च तलेऽप्यनन्तं
पार्श्वेऽप्यनन्तं परितोऽप्यनन्तम् ।
मध्येऽप्यनन्तं क्रमणेऽप्यनन्तं
ह्यपारपारं तमलोकयँस्ते ॥१०९॥
समस्तभोगं च समस्तमोदं
समस्तपीयूषमखण्डशंदम् ।
समस्तसौख्यं च समष्टिबीजं
दुर्गं महान्तं तमलोकयँस्ते ॥११०॥
सदैकतत्त्वं बहुभावरूपं समस्तसत्कामसुपूरकं च ।
समस्तसच्चेतनकल्पकान्तप्रख्यैर्मणीन्द्रैरभिरामकं तम् ॥१११॥
व्यलोकयन् वल्लभिकासमृद्धि-
प्रकाशनातिप्रभुमिष्टदं च ।
कल्पद्रुचिन्तामणिकल्पवल्ली-
कल्पोर्मिकाचक्रमणीन्द्रगर्भम् ॥११२॥
समस्तसत्सौरभरम्यरूप-
समस्तकाऽऽस्वादनसद्रसाढ्यम् ।
असंख्यकाऽऽकर्षणभृत्स्वराढ्य-
मसंख्यसत्स्पर्शसुखप्रदं च ॥११३॥
यत्र कामदुघा गावो यत्र कल्पप्रिया, रमाः ।
यत्राऽऽनन्दप्रदा मुक्ता निवसन्त्यभितः सुखाः ॥११४॥
येषां प्रत्येकनिलये द्वारदेशेऽग्रभागके ।
सृष्टिदृश्यो मणिश्चास्ते सर्वसाक्षात्प्रदर्शनः ॥११५॥
येषामन्तर्गृहे भित्तौ सृष्टिश्राव्यो मणिः स्थितः ।
सर्वसृष्टिस्वरशब्दश्रावको बोधदायकः ॥११६
येषां देहलिकामध्ये चास्ते वै मानसो मणिः ।
सृष्टिमानससाक्षात्कारप्रदो दिव्यबोधनः ॥११७॥
येषां गृहविताने च लम्बते तु सुधामणिः ।
सर्वतृप्तिप्रदः सर्वानन्दप्रमोदसौख्यदः ॥११८॥
येषां तु चत्वरे चास्ते कल्पद्रुर्मणिसत्फलः ।
सर्वास्वादरसदाता शाश्वतीं तृप्तिमावहन् ॥११९॥
येषामन्तर्गृहे चास्ते स्पर्शानन्दप्रदो मणिः ।
कृष्णस्पर्शप्रदः सर्वस्पर्शदः शाश्वतः सुखः ॥१२०॥
विशिष्टं बद्रिके! तत्र शृणु त्वं वै रहस्यकम् ।
गृहे गृहे कामफलं मुक्तेच्छापूरकं परम् ॥१२१॥
वर्ततेऽनादिकृष्णेन दत्तं तु प्रतिमुक्तकम् ।
फलं स्पृष्ट्वाऽनादिमुक्तो भूत्वा मुक्तानिका प्रिया ॥१२२॥
कान्तं कृष्णं पतिं कृत्वा सेवितुं यदि वाञ्छति ।
तदा कृष्णा प्रिया भूत्वा कण्ठे धूत्वा फलं तु तत् ॥१२३॥
सेवते स्वपतिं कृष्णनारायणं रतिप्रिया ।
पूर्णानन्दं परं भुक्त्वा प्रसाद्य वल्लभम्प्रभुम् ॥१२४॥
मणिमुत्तार्य कण्ठात्तं फलाख्यं जायते पुमान् ।
एतद्वै परमैश्वर्यं स्वयं जानाति नेतरः ॥१२५॥
यस्मै दत्तं फलं यत्तु तद्वै तस्य प्रवर्तते ।
नाऽन्यहस्तगतं तद्वै प्रवर्ततेऽन्यरूपणे ॥१२६॥
एतदेव महाश्चर्यं सर्वानन्दप्रदप्रभोः ।
मुक्तानां सर्वकामानां पूरकस्य परात्मनः ॥१२७॥
सन् स्वयं भगवाँस्तत्र चित् सा मुक्तानिका तदा ।
तयोरानन्द उत्कृष्टः सच्चिदानन्द इत्ययम् ॥१२८॥
य एतां परमां दिव्याम मुक्तिरहस्यबोधिकाम् ।
उपनिषदं जानाति सोऽपि यायात्परां गतिम् ॥१२९॥  
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने हृद्यबोधने परे धाम्नि दिव्याऽष्टदुर्गराष्ट्राऽनादिमुक्तवसतितदालयैश्वर्यतद्रहस्योपनिषदादिवर्णननामा षोडशाधिकशततमोऽध्यायः ॥११६॥

N/A

References : N/A
Last Updated : May 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP