अक्षतारोपणम्
‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.
अथ वधूवरौपरस्परमूर्धनिआयुर्वर्धनकरमक्षतारोपणंकुर्याताम् ॥ तत:तैजसपात्रे गव्यक्षीरेघृतमासिच्यपात्रांतरेणार्द्रशुक्लतंडुलानादायवर: प्रक्षालितपाणि:प्रक्षालितवध्वंजलौक्षीरघृतंहस्तद्वयांगुलिभिर्द्विरुपस्तीर्य द्विवारंतंडुलानोप्यतेनतथैवद्विरभिधारयेत् ॥ ततोवरांजलावप्येवमेवदात्रान्येनवापूरितेदातातदंजल्यो:सुवर्णनिधायवरांजलिंकन्यांजल्युपरिनिधाय ॥ कन्यातारयतु ॥ दक्षिणा:पांतु ॥ बहुदेयंचास्तु ॥ पुण्यंवर्धतां ॥ शांति:पुष्टिस्तुष्टिश्चास्तु ॥ तिथिकरणमुहूर्तनक्षत्रसंपदस्तु ॥ इत्युच्चार्यवधूमुत्थाप्य तयांजलिस्थानक्षतान् भगोमेकाम:समृध्यताम् इतिवरमूर्धन्यारोपयेत् ॥ ततोवर: स्वांजलिस्थान् यज्ञोमेकाम:समृध्यतां इतिवधू: ॥ धर्मोमेकाम:समृध्यतां इतिवर: ॥ तृतीये प्रजामेकाम: समृध्यतां इतिवधू: ॥ यशोमेकाम:समृध्यताम् ॥ इतिवर: ॥ तत:कन्यावरांजलौद्विरुपस्तीर्यद्विस्तंडुलानोप्यद्विरभिघारयेत् ॥
ततोदात्रान्येनवापूर्ववत्कन्यांजलावापूरितेदातापूर्ववद्धिरण्यंनिधायकन्यांजलिं वराजलौनिधायपूर्ववत्कन्यातारयत्वित्यादिवाक्यषट्कंवदेत् ॥ ततोवर: यज्ञोमेकाम:समृध्यतां ॥ वधूतु भगोमेकाम:समृध्यतां इति ॥ इवंपुनर्द्वि: ॥ तत्रद्वितीये धर्मोमे काम:समृध्यतां इतिवर: ॥ श्रियोमेकाम: समृध्यतां इतिवधू: ॥ तृतीये यशोमेकाम:समृध्यता इतिवर: ॥ प्रजामेकाम: समृध्यतां इतिवधू: ॥ अथवरोवध्वंजलिंपूर्ववदापूर्यस्वांजलिमन्येनपूरयित्वोभौवधूपूर्वकंतूष्णीमक्ष्तानारोपयेतां ॥ अथवर:स्वशिर:स्थपुष्पमेकंक्षीरघृतेनाप्लाव्य तेनकन्याललाटेतिलकं कुर्यात् ॥ सापि स्वशिर:पुष्पेण तथैववरललाटेतिलकंकृत्वा ॥ पुष्पमालां वरकंठेनिदध्यात् वरोपि कन्याकंठे ॥
मंगलसूत्रबंधनम्:- ततोवरपक्षसुवासिन्य: वधूवरौप्राङमुखावुपवे श्याचारप्राप्तं अष्टपुत्रीसंज्ञकं वस्त्रद्वयं सकंचुकं कृष्णमणिसूत्रयुतं वध्वै समर्प्य तामेकंपरिधाप्यापर्मुत्तरीयंकुर्यात ॥ ततोवरस्तत्सूत्रं ॥ मांगल्यतंतुनानेन भर्तृजीवनहेतुना ॥ कंठेबध्नामिसुभगे साजीव शरद:शतं ॥ इतिमंत्रेणेष्ट देवतांस्मरन्वधूकंठेबध्नीयात् भूषणैश्चायुष्यंवर्चस्यमितिसूक्तंपठन्भूषयेत् ॥ ततोविवाहव्रतनिर्विघ्नतार्थंवधूवरौ गणानांत्वा० इतिमंत्रेणहरिद्राखंडयुतपंचपूगफ़लानिलड्डुकादिनिधाय षोडशोपचारै: संपूज्यपुन:पूर्वोक्तमंत्रेणदंपत्योरुत्तरीयांतौमिथोबध्नायीत् ॥ तत:सभार्योदाता वृद्धा: पुरंध्र्योज्ञातिबांधवाश्चक्रमादाशीर्भिरार्द्राक्षतारोपणंकुर्यु: ( अत्रकौस्तुभे प्रयोगरत्नेचमहालक्ष्म्यादिपूजनपूर्वंवायनदानाद्युक्तमस्ति ॥ ) ततोवधूवरौ परस्परहस्तधारणेनोक्तलक्षणां वेदिं मंत्रघोषेण गच्छेतां ॥
N/A
References : N/A
Last Updated : May 24, 2018
![Top](/portal/service/themes/silver/images/up.gif)
TOP