संस्कृत सूची|पूजा विधीः|षोडशसंस्कारः|
अथ गणपति पूजनम्

अथ गणपति पूजनम्

‘ संस्कार ’ हे केवळ रूढी म्हणून करण्यापेक्षां त्यांचे हेतू जाणून ते व्हावेत अशी अनेकांची इच्छा असते. ज्यावेळीं एखाद्या घरांमध्यें शुभकार्य असते त्यावेळीं या गोष्टी सविस्तर माहीत असल्यास कार्य सुव्यवस्थित पार पडते असा अनुभव आहे.


॥श्रीगणेशाय नम: ॥
कृतमंगलस्नान: स्वलंकृत: संभृतमंगलसंभारो मंगल रंगवल्लीमंडितशुद्धस्थले प्राङमुखो यजमान ऊर्णवस्त्राद्याच्छादिते पीठे उपविश्य पत्नीं स्वदक्षिणत: प्राङमुखीमुपवेश्य संस्कार्यंच तथैवोपवेश्य श्रोत्रियै:
ॐ यशस्करं बलवंतं प्रभुत्वं तमेव राजाधिपतिर्बभूव ॥
संकीर्ण नागाश्वपतिंर्नराणां सुमंगल्यं सततं दीर्घमायु: ॥१॥
इति मंत्रघोषपुर:सरं सुवासिन्या कृतमंगलतिलको द्विराचम्य पवित्रपाणि:
ॐ देवींवाचमजनयंतदेवास्तांविश्वरूपा:पशवोवदंति ॥ सानौमंद्रेषमूर्जंदुहानाधेनुर्वागस्मानुपसुष्ठतैतु ॥२॥ ॐ यावतीवैदेवतास्ता: सर्वावेदविदिब्राह्मणेवसंतितस्माह्लह्मणेभौवेदविद्भ्यौदिवेदिवेनमस्कुर्यान्नाश्लीलंकीर्तयेदेताएवदेवतां:प्रीणाति ॥३॥इतिमंत्रेण इष्टदेवतादिभ्य: फ़लतांबूलं अर्पयेत् ॥ श्रोत्रियादीन् पितरादीन् ज्येष्ठांश्च नमस्कृत्य ॥
आचम्य केशवादिचतुर्विंशतिनामभि: प्राणायामं कृत्वा ॥
श्रीमन्महागणाधिपतये नम: ॥ गुरुभ्यो नम: ॥ सरस्वत्यै नम: ॥ वेदाय नम: ॥ वेदपुरुषाय नम: ॥ इष्टदेवताभ्यो नम: ॥ कुलदेवताभ्यो नम: ॥ स्थानदेवताभ्यो नम: ॥ ग्रामदेवताभ्यो नम: ॥ वास्तुदेवताभ्यो नम: ॥ लक्ष्मीनारायणाभ्यां नम: ॥ उमामहेश्वराभ्यां नम: ॥ शवीपुरंदराभ्यां नम: ॥ मातापितृभ्यां नम: ॥ आदित्यादिनवग्रदेवताभ्यो नम: ॥ एतत्कर्मप्रधानदेवभ्यो नम: ॥ सर्वेभ्यो देवेभ्यो नम: ॥ सर्वभ्यो ब्राह्मणेभ्यो नमोनम: ॥ अविघ्नमस्तु ॥ सुमुखश्चैकदंतश्च कपिलो गजकर्णक: ॥ लंबोदरश्च विकटो विघ्ननाशो गणाधिप: ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजानन: ॥ द्वादशैतानि नामानि य:पठेच्छुणुयादपि ॥ विद्यारंभे विवाहेच प्रवेशे निर्गमे तथा ॥ संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरं देवं शशिवर्ण चरुर्भुजं ॥ प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ॥ शरण्ये त्र्यंबके गौरि नारायणि नमोsस्तुते ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममंगलं ॥ येषां हृदिस्थो भगवान्मंगलायतनं हरि: ॥ तदेव लग्नं सुदिनं तदेव तारावलं चंद्रबलं तदेव ॥ विद्याबलं दैवबलं तदेव लक्ष्मीपते तेङsघ्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय: ॥ येषामिंदीवरश्यामो हृदयस्थो जनार्दन: ॥ विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् ॥ सरस्वतीं प्रणम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्धयर्थं पूजितो य: सुरासुरै: ॥ सर्वविघ्नहरस्तस्मै गणाधिपतये नम: ॥ सर्वेष्वारंभकार्येषु त्रयास्त्रिभुवनेश्वरा: ॥ देवा दिशंतु न: सिद्धिं ब्रह्मेशानजनार्दना: ॥
श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मण: द्वितीये परार्द्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे कलियुगे प्रथमचरणे अष्टाविंशतितमे युगे बौद्धावतारे भरद्वर्षे भारतखंडे जंबूद्वीपे दंडकारण्येदेशे गोदावर्या: दक्षिणेतीरे शालिवाहनशके इषुपात्रा मक्षेत्रे अस्मिन्वर्तमाने व्यावहारिके अमुक नामसंवत्सरे अमुक अयने अमुक ऋतौ अमुक मासे अमुक पक्षे अमुक तिथौ अमुक वासरे अमुक नक्षत्रे अमुक स्थिते वर्तमाने चंद्र्मे अमुक महानक्षत्रे अमुक स्थिते श्रीसूर्ये अमुक स्थिते देवगुरौ शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु शुभनामशुभकरण इवंगुणविशेषणाविशिष्टायां शुभपुण्यतिथौ मम आत्मन: श्रुतिस्मृतिपुराणोक्तफ़लप्राप्त्यर्थं अमुक गोत्र अमुक शर्माहं अमुक फ़लावाप्तये अमुक कर्म करिष्ये ॥
तदंगतयादौ पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं ( ग्रहयज्ञं मंडपदेवता - कुलदेवतास्थापनं पूजनं ) च करिष्ये ॥ इति संकल्पयेत् ॥
तत्रादौ निर्विघ्नतासिद्धये गणपतिपूजनं करिष्ये ॥
गणानांत्वा शौनको गृत्समदो गणपतिर्जगती ॥ गणपत्यावाहने विनियोग: ॥ ॐ गणानांत्वागणपतिंगवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पतsआन:शृण्वंन्नूतिभिं:सीदसादनं ॥४॥ ॐ भूर्भुव:स्व: ऋद्धिबुद्धिसहितं सांगं सपरिवारं सायुधं सशक्तिकं गणपतिंआवाहयामि ॥
ॐ भूर्भुव:स्व: गणपतये नम: आसनं समर्पयामि ॥ इत्यादि षोडशोपचारान् समर्प्य ॥
ॐ निषुसीदगणपतेगणेषुत्वामाहुर्विप्रतमंकवीनां ॥ नsऋतेत्वक्रियतेकिंचनारेमहामर्कंमघवांचित्रमर्च ॥५॥ ॐ भूर्भुव:स्व: गणपतये नम: पुष्पांजलिं समर्पयामि ॥
कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातारि ॥ विघ्नानि नाशमायान्तु सर्वाणि सुरनायक ॥६॥ इति संप्रार्थ्य॥
अनया पूजया सकलविघ्नहर्ता गणपति: प्रीयतां ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP