संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १२३ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १२३ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२३ Translation - भाषांतर च्यवनस्य कुंजलशुकेन सह संवादम्सिद्ध उवाच-श्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रतःज्ञानस्य नास्ति वै देहो हस्तौ पादौ च चक्षुषी ॥१॥नासाकर्णौ न ज्ञानस्य नास्ति चैवास्थिसंग्रहःकेन दृष्टं तु वै ज्ञानं कानि लिंगानि तस्य वै ॥२॥आकारैर्वर्जितं नित्यं सर्वं वेत्ति स सर्ववित्दिवाप्रकाशकः सूर्यो रात्रौ प्रकाशयेच्छशी ॥३॥गृहं प्रकाशयेद्दीपो लोकमध्ये स्थिता अमीतत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम ॥४॥न विंदंति हि मूढास्ते मोहिता विष्णुमाययाकायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम् ॥५॥तत्पदं तेन दृश्येत चंद्रसूर्यादिभिर्न चहस्तपादौ विना ज्ञानमचक्षुः कर्णवर्जितम् ॥६॥तस्य सर्वत्र गतिरस्ति सर्वं गृह्णाति पश्यतिसर्वमाघ्राति विप्रेंद्र शृणोत्येवं न संशयः ॥७॥नास्ति ज्ञानसमो दीपः सर्वांधकारनाशनेस्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते ॥८॥कायमध्ये स्थितं ज्ञानं न विंदंति कुबुद्धयःज्ञानस्थानं प्रवक्ष्यामि यस्माज्ज्ञानं प्रजायते ॥९॥प्राणिनां हृदये नित्यं निहितं सर्वदा द्विजकामादीन्सुमहाभोगान्महामोहादिकांस्तथा ॥१०॥विवेकवह्निना सर्वान्दिधक्षति सदैव यःसर्वशांतिमयोभूत्वा इंद्रियार्थं प्रमर्द्दयेत् ॥११॥ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकम्तत्त्वमूलमिदं ज्ञानं निर्मलं सर्वदर्शकम् ॥१२॥तस्माच्छांतिं कुरुष्व त्वं सर्वसौख्यप्रवर्द्धिनीम्समः शत्रौ च मित्रे च यथात्मनि तथापरे ॥१३॥भव स्वनियतो नित्यं जिताहारो जितेंद्रियःमैत्रं नैव प्रकर्तव्यं वैरं दूरे परित्यजेत् ॥१४॥निःसंगो निःस्पृहो भूत्वा एकांतस्थानमाश्रितःसर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि ॥१५॥एकस्थानस्थितो वत्स त्रैलोक्ये यद्भविष्यतिवृत्तांतं वेत्स्यसि त्वं तु मत्प्रसादान्न संशयः ॥१६॥कुंजल उवाच-सिद्धेन तेन मे विप्र ज्ञानरूपं प्रकाशितम्तस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः ॥१७॥त्रैलोक्ये वर्त्तते यद्यदेकस्थाने स्थितो ह्यहम्तत्तदेव प्रजानामि प्रसादात्तस्य सद्गुरोः ॥१८॥एतत्ते सर्वमाख्यातमात्मवृत्तांतमेव हिअन्यत्किं ते प्रवक्ष्यामि तद्ब्रूहि द्विजसत्तम ॥१९॥च्यवन उवाच-कीरयोनिं कथं प्राप्तो भवाञ्ज्ञानवतां वरःतन्मे त्वं कारणं ब्रूहि सर्वसंदेहनाशनम् ॥२०॥कुंजल उवाच-संसर्गाज्जायते पापं संसर्गात्पुण्यमेव हितस्माद्विवर्जयेच्छुद्धो भव्यं विरुद्धमेव च ॥२१॥लुब्धकेनापि पापेन केनाप्येकः शुकः शिशुःबंधयित्वा समानीतो विक्रयार्थं समुद्यतः ॥२२॥चाटुकांर सुरूपं तं पटुवाक्यं समीक्ष्य चगृहीतो ब्राह्मणैकेन मम प्रीत्या समर्पितः ॥२३॥ज्ञानध्यानस्थितो नित्यमहमेव द्विजोत्तमसमे बालस्वभावेन कौतुकात्करसंस्थितः ॥२४॥तस्य कौतुकवाक्यैर्वा मुग्धोऽहं द्विजसत्तमशुकस्य पुत्ररूपस्य नित्यं तत्परमानसः ॥२५॥मामेवं वदते सोपि ताततातेति आस्यताम्स्नातुं गच्छ महाभाग देवमर्चय सांप्रतम् ॥२६॥इत्यादिचाटुकैर्वाक्यैर्मामेवं परिभाषयेत्तस्यवाक्यविनोदेन विस्मृतं ज्ञानमुत्तमम् ॥२७॥पुष्पार्थं फलभोगार्थं गतोहं वनमेव चनीतः शुको बिडालेन मम दुःखस्य हेतवे ॥२८॥मम संसर्गिभिः सर्वैर्वयस्यैः साधुचारिभिःबिडालेन हतः पक्षी तेनैव भक्षितो हि सः ॥२९॥श्रुत्वा मृत्युं गतं विप्र शुकं तं चाटुकारकम्महता दुःखभावेन असुखेनातिदुःखितः ॥३०॥तस्य दुःखेन मुग्धोस्मि तीव्रेणापि सुपीडितःमहता मोहजालेन बद्धोऽहं द्विजपुंगव ॥३१॥प्रालपं रामचंद्रेति शुकराजेति पंडितश्लोकराजेति तं विप्र मोहाच्चलितमानसः ॥३२॥ततोऽहं दुःखसंतप्तः संजातः स्वेनकर्मणावियोगेनापि विप्रेंद्र शुकस्य शृणु सांप्रतम् ॥३३॥विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितम्संस्मरञ्छोकसंतप्तस्तं शुकं चाटुकारकम् ॥३४॥वत्सवत्सेति नित्यं वै प्रलपञ्छृणु भार्गवगद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः ॥३५॥त्वां विना कश्च मां वत्स बोधयिष्यति सांप्रतम्कथाभिस्तु विचित्राभिः पक्षिराजप्रसाद्य माम् ॥३६॥अस्मिन्सुनिर्जनोद्याने विहाय क्व गतो भवान्केन दोषेण लिप्तोस्मि तन्मे कथय सांप्रतम् ॥३७॥एवंविधैरहं वाक्यैः करुणैस्तैस्तु मोहितःएवमादि प्रलप्याहं शोकेनापि सुपीडितः ॥३८॥मृतोहं तेन मोहेन तद्भावेनापि मोहितःमरणे यादृशो भावो मतिश्चासीच्च यादृशी ॥३९॥तादृशेनापि भावेन जातोऽहं द्विजसत्तमगर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः ॥४०॥स्मृतं पूर्वकृतं कर्म स्वयमेव विचेष्टितम्मया पापेन मूढेन किं कृतं ह्यकृतात्मना ॥४१॥गर्भयोगसमारूढः पुनस्तं चिंतयाम्यहम्तेन मे निर्मलं ज्ञानं जातं वै सर्वदर्शकम् ॥४२॥गुरोस्तस्य प्रसादाच्च प्राप्तं वै ज्ञानमुत्तमम्तस्यवाक्योदकैः स्वच्छैः कायस्य मलमेव च ॥४३॥सबाह्याभ्यंतरं विप्र क्षालितं निर्मलं कृतम्तिर्यक्त्वं च मया प्राप्तं शुकजातिसमुद्भवम् ॥४४॥शुकस्य ध्यानभावेन मरणे समुपस्थितेतस्मिन्काले मृतो विप्र तद्भावेनापि भावितः ॥४५॥तादृशोऽस्मि पुनर्जातः शुकरूपो महीतलेमरणे यादृशो भावः प्राणिनां परिजायते ॥४६॥तादृशाः स्युस्तु सत्वास्ते तद्रूपास्तत्परायणाःतद्गुणास्तत्स्वरूपास्ते भावभूता भवंति हि ॥४७॥मृत्यकालस्य विप्रेंद्र भावेनापि न संशयःअतुलं प्राप्तवाञ्ज्ञानमहमत्र महामते ॥४८॥तेन सर्वं विपश्यामि यद्भूतं यद्भविष्यतिवर्तमानं महाप्राज्ञ ज्ञानेनापि महामते ॥४९॥सर्वं विदाम्यहं ह्यत्र संस्थितोपि न संशयःतारणाय मनुष्याणां संसारे परिवर्तताम् ॥५०॥नास्ति तीर्थं गुरुसमं बंधच्छेदकरं द्विजएतत्ते सर्वमाख्यातं शृणु भार्गवनंदन ॥५१॥यत्त्वया पृच्छितं विप्र तत्ते सर्वं प्रकाशितम्स्थलजाच्चोदकात्सर्वं बाह्यं मलं प्रणश्यति ॥५२॥जन्मांतरकृतान्पापान्गुरुतीर्थं प्रणाशयेत्संसारतारणायैव जंगमं तीर्थमुत्तमम् ॥५३॥विष्णुरुवाच-शुक एवं महाप्राज्ञश्च्यवनाय महात्मनेतत्त्वं प्रकाशयित्वा तु विरराम नृपोत्तम ॥५४॥एतत्ते सर्वमाख्यातं जंगमं तीर्थमुत्तमम्वरं वरय भद्रं ते यत्ते मनसि वर्त्तते ॥५५॥वेन उवाच-नाहं राज्यस्य कामार्थी नान्यत्किंचित्प्रकामयेसदेहो गंतुमिच्छामि तव कायं जनार्दन ॥५६॥एवं वरमहं मन्ये यदि दातुमिहेच्छसिविष्णुरुवाच-यज त्वमश्वमेधेन राजसूयेन भूपते ॥५७॥गो भू स्वर्णाम्बुधान्यानां कुरु दानं महामतेदानान्नश्यति वै पापं ब्रह्मवध्यादिघोरकम् ॥५८॥चतुर्वर्गस्तु दानेन सिद्ध्यत्येव न संशयःतस्माद्दानं प्रकर्तव्यं मामुद्दिश्य च भूपते ॥५९॥यादृशेनापि भावेन मामुद्दिश्य ददाति यःतादृशं तस्य वै भावं सत्यमेवं करोम्यहम् ॥६०॥ऋषीणां दर्शनात्स्पर्शाद्भ्रष्टस्ते पापसंचयःआगमिष्यसि यज्ञांते मम देहं न संशयः ॥६१॥एवमाभाष्य तं वेनमंतर्द्धानं गतो हरिः ॥६२॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्यसंपूर्तिवर्णने च्यवनचरित्रसमाप्तौ च त्रयोविंशत्यधिकशततमोऽध्यायः ॥१२३॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP