संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ७५

भूमिखंडः - अध्यायः ७५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सुकर्मोवाच-
विष्णुं कृष्णं हरिं रामं मुकुंदं मधुसूदनम्
नारायणं विष्णुरूपं नारसिंहं तमच्युतम् ॥१॥
केशवं पद्मनाभं च वासुदेवं च वामनम्
वाराहं कमठं मत्स्यं हृषीकेशं सुराधिपम् ॥२॥
विश्वेशं विश्वरूपं च अनंतमनघं शुचिम्
पुरुषं पुष्कराक्षं च श्रीधरं श्रीपतिं हरिम् ॥३॥
श्रीनिवासं पीतवासं माधवं मोक्षदं प्रभुम्
इत्येवं हि समुच्चारं नामभिर्मानवाः सदा ॥४॥
प्रकुर्वंति नराः सर्वे बालवृद्धाः कुमारिकाः
स्त्रियो हरिं सुगायंति गृहकर्मरताः सदा ॥५॥
आसने शयने याने ध्याने वचसि माधवम्
क्रीडमानास्तथा बाला गोविंदं प्रणमंति ते ॥६॥
दिवारात्रौ सुमधुरं ब्रुवंति हरिनाम च
विष्णूच्चारो हि सर्वत्र श्रूयते द्विजसत्तम ॥७॥
वैष्णवेन प्रभावेण मर्त्या वर्तंति भूतले
प्रासादकलशाग्रेषु देवतायतनेषु च ॥८॥
यथा सूर्यस्य बिंबानि तथा चक्राणि भांति च
वैकुंठे दृश्यते भावस्तद्भावं जगतीतले ॥९॥
तेन राज्ञा कृतं विप्र पुण्यं चापि महात्मना
विष्णुलोकस्य समतां तथानीतं महीतलम् ॥१०॥
नहुषस्यापि पुत्रेण वैष्णवेन ययातिना
उभयोर्लोकयोर्भावमेकीभूतं महीतलम् ॥११॥
भूतलस्यापि विष्णोश्च अंतरं नैव दृश्यते
विष्णूच्चारं तु वैकुंठे यथा कुर्वंति वैष्णवाः ॥१२॥
भूतले तादृशोच्चारं प्रकुर्वंति च मानवाः
उभयोर्लोकयोर्विप्र एकभावः प्रदृश्यते ॥१३॥
जरारोगभयं नास्ति मृत्युहीना नरा बभुः
दानभोगप्रभावश्च अधिको दृश्यते भुवि ॥१४॥
पुत्राणां तु सुखं पुण्यमधिकं पौत्रजं नराः
प्रभुंजंति सुखेनापि मानवा भुवि सत्तम ॥१५॥
विष्णोः प्रसाददानेन उपदेशेन तस्य च
सर्वव्याधिविनिर्मुक्ता मानवा वैष्णवाः सदा ॥१६॥
स्वर्गलोकप्रभावो हि कृतो राज्ञा महीतले
पंचविंशप्रमाणेन वर्षाणि नृपसत्तम ॥१७॥
गदैर्हीना नराः सर्वे ज्ञानध्यानपरायणाः
यज्ञदानपराः सर्वे दयाभावाश्च मानवाः ॥१८॥
उपकाररताः पुण्या धन्यास्ते कीर्तिभाजनाः
सर्वे धर्मपरा विप्र विष्णुध्यानपरायणाः ॥१९॥
राज्ञा तेनोपदिष्टास्ते संजाता वैष्णवा भुवि
विष्णुरुवाच-
श्रूयतां नृपशार्दूल चरित्रं तस्य भूपतेः ॥२०॥
सर्वधर्मपरो नित्यं विष्णुभक्तश्च नाहुषिः
अब्दानां तत्र लक्षं हि तस्याप्येवं गतं भुवि ॥२१॥
नूतनो दृश्यते कायः पंचविंशाब्दिको यथा
पंचविंशाब्दिको भाति रूपेण वयसा तदा ॥२२॥
प्रबलः प्रौढिसंपन्नः प्रसादात्तस्य चक्रिणः
मानुषा भुवमास्थाय यमं नैव प्रयांति ते ॥२३॥
रागद्वेषविनिर्मुक्ताः क्लेशपाशविवर्जिताः
सुखिनो दानपुण्यैश्च सर्वधर्मपरायणाः ॥२४॥
विस्तारं तेजनाः सर्वे संतत्यापि गता नृप
यथा दूर्वावटाश्चैव विस्तारं यांति भूतले ॥२५॥
यथा ते मानवाः सर्वे पुत्रपौत्रैः प्रविस्तृताः
मृत्युदोषविहीनास्ते चिरं जीवंति वै जनाः ॥२६॥
स्थिरकायाश्च सुखिनो जरारोगविवर्जिताः
पंचविंशाब्दिकाः सर्वे नरा दृश्यंति भूतले ॥२७॥
सत्याचारपराः सर्वे विष्णुध्यानपरायणाः
एवं सर्वे च मर्त्यास्ते प्रसादात्तस्य चक्रिणः ॥२८॥
संजाता मानवाः सर्वे दानभोगपरायणाः
मृतो न श्रूयते लोके मर्त्यः कोपि नरोत्तम ॥२९॥
शोकं नैव प्रपश्यंति दोषं नैव प्रयांति ते
यद्रूपं स्वर्गलोकस्य तद्रूपं भूतलस्य च ॥३०॥
संजातं मानवश्रेष्ठ प्रसादात्तस्य चक्रिणः
विभ्रष्टा यमदूतास्ते विष्णुदूतैश्च ताडिताः ॥३१॥
रुदमाना गताः सर्वे धर्मराजं परस्परम्
तत्सर्वं कथितं दूतैश्चेष्टितं भूपतेस्तु तैः ॥३२॥
अमृत्युभूतलं जातं दानभोगेन भास्करे
नहुषस्यात्मजेनापि कृतं देवययातिना ॥३३॥
विष्णुभक्तेन पुण्येन स्वर्गरूपं प्रदर्शितम्
एवमाकर्णितं सर्वं धर्मराजेन वै तदा ॥३४॥
धर्मराजस्तदा तत्र दूतेभ्यः श्रुतविस्तरः
चिंतयामास सर्वार्थं श्रुत्वैवंनृपचेष्टितम् ॥३५॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-
चरित्रे पंचसप्ततितमोऽध्यायः ॥७५॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP