संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ४

भूमिखंडः - अध्यायः ४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
गतेषु तेषु गोलोकं वैष्णवं तमसः परम्
शिवशर्मा महाप्राज्ञः कनिष्ठं वाक्यमब्रवीत् ॥१॥
ब्राह्मण उवाच-
सोमशर्मन्महाप्राज्ञ त्वं पितुर्भक्तितत्परः
अमृतस्य महाकुंभं रक्ष दत्तं मयाधुना ॥२॥
तीर्थयात्रां प्रयास्यामि अनया भार्यया सह
एवमस्तु महाभाग करिष्ये रक्षणं शुभम् ॥३॥
कुंभं दत्वा स मेधावी तस्य हस्ते महात्मनः
दशवर्षप्रमाणं तु तपस्तेपे निरंतरम् ॥४॥
कुंभं रक्षति धर्मात्मा दिवारात्रमतंद्रितः
पुनः स हि समायातः शिवशर्मा महायशाः ॥५॥
मायां कृत्वा महाप्राज्ञो भार्यया सह तं सुतम्
कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी ॥६॥
मांसपिंडोपमौ जातौ द्वावेतौ मायया कृतौ
संनिधिं तस्य घोरस्य विप्रस्य सोमशर्मणः ॥७॥
समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ
कृपया परयाविष्टः सोमशर्मा महायशाः ॥८॥
तयोः पादं नमस्कृत्य भक्त्या नमितकंधरः
भवादृशौ न पश्यामि तपसाभिसमन्वितम् ॥९॥
गुणव्रातैः सुपुण्यैश्च किमिदं वर्तितं त्वयि
दासवद्देवताः सर्वा वर्तंते सर्वदा तव ॥१०॥
आदेशं प्राप्य विप्रेंद्र आकृष्टास्तेजसा तव
तवांगे केन पापेन गदोयं वेदनान्वितः ॥११॥
संजातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम्
इयं पुण्यवती माता महापुण्या पतिव्रता ॥१२॥
या हि भर्तृप्रसादेन त्रैलोक्यं कर्तुमिच्छति
सा कथं दुःखमाप्नोति किं नास्ति तपसः फलम् ॥१३॥
रागद्वेषौ परित्यज्य विविधेनापि कर्मणा
या च शुश्रूषते कांतं देववद्गुरुवत्सला ॥१४॥
सा कथं दुःखमाप्नोति कुष्ठरोगं सुदुःखदम्
शिवशर्मोवाच-
मा शुचस्त्वं महाभाग भुज्यते कर्मजं फलम् ॥१५॥
नरेण कर्मयुक्तेन पापपुण्यमयेन हि
शोधनं च कुरुष्व त्वमुभयो रोगयुक्तयोः ॥१६॥
शुश्रूषणं महाभाग यदि पुण्यमिहेच्छसि
एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः ॥१७॥
शुश्रूषां वा करिष्यामि युवयोः पुण्ययुक्तयोः
मया पापेन दुष्टेन कृपणेन द्विजोत्तम ॥१८॥
किं कर्तव्यमिहाद्यैव यो गुरुं न हि पूजयेत्
एवमाभाष्य दुःखाद्वा तयोर्दुःखेन दुःखितः ॥१९॥
श्लेष्ममूत्रपुरीषं च उभयोः पर्यशोधयत्
पादप्रक्षालनं चक्रे अंगसंवाहनं तथा ॥२०॥
स्नानस्थानादिकं सोपि तयोर्भक्त्यान्वितः स्वयम्
द्वावेतौ हि गुरू विप्रः सोमशर्मा महायशाः ॥२१॥
तीर्थं नयति धर्मात्मा स्कंधमारोप्य सत्तमः
द्वावेतौ हि स्वहस्तेन स्नापयित्वा तु मंगलैः ॥२२॥
सुमंत्रैर्वेदविच्चैव स्नानस्य विधिपूर्वकम्
तर्पणं च पितॄणां तु देवतानां तु पूजनम् ॥२३॥
द्वाभ्यामपि स धर्मात्मा स कारयति नित्यशः
स्वयं होमं ददात्यग्नौ पचत्यन्नमनुत्तमम् ॥२४॥
संज्ञापयति सुप्रीतौ द्वावेतौ च महागुरू
शय्यासने च तौ विप्रः प्रस्वापयति नित्यशः ॥२५॥
वस्त्रपुष्पादिकं सर्वं ताभ्यां नित्यं प्रयच्छति
तांबूलं बहुगंधाढ्यमुभयोरर्पयेत्स तु ॥२६॥
सोमशर्मा महाभागस्ताभ्यामपि च पूरयेत्
मूलं पयः सुभक्ष्याद्यं नित्यमेव ददात्यसौ ॥२७॥
तयोस्तु वांछितं नित्यं सोमशर्मा महायशाः
अनेन क्रमयोगेन नित्यमेव प्रसादयेत् ॥२८॥
सोमशर्मा सुधर्मात्मा पितरौ परिपूजयेत्
सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः ॥२९॥
निंदितैर्निष्ठुरैर्वाक्यैस्ताडयेन्मुनिसन्निधौ
कृतकार्ये कृते पुण्ये नित्यमेव सुते पुनः ॥३०॥
न कृतं शोभनं मह्यं त्वयैव कुलपांसन
एवं नानाविधैर्वाक्यैर्निष्ठुरैर्दुःखदायकैः ॥३१॥
अताडयद्दंडघातैः शिवशर्मा सदातुरः
एवं कृतेपि धर्मात्मा नैव कुप्यति कर्हिचित् ॥३२॥
मनसा वचसा चैव कर्मणा त्रिविधेन च
संतुष्टः सर्वदा सोपि पितरं परिपूजयेत् ॥३३॥
तद्वत्स सोमशर्मा वै मातरं च दिनेदिने
यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते ॥३४॥
अमृतं मत्कृते चापि आनीतं विष्णुशर्मणा
पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा ॥३५॥
एवं बहुतिथे काले शतसंख्ये गते सति
शिवशर्मा पितस्यैव भक्तिं दृष्ट्वा विचिंत्य वै ॥३६॥
मया वै पूर्वमित्युक्तं सुपुत्रं यज्ञसंज्ञकम्
मातृखंडानिमान्पुत्र यत्र तत्र क्षिपस्व हि ॥३७॥
मद्वाक्यं पालितं तेन कृता न मातरि कृपा
एतत्स्वल्पतरं दुःखं निर्जीवे घातमिच्छतः ॥३८॥
साहसं तु कृतं तेन पुत्रेण वेदशर्मणा
अस्याधिकमहं मन्ये यतोऽयं चलते न च ॥३९॥
निमेषमात्रमेवापि साहसं कारयेत्पुनः
अपरं सत्यसंपन्नं प्रभावं तपसः पुनः ॥४०॥
नित्यं समाराधनेपि अधिकं चास्य दृश्यते
तस्मादस्य परीक्षा च समये तपसः कृता ॥४१॥
भक्तिभावात्तथा सत्यान्नैव पुत्रः प्रणश्यति
मायया च निजांगेऽपि कुष्ठरोगो निदर्शितः ॥४२॥
श्लेष्ममूत्रमलानां च घृणां नैव करोति च
व्रणान्विशोधयेन्नित्यं स्वहस्तेन महायशाः ॥४३॥
पादसंवाहनं दद्याच्छौचं चैव महामतिः
दुःसहं वचनं मह्यं दारुणं सहते सदा ॥४४॥
भर्त्सने ताडने चैव सदाभीष्टप्रवाचकः
एवं दुःखसमाचारो मम पुत्रो महामतिः ॥४५॥
दुःखानां सागरं मन्ये बहुक्लेशैस्तु क्लेशितः
अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसादतः ॥४६॥
विचार्य मनसा विप्रः शिवशर्मा महामतिः
पुनर्मायां चकाराथ कुंभादपहृतं पयः ॥४७॥
पश्चात्तं च समाहूय सोमशर्माणमब्रवीत्
तव हस्ते मया दत्तममृतं व्याधिनाशनम् ॥४८॥
तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम्
येन नीरुग्भवाम्यद्य प्रसादाद्विष्णुशर्मणः ॥४९॥
एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा
समुत्थाय त्वरायुक्तः सोमशर्मा कमंडलुम् ॥५०॥
तं च रिक्तं ततो दृष्ट्वा ह्यमृतेन विना कृतम्
कस्य पापस्य वै कर्म केन मे विप्रियं कृतम् ॥५१॥
इति चिंतापरो भूत्वा सोमशर्मा सुदुःखितः
पितुरग्रे च वृत्तांतं कथयिष्याम्यहं यदा ॥५२॥
ततः कोपं प्रयास्येत गुरुर्मे व्याधिपीडितः
सुचिरं चिंतयित्वा तु सोमशर्मा महामतिः ॥५३॥
यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि
तपस्तप्तं मयापूर्वं निर्व्यलीकेन चेतसा ॥५४॥
दमशौचादिभिः सत्यं धर्ममेव प्रपालितम्
तदा घटोऽमृतयुतो भवत्वेष न संशयः ॥५५॥
यावदेव महाभागश्चिंतयित्वा विलोकयेत्
तावच्चामृतपूर्णस्तु पुनरेवाभवद्घटः ॥५६॥
तं दृष्ट्वा हर्षसंयुक्तः सोमशर्मा महायशाः
गत्वा गुरुं नमस्कृत्य कुंभमादाय सत्वरम् ॥५७॥
गृहाण त्वं पितश्चेमं पयः कुंभं समागतम्
पानं कुरु महाभाग गदान्मुक्तो भवाचिरम् ॥५८॥
एतद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः
शिवशर्मा सुतस्यापि श्रुत्वा च मधुराक्षरम् ॥५९॥
हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥६०॥
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मोपाख्याने चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : October 25, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP