संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ७७ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ७७ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७७ Translation - भाषांतर सुकर्मोवाच-कामस्य गीतलास्येन हास्येन ललितेन चमोहितो राजराजेंद्रो नटरूपेण पिप्पल ॥१॥कृत्वा मूत्रं पुरीषं च स राजा नहुषात्मजःअकृत्वा पादयोः शौचमासने उपविष्टवान् ॥२॥तदंतरं तु संप्राप्य संचचार जरा नृपम्कामेनापि नृपश्रेष्ठ इंद्रकार्यं कृतं हितम् ॥३॥निवृत्ते नाटके तस्मिन्गतेषु तेषु भूपतिःजराभिभूतो धर्मात्मा कामसंसक्तमानसः ॥४॥मोहितः काममोहेन विह्वलो विकलेंद्रियःअतीव मुग्धो धर्मात्मा विषयैश्चापवाहितः ॥५॥एकदा तु गतो राजा मृगया व्यसनातुरःवने च क्रीडते सोपि मोहरागवशं गतः ॥६॥सरसं क्रीडमानस्य नृपतेश्च महात्मनःमृगश्चैकः समायातश्चतुःशृंगो ह्यनौपमः ॥७॥सर्वांगसुंदरो राजन्हेमरूपतनूरुहःरत्नज्योतिः सुचित्रांगो दर्शनीयो मनोहरः ॥८॥अभ्यधावत्स वेगेन बाणपाणिर्धनुर्द्धरःइत्यमन्यत मेधावी कोपि दैत्यः समागतः ॥९॥मृगेण च स तेनापि दूरमाकर्षितो नृपःगतः सरथवेगेन श्रमेण परिखेदितः ॥१०॥वीक्षमाणस्य तस्यापि मृगश्चांतरधीयतस पश्यति वनं तत्र नंदंनोपममद्भुतम् ॥११॥चारुवृक्षसमाकीर्णं भूतपंचकशोभितम्गुरुभिश्चंदनैः पुण्यैः कदलीखंडमंडितैः ॥१२॥बकुलाशोकपुंनागैर्नालिकेरैश्च तिंदुकैःपूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः ॥१३॥पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैःपुष्पितामोदसंयुक्तैः केतकैः पाटलैस्ततः ॥१४॥वीक्षमाणो महाराज ददर्श सर उत्तमम्पुण्योदकेन संपूर्णं विस्तीर्णं पंचयोजनम् ॥१५॥हंसकारंडवाकीर्णं जलपक्षिविनादितम्कमलैश्चापि मुदितं श्वेतोत्पलविराजितम् ॥१६॥रक्तोत्पलैः शोभमानं हाटकोत्पलमंडितम्नीलोत्पलैः प्रकाशितं कल्हारैरतिशोभितम् ॥१७॥मत्तैर्मधुकरैश्चपि सर्वत्र परिनादितम्एवं सर्वगुणोपेतं ददर्श सर उत्तमम् ॥१८॥पंचयोजनविस्तीर्णं दशयोजनदीर्घकम्तडागं सर्वतोभद्रं दिव्यभावैरलंकृतम् ॥१९॥रथवेगेन संखिन्नः किंचिच्छ्रमनिपीडितःनिषसाद तटे तस्य चूतच्छायां सुशीतलाम् ॥२०॥स्नात्वा पीत्वा जलं शीतं पद्मसौगंध्यवासितम्सर्वश्रमोपशमनममृतोपममेव तत् ॥२१॥वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृतागीतध्वनिः समाकर्णि गीयमानो यथा तथा ॥२२॥यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिःगीतप्रियो महाराज एव चिंतां परां गतः ॥२३॥चिंताकुलस्तु धर्मात्मा यावच्चिंतयते क्षणम्तावन्नारी वरा काचित्पीनश्रोणी पयोधरा ॥२४॥नृपतेः पश्यतस्तस्य वने तस्मिन्समागतासर्वाभरणशोभांगी शीललक्षणसंपदा ॥२५॥तस्मिन्वने समायाता नृपतेः पुरतः स्थितातामुवाच महाराजः का हि कस्य भविष्यसि ॥२६॥किमर्थं हि समायाता तन्मे त्वं कारणं वदपृष्टा सती तदा तेन न किंचिदपि पिप्पल ॥२७॥शुभाशुभं च भूपालं प्रत्यवोचद्वराननाप्रहस्यैव गता शीघ्रं वीणादंडकराऽबला ॥२८॥विस्मयेनापि राजेंद्रो महता व्यापितस्तदामया संभाषिता चेयं मां न ब्रूते स्म सोत्तरम् ॥२९॥पुनश्चिंतां समापेदे ययातिः पृथिवीपतिःयो वै मृगो मया दृष्टश्चतुःशृंगः सुवर्णकः ॥३०॥तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मेमायारूपमिदं सत्यं दानवानां भविष्यति ॥३१॥चिंतयित्वा क्षणं राजा ययातिर्नहुषात्मजःयावच्चिंतयते राजा तावन्नारी महावने ॥३२॥अंतर्धानं गता विप्र प्रहस्य नृपनंदनम्एतस्मिन्नंतरे गीतं सुस्वरं पुनरेव तत् ॥३३॥शुश्रुवे परमं दिव्यं मूर्छनातानसंयुतम्जगाम सत्वरं राजा यत्र गीतध्वनिर्महान् ॥३४॥जलांते पुष्करं चैव सहस्रदलमुत्तमम्तस्योपरि वरा नारी शीलरूपगुणान्विता ॥३५॥दिव्यलक्षणसंपन्ना दिव्याभरणभूषितादिव्यैर्भावैः प्रभात्येका वीणादंडकराविला ॥३६॥गायंती सुस्वरं गीतं तालमानलयान्वितम्तेन गीतप्रभावेण मोहयंती चराचरान् ॥३७॥देवान्मुनिगणान्सर्वान्दैत्यान्गंधर्वकिन्नरान्तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीम् ॥३८॥संसारे नास्ति चैवान्या नारीदृशी चराचरेपुरा नटो जरायुक्तो नृपतेः कायमेव हि ॥३९॥संचारितो महाकामस्तदासौ प्रकटोभवत्घृतं स्पृष्ट्वा यथा वह्नी रश्मिवान्संप्रजायते ॥४०॥तां च दृष्ट्वा तथा कामस्तत्कायात्प्रकटोऽभवत्मन्मथाविष्टचित्तोसौ तां दृष्ट्वा चारुलोचनाम् ॥४१॥ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनीचिंतयित्वा क्षणं राजा कामसंसक्तमानसः ॥४२॥तस्याः सविरहेणापि लुब्धोभून्नृपतिस्तदाकामाग्निना दह्यमानः कामज्वरेणपीडितः ॥४३॥कथं स्यान्मम चैवेयं कथं भावो भविष्यतियदा मां गूहते बाला पद्मास्या पद्मलोचना ॥४४॥यदीयं प्राप्यते तर्हि सफलं जीवितं भवेत्एवं विचिंत्य धर्मात्मा ययातिः पृथिवीपतिः ॥४५॥तामुवाच वरारोहां का त्वं कस्यापि वा शुभेपूर्वं दृष्टा तु या नारी सा दृष्टा पुनरेव च ॥४६॥तां पप्रच्छ स धर्मात्मा का चेयं तव पार्श्वगासर्वं कथय कल्याणि अहं हि नहुषात्मजः ॥४७॥सोमवंशप्रसूतोहं सप्तद्वीपाधिपः शुभेययातिर्नाम मे देवि ख्यातोहं भुवनत्रये ॥४८॥तव संगमने चेतो भावमेवं प्रवांछतेदेहि मे संगमं भद्रे कुरु सुप्रियमेव हि ॥४९॥यं यं हि वांछसे भद्रे तद्ददामि न संशयःदुर्जयेनापि कामेन हतोहं वरवर्णिनि ॥५०॥तस्मात्त्राहि सुदीनं मां प्रपन्नं शरणं तवराज्यं च सकलामुर्वीं शरीरमपि चात्मनः ॥५१॥संगमे तव दास्यामि त्रैलोक्यमिदमेव तेतस्य राज्ञो वचः श्रुत्वा सा स्त्री पद्मनिभानना ॥५२॥विशालां स्वसखीं प्राह ब्रूहि राजानमागतम्नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ॥५३॥ममापि भावमेकाग्रमस्याग्रे च निवेदयतस्याश्च वांछितं ज्ञात्वा विशाला भूपतिं तदा ॥५४॥उवाच मधुरालापैः श्रूयतां नृपनंदनविशालोवाच-काम एष पुरा दग्धो देवदेवेन शंभुना ॥५५॥रुरोद सा रतिर्दुःखाद्भर्त्राहीनापि सुस्वरम्अस्मिन्सरसि राजेंद्र सा रतिर्न्यवसत्तदा ॥५६॥तस्य प्रलापमेवं सा सुस्वरं करुणान्वितम्समाकर्ण्य ततो देवाः कृपया परयान्विताः ॥५७॥संजाता राजराजेंद्र शंकरं वाक्यमब्रुवन्जीवयस्व महादेव पुनरेव मनोभवम् ॥५८॥वराकीयं महाभाग भर्तृहीना हि कीदृशीकामेनापि समायुक्तामस्मत्स्नेहात्कुरुष्व हि ॥५९॥तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवम्कायेनापि विहीनोयं पंचबाणो मनोभवः ॥६०॥भविष्यति न संदेहो माधवस्य सखा पुनःदिव्येनापि शरीरेण वर्तयिष्यति नान्यथा ॥६१॥महादेवप्रसादाच्च मीनकेतुः स जीवितःआशीर्भिरभिनंद्यैवं देव्याः कामं नरोत्तम ॥६२॥गच्छ काम प्रवर्तस्व प्रियया सह नित्यशःएवमाह महातेजाः स्थितिसंहारकारकः ॥६३॥पुनः कामः सरःप्राप्तो यत्रास्ते दुःखिता रतिःइदं कामसरो राजन्रतिरत्र सुसंस्थिता ॥६४॥दग्धे सति महाभागे मन्मथे दुःखधर्षितारत्याः कोपात्समुत्पन्नः पावको दारुणाकृतिः ॥६५॥अतीवदग्धा तेनापि सा रतिर्मोहमूर्छिताअश्रुपातं मुमोचाथ भर्तृहीना नरोत्तम ॥६६॥नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिंदवःतेभ्यो जातो महाशोकः सर्वसौख्यप्रणाशकः ॥६७॥जरा पश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तमवियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः ॥६८॥दुःखसंतापकौ चोभौ जज्ञाते दारुणौ तदामूर्छा नाम ततो जज्ञे दारुणा सुखनाशिनी ॥६९॥शोकाज्जज्ञे महाराज कामज्वरोथ विभ्रमःप्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च ॥७०॥तस्याश्च अश्रुबिंदुभ्यो जज्ञिरे विश्वनाशकाःरत्याः पार्श्वे समुत्पन्नाः सर्वे तापांगधारिणः ॥७१॥मूर्तिमंतो महाराज सद्भावगुणसंयुताःकाम एष समायातः केनाप्युक्तं तदा नृप ॥७२॥महानंदेन संयुक्ता दृष्ट्वा कामं समागतम्नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्दवः ॥७३॥अप्सु मध्ये महाराज चापल्याज्जज्ञिरे प्रजाःप्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम ॥७४॥तेभ्यो जज्ञे महानंद शांतिश्चान्या नृपोत्तमजज्ञाते द्वे शुभे कन्ये सुखसंभोगदायिके ॥७५॥लीलाक्रीडा मनोभाव संयोगस्तु महान्नृपरत्यास्तु वामनेत्राद्वै आनंदादश्रुबिंदवः ॥७६॥जलांते पतिता राजंस्तस्माज्जज्ञे सुपंकजम्तस्मात्सुपंकजाज्जाता इयं नारी वरानना ॥७७॥अश्रुबिंदुमती नाम रतिपुत्री नरोत्तमतस्याः प्रीत्या सुखं कृत्वा नित्यं वर्त्ते समीपगा ॥७८॥सखीभावस्वभावेन संहृष्टा सर्वदा शुभाविशाला नाम मे ख्यातं वरुणस्य सुता नृप ॥७९॥अस्याश्चांते प्रवर्तामि स्नेहात्स्निग्धास्मि सर्वदाएतत्ते सर्वमाख्यातमस्याश्चात्मन एव ते ॥८०॥तपश्चचार राजेंद्र पतिकामा वराननाराजोवाच-सर्वमेव त्वयाख्यातं मया ज्ञातं शुभे शृणु ॥८१॥मामेवं हि भजत्वेषा रतिपुत्री वराननायमेषा वांछते बाला तत्सर्वं तु ददाम्यहम् ॥८२॥तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेत्विशालोवाच-अस्या व्रतं प्रवक्ष्यामि तदाकर्णय भूपते ॥८३॥पुरुषं यौवनोपेतं सर्वज्ञं वीरलक्षणम्देवराजसमं राजन्धर्माचारसमन्वितम् ॥८४॥तेजस्विनं महाप्राज्ञं दातारं यज्विनां वरम्गुणानां धर्मभावस्य ज्ञातारं पुण्यभाजनम् ॥८५॥लोक इंद्रसमं राजन्सुयज्ञैर्धर्मतत्परम्सर्वैश्वर्यसमोपेतं नारायणमिवापरम् ॥८६॥देवानां सुप्रियं नित्यं ब्राह्मणानामतिप्रियम्ब्रह्मण्यं वेदतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् ॥८७॥एवंगुणैः समुपेतं त्रैलोक्येन प्रपूजितम्सुमतिं सुप्रियं कांतं मनसा वरमीप्सति ॥८८॥ययातिरुवाच-एवं गुणैः समुपेतं विद्धि मामिह चागतम्अस्यानुरूपो भर्त्ताहं सृष्टो धात्रा न संशयः ॥८९॥विशालोवाच-भवंतं पुण्यसंवृद्धं जाने राजञ्जगत्त्रयेपूर्वोक्ता ये गुणाः सर्वे मयोक्ताः संति ते त्वयि ॥९०॥एकेनापि च दोषेण त्वामेषा हि न मन्यतेएष मे संशयो जातो भवान्विष्णुमयो नृप ॥९१॥ययातिरुवाच-समाचक्ष्व महादोषं यमेषा नानुमन्यतेतत्त्वेन चारुसर्वांगी प्रसादसुमुखी भव ॥९२॥विशालोवाच-आत्मदोषं न जानासि कस्मात्त्वं जगतीपतेजरया व्याप्तकायस्त्वमनेनेयं न मन्यते ॥९३॥एवं श्रुत्वा महद्वाक्यमप्रियं जगतीपतिःदुःखेन महताविष्टस्तामुवाच पुनर्नृपः ॥९४॥जरादोषो न मे भद्रे संसर्गात्कस्यचित्कदासमुद्भूतं ममांगे वै तं न जाने जरागमम् ॥९५॥यं यं हि वांछते चैषा त्रैलोक्ये दुर्लभं शुभेतमस्यै दातुकामोहं व्रियतां वर उत्तमः ॥९६॥विशालोवाच-जराहीनो यदा स्यास्त्वं तदा ते सुप्रिया भवेत्एतद्विनिश्चितं राजन्सत्यं सत्यं वदाम्यहम् ॥९७॥श्रुतिरेवं वदेद्राजन्पुत्रे भ्रातरि भृत्यकेजरा संक्राम्यते यस्य तस्यांगे परिसंचरेत् ॥९८॥तारुण्यं तस्य वै गृह्य तस्मै दत्वा जरां पुनःउभयोः प्रीतिसंवादः सुरुच्या जायते शुभः ॥९९॥यथात्मदानपुण्यस्य कृपया यो ददाति चफलं राजन्हि तत्तस्य जायते नात्र संशयः ॥१००॥दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयतेसुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुते ॥१०१॥पुत्राय दीयतां राजंस्तस्मात्तारुण्यमेव चप्रगृह्यैव समागच्छ सुंदरत्वेन भूपते ॥१०२॥यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरुभूपतेएवमाभाष्य सा भूपं विशाला विरराम ह ॥१०३॥सुकर्मोवाच-एवमाकर्ण्य राजेंद्रो विशालामवदत्तदाराजोवाच-एवमस्तु महाभागे करिष्ये वचनं तव ॥१०४॥कामासक्तः समूढस्तु ययातिः पृथिवीपतिःगृहं गत्वा समाहूय सुतान्वाक्यमुवाच ह ॥१०५॥तुरुं पूरुं कुरुं राजा यदुं च पितृवत्सलम्कुरुध्वं पुत्रकाः सौख्यं यूयं हि मम शासनात् ॥१०६॥पुत्रा ऊचुः-पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम्उच्यतां तात तच्छीघ्रं कृतं विद्धि न संशयः ॥१०७॥एवमाकर्ण्यतद्वाक्यं पुत्राणां पृथिवीपतिःआचचक्षे पुनस्तेषु हर्षेणाकुलमानसः ॥१०८॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययाति-चरित्रे सप्तसप्ततितमोऽध्यायः ॥७७॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP