संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः २१

भूमिखंडः - अध्यायः २१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूत उवाच-
एकदा व्यास देवोऽसौ ब्रह्माणं जगतः पतिम्
सुव्रताख्यानकं सर्वं पप्रच्छातीव विस्मितः ॥१॥
व्यास उवाच-
लोकात्मँल्लोकविन्यास देवदेव महाप्रभो
सुव्रतस्याथ चरितं श्रोतुमिच्छामि सांप्रतम् ॥२॥
ब्रह्मोवाच-
पाराशर्यमहाभाग श्रूयतां पुण्यमुत्तमम्
सुव्रतस्य सुविप्रस्य तपश्चर्यासमन्वितम् ॥३॥
सुव्रतो नाम मेधावी बाल्यादपि स चिंतयन्
गर्भे नारायणं देवं दृष्टवान्पुरुषोत्तमम् ॥४॥
स पूर्वकर्माभ्यासेन हरेर्ध्यानं गतस्तदा
शंखचक्रधरं देवं पद्मनाभं सुपुण्यदम् ॥५॥
ध्यायते चिंतयेत्सो हि गीते ज्ञाने प्रपाठने
एवं देवं हरिं ध्यायन्सदैव द्विजसत्तमः ॥६॥
क्रीडत्येवं सदा डिंभैः सार्द्धं च बालकोत्तमः
बालकानां स्वकं नाम हरेश्चैव महात्मनः ॥७॥
चकार स हि मेधावी पुण्यात्मा पुण्यवत्सलः
समाह्वयति वै मित्रं हरेर्नाम्ना महामतिः ॥८॥
भोभोः केशव एह्येहि एहि माधवचक्रधृक्
क्रीडस्व च मया सार्धं त्वमेव पुरुषोत्तम ॥९॥
सममेवं प्रगंतव्यमावाभ्यां मधुसूदन
एवमेव समाह्वानं नामभिश्च हरेर्द्विजः ॥१०॥
क्रीडने पठने हास्ये शयने गीतप्रेक्षणे
याने च ह्यासने ध्याने मंत्रे ज्ञाने सुकर्मसु ॥११॥
पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनम्
स ध्यायते तमेकं हि विश्वनाथं महेश्वरम् ॥१२॥
तृणे काष्ठे च पाषाणे शुष्के सार्द्रे हि केशवम्
पश्यत्येवं स धर्मात्मा गोविंदं कमलेक्षणम् ॥१३॥
आकाशे भूमिमध्ये तु पर्वतेषु वनेषु च
जले स्थले च पाषाणे जीवेष्वेव महामतिः ॥१४॥
नृसिंहं पश्यते विप्रः सुव्रतः सुमनासुतः
बालक्रीडां समासाद्य रमत्येवं दिनेदिने ॥१५॥
गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरैः
तालैर्लयसमायुक्तैः सुस्वरैर्मूर्च्छनान्वितैः ॥१६॥
सुव्रत उवाच-
ध्यायंति वेदविदुषः सततं सुरारिं यस्यांगमध्ये सकलं हि विश्वम्
योगेश्वरं सकलपापविनाशनं च व्रजामि शरणं मधुसूदनस्य ॥१७॥
लोकेषु यो हि सकलेष्वनुवर्तते यो लोकाश्च यस्मिन्निवसंति सर्वे
दोषैर्विहीनमखिलैः परमेश्वरं तं तस्यैव पादयुगलं सततं नमामि ॥१८॥
नारायणं गुणनिधानमनंतवीर्यं वेदांतशुद्धमतयः प्रपठंति नित्यम्
संसारसागरमनंतमगाधदुर्गमुत्तारणार्थमखिलं शरणं प्रपद्ये ॥१९॥
योगींद्र मानससरोवरराजहंसं शुद्धं प्रभावमखिलं सततं हि यस्य
तस्यैव पादयुगलं विमलं विशालं दीनस्य मेऽसुररिपो कुरु तस्य रक्षाम् ॥२०॥
ध्यायेऽखिलस्य भुवनं स्वपतिं च देवं दुःखांधकारदलनार्थमिहैव चंद्रम्
लोकस्य पालनकृते परिणीतधर्मं सत्यान्वितं सकललोकगुरुं सुरेशम् ॥२१॥
गायाम्यहं सुरसगीतकतालमानैः श्रीरंगमेकमनिशं भुवनस्य देवम्
अज्ञाननाशकमलं च दिनेशतुल्यमानंदकंदमखिलं महिमा समेतम् ॥२२॥
संपूर्णमेवममृतस्यकलानिधानं तं गीतकौशलमनन्यरसैः प्रगाये
युक्तं स्वयोगकरणैः परमार्थदृष्टिं विश्वं स पश्यति चराचरमेव नित्यम् ॥२३॥
पश्यंति नैव यमिहाथ सुपापलोकास्तं केशवं शरणमेवमुपैति नित्यम् ॥२४॥
कराभ्यां वाद्यमानस्तु तालं तालसमन्वितम्
गीतेनगायते कृष्णं बालकैः सह मोदते ॥२५॥
एवं क्रीडारतो नित्यं बालभावेन वै तदा
सुव्रतः सुमनापुत्रो विष्णुध्यानपरायणः ॥२६॥
क्रीडमानं प्राह माता सुव्रतं चारुलक्षणम्
भोजनं कुरु मे वत्स क्षुधा त्वां परिपीडयेत् ॥२७॥
तामुवाच पुनः प्राज्ञः सुमना मातरं पुनः
महामृतेन तृप्तोस्मि हरिध्यानरसेन वै ॥२८॥
भोजनासनमारूढो मिष्टमन्नं प्रपश्यति
इदमन्नं स्वयं विष्णुरात्मा ह्यन्नं समाश्रितः ॥२९॥
आत्मरूपेण यो विष्णुरनेनान्नेन तृप्यतु
क्षीरसागरसंवासो यस्यैव परिसंस्थितः ॥३०॥
जलेनानेन पुण्येन तृप्तिमायातु केशवः
तांबूलचंदनैर्गंधैरेभिः पुष्पैर्मनोहरैः ॥३१॥
आत्मस्वरूपेण तृप्तस्तृप्तिमायातु केशवः
शयने याति धर्मात्मा तदा कृष्णं प्रचिंतयेत् ॥३२॥
योगनिद्रान्वितं कृष्णं तमहं शरणं गतः
भोजनाच्छादनेष्वेवमासने शयने द्विजः ॥३३॥
चिंतयेद्वासुदेवं तं तस्मै सर्वं प्रकल्पयेत्
तारुण्यं प्राप्य धर्मात्मा कामभोगान्विहाय वै ॥३४॥
स युक्तः केशवध्याने वैडूर्यपर्वतोत्तमे
यत्र सिद्धेश्वरं लिंगं वैष्णवं पापनाशनम् ॥३५॥
रुद्रमोंकारसंज्ञं च ध्यात्वा चैव महेश्वरम्
ब्रह्मणा वर्द्धितं देवं नर्मदादक्षिणे तटे ॥३६॥
सिद्धेश्वरं समाश्रित्य तपोभावं व्यचिंतयत् ॥३७॥

इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे ऐंद्रे सुमनोपाख्याने एकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP