संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ६५

भूमिखंडः - अध्यायः ६५

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


ययातिरुवाच-
धर्मस्य रक्षकः कायो मातले चात्मना सह
नाकमेष न प्रयाति तन्मे त्वं कारणं वद ॥१॥
मातलिरुवाच-
पंचानामपि भूतानां संगतिर्नास्ति भूपते
आत्मना सह वर्तंते संगत्या नैव पंच ते ॥२॥
सर्वेषां तत्र संघातः कायग्रामे प्रवर्तते
जरया पीडिताः सर्वेः स्वंस्वं स्थानं प्रयांति ते ॥३॥
यथा रसाधिका पृथ्वी महाराज प्रकल्पिता
रसैः क्लिन्ना ततः पृथ्वी मृदुत्वं याति भूपते ॥४॥
भिद्यते पिपीलिकाभिर्मूषिकाभिस्तथैव च
छिद्राण्येव प्रजायंते वल्मीकाश्च महोदराः ॥५॥
तद्वत्काये प्रजायंते गंडमाला विचार्चिकाः
कृमिभिर्भिद्यमानश्च काय एष नरोत्तम ॥६॥
गुल्मास्तत्र प्रजायंते सद्यः पीडाकरास्तदा
एभिर्दोषैः समायुक्तः कायोयं नहुषात्मज
कथं प्राणसमायोगाद्दिवं याति नरेश्वर ॥७॥
काये पार्थिवभागोऽयं समानार्थं प्रतिष्ठितः
न कायः स्वर्गमायाति यथा पृथ्वी तथास्थितः ॥८॥
एतत्ते सर्वमाख्यातं दोषौघैः पार्थिवस्य यः ॥९॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थ-
माहात्म्ये पंचषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP