संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १०१ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १०१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १०१ Translation - भाषांतर सूत उवाच-देवदेवो हृषीकेशस्त्वंगपुत्रं नृपोत्तमम्समाचष्ट महाश्रेय आख्यानं पापनाशनम् ॥१॥श्रूयतामभिधास्यामि चरित्रं श्रेयदायकम्द्विजस्यापि च वृत्तांतं कुंजलस्य महात्मनः ॥२॥विष्णुरुवाच-कुंजलश्चापि धर्मात्मा चतुर्थं पुत्रमेव चसमाहूय मुदायुक्त उवाचैनं कपिंजलम् ॥३॥किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मेभोजनार्थं तु यासि त्वमितः कस्मिन्सुतोत्तम ॥४॥तदाचक्ष्व महाभाग यदि दृष्टं सुपुण्यदम्कपिंजल उवाच-यच्च तात त्वया पृष्टमपूर्वं प्रवदाम्यहम् ॥५॥यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मयातदिहैव प्रवक्ष्यामि श्रूयतामधुना पितः ॥६॥शृण्वंतु भ्रातरः सर्वे मातस्त्वं शृणु सांप्रतम्कैलासः पर्वतश्रेष्ठो धवलश्चंद्र सन्निभः ॥७॥नानाधातुसमाकीर्णो नानावृक्षोपशोभितःगंगाजलैः शुभैः पुण्यैः क्षालितः सर्वतः पितः ॥८॥नदीनां तु सहस्राणि दिव्यानि विविधानि चयस्मात्तात प्रसूतानि जलानि विविधानि च ॥९॥तडागानि सहस्राणि सोदकानि महागिरौनद्यः संति विशालिन्यो हंससारससेविताः ॥१०॥तस्मिञ्छिखरिणां श्रेष्ठे पुण्यदाः पापनाशनाःवनानि विविधान्येव पुष्पितानि फलानि च ॥११॥नानावृक्षोपयुक्तानि हरितानि शुभानि चकिन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः ॥१२॥गंधर्वचारणैः सिद्धैर्देववृंदैः सुशोभितःदिव्यवृक्षवनोपेतो दिव्यभावैः समाकुलः ॥१३॥दिव्यगंधैः सुशोभाढ्यैर्नानारत्नसमन्वितःशिलाभिः स्फटिकस्यापि शुक्लाभिस्तु सुशोभनः ॥१४॥सूर्यतेजोमयो राजंस्तेजोभिस्तु समाकुलःचंदनैश्चारुगंधैश्च बकुलैर्नीलपुष्पकैः ॥१५॥नानापुष्पमयैर्वृक्षैः सर्वत्र समलंकृतःपक्षिणां सुनिनादैश्च दिव्यानां मधुरायते ॥१६॥षट्पदानां निनादैश्च वृक्षौघैर्मधुरायतेरुतैश्च कोकिलानां तु शोभते स वनो गिरिः ॥१७॥गणकोटिसमाकीर्णं तत्रास्ति शिवमंदिरम्अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयम् ॥१८॥सिंहैश्च गर्जमानैश्च सैरिभैः कुंजरैस्ततःदिग्गजानां सुघोषैश्च शब्दितं च समंततः ॥१९॥नानामृगैः समाकीर्णं शाखामृगगणाकुलम्मयूरकेकाघोषैश्च गुहासु च विनादितम् ॥२०॥कंदरैर्लेपनैः कूटैः सानुभिश्च विराजितम्नानाप्रस्रवणोपेतमोषधीभिर्विराजितम् ॥२१॥दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलम्सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिम् ॥२२॥पुलिंदभिल्लकोलैश्च सेवितं पर्वतोत्तमम्विकटैः शिखरैः कोटैरद्रिराजः प्रकाशते ॥२३॥अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मंगलैः शुभैःगंगोदकप्रवाहैश्च महाशब्दं प्रसुस्रुवे ॥२४॥शंकरस्य गृहं तत्र कैलासं गतवानहम्तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम् ॥२५॥श्रूयतामभिधास्यामि तात सर्वं मयोदितम्शिखराद्गिरिराजस्य मेरोः पुण्यान्महोदयात् ॥२६॥हिमक्षीरसुवर्णस्तु प्रवाहः पतते भुविगंगायाश्च महाभाग रंहसा घोषभूषितः ॥२७॥कैलासस्य शिरः प्राप्य तत्र विस्तरतां गतःदशयोजनमानेन तत्र गंगा ह्रदो महान् ॥२८॥महातोयेन पुण्येन विमलेन विराजतेसर्वतोभद्रतां प्राप्तो महाहंसैः प्रशोभते ॥२९॥सामोच्चारेण पुण्येन दिव्येन मधुरेण चहंसास्तत्र प्रकूजंति सरस्तेन विराजते ॥३०॥तस्य तीरे शिलायां वै हिमकन्या महामतेआसीना मुक्तकेशांता रूपद्रविणशालिनी ॥३१॥दिव्यरूपसुसंपन्ना सगुणा दिव्यलक्षणादिव्यालंकारभूषा च तस्यास्तीरे विराजते ॥३२॥न जाने गिरिराजस्य तनया वा महोदधेःनो वास्ति ब्रह्मणः पत्नी सा वा स्वाहा भविष्यति ॥३३॥इंद्राणी वा महाभागा रोहिणी वा भविष्यतिईदृशी रूपसंपत्तिर्युवतीनां न दृश्यते ॥३४॥अन्यासां च सुदिव्यानां नारीणां तात सर्वथायादृशं रूपसंभावं गुणशीलं प्रदृश्यते ॥३५॥अप्सरसां कदा नास्ति तादृशं रूपलक्षणम्यादृशं तु मया दृष्टं तदंगं विश्वमोहनम् ॥३६॥शिलापदे समासीना दुःखेनापि समाकुलारुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना ॥३७॥अश्रूणि मुंचमाना सा मुक्ताभानि बहूनि चनिर्मलानि सरस्यत्र पतंत्येव महामते ॥३८॥बिंदवो मौक्तिकाभास्ते निपतंति महोदकेतेभ्यो भवंति पद्मानि हृद्यानि सुरभीणि तु ॥३९॥पद्मानि जज्ञिरे तेभ्यो नेत्राश्रुभ्यो महामतेगंगांभसि तरंत्येव असंख्यातानि तानि तु ॥४०॥पतितानि सुहृद्यानि रंहसा यानि तानि तुगंगाप्रवाहमध्ये तु हंसवृंदैः सुसेविते ॥४१॥भागीरथ्याः प्रवाहस्तु तस्मात्स्थानाद्विनिर्गतःकैलासशिखरं प्राप्य रत्नाख्यं चारुकंदरम् ॥४२॥वर्तते तोयपूर्णस्तु योजनद्वयविस्तृतःहंसवृंदसमाकीर्णो जलपक्षि समाकुलः ॥४३॥नानावर्णविशेषाणि संति पद्मानि तत्र चप्रवाहे निर्मले तात मुनिवृंदनिषेविते ॥४४॥अश्रुभ्यो यानि जातानि प्रभाते कमलानि तुगंगोदकप्लुतान्येव सौरभाणि महांति च ॥४५॥प्रतरंति प्रवाहे तु निर्मले जलपूरितेमध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते ॥४६॥सूत उवाच-रत्नाख्ये तु गिरौ तस्मिन्रत्नेश्वरमहेश्वरःदेवदैत्यसुपूज्योपि तिष्ठते तात सर्वदा ॥४७॥तत्र दृष्टो मया तात कश्चित्पुण्यमयो मुनिःजटाभारसमाक्रांतो निर्वासा दंडधारकः ॥४८॥निराधारो निराहारस्तपसातीव दुर्बलःकृशांगोऽप्यस्थिसंघातस्त्वचामात्रेण वेष्टितः ॥४९॥भस्मोद्धूलितमात्राणि सर्वांगानि महात्मनःशुष्कपत्राणि भक्षेत शीर्णानि पतितानि च ॥५०॥शिवभक्तिसमासीनो दुराधारो महातपाःअश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च ॥५१॥गंगातोयात्समानीय देवदेवं प्रपूजयेत्रत्नेश्वरं महाभागो गीतनृत्यविशारदः ॥५२॥गायते नृत्यते तस्य द्वारस्थस्त्रिपुरद्विषःमठमागत्य धर्मात्मा रोदते सुस्वरैरपि ॥५३॥एतद्दृष्टं मया तात अपूर्वं वदतांवरकथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणम् ॥५४॥सा का नारी महाभागा कस्मात्तात प्ररोदितिकस्मात्स देवपुरुषो देवमर्चेन्महेश्वरम् ॥५५॥तन्मे त्वं विस्तराद्ब्रूहि सर्वसंदेहकारणम्एवमुक्तो महाप्राज्ञः कुंजलोपि सुतेन हि ॥५६॥कपिंजलेन प्रोवाच विस्तराच्छृण्वतो मुनेः ॥५७॥ इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये- च्यवनचरित्रे एकाधिकशततमोऽध्यायः ॥१०१॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP