संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ९०

भूमिखंडः - अध्यायः ९०

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


सूतउवाच-
एवमाकर्ण्य तत्सर्वं समुज्ज्वलस्य भाषितम्
कुंजलः स हि धर्मात्मा प्रत्युवाच सुतं प्रति ॥१॥
कुंजल उवाच-
संप्रवक्ष्याम्यहं तात श्रूयतां स्थिरमानसः
सर्वसंदेहविध्वंसं चरित्रं पापनाशनम् ॥२॥
इंद्रलोके प्रववृते संवादो देव कौतुकः
सभायां तस्य देवस्य इंद्रस्यापि महात्मनः ॥३॥
देवं द्रष्टुं सहस्राक्षं नारदस्त्वरितं ययौ
समागतं सहस्राक्षः सूर्यतेजःसमप्रभम् ॥४॥
तं दृष्ट्वा हर्षमायातः समुत्थाय महामतिः
ददावर्घं च पाद्यं च भक्त्या प्रणतमानसः ॥५॥
बद्धांजलिपुटोभूत्वा प्रणाममकरोत्तदा
आसने कोमले पुण्ये विनिवेश्य द्विजोत्तमम् ॥६॥
पप्रच्छ प्रणतो भूत्वा श्रद्धया परया युतः
कस्माच्चागमनं तेऽद्य कारणं वद सांप्रतम् ॥७॥
इत्युक्तो देवराजेन प्रत्युवाच महामुनिः
भवंतं द्रष्टुमायातः पृथिव्यास्तु पुरंदरः ॥८॥
स्नात्वा पुण्यप्रदेशेषु तीर्थेषु च सुश्रद्धया
देवान्पितॄन्समभ्यर्च्य दृष्ट्वा तीर्थान्यनेकशः ॥९॥
एतत्ते सर्वमाख्यातं यत्त्वया पृच्छितं पुरा
देवेंद्र उवाच-
दृष्टानि पुण्यतीर्थानि सुक्षेत्राणि त्वया मुने ॥१०॥
किं तीर्थं प्राप्य मुच्येत ब्रह्मघ्नो ब्रह्महत्यया
सुरापोमुच्यतेपापाद्गोघ्नोहेमापहारकः ॥११॥
स्वामिद्रोहान्महाभाग नारीहंता कथं सुखी
नारद उवाच-
यानि कानि च तीर्थानि गयादीनि सुरेश्वर ॥१२॥
तेषां नैव प्रजानामि विशेषं पापनाशनम्
सुपुण्यानि सुदिव्यानि पापघ्नानि समानि च ॥१३॥
सर्वाण्येव सुतीर्थानि जानाम्यहं पुरंदर
अविशेषं विशेषं वै नैव जानामि सांप्रतम् ॥१४॥
प्रत्ययं क्रियतां देव तीर्थानां गतिदायकम्
एवमाकर्ण्य तद्वाक्यं नारदस्य महात्मनः ॥१५॥
समाहूतानि चेंद्रेण तीर्थानि भूगतानि च
मूर्तिवर्तीनि दिव्यानि समायातानि शासनात् ॥१६॥
बद्धांजलीनि दिव्यानि भूषितानि सुभूषणैः
दिव्यांबराणि स्निग्धानि तेजोवंति च सुव्रत ॥१७॥
स्त्रीपुंसोश्च स्वरूपाणि कृतानि च विशेषतः
हेमचंदनकाशानि दिव्यरूपधराणि च ॥१८॥
मुक्ताफलस्यवर्णेन प्रभासंति नरेश्वर
तप्तकांचनवर्णानि सारुण्यानि च तत्र वै ॥१९॥
कति शुक्ल सुपीतानि प्रभावंति सभांतरे
कानि पद्मनिभान्येव मूर्तिवर्तीनि तानि तु ॥२०॥
सूर्यतेजः प्रकाशानि तडित्तेजः समानि च
पावकाभानि चान्यानि प्रभासंति सभांतरे ॥२१॥
सर्वाभरणशोभाढ्यैः प्रशोभंते नरेश्वर
हारकंकणकेयूरमालाभिस्तु सुचंदनैः ॥२२॥
दिव्यचंदनदिग्धानि सुरभीणि गुरूणि च
कमंडलुकराण्येव आयातानि सभांतरे ॥२३॥
गंगा च नर्मदा पुण्या चंद्रभागा सरस्वती
देविका बिंबिका कुब्जा कुंजला मंजुला श्रुता ॥२४॥
रंभा भानुमती पुण्या पारा चैव सुघर्घरा
शोणा च सिंधुसौवीरा कावेरी कपिला तथा ॥२५॥
कुमुदा वेदनदी पुण्या सुपुण्या च महेश्वरी
चर्मण्वती तथा ख्याता लोपा चान्या सुकौशिकी ॥२६॥
सुहंसी हंसपादा च हंसवेगा मनोरथा
सुरुथास्वारुणा वेणा भद्र वेणा सुपद्मिनी ॥२७॥
नाहलीसुमरी चान्या पुण्या चान्या पुलिंदिका
हेमा मनोरथा दिव्या चंद्रिका वेदसंक्रमा ॥२८॥
ज्वालाहुताशनी स्वाहा काला चैव कपिंजला
स्वधा च सुकला लिंगा गंभीरा भीमवाहिनी ॥२९॥
देवद्रीची वीरवाहा लक्षहोमा अघापहा
पाराशरी हेमगर्भा सुभद्रा वसुपुत्रिका ॥३०॥
एता नद्यो महापुण्या मूर्तिमत्यो नरेश्वर
सर्वाभरणशोभाढ्याः कुंभहस्ताः सुपूजिताः ॥३१॥
प्रयागः पुष्करश्चैव अर्घदीर्घो मनोरथा
वाराणसी महापुण्या ब्रह्महत्या व्यपोहिनी ॥३२॥
द्वारावती प्रभासश्च अवंती नैमिषस्तथा
चंडकश्च महारत्नो महेश्वरकलेश्वरौ ॥३३॥
कलिंजरो ब्रह्मक्षेत्रं माथुरो मानवाहकः
मायाकांती तथान्यानि दिव्यानि विविधानि च ॥३४॥
अष्टषष्टिः सुतीर्थानि नदीनां शतकोटयः
गोदावरीमुखाः सर्वा समायातास्तदाज्ञया ॥३५॥
द्वीपानां तु समस्तानि सुतीर्थानि महांति च
मूर्तिलिंगधराण्येव सहस्राक्षं सुरेश्वरम् ॥३६॥
समाजग्मुः समस्तानि तदादेशकराणि च
प्रणेमुर्देवदेवेशं नतशीर्षाणि सर्वशः ॥३७॥
सूत उवाच-
तैः प्रोक्तं तु महातीर्थैर्देवराजं यशस्विनम्
कस्मात्त्वया समाहूता देवदेव वदस्व नः ॥३८॥
ब्रूहि नः कारणं सर्वं नमस्तुभ्यं सुराधिप
एवमाकर्ण्य तद्वाक्यं देवराजोभ्यभाषत ॥३९॥
कः समर्थो महातीर्थो ब्रह्महत्यां व्यपोहितुम्
गोवधाख्यं महापापं स्त्रीवधाख्यमनुत्तमम् ॥४०॥
स्वामिद्रोहाच्च संभूतं सुरापानाच्च दारुणम्
हेमस्तेयात्तथा जातं गुरुनिंदा समुद्भवम् ॥४१॥
भ्रूणहत्यां महाघोरां नाशयेत्कः समर्थवान्
राजद्रोहान्महापापं बहुपीडाप्रदायकम् ॥४२॥
मित्रद्रोहात्तथा चान्यदन्यद्विश्वासघातकम्
देवभेदं तथा चान्यं लिंगभेदमतः परम् ॥४३॥
वृत्तिच्छेदं च विप्राणां गोप्रचारप्रणाशनम्
आगारदहनं चान्यद्गृहदीपनकं तथा ॥४४॥
षोडशैते महापापा अगम्यागमनं तथा
स्वामित्यागात्समुद्भूतं रणस्थानात्पलायनात् ॥४५॥
एतानि नाशयेत्को वै समर्थस्तीर्थउत्तमः
समर्थो भवतां मध्ये प्रायश्चित्तं विना ध्रुवम् ॥४६॥
पश्यतां देवतानां च नारदस्य च पश्यतः
ब्रुवंतु सर्वे संचिंत्य विचार्यैवं सुनिश्चितम् ॥४७॥
एवमुक्ते शुभे वाक्ये देवराज्ञामहात्मना
संमंत्र्य तीर्थराजेन प्रोचुः शक्रं सभागतम् ॥४८॥
तीर्थान्यूचुः -
श्रूयतामभिधास्यामो देवराज नमोस्तु ते
संति वै सर्वतीर्थानि सर्वपापहराणि च ॥४९॥
ब्रह्महत्यादिकान्यांश्च त्वया प्रोक्तान्सुरेश्वर
महाघोरान्सुदीप्तांश्च नाशितुं नैव शक्नुमः ॥५०॥
प्रयागः पुष्करश्चैव अर्घतीर्थमनुत्तमम्
वाराणसी महाभाग समर्था पापनाशिनी ॥५१॥
महापातकनाशार्थे चत्वारोमितविक्रमाः
उपपातकनाशार्थं चत्वारोमितविक्रमाः ॥५२॥
सृष्टा धात्रा च देवेंद्र पुष्कराद्या महाबलाः
एवमाकर्ण्य तद्वाक्यं तीर्थानां सुरराट् ततः ॥५३॥
हर्षेण महताविष्टस्तेषां स्तोत्रं चकार सः ॥५४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये
च्यवनचरित्रे नवतितमोऽध्यायः ॥९०॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP