संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ६२

भूमिखंडः - अध्यायः ६२

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


विष्णुरुवाच-
कुंडलस्याश्रमं गत्वा सत्यधर्म समाकुलम्
सुकर्माणं ततो दृष्ट्वा पितृमातृपरायणम् ॥१॥
शुश्रूषंतं महात्मानं गुरूसत्यपराक्रमम्
महारूपं महातेजं महाज्ञानसमाकुलम् ॥२॥
मातापित्रोः पदांते तमुपविष्टं ददर्श सः
महाभक्त्यान्वितं शांतं सर्वज्ञानमहानिधिम् ॥३॥
कुंडलस्यापि पुत्रेण सुकर्मणा महात्मना
आगतं पिप्पलं दृष्ट्वा द्वारदेशे महामतिम् ॥४॥
आसनात्तूर्णमुत्थाय अभ्युत्थानं कृतं पुनः
आगच्छ त्वं महाभाग विद्याधर महामते ॥५॥
आसनं पाद्यमर्घं च ददौ तस्मै महामतिः
निर्विघ्नोऽसि महाप्राज्ञ कुशलेन प्रवर्त्तसे ॥६॥
निरामयं च पप्रच्छ पिप्पलं तं समागतम्
यस्मादागमनं तेद्य तत्सर्वं प्रवदाम्यहम् ॥७॥
वर्षाणां च सहस्राणि त्रीणि यावत्त्वया तपः
तप्तमेव महाभाग सुरेभ्यः प्राप्तवान्वरम् ॥८॥
वश्यत्वं च त्वया प्राप्तं कामचारस्तथैव च
तेन मत्तो न जानासि गर्वमुद्वहसे वृथा ॥९॥
दृष्ट्वा ते चेष्टितं सर्वं सारसेन महात्मना
ममाभिधानं कथितं मम ज्ञानमनुत्तमम् ॥१०॥
पिप्पल उवाच-
योसौ मां सारसो विप्र सरित्तीरे प्रयुक्तवान्
सर्वं ज्ञानं वदेन्मां हि स तु कः प्रभुरीश्वरः ॥११॥
सुकर्मोवाच-
भवंतमुक्तवान्यो वै सरित्तीरे तु सारसः
ब्रह्माणं त्वं महाज्ञानं तं विद्धि परमेश्वरम् ॥१२॥
अन्यत्किं पृच्छसे ब्रूहि तमेवं प्रवदाम्यहम्
विष्णुरुवाच-
एवमुक्तः स धर्मात्मा सुकर्मा नृपनंदन ॥१३॥
पिप्पल उवाच-
त्वयि वश्यं जगत्सर्वमिति शुश्रुम भूतले
तन्मे त्वं कौतुकं विप्र दर्शयस्व प्रयत्नतः ॥१४॥
पश्य कौतुकमेवाद्य त्वं वश्यावश्यकारणम्
तमुवाच स धर्मात्मा सुकर्मा पिप्पलं प्रति ॥१५॥
अथ सस्मार वै देवान्सुकर्मा प्रत्ययाय वै
इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः ॥१६॥
समागताः समाहूता नाना विद्याधरास्तथा
सुकर्माणं ततः प्रोचुर्देवाश्चाग्निपुरोगमाः ॥१७॥
कस्मात्स्मृतास्त्वया विप्र ततोर्थकारणं वद
सुकर्मोवाच-
अयमेष सुसंप्राप्तो विद्याधरो हि पिप्पलः ॥१८॥
मामेवं भाषते विप्र वश्यावश्यत्वकारणम्
प्रत्ययार्थं समाहूता अस्यैव च महात्मनः ॥१९॥
स्वंस्वं स्थानं प्रगच्छध्वमित्युवाच सुरान्प्रति
तमूचुस्ते ततो देवाः सुकर्माणं महामतिम् ॥२०॥
अस्माकं दर्शनं व्रिप्र न मोघं जायते वरम्
वरं वरय भद्रं ते मनसा यद्धिरोचते ॥२१॥
तत्ते दद्मो न संदेहस्त्वेवमूचुः सुरोत्तमाः
भक्त्या प्रणम्य तान्देवान्ययाचे स द्विजोत्तमः ॥२२॥
अचलां दत्त देवेंद्रा सुःभक्तिं भावसंयुताम्
मातापित्रोश्च मे नित्यं तद्वै वरमनुत्तमम् ॥२३॥
पिता मे वैष्णवं लोकं प्रयात्वेतद्वरोत्तमम्
तद्वन्माता च देवेशा वरमन्यं न याचये ॥२४॥
देवा ऊचुः-
पितृभक्तोसि विप्रेंद्र भक्त्या तव वयं द्विज
सुकर्मञ्छ्रूयतां वाक्यं प्रीत्या युक्ता सदैव ते ॥२५॥
एवमुक्त्वा गता देवाः स्वर्लोकं नृपनंदन
सर्वमैश्वर्यमेतेन तस्याग्रे परिदर्शितम् ॥२६॥
दृष्टं तु पिप्पलेनापि कौतुकं च महाद्भुतम्
तमुवाच स धर्मात्मा पिप्पलं कुंडलात्मजम् ॥२७॥
अर्वाचीनं त्विदं रूपं पराचीनं च कीदृशम्
प्रभावमुभयोश्चैव वदस्व वदतां वर ॥२८॥
सुकर्मोवाच-
पराचीनस्य रूपस्य लिंगमेव वदामि ते
येनलोकाः प्रमोदंते इंद्राद्याः सचराचराः ॥२९॥
अयमेव जगन्नाथः सर्वगो व्यापकः प्रभुः
अस्य रूपं न दृष्टं हि केनाप्येव हि योगिना ॥३०॥
श्रुतिरेव वदत्येवं तं वक्तुं शंकितेव सा
अपाणिपादनासश्च अकर्णो मुखवर्जितः ॥३१॥
सर्वं पश्यति वै कर्म कृतं त्रैलोक्यवासिनाम्
तेषामुक्तमकर्णश्च स शृणोति सुसाक्ष्यदः ॥३२॥
गतिहीनो व्रजेत्सोपि स हि सर्वत्र दृश्यते
पाणिहीनोपि गृह्णाति पादहीनः प्रधावति ॥३३॥
सर्वत्र दृश्यते विप्र व्यापकः पादवर्जितः
यं न पश्यंति देवेंद्रा मुनयस्तत्त्वदर्शिनः ॥३४॥
स च पश्यति तान्सर्वान्सत्यासत्यपदे स्थितान्
व्यापकं विमलं सिद्धं सिद्धिदं सर्वनायकम् ॥३५॥
यं जानाति महायोगी व्यासो धर्मार्थकोविदः
तेजोमूर्तिः स चाकाशमेकवर्णमनंतकम् ॥३६॥
तदेतन्निर्मलं रूपं श्रुतिराख्याति निश्चितम्
व्यासश्चैव हि जानाति मार्कंडेयश्च तत्पदम् ॥३७॥
अर्वाचीनं प्रवक्ष्यामि शृणुष्वैकाग्रमानसः
यदा संहृत्य भूतात्मा स्वयमेकः प्रगच्छति ॥३८॥
अप्सु शय्यां समास्थाय शेषभोगासनस्थितः
तमाश्रित्य स्वपित्येको बहुकालं जनार्दनः ॥३९॥
जलांधकारसंतप्तो मार्कंडेयो महामुनिः
स्थानमिच्छन्स योगात्मा निर्विण्णो भ्रमणेन सः ॥४०॥
भ्रममाणः स ददृशे शेषपर्यंकशायिनम्
सूर्यकोटिप्रतीकाशं दिव्याभरणभूषितम् ॥४१॥
दिव्यमाल्यांबरधरं सर्वव्यापिनमीश्वरम्
योगनिद्रा गतं कांतं शंखचक्रगदाधरम् ॥४२॥
एका नारी महाभागा कृष्णांजनचयोपमा
दंष्ट्राकरालवदना भीमरूपा द्विजोत्तम ॥४३॥
तयोक्तोसौ मुनिश्रेष्ठो मा भैरिति महामुनिः
पद्मपत्रं सुविस्तीर्णं पंचयोजनमायतम् ॥४४॥
तस्मिन्पत्रे महादेव्या मार्कण्डेयो निवेशितः
केशवे सति सुप्तेपि नास्त्यत्र च भयं तव ॥४५॥
तामुवाच स योगींद्र का त्वं भवसि भामिनि
अस्मिन्विनिर्जिते चैका भवती परिबृंहिता ॥४६॥
पृष्टैवं मुनिना देवी सादरं प्राह भूसुर
नागभोगांकपर्यंके स यः स्वपिति केशवः ॥४७॥
अस्याहं वैष्णवी शक्तिः कालरात्रिरिहोच्यते
मामेवं विद्धि विप्रेंद्र सर्वमायासमन्विताम् ॥४८॥
महामाया पुराणेषु जगन्मोहाय कथ्यते
इत्युक्त्वा सा गता देवी अंतर्धानं हि पिप्पलः ॥४९॥
देव्यामनुगतायां तु मार्कंडेयस्य पश्यतः
तस्य नाभ्यां समुत्पन्नं पंकजं हाटकप्रभम् ॥५०॥
तस्माज्जज्ञे महातेजा ब्रह्मा लोकपितामहः
तस्माद्विजज्ञिरे लोकाः सर्वे स्थावरजंगमाः ॥५१॥
इंद्राद्या लोकपालाश्च देवाश्चाग्निपुरोगमाः
अर्वाचीनं स्वरूपं तु दर्शितं हि मया नृप ॥५२॥
अर्वाचीनस्वरूपोयं पराचीनो निराश्रयः
यदा स दर्शयेत्कायं कायरूपा भवंति ते ॥५३॥
ब्रह्माद्याः सर्वलोकाश्च अर्वाचीना हि पिप्पल
अर्वाचीना अमी लोका ये भवंति जगत्त्रये ॥५४॥
पराचीनः स भूतात्मा यं सुपश्यंति योगिनः
मोक्षरूपं परं स्थानं परब्रह्मस्वरूपकम् ॥५५॥
अव्यक्तमक्षरं हंसं शुद्धं सिद्धिसमन्वितम्
पराचीनस्य यद्रूपं विद्याधर तवाग्रतः ॥५६॥
सर्वमेव मया ख्यातमन्यत्किं ते वदाम्यहम्
पिप्पल उवाच-
कस्मादेतन्महाज्ञानमुद्भूतं तव सुव्रत ॥५७॥
अर्वाचीनगतिं विद्वान्पराचीनगतिं तथा
त्रैलोक्यस्य परं ज्ञानं त्वय्येवं परिवर्तते ॥५८॥
तपसो नैव पश्यामि परां निष्ठां हि सुव्रत
यजनंयाजनंतीर्थंतपोवाकृतवानसि ॥५९॥
तत्प्रभावं वदस्वैवं केन ज्ञानं तवाखिलम्
सुकर्मोवाच-
तप एव न जानामि न कृतं कायशोषणम् ॥६०॥
यजनं याजनं वापि न जाने तीर्थसाधनम्
न मया साधितं ध्यानं पुण्यकालं सुकर्मजम् ॥६१॥
स्फुटमेकं प्रजानामि पितृमातृप्रपूजनम्
उभयोरपि हस्तेन मातापित्रोस्तु नित्यशः ॥६२॥
पादप्रक्षालनं पुण्यं स्वयमेव करोम्यहम्
अंगसंवाहनं स्नानं भोजनादिकमेव च ॥६३॥
त्रिकालेध्यानसंलीनः साधयामि दिनेदिने
पादोदकं तयोश्चैव मातापित्रोर्दिनेदिने ॥६४॥
भक्तिभावेन विंदामि पूजयामि सुभावतः
गुरू मे जीवमानौ तु यावत्कालं हि पिप्पल ॥६५॥
तावत्कालं हि मे लाभो ह्यतुलश्च प्रजायते
त्रिकालं पूजयाम्येतौ शुद्धभावेन चेतसा ॥६६॥
स्वच्छंदलीलासंचारी वर्ताम्येव हि पिप्पल
किं मे चान्येन तपसा किं मे कायस्य शोषणैः ॥६७॥
किं मे सुतीर्थयात्राभिरन्यैः पुण्यैश्च सांप्रतम्
मखानामेव सर्वेषां यत्फलं प्राप्यते द्विज ॥६८॥
तत्फलं तु मया दृष्टं पितुः शुश्रूषणादपि
मातुः शुश्रूषणं तद्वत्पुत्राणां गतिदायकम् ॥६९॥
सर्वकर्मसुसर्वस्वं सारभूतं जगत्रये
पुत्रस्य जायते लोको मातुः शुश्रूषणादपि ॥७०॥
पितुः शुश्रूषणे तद्वन्महत्पुण्यं प्रजायते
तत्र गंगा गयातीर्थं तत्र पुष्करमेव च ॥७१॥
यत्र मातापिता तिष्ठेत्पुत्रस्यापि न संशयः
अन्यानि तत्र तीर्थानि पुण्यानि विविधानि च ॥७२॥
भवंत्येतानि पुत्रस्य पितुः शुश्रूषणादपि
पितुः शुश्रूषणात्तस्य दानस्य तपसः फलम् ॥७३॥
सत्पुत्रस्य भवेद्विप्र अन्य धर्मः श्रमायते
पितुः शुश्रूषणात्पुण्यं पुत्रः प्राप्नोत्यनुत्तमम् ॥७४॥
स्वकर्मणस्तु सर्वस्वमिहैव च परत्र च
जीवमानौ गुरूत्वेतौ स्वमातापितरौ तथा ॥७५॥
शुश्रूषते सुतो भूत्वा तस्य पुण्यफलं शृणु
देवास्तस्यापि तुष्यंति ऋषयः पुण्यवत्सलाः ॥७६॥
त्रयोलोकास्तु तुष्यंति पितुः शुश्रूषणादिह
मातापित्रोस्तु यः पादौ नित्यमेव हि क्षालयेत् ॥७७॥
तस्य भागीरथीस्नानमहन्यहनि जायते
पुण्यैर्मिष्टान्नपानैर्यः पितरं मातरं तथा ॥७८॥
भक्त्या भोजयते नित्यं तस्य पुण्यं वदाम्यहम्
अश्वमेधस्य यज्ञस्य फलं पुत्रस्य जायते ॥७९॥
तांबूलैश्छादनैश्चैव पानैश्चाशनकैस्तथा
भक्त्या चान्नेन पुण्येन गुरू येनाभिपूजितौ ॥८०॥
सर्वज्ञानी भवेत्सोपि यशःकीर्तिमवाप्नुयात्
मातरं पितरं दृष्ट्वा हर्षात्संभाषयेत्सुतः ॥८१॥
निधयस्तस्य संतुष्टास्तस्य गेहे वसंति ते
गावः सौहृद्यमायांति पुत्रस्य सुखदाः सदा ॥८२॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातृपितृतीर्थ माहात्म्ये द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : October 29, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP