संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ३४ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ३४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ३४ Translation - भाषांतर सूत उवाच-यथा शप्ता वने पूर्वं सुशंखेन महात्मनातासु सर्वं समाख्यातं सखीष्वेव विचेष्टितम् ॥१॥आत्मनश्च महाभागा दुःखेनातिप्रपीडितासुनीथोवाच-अन्यच्चैव प्रवक्ष्यामि सख्यः शृण्वंतु सांप्रतम् ॥२॥मदीयरूपसंपत्ति वयः सगुणसंपदःविलोक्य तातश्चिंतात्मा संजातो मम कारणात् ॥३॥देवेभ्यो दातुकामोऽसौ मुनिभ्यस्तु महायशाःमां च हस्ते विगृह्यैव सर्वान्वाक्यमुदाहरत् ॥४॥गुणयुक्ता सुता बाला ममेयं चारुलोचनादातुकामोस्मि भद्रं वो गुणिने सुमहात्मने ॥५॥मृत्योर्वाक्यं ततो देवा ऋषयः शुश्रुवुस्तदातमूचुर्भाषमाणं ते देवा इंद्र पुरोगमाः ॥६॥तव कन्या गुणाढ्येयं शीलानां परमो निधिःदोषेणैकेन संदुष्टा ऋषिशापेन तेन वै ॥७॥अस्यामुत्पत्स्यते पुत्रो यस्य वीर्यात्पुमान्किलभविता स महापापी पुण्यवंशविनाशकः ॥८॥गंगातोयेन संपूर्णः कुंभ एव प्रदृश्यतेसुरायाबिन्दुनालिप्तो मद्यकुम्भः प्रजायते ॥९॥पापस्य पापसंसर्गात्कुलं पापि प्रजायतेआरनालस्य वै बिंदुः क्षीरमध्ये प्रयाति चेत् ॥१०॥पश्चान्नाशयते क्षीरमात्मरूपं प्रकाशयेत्तद्वद्विनाशयेद्वंशं पापः पुत्रो न संशयः ॥११॥अनेनापि हि दोषेण तवेयं पापभागिनीअन्यस्मै दीयतां गच्छ देवैरुक्तः पिता मम ॥१२॥देवैश्चापि सगंधर्वैर्ऋषिभिश्च महात्मभिःतैश्चापि संपरित्यक्तः पिता मे दुःखपीडितः ॥१३॥ममान्ये चापि स्वीकारं न कुर्वंति हि सज्जनाःएवं पापमयं कर्म मया चैव पुरा कृतम् ॥१४॥संतप्ता दुःखशोकेन वनमेव समाश्रितातप एव चरिष्यामि करिष्ये कायशोषणम् ॥१५॥भवतीभिः सुपृष्टाहं कार्यकारणमेव हिमम चिंतानुगं कर्म मया तद्वः प्रकाशितम् ॥१६॥एवमुक्त्वा सुनीथा सा मृत्योः कन्या यशस्विनीविरराम च दुःखार्ता किंचिन्नोवाच वै पुनः ॥१७॥सख्य ऊचुः-दुःखमेव महाभागे त्यज कायविनाशनम्नास्ति कस्य कुले दोषो देवैः पापं समाश्रितम् ॥१८॥जिह्ममुक्तं पुरा तेन ब्रह्मणा हरसंनिधौदेवैश्चापि स हि त्यक्तो ब्रह्माऽपूज्यतमोऽभवत् ॥१९॥ब्रह्महत्या प्रयुक्तोऽसौ देवराजोपि पश्य भोःदेवैः सार्धं महाभागस्त्रैलोक्यं परिभुंजति ॥२०॥गौतमस्य प्रियां भार्यामहल्यां गतवान्पुरापरदाराभिगामी स देवत्वे परिवर्त्तते ॥२१॥ब्रह्महत्योपमं कर्म दारुणं कृतवान्हरःब्रह्मणस्तु कपालेन चाद्यापि परिवर्तते ॥२२॥देवानमंतितं देवमृषयो वेदपारगाःआदित्यः कुष्ठसंयुक्तस्त्रैलोक्यं च प्रकाशयेत् ॥२३॥लोकानमंतितं देवं देवाद्याः सचराचराःकृष्णो भुंक्ते महाशापं भार्गवेण कृतं पुरा ॥२४॥गुरुभार्यांगतश्चंद्रः क्षयी तेन प्रजायतेभविष्यति महातेजा राजराजः प्रतापवान् ॥२५॥पांडुपुत्रो महाप्राज्ञो धर्मात्मा स युधिष्ठिरःगुरोश्चैव वधार्थाय अनृतं स वदिष्यति ॥२६॥एतेष्वेव महत्पापं वर्तते च महत्सु चवैगुण्यं कस्य वै नास्ति कस्य नास्ति च लांछनम् ॥२७॥भवती स्वल्पदोषेण विलिप्तासि वराननेउपकारं करिष्यामस्तवैव वरवर्णिनि ॥२८॥तवांगे ये गुणाः संति सत्यस्त्रीणां यथा शुभेअन्यत्रापि न पश्यामस्तान्गुणांश्चारुलोचने ॥२९॥रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभेशीलमेव द्वितीयं च तृतीयं सत्यमेव च ॥३०॥आर्जवत्वं चतुर्थं च पंचमं धर्ममेव हिमधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ॥३१॥शुद्धत्वं सप्तमं बाले अंतर्बाह्येषु योषितम्अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल ॥३२॥सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथापातिव्रत्यं ततः प्रोक्तं द्वादशं वरवर्णिनि ॥३३॥तैस्त्वं संभूषिता बाले मा बिभेषि वराननेयेनोपायेन ते भर्ता भविष्यति सुधर्मधृक् ॥३४॥तमुपायं प्रपश्यामस्तवार्थं वयमेव हितामूचुस्ता वराः सख्यो मा त्वं वै साहसं कुरु ॥३५॥सूत उवाच-एवमुक्ता सुनीथा सा पुनरूचे सखीस्तु ताःकथयध्वं ममोपायं येन भर्ता भविष्यति ॥३६॥तामूचुस्ता वरा नार्यो रंभाद्याश्चारुलोचनाःरूपमाधुर्यसंयुक्ता भवती भूतिवर्द्धनी ॥३७॥ब्रह्मशापेन संभीता वयमत्र समागताःतां प्रोचुश्च विशालाक्षीं मृत्योः कन्यां सुलोचनाम् ॥३८॥विद्यामेकां प्रदास्यामः पुरुषाणां प्रमोहिनीम्सर्वमायाविदां भद्रे सर्वभद्रप्रदायिनीम् ॥३९॥विद्याबलं ततो दद्युस्तस्यैताः सुखदायकम्यं यं मोहयितुं भद्रे इच्छस्येवं सुरादिकम् ॥४०॥तं तं सद्यो मोहय वा इत्युक्ता सा तथाऽकरोत्विद्यायां हि सुसिद्धायां सा सुनीथा सुनंदिता ॥४१॥भ्रमत्येवं सखीभिस्तु पुरुषान्सा विपश्यतिअटमानागता पुण्यं नंदनं वनमुत्तमम् ॥४२॥गंगातीरे ततो दृष्ट्वा ब्राह्मणं रूपसंयुतम्सर्वलक्षणसंपन्नं सूर्यतेजः समप्रभम् ॥४३॥रूपेणाप्रतिमं लोके द्वितीयमिव मन्मथम्देवरूपं महाभागं भाग्यवंतं सुभाग्यदम् ॥४४॥अनौपम्यं महात्मानं विष्णुतेजः समप्रभम्वैष्णवं सर्वपापघ्नं विष्णुतुल्यपराक्रमम् ॥४५॥कामक्रोधविहीनं तमत्रिवंशविभूषणम् ॥४६॥दृष्ट्वा सुरूपं तपसां स्वरूपं दिव्यप्रभावं परितप्यमानम्पप्रच्छ रंभां सुसखीं सरागा कोयं दिविष्ठः प्रवरो महात्मा ॥४७॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने चतुस्त्रिंशोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP