संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः २४ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः २४ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः २४ Translation - भाषांतर सूत उवाच-हतं श्रुत्वा दितिः पुत्रं सुबलं बलमेव चरुदितं करुणं कृत्वा हा हा कष्टं भृशं मम ॥१॥एवं सुकरुणं कृत्वा बहुकालं तपस्विनीसा गता कश्यपं कांतं तमुवाच यशस्विनी ॥२॥तव पुत्रो महापाप इंद्रः सुरगणेश्वरःसागरोपगतं दृष्ट्वा बलं मे ब्रह्मलक्षणम् ॥३॥वज्रेण घातयामास संध्यामास्यंतमेव हिएवं श्रुत्वा ततः क्रुद्धो मरीचितनयस्तदा ॥४॥क्रोधेन महताविष्टः प्रजज्वालेव वह्निनाअवलुंच्य जटामेकां शुच्यग्नौ स द्विजोत्तमः ॥५॥इंद्रस्यैव वधार्थाय पुत्रमुत्पादयाम्यहम्तस्मात्कुंडात्समुत्पन्नो हुताशनमुखादपि ॥६॥कृष्णांजनचयोपेतः पिंगाक्षो भीषणाकृतिःदंष्ट्राकरालवक्त्रांतो जगतां भयदायकः ॥७॥महाचर्वरिको घोरः खड्गचर्मधरस्तथासर्वांगतेजसा दीप्तो महामेघोपमो बली ॥८॥उवाच कश्यपं विप्रमादेशो मम दीयताम्कस्मादुत्पादितो विप्र भवता कारणं वद ॥९॥तमहं साधयिष्यामि प्रसादात्तव सुव्रतकश्यप उवाच-अस्या मनोरथं पुत्र पूरयस्व ममैव हि ॥१०॥अदित्यास्त्वं महाप्राज्ञ जहि इंद्रं दुरात्मकम्निहते देवराजे हि ऐंद्रं पदं प्रभुंक्ष्व च ॥११॥एवं तेन समादिष्टः कश्यपेन महात्मनावृत्रस्तु उद्यमं चक्रे तस्येंद्रस्य वधाय च ॥१२॥धनुर्वेदस्य चाभ्यासं स चक्रे पौरुषान्वितःबलं वीर्यं तथा क्षात्रं तेजो धैर्यसमन्वितम् ॥१३॥दृष्ट्वा हि तस्य दैत्यस्य सहस्राक्षो भयातुरःउपायं चिंतितं तस्य वृत्रस्यापि दुरात्मनः ॥१४॥वधार्थं देवदेवेन समाहूय महामुनीन्सप्तर्षीन्प्रेषयामास वृत्रं दैत्येश्वरं प्रति ॥१५॥भवंतस्तत्र गच्छंतु यत्र वृत्रः स तिष्ठतिसंधिं कुर्वंतु वै तेन सार्द्धं मम मुनीश्वराः ॥१६॥एवं तेन समादिष्टा मुनयः सप्त ते तदावृत्रासुरं ततः प्रोचुः सहस्राक्ष प्रचालिताः ॥१७॥सख्यं कर्तुं प्रयच्छेत्स क्रियतां दैत्यसत्तमऋषयः सप्ततत्त्वज्ञा ऊचुर्वृत्रं महाबलम् ॥१८॥सहस्राक्षो महाप्राज्ञो भवता सह सत्तममैत्रमिच्छति वै कर्तुं तत्कथं न करोषि किम् ॥१९॥अर्धमैंद्रं पदं वीर सत्वं भुंक्ष्व सुखेन वैवर्तंत्वर्द्धेन इंद्रस्तु असुरा देवतास्तथा ॥२०॥सुखं वर्तंतु ते सर्वे वैरं चैव विसृज्य वैवृत्र उवाच-यदि सत्येन देवेंद्रो मैत्रमिच्छति सत्तमः ॥२१॥सत्यमाश्रित्य चैवाहं करिष्ये नात्र संशयःछद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् ॥२२॥तदा किं क्रियते विप्रा इत्यर्थे प्रत्ययं हि किम्ऋषयस्त्विंद्रमाचख्युरित्यर्थं प्रत्ययं वद ॥२३॥तन्नस्त्वं सत्यतां ब्रूहि यदि सख्यमिहेच्छसिइंद्र उवाच-यद्यऽसत्येन वर्तामि भवद्भिः सह छद्मना ॥२४॥ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयःछद्म चैवं पुरस्कृत्य इंद्रो द्रोहं समाचरेत् ॥२५॥ब्रह्महत्यादिकैः पापैर्लिप्येहं नात्र संशयःइत्युवाच महाप्राज्ञ त्वामेवं स पुरंदरः ॥२६॥एतेन प्रत्ययेनापि सख्यं कुरु महामतेवृत्र उवाच-भवतां शिष्टमार्गेण सत्येनानेन तस्य च ॥२७॥मैत्रमेवं करिष्यामि तेन सार्द्धं द्विजोत्तमाःवृत्रमिंद्रस्यसंस्थानं नीतं ब्राह्मणपुङ्गवैः ॥२८॥इन्द्रस्तमागतं दृष्ट्वा वृत्रं मित्रार्थमुद्यतःसिंहासनात्समुत्थाय अर्घमादाय सत्वरः ॥२९॥ददौ तस्मै स धर्मात्मा वृत्राय द्विजसत्तमअर्धं भुंक्ष्व महाप्राज्ञ ऐंद्रमेतन्महत्पदम् ॥३०॥वर्तितव्यं सुखेनापि आवाभ्यां दैत्यसत्तमएवं विश्वासयन्दैत्यं वृत्र मैत्रेण वै तदा ॥३१॥गतेषु तेषु विप्रेषु स्वस्थानं द्विजसत्तमछिद्रं पश्यति दुष्टात्मा वृत्रस्यापि सदैव हि ॥३२॥सावधानत्वमिंद्रोपि दिवारात्रौ प्रचिंतयेत्तस्यच्छिद्रं न पश्येत वृत्रस्यापि महात्मनः ॥३३॥उपायं चिंतयामास तस्यैव वधहेतवेरंभा संप्रेषिता तेन मोहयस्व महासुरम् ॥३४॥येनकेनाप्युपायेन यथा हत्वा लभे सुखम्तथा कुरुष्व कल्याणि संमोहाय सुरद्विषः ॥३५॥वनं पुण्यं महादिव्यं पुण्यपादपसेवितम्बहुवृक्षफलोपेतं मृगपक्षिसमाकुलम् ॥३६॥विमानमंदिरैर्दिव्यैः सर्वत्र परिशोभितम्दिव्यगंधर्वसंगीतं भ्रमराकुलितं सदा ॥३७॥कोकिलानां रुतैः पुण्यैः सर्वत्र मधुरायतैःशिखिसारंगनादैश्च सर्वत्र सुसमाकुलम् ॥३८॥दिव्यैस्तु चंदनैर्वृक्षैः सर्वत्र समलंकृतम्वापीकुंडतडागैश्च जलपूर्णैर्मनोहरैः ॥३९॥कमलैः शतपत्रैश्च पुष्पितैः समलंकृतम्देवगंधर्वसंसिद्धैश्चारणैश्चैव किन्नरैः ॥४०॥मुनिभिः शुशुभे दिव्यैर्दिव्योद्यानवरेण चअप्सरोगणसंकीर्णं नानाकौतुकमंगलैः ॥४१॥हेमप्रासादसंबाधं दंडच्छत्रैश्च चामरैःकलशैश्च पताकाभिः सर्वत्रसमलंकृतम् ॥४२॥वेदध्वनिसमाकीर्णं गीतध्वनिसमाकुलम्एवं नंदनमासाद्य सा रंभा चारुहासिनी ॥४३॥अप्सरोभिः समं तत्र क्रीडत्येवं विलासिनीसूत उवाच-एकदा तु स वृत्रो वै कालाकृष्टो गतो वनम् ॥४४॥कतिभिर्दानवैः सार्द्धं मुदया परया युतःअलक्ष्ये भ्रमते पार्श्वं तस्यैव च महात्मनः ॥४५॥देवराजोपि विप्रेंद्रश्छिद्रान्वेषी द्विषां किलस हि वृत्रो महाप्राज्ञो विश्वस्तः सर्वकर्मसु ॥४६॥इंद्रं मित्रं परं जानन्भयं चक्रे न तस्य सःभ्रममाणो वनं पश्येत्सर्वत्र परमं शुभम् ॥४७॥सुरम्यं कौतुकवनं वनितागणसंकुलम्चंदनस्यापि वृक्षस्य छायां शीतां सुपुण्यदाम् ॥४८॥समाश्रित्य विशालाक्षी रंभा तत्र प्रदीव्यतिसखीभिस्तु महाभागा दोलारूढा यशस्विनी ॥४९॥गायते सुस्वरं गीतं सर्वविश्वप्रमोहनम्तत्र वृत्रः समायातः कामाकुलितमानसः ॥५०॥दोलारूढां समालोक्य रंभां चारुसुलोचनाम् ॥५१॥इति श्रीपद्मपुराणे पंचपंचाशत्सहस्रसंहितायां भूमिखंडे वृत्र-वंचनंनाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : October 26, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP