संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः १२१ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः १२१ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः १२१ Translation - भाषांतर कामोदोवाच-न विदुर्देवताः सर्वा यस्यांतं रूपमेव चयस्मिल्लीँनस्तु सर्वोयं स चैकात्मा प्रकथ्यते ॥१॥यस्या मायाप्रपंचस्तु संसारः शृणु नारदकस्मात्प्रयाति संसारं मम स्वामी जगत्पतिः ॥२॥पापैश्चापि सुपुण्यैश्च नरोबद्धस्तु कर्मभिःसंसारं सरते विप्र हरिः कस्माद्व्रजेद्वद ॥३॥नारद उवाच-शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणाभृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् ॥४॥इंद्रस्य वचनात्सद्यो गतोऽसौ दानवैः सहयोद्धुं विहाय गोविंदो भृगोश्चैव मखोत्तमम् ॥५॥मखं त्यक्त्वा गते देवे पश्चात्तैर्दानवोत्तमैःआगत्य ध्वंसितः सर्वः स यज्ञः पापचेतनैः ॥६॥हरिं क्रुद्धः स योगींद्रः शशाप भृगुरेव तम्दशजन्मानि भुंक्ष्व त्वं मच्छापकलुषीकृतः ॥७॥कर्मणः स्वस्य संभोगं संभोक्ष्यति जनार्दनःतन्निमित्तं त्वया देवि दुःस्वप्नः परिवीक्षितः ॥८॥इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं स नारदःकृष्णस्यापि सुदुःखेन दुःखिता साभवत्तदा ॥९॥रुरोद करुणं बाला हाहेति वदती मुहुःगङ्गातीरोपविष्टा सा जलांते शृणु नन्दन ॥१०॥सुनेत्राभ्यां तथाश्रूणि दुःखेनापि प्रमुंचतितान्यश्रूणि प्रमुक्तानि गंगातोये पतंत्यपि ॥११॥जले चैव निमज्जंति तस्याश्चाप्यश्रुबिंदवःसंभवंति पुनस्तात पद्मरूपाणि तानि च ॥१२॥गंगातोये प्रफुल्लानि वाहितानि प्रयांति वैददृशे दानवश्रेष्ठो विष्णुमायाप्रमोहितः ॥१३॥दुःखजानि न जानाति मुनिना कथितान्यपिहर्षेण महताविष्टः परिजग्राह सोऽसुरः ॥१४॥पद्मैस्तु पुष्पितैः सोपि पूजयेद्गिरिजाप्रियम्सप्तकोटिभिर्दैत्येंद्रो विष्णुमायाप्रमोहितः ॥१५॥अथ क्रुद्धा जगद्धात्री शंकरं वाक्यमब्रवीत्पश्यैतस्य विकर्म त्वं दानवस्य महामते ॥१६॥शोकोत्पन्नानि पद्मानि गंगातोयगतानि वैअयमेष प्रगृह्णाति कामाकुलितचेतनः ॥१७॥पूजयेच्चापि दुष्टात्मा शोकसंतापकारकैःदुःखजैः शोकजैः पुष्पैस्तैः सुश्रेयः कथं भवेत् ॥१८॥यादृशेनापि भावेन मामेव परिपूजयेत्तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति ॥१९॥सत्यध्यानविहीनोयं कामोदा न्यस्तमानसःसंजातः पापचारित्रो जहि देवि स्वतेजसा ॥२०॥एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनःअस्यैव संक्षयं शंभो करिष्ये तव शासनात् ॥२१॥एवमुक्त्वा ततो देवी तस्यापि वधकांक्षयावर्त्तते हि विहुंडस्य वधोपायं व्यचिंतयत् ॥२२॥कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनःपूजयेच्छंकरं नाथं सुपुष्पैः पारिजातजैः ॥२३॥समेत्य दानवः पापो दिव्यां पूजां विनाशयेत्कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः ॥२४॥विष्णोश्चैव महामायां पूर्वदृष्टां स दानवःसस्मार दानवः पापः कामबाणैः प्रपीडितः ॥२५॥तस्याः स्मरणमात्रेण कंदर्पेण बलीयसाविरहाकुलदुःखार्तो रोदते हि मुहुर्मुहुः ॥२६॥कालाकृष्टः स दुष्टात्मा शोकजातानि तानि सःपरिगृह्य समायातः पूजनार्थी महेश्वरम् ॥२७॥देव्या कृतां हि पूजां च सुपुष्पैः पारिजातजैःतां निर्णाश्य सुलोभेन शोकजैः परिपूजयेत् ॥२८॥नेत्राभ्यां तस्य दुष्टस्य बिंदवस्तेऽश्रुसंभवाःअविरलास्ततो वत्स पतंति लिंगमस्तके ॥२९॥देवी ब्राह्मणरूपेण तमुवाच महामतेको भवान्पूजयेद्देवं शोकाकुलमनाः सदा ॥३०॥पतंत्यश्रूणि देवस्य मस्तके शोकजानि तेअपवित्राणि मे ब्रूहि एतमर्थं ममाग्रतः ॥३१॥विहुंड उवाच-पूर्वं दृष्टा मया नारी सर्वसौभाग्यसंपदासर्वलक्षणसंपन्ना कामस्यायतनं महत् ॥३२॥तस्या मोहेन संदग्धः कामेनाकुलतां गतःतया प्रोक्तं हि संभोगे देहि मे दायमुत्तमम् ॥३३॥कामोदसंभवैः पुष्पैः पूजयस्व महेश्वरम्तेषां पुष्पकृतां मालां मम कंठे परिक्षिप ॥३४॥कोटिभिः सप्तसंख्यातैः पूजयस्व महेश्वरम्तदर्थं पूजयाम्येव ईश्वरं फलदायकम् ॥३५॥कामोदसंभवैः पुष्पैर्दुर्लभैर्देवदानवैःश्रीदेव्युवाच-क्व ते भावः क्व ते ध्यानं क्व ते ज्ञानं दुरात्मनः ॥३६॥ईश्वरस्यापि संबंधो नास्ति किंचित्त्वयैव हिकामोदाया वरं रूपं कीदृशं वद सांप्रतम् ॥३७॥क्व लब्धानि सुपुष्पाणि तस्या हास्योद्भवानि चविहुंड उवाच-भावं ध्यानं न जानामि न दृष्टा सा मया कदा ॥३८॥गंगातोयगतान्येव परिगृह्णामि नित्यशःतैरहं पूजयाम्येकं शंकरं प्रवदाम्यहम् ॥३९॥ममाग्रे कथितं विप्र शुक्रेणापि महात्मनावचनात्तस्य देवेशमर्चयामि दिनदिने ॥४०॥एतत्ते सर्वमाख्यातं यच्च पृष्टोस्मि सांप्रतम्श्रीदेव्युवाच-कामोदारोदनाज्जातैः पुष्पैस्तैर्दुःखसंभवैः ॥४१॥लिंगमर्चयसे दुष्ट प्रभाते नित्यमेव चयादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया ॥४२॥अर्चितो देवदेवेशस्तादृशं फलमाप्नुहिदिव्यपूजां विनाश्यैवं शोकपुष्पैः प्रपूजसि ॥४३॥असौ दोषस्तवैवाद्य समुत्पन्नः सुदारुणःतस्माद्दण्डं प्रदास्यामि भुंक्ष्व स्वकर्मजं फलम् ॥४४॥तस्या वाक्यं समाकर्ण्य कालकृष्टो बभाष ताम्रे रे दुष्ट दुराचार मम कर्मप्रदूषक ॥४५॥हन्मि त्वामिह खड्गेन अनेनापि न संशयःइत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे ॥४६॥हंतुकामः स दुष्टात्मा अभ्यधावत दानवःसा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी ॥४७॥हन्मि त्वामिह खड्गेन अनेनापि न संशयःस्वस्थानमागतं दृष्ट्वा हुंकारं विससर्ज हतेन हुंकारनादेन पतितो दानवाधमः ॥४८॥निश्चेष्टः कामरूपेण वज्राहत इवाचलःपतिते दानवे तस्मिन्सर्वलोकविनाशके ॥४९॥लोकाः स्वास्थ्यं गताः सर्वे दुःखतापविवर्जिताःएतस्मात्कारणाद्वत्स सा स्त्री वै परिदेवति ॥५०॥गंगातीरे वरारोहा दुःखव्याकुलमानसाएतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितम् ॥५१॥विष्णुरुवाच-एवमुक्त्वा सुपुत्रं तं कुंजलो अंडजेश्वरःविरराम महाप्राज्ञः किञ्चिन्नोवाच भूपते ॥५२॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकविंशत्यधिकशततमोऽध्यायः ॥१२१॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP