संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः| अध्यायः ७९ भूमिखण्डः विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ भूमिखंडः - अध्यायः ७९ भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात. Tags : padma puranpuransanskritपद्म पुराणपुराणसंस्कृत अध्यायः ७९ Translation - भाषांतर विशालोवाच-शर्मिष्ठा यस्य वै भार्या देवयानी वराननासौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते ॥१॥तत्कथं त्वं महाभाग अस्याः कार्यवशो भवेःसपत्नजेन भावेन भवान्भर्ता प्रतिष्ठितः ॥२॥ससर्पोसि महाराज भूतले चंदनं यथासर्पैश्च वेष्टितो राजन्महाचंदन एव हि ॥३॥तथा त्वं वेष्टितः सर्पैः सपत्नीनामसंज्ञकैःवरमग्निप्रवेशश्च शिखाग्रात्पतनं वरम् ॥४॥रूपतेजः समायुक्तं सपत्नीसहितं प्रियम्न वरं तादृशं कांतं सपत्नीविषसंयुतम् ॥५॥तस्मान्न मन्यते कांतं भवंतं गुणसागरम्राजोवाच-देवयान्या न मे कार्यं शर्मिष्ठया वरानने ॥६॥इत्यर्थं पश्य मे कोशं सत्वधर्मसमन्वितम्अश्रुबिंदुमत्युवाच-अहं राज्यस्य भोक्त्री च तव कायस्य भूपते ॥७॥यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम्इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सल ॥८॥बहुधर्मसमोपेतं चारुलक्षणसंयुतम्राजोवाच-अन्य भार्यां न विंदामि त्वां विना वरवर्णिनि ॥९॥राज्यं च सकलामुर्वीं मम कायं वराननेसकोशं भुंक्ष्व चार्वंगि एष दत्तः करस्तव ॥१०॥यदेव भाषसे भद्रे तदेवं तु करोम्यहम्अश्रुबिंदुमत्युवाच-अनेनापि महाभाग तव भार्या भवाम्यहम् ॥११॥एवमाकर्ण्य राजेंद्रो हर्षव्याकुललोचनःगांधर्वेण विवाहेन ययातिः पृथिवीपतिः ॥१२॥उपयेमे सुतां पुण्यां मन्मथस्य नरोत्तमतया सार्द्धं महात्मा वै रमते नृपनंदनः ॥१३॥सागरस्य च तीरेषु वनेषूपवनेषु चपर्वतेषु च रम्येषु सरित्सु च तया सह ॥१४॥रमते राजराजेंद्रस्तारुण्येन महीपतिःएवं विंशत्सहस्राणि गतानि निरतस्य च ॥१५॥भूपस्य तस्य राजेंद्र ययातेस्तु महात्मनःविष्णुरुवाच-एवं तया महाराजो ययातिर्मोहितस्तदा ॥१६॥कंदर्पस्य प्रपंचेन इंद्रस्यार्थे महामतेसुकर्मोवाच-एवं पिप्पल राजासौ ययातिः पृथिवीपतिः ॥१७॥तस्या मोहनकामेन रतेन ललितेन चन जानाति दिनं रात्रिं मुग्धः कामस्य कन्यया ॥१८॥एकदा मोहितं भूपं ययातिं कामनंदिनीउवाच प्रणतं नम्रं वशगं चारुलोचना ॥१९॥अश्रुबिंदुमत्युवाच-संजातं दोहदं कांत तन्मे कुरु मनोरथम्अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपते ॥२०॥राजोवाच-एवमस्तु महाभागे करोमि तव सुप्रियम्समाहूय सुतश्रेष्ठं राज्यभोगे विनिःस्पृहम् ॥२१॥समाहूतः समायातो भक्त्यानमितकंधरःबद्धांजलिपुटो भूत्वा प्रणाममकरोत्तदा ॥२२॥तस्याः पादौ ननामाथ भक्त्या नमितकंधरःआदेशो दीयतां राजन्येनाहूतः समागतः ॥२३॥किं करोमि महाभाग दासस्ते प्रणतोस्मि चराजोवाच-अश्वमेधस्य यज्ञस्य संभारं कुरु पुत्रक ॥२४॥समाहूय द्विजान्पुण्यानृत्विजो भूमिपालकान्एवमुक्तो महातेजाः पूरुः परमधार्मिकः ॥२५॥सर्वं चकार संपूर्णं यथोक्तं तु महात्मनातया सार्धं स जग्राह सुदीक्षां कामकन्यया ॥२६॥अश्वमेधयज्ञवाटे दत्वा दानान्यनेकधाब्राह्मणेभ्यो महाराज भूरिदानमनंतकम् ॥२७॥दीनेषु च विशेषेण ययातिः पृथिवीपतिःयज्ञांते च महाराजस्तामुवाच वराननाम् ॥२८॥अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मेतत्सर्वं देवि कर्तास्मि साध्यासाध्यं वरानने ॥२९॥सुकर्मोवाच-इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाच हजातो मे दोहदो राजंस्तत्कुरुष्व ममानघ ॥३०॥इंद्रलोकं ब्रह्मलोकं शिवलोकं तथैव चविष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियम् ॥३१॥दर्शयस्व महाभाग यदहं सुप्रिया तवएवमुक्तस्तयाराजातामुवाचससुप्रियाम् ॥३२॥साधुसाधुवरारोहेपुण्यमेवप्रभाषसेस्त्रीस्वभावाच्चचापल्यात्कौतुकाच्चवरानने ॥३३॥यत्तवोक्तं महाभागे तदसाध्यं विभाति मेतत्साध्यं पुण्यदानेन यज्ञेन तपसापि च ॥३४॥अन्यथा न भवेत्साध्यं यत्त्वयोक्तं वराननेअसाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितम् ॥३५॥मर्त्यलोकाच्छरीरेण अनेनापि च मानवःश्रुतो दृष्टो न मेद्यापि गतः स्वर्गं सुपुण्यकृत् ॥३६॥ततोऽसाध्यं वरारोहे यत्त्वया भाषितं ममअन्यदेव करिष्यामि प्रियं ते तद्वद प्रिये ॥३७॥देव्युवाच-अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयःत्वयि साध्यं महाराज सत्यंसत्यं वदाम्यहम् ॥३८॥तपसा यशसा क्षात्रै र्दानैर्यज्ञैश्च भूपतेनास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः ॥३९॥क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितम्तस्मादेवं प्रकर्तव्यं मत्प्रियं नहुषात्मज ॥४०॥इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने मातापितृतीर्थवर्णने ययातिचरित्रे एकोनाशीतितमोऽध्यायः ॥७९॥ N/A References : N/A Last Updated : October 29, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP