संस्कृत सूची|संस्कृत साहित्य|पुराण|पद्मपुराणम्|भूमिखण्डः|
अध्यायः ४१

भूमिखंडः - अध्यायः ४१

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


वेन उवाच-
पुत्रो भार्या कथं तीर्थं पितामाता कथं वद
गुरुश्चैव कथं तीर्थं तन्मे विस्तरतो वद ॥१॥
श्रीविष्णुरुवाच-
अस्ति वाराणसी रम्या गंगायुक्ता महापुरी
तस्यां वसति वैश्यैकः कृकलो नाम नामतः ॥२॥
तस्य भार्या महासाध्वी पतिव्रतपरायणा
धर्माचारपरा नित्यं सा वै पतिपरायणा ॥३॥
सुकला नाम पुण्यांगी सुपुत्रा चारुमंगला
सत्यंवदा सदा शुद्धा प्रियाकारा प्रियप्रिया ॥४॥
एवंगुणैः समायुक्ता सुभगा चारुकारिणी
स वैश्य उत्तमो नाना धर्मज्ञो ज्ञानवान्गुणी ॥५॥
पुराणे श्रौतधर्मे च सदा श्रवणतत्परः
तीर्थयात्राप्रसंगेन बहुपुण्यप्रदायकम् ॥६॥
श्रद्धया निर्गतो यात्रां तीर्थानां पुण्यमंगलाम्
ब्राह्मणानां प्रसंगेन सार्थवाहेन तेन च ॥७॥
प्रस्थितो धर्ममार्गं तु तमुवाच पतिव्रता
पतिस्नेहेन संमुग्धा भर्तारं वाक्यमब्रवीत् ॥८॥
सुकलोवाच-
अहं ते धर्मतः पत्नी सहपुण्यकरा प्रिय
पतिमार्गं प्रतीक्ष्याहं पतिदेवं यजाम्यहम् ॥९॥
कदा नैव मया त्याज्यं सामीप्यं ते द्विजोत्तम
तवच्छायां समाश्रित्य करिष्ये धर्ममुत्तमम् ॥१०॥
पतिव्रताख्यं पापघ्नं नारीणां गतिदायकम्
पुण्यस्त्री कथ्यते लोके या स्यात्पतिपरायणा ॥११॥
युवतीनां पृथक्तीर्थं विना भर्तुर्न शोभते
सुखदं नास्ति वै लोके स्वर्गमोक्षप्रदायकम् ॥१२॥
सव्यं पादं च भर्तुश्च प्रयागं विद्धि सत्तम
वामं च पुष्करं तस्य या नारी परिकल्पयेत् ॥१३॥
तस्य पादोदकस्नानात्तत्पुण्यं परि जायते
प्रयागपुष्करसमं स्नानं स्त्रीणां न संशयः ॥१४॥
सर्वतीर्थमयो भर्ता सर्वपुण्यमयः पतिः
मखानां यजनात्पुण्यं यद्वै भवति दीक्षिते ॥१५॥
तत्फलं समवाप्नोति सेवया भर्तुरेव हि
गयादीनां सुतीर्थानां यात्रां कृत्वा हि यद्भवेत् ॥१६॥
तत्फलं समवाप्नोति भर्तुः शुश्रूषणादपि
समासेन प्रवक्ष्यामि तन्मे निगदतः शृणु ॥१७॥
नास्त्यासां हि पृथग्धर्मः पतिशुश्रूषणं विना
तस्मात्कांतसहायं ते कुर्वाणा सुखदायिनी ॥१८॥
तवच्छायां समाश्रित्य आगमिष्यामि नान्यथा
विष्णुरुवाच-
रूपं शीलं गुणं भक्तिं समालोक्य वयस्तथा ॥१९॥
सौकुमार्यं विचार्यैवं कृकलः स पुनःपुनः
यद्येवं हि नयिष्यामि दुर्गमार्गं सुदुःखदम् ॥२०॥
रूपनाशो भवेच्चास्याः शीतातपविलोडनात्
पद्मगर्भप्रतीकाशमस्याश्चांगं प्रवर्णकम् ॥२१॥
झंझावातेन शीतेन कृष्णवर्णं भविष्यति
पंथाः कर्कश सुग्रावा पादौचास्याः सुकोमलौ ॥२२॥
एष्यते वेदनां तीव्रामथो गंतुं न च क्षमा
क्षुत्तृष्णाभिपरीतांगी कीदृशीयं भविष्यति ॥२३॥
वामांगी मम च स्थानं सुखस्थानं वरानना
मम प्राणप्रिया नित्यं नित्यं धर्मस्य चाश्रयः ॥२४॥
नाशमेति यदा बाला मम नाशो भवेदिह
इयं मे जीविका नित्यमियं प्राणस्य चेश्वरी ॥२५॥
न नयिष्ये वनं तीर्थमेकश्चैवाप्यहं व्रजे
चिंतयित्वा क्षणं नूनं कृकलेन महात्मना ॥२६॥
तस्य चित्तानुगो भावस्तया ज्ञातो नृपोत्तम
पुनरूचे महाभागा भर्त्तारं प्रस्थितं तदा ॥२७॥
अनघा नैव वै त्याज्या पुरुषैः शृणु सत्तम
मूलमेवं हि धर्मस्य पुरुषस्य महामते ॥२८॥
एवं ज्ञात्वा महाभाग मामेवं नय सांप्रतम्
विष्णुरुवाच-
श्रुत्वा सर्वं हि तेनापि प्रियाया भाषितं बहु ॥२९॥
प्रहस्यैव वचो ब्रूते तामेवं कृकलः पुनः
नैव त्याज्या भवेद्भार्या प्राप्ता धर्मेण वै प्रिये ॥३०॥
येन भार्या परित्यक्ता सुनीता धर्मचारिणी
दशांगधर्मस्तेनापि परित्यक्तो वरानने ॥३१॥
तस्मात्त्वामेव भद्रं ते नैव त्यक्ष्ये कदा प्रिये
विष्णुरुवाच-
एवमाभाष्य तां भार्यां संबोध्य च पुनःपुनः ॥३२॥
तस्या अज्ञातमात्रेण ससार्थेन समं गतः
गते तस्मिन्महाभागे कृकले पुण्यकर्मणि ॥३३॥
देवकर्मसुवेलायां काले पुण्ये शुभानना
नैव पश्यति भर्तारं कृकलं निजमंदिरे ॥३४॥
समुत्थाय त्वरायुक्ता रुदमाना सुदुःखिता
वयस्यान्पृच्छते भर्तुर्दुःखशोकाधिपीडिता ॥३५॥
युष्माभिर्वा महाभागा दृष्टोऽसौ कृकलो मम
प्राणेश्वरो गतः क्वापि भवंतो मम बांधवाः ॥३६॥
यदि दृष्टो महाभागाः कृकलो मम सांप्रतम्
भर्तारं पुण्यकर्तारं सर्वज्ञं सत्यपंडितम् ॥३७॥
कथयंतु महात्मानं यदि दृष्टो महामतिः
तस्यास्तद्भाषितं श्रुत्वा तामूचुस्ते महामतिम् ॥३८॥
धर्मयात्राप्रसंगेन नाथस्ते कृकलः शुभे
तीर्थयात्रां चकारासौ कस्माच्छोचसि सुव्रते ॥३९॥
साधयित्वा महातीर्थं पुनरेष्यति शोभने
एवमाश्वासिता सा च पुरुषैराप्तकारिभिः ॥४०॥
पुनर्गेहं गता राजन्सुकला चारुभाषिणी
रुरोद करुणं दुःखं सुकलापि परायणा ॥४१॥
यावदायाति मे भर्त्ता भूमौ स्वप्स्यामि संस्तरे
घृतं तैलं न भोक्ष्येऽहं दधिक्षीरं तथैव च ॥४२॥
लवणं च परित्यक्तं तथा तांबूलमेव च
मधुरं च तथा राजंस्त्यक्तं गुडादिकं तथा ॥४३॥
एकाहारा निराहारा तावत्स्थास्ये न संशयः
यावच्चागमनं भर्तुः पुनरेव भविष्यति ॥४४॥
एवं दुःखान्विता भूत्वा एकवेणीधरा पुनः
एककंचुकसंवीता मलिना च बभूव सा ॥४५॥
मलिनेनापि वस्त्रेण एकेनैव स्थिता पुनः
हाहाकारं प्रमुंचंती निःश्वसंती सुदुःखिता ॥४६॥
वियोगानलसंदग्धा कृष्णांगी मलधारिणी
एवं दुःखसमाचारा सुकृशा विह्वला तदा ॥४७॥
रोदमाना दिवारात्रौ निद्रा लेभे न वै निशि
क्षुधां न विंदते राजन्दुःखेन विदलीकृता ॥४८॥
अथ सख्यः समायाताः पप्रच्छुः सुकलां तदा
सुकले चारुसर्वांगि कस्माद्रोदिषि संप्रति ॥४९॥
ततस्त्वं कारणं ब्रूहि दुःखस्यास्य वरानने
सुकलोवाच-
स मां त्यक्त्वा गतो भर्ता धर्मार्थं धर्मतत्परः ॥५०॥
तीर्थयात्राप्रसंगेन अटते मेदिनीं ततः
मां त्यक्त्वा स गतः स्वामी निर्दोषां पापवर्जिताम् ॥५१॥
अहं साध्वी समाचारा सदा पुण्या पतिव्रता
मां त्यक्त्वा स गतो भर्ता तीर्थ साधनतत्परः ॥५२॥
तेनाहं दुःखिता सख्यो वियोगेनाति पीडिता
जीवनाशो वरं श्रेष्ठो वरं वै विषभक्षणम् ॥५३॥
वरमग्निप्रवेशश्च वरं कायविनाशनम्
नारीं प्रियां परित्यज्य भर्ता याति सुनिष्ठुरः ॥५४॥
भर्तृत्यागो वरं नैव प्राणत्यागो वरं सखि
वियोगं न समर्थाहं सहितुं नित्यदारुणम् ॥५५॥
तेनाहं दुःखिता सख्यो वियोगेनापि नित्यशः
सख्य ऊचुः-
तीर्थयात्रां गतो भर्ता पुनरेष्यति ते पतिः ॥५६॥
वृथा शोषयसे कायं वृथाशोकं करोषि वै
वृथा त्वं तप्यसे बाले वृथा भोगान्परित्यजेः ॥५७॥
पिबस्व पानं भुंक्ष्व त्वं स्वप्रदत्तं हि पूर्वकम्
कस्य भर्ता सुताः कस्य कस्य स्वजनबांधवाः ॥५८॥
कः कस्य नास्ति संसारे संबंधः केन चैव हि
भक्ष्यते भुज्यते बाले संसारस्य हि तत्फलम् ॥५९॥
मृते प्राणिनि कोऽश्नाति को हि पश्यति तत्फलम्
पीयते भुज्यते बाले एतत्संसारतः फलम् ॥६०॥
सुकलोवाच-
भवतीभिः प्रयुक्तं यत्तन्न स्याद्वेदसंमतम्
यातु भर्तुः पृथग्भूता तिष्ठत्येका सदैव हि ॥६१॥
पापभूता भवेन्नारी तां न मन्यंति सज्जनाः
भर्तुः सार्धं सदा सख्यो दृष्टो वेदेषु सर्वदा ॥६२॥
संबंधः पुण्यसंसर्गाज्जायते नात्र संशयः
नारीणां च सदा तीर्थं भर्ता शास्त्रेषु पठ्यते ॥६३॥
तमेवावाहयेन्नित्यं वाचा कायेन कर्मभिः
मनसा पूजयेन्नित्यं भावसत्येन तत्परा ॥६४॥
भर्तुः पार्श्वं महातीर्थं दक्षिणांगं सदैव हि
तमाश्रित्य यदा नारी गृहस्था परिवर्त्तयेत् ॥६५॥
यजते दानपुण्यैश्च तस्य दानस्य यत्फलम्
वाराणस्यां च गंगायां यत्फलं न च पुष्करे ॥६६॥
द्वारकायां न चावन्त्यां केदारे शशिभूषणे
लभते नैव सा नारी यजमाना सदा किल ॥६७॥
तादृशं फलमेवं सा न प्राप्नोति कदा सखि
सुमुखं पुत्रसौभाग्यं स्नानं दानं च भूषणम् ॥६८॥
वस्त्रालंकारसौभाग्यं रूपं तेजः फलं सदा
यशः कीर्तिमवाप्नोति गुणं च वरवर्णिनी ॥६९॥
भर्तुः प्रसादात्सर्वं च लभते नात्र संशयः
विद्यमाने यदा कांते अन्यं धर्मं करोति या ॥७०॥
निष्फलं जायते तस्याः पुंश्चली परिकथ्यते
नारीणां यौवनं रूपमवतारं स्मृतं ध्रुवम् ॥७१॥
एकस्यापि हि भर्तुश्च तस्यार्थे भूमिमंडले
सुपुत्रा सुयशा नारी परिकथ्येत वै सदा ॥७२॥
तुष्टे भर्तरि संसारे दृश्या नारी न संशयः
पतिहीना भवेन्नारी भवेत्सा भूमिमंडले ॥७३॥
कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुता भुवि
सुदौर्भाग्यं महद्दुःखं संसारे परिभुज्यते ॥७४॥
पापभागा भवेत्सा च दुःखाचारा सदैव हि
तुष्टे भर्तरि तस्यास्तु तुष्टाः सर्वाश्च देवताः ॥७५॥
तुष्टे भर्तरि तुष्यंति ऋषयो देवमानवाः
भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह ॥७६॥
भर्ता तीर्थश्च पुण्यश्च नारीणां नृपनंदन
शृंगारं भूषणं रूपं वर्णं सौगंधमेव च ॥७७॥
कृत्वा सा तिष्ठते नित्यं वर्जयित्वा सुपर्वसु
शृंगारैर्भूषणैः सा तु शुशुभे सा यदा पतिः ॥७८॥
पत्याविना भवत्येवं क्षीरं सर्पमुखे यथा
भर्तुरर्थे महाभागा सुव्रता चारुमंगला ॥७९॥
गते भर्तरि या नारी शृंगारं कुरुते यदि
रूपं वर्णं च तत्सर्वं शवरूपेण जायते ॥८०॥
वदंति भूतले लोकाः पुंश्चलीयं न संशयः
तस्माद्भर्तुर्वियुक्ता या नार्याः शृणुत भूतले ॥८१॥
इच्छंत्या वै महासौख्यं भवितव्यं कदाचन
सुजायायाः परो धर्मो भर्ता शास्त्रेषु गीयते ॥८२॥
तस्माद्वै शाश्वतो धर्मो न त्याज्यो भार्यया किल
एवं धर्मं विजानामि कथं भर्ता परित्यजेत् ॥८३॥
इत्यर्थे श्रूयते सख्य इतिहासः पुरातनः
सुदेवायाश्च चरितं सुपुण्यं पापनाशनम् ॥८४॥

इति श्रीपद्मपुराणे भूमिखंडे वेनोपाख्याने सुकलाचरित एकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : October 26, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP